विष्णुपुराणम्/तृतीयांशः/अध्यायः १५
विष्णुपुराणम्/तृतीयांशः/अध्यायः १५
औव उवाच ।
ब्राह्मणान् भोजयेच्छ्राद्धे यद्गुणांस्तान्निबोध मे ॥१॥
त्रिणाचिकेतस्त्रिमधुस्त्रिसुपर्णष्षडङ्गवित् ।
वेदविच्छ्रोत्रियो योगी तथा वै ज्येष्ठसामगः ॥२॥
ऋत्विक् स्वस्रेयदौहित्रजामातृश्वशुरास्तथा ।
मातुलोऽथ तपोनिष्ठः पञ्चाग्न्यभिरतस्तथा ।
शिष्याः सम्बन्धिनश्चैव मातापितृरतश्च यः ॥३॥
एतान्नियोजयेच्छ्राद्धे पूर्वोक्तान् प्रथमे नृप ।
ब्राह्मणान् पितृतुष्ट्यर्थमनुकल्पेष्वनन्तरान् ॥४॥
मित्रध्रुक्कुनखी क्लीबः श्यावदन्तस्तथा द्विजः ।
कन्यादूषयिता वह्निवेदोज्झः सोमविक्रयी ॥५॥
अभिशस्तस्तथा स्तेनः पिशुनो ग्रामयाजकः ।
भृतकाध्यापकस्तद्वद् भृतकाध्यापितश्च यः ॥६॥
परपूर्वापतिश्चैव मातापित्रोस्तथोज्झकः ।
वृषलीसूतिपोष्टा च वृषलीपतिरवे च ॥७॥
तथा देवलकश्चैव श्राद्धे नार्हति केतनम् ॥८॥
प्रथमेऽह्नि बुधः शस्ताञ्छोत्रियादीन् निमन्त्रयेत् ।
कथयेच्च तथैवैषां नियोगान् पितृदैविकान् ॥९॥
ततः क्रोधव्यवायादीनायासं तैर्द्विजैस्सह ।
यजमानो न कुर्वीत दोषस्तत्र महानयम् ॥१०॥
श्राद्धे नियुक्तो भुक्त्वा वा भोजयित्वा नियुज्य च ।
व्यवायी रेतसो गर्त्ते मज्जयत्यात्मनः पितॄन् ॥११॥
तस्मात् प्रथममत्रोक्तं द्रिजाग्र्याणं निमन्त्रणम् ।
अनिमन्त्र्य द्विजानेवमागतान् भोजयेद् यतीन् ॥१२॥
पादशौचादिना गेहमागतान् पूजयेद् द्विजान् ॥१३॥
पवित्रपाणिराचान्तानासनेषूपवेशयेत् ।
पितॄणामयुजो युग्मान् देवानामिच्छया द्विजान् ॥१४॥
देवानामेकमेकं वा पितॄणाञ्च नियोजयेत् ॥१५॥
तथा मातामहश्वाद्धं वैश्वदेवसमन्वितम् ।
कुर्वीत भक्तिसम्पन्नस्तन्त्रं वा वैश्वदैविकम् ॥१६॥
प्राङमुखान् भोजयेद् विप्रान् देवानामुभयात्मकान् ।
पितृमातामहानाञ्च भोजयेच्चाप्युदङ्मुखान् ॥१७॥
पृथक् तयोः केचिदाहुः श्राद्धस्य करणां नृप ।
एकत्रैकेन पाकेन वदन्त्यन्ये महर्षयः ॥१८॥
विष्टरार्थं कुशं दत्त्वा सम्पूज्यार्ध्यं विधानतः ।
कुर्यादावाहनं प्राज्ञो देवानां तदनुज्ञया ॥१९॥
यवाम्बुना च देवानां दद्यादर्घ्यं विधानवित् ।
स्रग्गन्धधूपदीपांश्च तेभ्यो दद्याद्यथाविधि ॥२०॥
पितॄणामपसव्यं तत् सर्वमेवोपकल्पयेत् ।
अनुज्ञाञ्च ततःप्राप्य दत्त्वा दर्भान् द्विधाकृतान् ॥२१॥
मन्त्रपूर्वं पितॄणान्तु कृर्याच्चावाहनं बुधः ।
तिलाम्बुना चापसव्यं दद्यादर्घ्यादिकं नृप ॥२२॥
काले तत्रातिथिं प्राप्तमन्नकामं नृपाध्वगम् ।
ब्रह्मणैरभ्यनुज्ञातः कामं तमपि भोजयेत् ॥२३॥
योगिनो विविधै रूपैर्नराणामुपकारिणः ।
भ्रमन्ति पृथिवीमेतामविज्ञातस्वरूपिणाः ॥२४॥
स्मादभ्यर्चयेत् प्राप्तं श्राद्धकालेऽतिथिं बुधः ।
श्राद्धक्रियाफलं हन्ति नरेन्द्रापूजितोऽतिथिः ॥२५॥
जुहुयाद् व्यञ्जनक्षारवर्जमन्नं ततोऽनले ।
अनुज्ञातो द्रिजैस्तैस्तु त्रिकृत्वः पुरुषर्षभ ॥२६॥
अग्नये कव्यवाहाय स्वाहेत्यादौ नृपाहुतिः ।
सोमाय वै पितृमते दातव्या तदनन्तरम् ॥२७॥
वैवस्वताय चैवान्या तृतीया दीयते ततः ।
हुतावशिष्टमल्पान्नं पितृपात्रेषु निर्वपेत् ॥२८॥
ततोऽन्नं मुष्टमत्यर्थमभीष्टमतिसंस्कृतम् ।
दत्त्वा जुषध्वमिच्छातो वाच्यमेतदनिष्ठुरम् ॥२९॥
भोक्तव्यं तैश्च तच्चित्तैर्मौनिभिः सुमुखैः सुखम् ।
अक्रुद्ध्यता चात्वरता देयं तेनापि भक्तितः ॥३०॥
रक्षोघ्नमन्त्रपठनं भूमेरास्तरणं तिलैः ।
कृत्वा ध्येयाः स्वपितरस्त एव द्विजसत्तमाः ॥३१॥
पिता पितामहश्चैव तथैव प्रपितामहः ।
मम तृप्तिं प्रयान्त्वद्य विप्रदेहेषु संस्थिताः ॥३२॥
पिता पितामहश्चैव तथैव प्रपितामहः ।
मम तृप्तिं प्रयान्त्वद्य होमाप्यायितमूर्तयः ॥३३॥
पिता पितामहश्चैव तथैव प्रपितामहः ।
तृप्तिं प्रयान्तु पिष्डेन मया दत्तेन भूतले ॥३४॥
पिता पितामहश्चैव तथैव प्रपितामहः ।
तृप्तिं प्रयान्तु मे भक्त्या मयैतत्समुदाहृतम् ॥३५॥
मातामहस्तृप्तिमुपैतु तस्य तथा पिता तस्य पिता ततोऽन्यः ।
विश्वे च देवाः परमां प्रयान्तु तृप्तिं प्रणश्यन्तु च यातुधानाः ॥३६॥
यज्ञेश्वरो हव्यसमस्तकव्य-भोक्ताव्ययात्वा हरीरीश्वरोऽत्र ।
तत्सन्निधानादपयान्तु सद्यो रक्षांस्यशेषाण्यसुराश्च सर्वै ॥३७॥
तृप्तिष्वेतेषु विकिरेदन्नं विप्रेषु भूतले ।
दद्यादाचमनार्थाय तेब्यो वारि सकृत्सकृत् ॥३८॥
सुतृप्तैस्तैरनुज्ञातः सर्वेणान्नेन भूतले ।
सतिलेन ततः पिम्डान् सम्यग्दद्यात्समाहितः ॥३९॥
पितृतीर्थेन सतिलं तथैव सलिलाञ्जलिम् ।
मातामहेभ्यस्तेनैव पिण्डांस्तीर्थेन निर्वपेत् ॥४०॥
दीक्षिणाग्रेषु दर्भेषु पुष्पधूपादिपूजितम् ।
स्वपित्रे प्रथमं पिण्डं दद्यादुच्छिष्टसन्निधौ ॥४१॥
पितामहाय चैवान्यं तत्पित्रे च तथापरम् ।
दर्भभूले लेपभुजः प्रीणयेल्लेपघर्षणैः ॥४२॥
पिण्डैर्मातामहांस्तद्वद् गन्धमाल्यादिसंयुतैः ।
पूजयित्वा द्विजाग्र्याणां दद्याच्चाचमनं ततः ॥४३॥
पितृभ्यः प्रथमं भक्त्या तन्मनस्को नरेश्वर ।
सुस्वधेत्याशिषा युक्तां दद्याच्छक्त्या च दिक्षिणाम् ॥४४॥
दत्त्वा च दक्षिणां तेभ्यो वाचयेद्वैश्वदेविकान् ।
प्रीयन्तामिह ये विश्वेदेवास्तेन इतीरयेत् ॥४५॥
तथेति चोक्ते तैर्विप्रैः प्रार्थनीयास्तथाशिषः ।
पश्वाद्विसर्जयेद् दिवान् पूर्वं पित्र्यान्महीपते ॥४६॥
मातामहानामप्येवं सह देवैः क्रमः स्मृतः ।
भोजने ज ण्वशक्त्या च दाने तद्वद्विसर्जने ॥४७॥
आपादशौचनात् पूर्वं कुर्याद् देवद्विजन्मसु ।
विसर्जनं तु प्रथमं पैत्रमातामहेषु वै ॥४८॥
विसर्जयेत् प्रीतिवचः सम्मानाभ्यचितांस्ततः ।
निवर्त्तेताभ्यनुज्ञात आद्वारं ताननुव्रजेत् ॥४९॥
ततस्तु वैश्वदेवाख्यं कुर्यान्नित्यक्रियां बुधः ।
भुञ्जीयाच्च समं पूज्यभृत्यबन्धुभिरात्मनः ॥५०॥
एवं श्राद्धं बुधः कुर्यात्पित्र्यं मातामहं तथा ।
श्राद्धैराप्यायिता दद्युः सर्वान् कामान् पितामहाः ॥५१॥
त्रीणि श्राद्धे पवित्राणि दौहित्रः कुतपस्तिलाः ।
रजतस्य तथा दानं कथासङ्कीर्तनादिकम् ॥५२॥
वर्ज्यानि कुर्वता श्राद्धं क्रोधोऽध्वगमनं त्वरा ।
भोक्तुरप्यत्र राजेन्द्र त्रयमेतन्न शस्यते ॥५३॥
विश्वेदेवाः सपितरस्तथा मातामहा नृप ।
कुलं चाप्यायते पुंसां सर्वं श्राद्धं प्रकुर्वताम् ॥५४॥
सोमाधारः पितृगणो यागाधारश्च चन्द्रमाः ।
श्राद्धे योगिनियोगस्तु तस्माद्भूपाल शस्यते ॥५५॥
सहस्त्रस्यापि विप्राणां यौगी चेत्पुरतः स्थितः ।
सर्वान् भोक्तॄंस्तारयति यजमानं तथा नृप ॥५६॥
इति श्रीविष्णुमहापुराणे तृतीयांशे पञ्चदशोऽध्यायः (१५)