वाचस्पत्यम्/द

विकिस्रोतः तः
Jump to navigation Jump to search
← वाचस्पत्यम्/थ वाचस्पत्यम्/द
तारानाथ भट्टाचार्य
वाचस्पत्यम्/ध →
पृष्ठ ३४०४

थुर्व्व बधे भ्वा० पर० सक० सेट् । थूर्वति अथूर्वीत् । तुथूर्व ।

थैथै अव्य० थै--थै इत्यव्यक्तशब्दानुकरणशब्दभदे संगीतदामो० ।

थो(थु)ड़न न० थुड़--भावे ल्युट् कुटादित्वेऽपि बा० गुणः ।

संवरणे । वस्तुतः थुड़नमित्येव तत्रार्थे साधु शब्दकल्प
दुमे थोड़नशब्दकल्पनं प्रामादिकमव ।

थौणेय त्रि० स्थूणायां हितादि ढक् पृषो० । स्वणाहितादौ शब्दार्थचि० ।

इति वाचस्पत्ये थकारादिशब्दार्थसङ्कलनम् ।

दकारः तवर्गीयतृतीयवर्णः व्यञ्जनवर्णभेदः अस्यो-

च्चारणस्थानं दन्तमूलम् । दन्तमूलेन सह जिह्वा-
ग्रेण स्पर्शनादस्य उच्चार्य्यत्वात् स्पर्शवर्णता । अस्यो-
च्चारणे याह्यभयत्नाः संवारनादघोषा अल्पप्राणश्च । तस्य
वाघकशब्दा वर्णाभिधानोक्ता यवा ।
“दोऽद्रीशोधातकि र्धाता दाता त्रासः कलत्रकम् ।
दीनं ज्ञानञ्च दानञ्च भक्तिरावहनी धरा । सुषुम्णा
योगिनी सद्यःकुन्तलो वामगुल्फकः । कात्यायनी शिवा
दुर्गाऽनङ्गनामा त्रिकण्टकी । स्वस्तिकः कुटिलारूपः कृष्णः
श्यामा जितेन्द्रियः । धर्मकृद्वामदेवश्च भ्रमरेहः सुचञ्चला ।
हरिद्रापुरवेदी च दक्षपाणिस्त्रिरेखकः” श्रस्याधिष्ठातृदेवता
ध्यानादि यथा “ध्यानमस्य दकारस्य वक्ष्यते शृणु पार्वति! ।
चतुर्भुजा पीतवस्त्रां नवयौवनसंश्रिताम । अनेकरत्न-
घटितहारनुपूरशोभिताम् एवं ध्यात्व दकारन्तु
तन्मन्त्रं दशधा जपेत् । त्रिशक्तिसहितं देवि! त्रिवि-
न्दुसहितं तथा । आत्मादितत्त्वसंयुक्तं दकारं प्रणमा-
न्थहम्” वर्णोद्धारतन्त्रम् । अस्य स्वरूपं यथा “दकारं
शृणु चार्वहि! बतुर्वर्गप्रदायकम् । पञ्चदवमयं वर्णं
पञ्चप्राणमयं सदा । त्रिशक्तिसहितं देवि! त्रिविन्दु
सहितं यदा । व्यात्मादितत्त्रसंयक्तं स्वयं परमकुण्डली ।
रक्तविद्युल्लताकार टकरि हृदि भावयेत्” कामधेनुमन्त्रम् ।
ताव्यादौ अस्व प्रयोगे सौख्यं फलम् । दोघः सौख्यं
मुदं नः” वृत्त० र० टी० उक्तेः । मावृकान्वासेऽस्य
वामगुल्फे न्यास्यः ।

पु० दैप्--शुद्धो दा--दाने टो--खण्डने वा क दद--दाने

बा० ड वा । १ पर्वते २ दत्ते ३ दातरि च मेदि० ।
४ कलत्रे न० एकाक्षरकोषः । दो--खण्डने सम्प० भावे
क्विप् । ५ खण्डने ६ रक्षणे च स्त्री मेदि० ।
“दाददोदुद्ददुद्दादीदादादोदूददीददोः । दुद्दादं दददे दुद्दे-
ददाददददोऽददः” माघः अस्य मल्लिनाथवाख्यायामर्थ
विशेषा बोध्याः । “स्मरशापावधिदां सरस्वतीम्” कुमा०
“करिणां मुदे सनलदा नलदाः” किरा० । “स्यादस्या-
नलदं विना न दलने तापस्य कोऽपि क्षमः” “दे!
वःपतिर्विदुवि नैषधराजगत्याः” नैषधम् । हे विदुषिदे
विद्वज्जने दात्रि! वो वरुणः इति वरुणपक्षे च्छेदः ।

दंश पु० दन्श--कच् भावे घञ् वा । (डाश) प्रसिद्धे

कीटभेदे २ सन्नदहने (वर्मणि) ३ दशने च मेदि० । ४ दोषे
६ सर्पक्षते च विश्वः करणे घञ । ७ दन्ते पु० हेमच०
“सर्वञ्च दंशमशकं स्थावरञ्च पृथग्विधम्” । “स्वेदजा
दंशमशकं यूकामक्षिकमत्कुणम्” मनः । “कण्डूयनैर्दंश-
निवारणैश्च” रघुः । गौरा० ङीष् क्षुद्रोदंशः अल्पार्थे
ङीप् वा । ८ क्षुद्रदंशे (मशक) भेदे स्त्री अमरः ।

दंशक पु० दन्श--ण्वुल् । (डाश) १ मक्षिकाभेदे हारा० ।

२ दंशनकर्त्तरि त्रि० ।

दंशन न० दन्श--भावे ल्युट् । (कामड़ान्) (हुलवमान)

१ दन्तादिना खण्डने “दष्टाश्च दंशनैः कान्तं दासीकुर्वन्ति
योषितः” सा० द० २ वर्म्मणि न० । “धृष्टदुम्रमहत्वा तु
न विमोक्ष्यामि दंशनम्” भा० क० ५७ अ० ।

दंशनाशिनी स्त्री दंशं नाशयति नाशि--णिनि--ङीप् ।

तैलकीटभेदे राजनि० ।

दंशभीरु पु० दंशात् भीरुः । महिषे हेमच० ।

दंशमूल पु० दंश्यते कर्मणि घञ् दंश मूलमस्य । शिग्रौ

(सजिना) राजनि० ।

दंशित त्रि० दंशः वर्म संजातोऽस्य तार० इतच् । १ कृतसन्नाहे

धृतवर्मणि “सूर्य्या यत्र च सौवर्णास्त्रयो भासन्ति
दंशिताः । तेजसा प्रज्वलन्तो हि कस्यैतद्धनुरुत्तमम्” भा०
वि० ४२ अ० “छत्राणि च विराजन्ते दामतानि सि
तानि च” हरिवं ५४५४ श्लो० ।

दंशूक त्रि० दन्श वा० उक । दशनशीले । “तस्मात् क्लीवाः

दन्दं शूका दंशूकाः” तैति० ब्रो० १ । ७ । ८ । २ ।
पृष्ठ ३४०५

दंष्ट्रा स्त्री दंश--ष्टन् गौरादिषु नातामहशब्दस्य पाठात्

षित्त्वात् ङीषोऽनित्यत्वात् टाप् । स्थूलदन्तभेदे । दन्त-
पङक्तिद्वयप्रान्ते चत्वारो दन्तभेदा दंष्ट्रा इति प्रसिद्धिः ।
द्विगुणाकृतदन्तावलिरित्येके “दंष्ट्राकरालानि च ते मुखानि”
गीता । “दंष्ट्रायां धरणिर्नखे दितिसुताधीशः पदे
रोदसी” सा० द० । “दंष्ट्रामयूखैः शकलानि कुर्वन्” रघुः

दंष्ट्रानखविष पु० दंष्ट्रायां नखे च विषं यस्य ।

मार्ज्जारादौ यथाह सुश्रुतः ।
“तत्र दृष्टिनिश्वासं दंष्ट्रानखमूत्रपुरीषशुक्रलालार्त्तवमुख-
मन्दंशविशर्द्धितगुदास्थिपित्तशूकशवानीति” विषस्थानो-
पक्रमे “मार्जारश्ववानरभकरमण्डूकपाकमत्स्यगोधा-
शम्बूकप्रचलाकगृहगोधिकाचतुष्पादकीटास्तथान्ये दंष्ट्रा-
नखविषाः” ।

दंष्ट्राल त्रि० दंष्ट्रा + अन्त्यर्थे चूड़ा० ल । दंष्ट्रायुक्ते “धूम्बकेशो

हरित्श्मश्रुर्दंष्ट्रालौष्टपुटाननः” हरिवं० ४७ अ० ।

दंष्ट्राविष पु० दंष्ट्रायां विषमस्य । १ भौमे गर्पे “भौमास्तु

दंष्ट्राविषाः” सुश्रुतः २ लूताभेदे स्त्री । यथाह सुश्रुतः
“विषन्तु लालानश्चमूत्रदंष्ट्रारजःपुरीषैरथ चेन्द्रियेण ।
सप्तप्रकारं विसृजन्ति सूतास्तदुग्रमध्यावरवीर्य्ययुक्तम् ।
सकण्डूकोठं स्थिरमल्पमूलं लाणाजतं मन्दरुजं दन्ति ।
शोफश्च कण्डूश्च पुलानिका च धूमायनं चैव गस्याग्रदंशे ।
दंशन्तु मूत्रेण सकृष्णमध्यं सरक्तपर्य्यन्तमवेहि दीणम् ।
दंष्ट्राभिरुग्रं कठिनं विवर्णं जागीहि दंशं स्थिरमण्डलञ्च” ।
लालाविपादयोऽप्यत्र ।

दंष्ट्रास्त्र पुंस्त्रो दंष्ट्रास्त्रमिवास्य । वराहे शब्दार्थग्नि० । दंष्ट्रायुधादयोऽप्यत्र

दंष्ट्रिका स्त्री दंष्ट्रा स्वार्थे क कापि ह्रस्वे अत इत्त्वम् ।

दाड़िकाय दंष्ट्रायपदार्थे दंष्ट्रा + व्रीह्या० वा ठन् ।
दंष्ट्रायुक्ते त्रि० ।

दंष्ट्रिन् पु० दंष्ट्रा अस्त्यर्थे व्रीह्या० इनि । शूकरे अमरं

२ सर्पे शब्दर० । ३ दंष्ट्रायुक्ते त्रि० । “टंष्ट्रिभिः शृङ्गिभिर्वापि
हताम्लेच्छैश्च तस्करैः” शु० त० अग्निपु० ।

दंसना स्त्री चु० दनूस--भावे युच् । १ कर्म्मणि निरुक्ते दंशस्

इति शब्दस्म कर्मपर्य्यायतोक्त स्तथार्थत्वम् । “तप क्रत्वा
तव तद्दंसनाभिः” ऋ० ६ । १७ । ६ । “दंसनाभिः कर्मभिः”
भा० । “शची वस्तव दंसना” ऋ० १ । २९ । २ ।

दंसस् न० दन्स--असुन् । कर्म्मणि निघण्टुः “चारुतम-

मसि दंसः” पा० १ । ६२ । ६ । “अवर्द्धयो वलिनो अस्य
दंससा” १० । १२८ । “दंममा कर्म्मणा” भा० । “सजोषा-
वश्विना दतोभिः” तजु० १२ । ७४ ।

दंसि पु० दन्स--इन् । कर्म्मणि । “कुत्साय मन्मन्नह्यश्च दं-

सयः” ऋ० १० । १३८ । १ । “दंसयः कर्माणि” भा०
“दंसयः कर्माणि दंसयत्येनानि” निरुक्ते ४ । २५ ।

दंसिष्ठ त्रि० दन्स--तृन् दंसयिता अतिशयेन सः इष्ठन्

तृणो लुकि णिलोपः । १ अत्यन्तकर्मकर्त्तरि । “दस्रा
दंसिंष्ठा रथ्या रथीतमा” ऋ० १ । १८२ । २ । “दंसिष्ठा
अतिशयितकर्मार्णा” भा० औस्थाने आध् । २ दर्शनीयतमे
३ अतिशयेन शत्रुहिंसके च । “येना दंसिष्ठ! कृत्वने”
ऋ० ८ । २४ । २५ । “हे दंसिष्ठ! दर्शनीयतम! यद्वा शत्रूणां
क्षपयितः!” भा० । अत्र दृशेः दंसे र्वा धातोरूपं पृषो० ।

दक न० उदक + पृषो० दैप्--शोधे क ततः संज्ञायां कन् वा ।

जले त्रिका० दकोदरम् । दकार्गलम् ।

दकोदर न० दकं जलस्फीतमुदरं यत्र । सुश्रुतोक्ते

कलोदरापरनामके उदररोगभेदे यथा “यः स्नेहपीतो-
ऽप्यनुवासितो वा वान्तो विरिक्तोऽप्पथ वा निरूढ़ः ।
पिवेज्जलं शीतलमाशु तस्य स्रीतांसि दुष्यन्ति हि तद्व-
हानि । स्नेहोपलिप्तेष्वथ वापि तेषु दकोदरं पूर्बवद-
भ्युपैति । स्रिग्धं महत्सम्परिवृत्तवाभि भृशोन्नतं
पूर्णमिवाम्बुना च । यथा दृतिः क्षुभ्यति, कम्पते च शब्दा-
यते धापि दकोदरं तत् । “नाभेरधश्चतुरङ्गुले सेवन्या
वामपार्श्वे दकोदरे” “वेध्याः सिरा बहुविधा मूत्रवृद्धि-
र्दकोदरम्” मश्र० ।

दक्ष वृद्धौ शीघ्रार्थे च भ्वा० आत्म० अक० सेट् । दक्षते

अदक्षिष्ट । ददक्षे । दक्षः । “त्वमिनो शतहिमासि दक्षसे”
ऋ० २ । १ । ११ ।

दक्ष हन्त्यर्धे (गतौ बधे च) भ्वा० आत्म० सक० सेट् । दक्षते

अदक्षिष्ट ददक्षे । मित् तत्करणसामर्थ्यात् अनुपधाया
अपि दीर्घे चिणि० अदाक्षि अदक्षि णमुलि
दक्षं दक्षम् दासं दाक्षमिति रूपं षित भावे अ । दक्षा ।

दक्ष पु० दक्ष--कर्त्तरि अच् । १ ताम्रचूड़े दक्षसंहिताकर्त्तरि

२ मुनिमदे ३ शिववृषभे ४ वृक्षभेदे ५ अग्नौ च विश्वः ।
६ महेश्वरे शब्दरत्ना० । ब्रह्मणो दक्षिणाङ्गुष्ठजाते ७ प्रजा-
पतिभेदे । ८ चतुरे ज्ञेयेषु कर्त्तव्येषु चोपस्थितेषु
सद्य एव ज्ञातं कर्तुं च समर्थे पटौ त्रि० मेदि० ।
“दक्षस्त्वजायताङ्गुष्ठाद्दक्षिणाद्भगवान् ऋषिः ।
ब्रह्मणः पृथिवीपाल! शान्तात्मा सुमहातपाः । वामादजा-
यताङ्गुष्ठाद्धार्य्या तम्य महात्मनः । तस्यां पल्लाशतं कन्याः
स एवाजनयन् मुनिः । ताः सर्वास्त्वनवद्याङ्घ्यः कन्याः
कमललोचनाः । पुत्रिकाः स्वापयामास नष्टपुत्रः प्रजा-
पृष्ठ ३४०६
पतिः” भा० आ० ६६ अ० तस्य पुत्रनाशकथा दक्षसुत
शब्दे दृश्यम् हरिवंशे २ अ० तु तस्य प्राचेतसत्वमुक्तं यथा
“उपगम्याब्रवीदेतानथ सोमः प्रजापतीय । कोपं
यच्छत राजानः! सर्वे प्राचीनबर्हिषः! । वृक्षशून्या कृता
पृथ्वी शाम्येतामग्निमारुतौ । रत्नभूता च कन्येयं
वृक्षाणां वरवर्णिनी । भविष्यं जानता तत्त्वं धृता
गर्भेण वै मया । मारिषा नाम कन्येयं वृक्षाणामिति
निर्मिता । भार्य्यावोऽस्तु महाभागा सोमवंशविवर्द्धिनी ।
युष्माकं तेजसोऽर्द्धेन मम चार्द्धेन तेजसः । अस्यामुत्-
पत्स्यते पुत्रो दक्षी नाम प्रजापतिः । स इमां दग्धभू-
यिष्ठां युष्मत्तेजोमयेन वै । अग्निनाऽग्निसमो भूत्वा
प्रजाः संवर्द्धयिष्यति । ततः सोमस्य वचनाज्जगृहुस्ते
प्रचेतसः । संहृत्य कोपं वृक्षेभ्यः पत्नीं धर्मेण मारिषाम् ।
मारिषायां ततस्ते तु मनसा गर्भमादधुः । दशभ्यस्तु प्रचे-
तोभ्यो मारिषायां प्रजापतिः । दक्षोजज्ञे महातेजाः
सोमस्यांशेन भारत! । पुत्रानुत्पादयामास सोमवंशविव-
र्द्धनान् । अचरांश्च चरांश्चैव द्विपदोऽथ चतुष्पपदः ।
स सृष्ट्वा मनसा दक्षः पश्चादप्यसृजत् स्त्रियः । ददौ स
दश धर्माय कश्यपाय त्रयोदश । शिष्टाः सोमाय राज्ञे-
ऽथ नक्षत्राख्या ददौ प्रभुः । तासु देवाः खगा गावो
नागा दितिजदानवाः । गन्धर्वाप्सरसश्चैव जज्ञिरेऽन्याश्च
जातयः । ततः प्रभृति राजेन्द्र! प्रजा मैथुनसम्भवाः ।
सकल्पाद्दर्शनात् स्पर्शात् पूर्वेषां प्रोच्यते प्रजा” ।
अनयोर्विरोधमाशङ्क्य कल्पभेदादविरोधः भेङ्ग्या
तत्रैव समाहितो यथा
“जनमेजय उवाच । देवानां दानवानाञ्च गन्धर्वोरग-
रक्षसाम् । सम्भवः कथितः पूर्वं दक्षस्य च महात्मनः ।
अङ्गुष्ठाद् ब्रह्मणो जातो दक्षः प्रोक्तस्त्वयाऽनघ!
वामाङ्गष्ठात्तथा चैव तस्य पत्नी व्यजायत । कथं प्राचे
तसत्व स पुनर्लेभे महातपाः । एतन्मे संशयं विप्र!
सम्यगाख्यातुमर्हसि । दौहित्रश्चैव सोमस्य कथं श्वशुर-
ताङ्गतः” । वैशम्प्रायन उवाच । “उत्पत्तिश्च निरोधश्च नित्यौ
भतेषु पार्थिव! । ऋषयो ऽत्र न मुह्यन्ति विद्वांसश्चैव
ये जनाः । युगे युगे भवन्त्येते सर्वे दक्षादयो नृपाः ।
पुनश्चैव निरुध्यन्ते विद्वांस्तत्र न मुह्यपि । ज्यैष्ट्यं कानि-
ष्ट्यमप्येषां पूर्वं नासीज्जनाधिप! । तप एव गरीयोऽभूत्
प्रभावश्चैव कारणम्” हरिवं० २ अ० । ९ औशीनरपुत्रनृप-
भेदे “शिविर्बलः कृमिर्दक्षश्चत्वारौशीनरात्मजाः” भाग० ९ ।
२३ । ४ । ९ दक्षिणभागे “वामतो जानकी यस्य दज्ञभागे च
लक्ष्मणः । मारुतिः पुरतो यस्य” रामकवचम् । १० विष्णौ
“उग्रः संवत्सरो दक्षः” विष्णुस० । “जगद्रूपेण वर्द्धमा-
नत्वात् सर्वकर्माणि क्षिप्रं करोतीति बा दक्षः” भा०
तत्र कुशले “दक्षमिष्टमधुवासरसारम्” “उपवनपवनानु-
पातदक्षैः” माघः “रन्ध्रान्वेषणदक्षाणां द्विषामामिषतां
ययौ” रघुः । “मेरौ स्थिते दोग्धरि दोहदक्षे” कुमा० ।
दक्ष हिंसे करणे घञ् । ११ बले निघण्टुः ।
“स दक्षाणां दक्षपतिर्बभूव” ऋ० १ । ९५ । ६ । दक्षाणां
बलानाम् मध्ये यदतिशयितं बलं तस्याधिपतिः”
भा० । १३ वीर्य्ये न० “स्वैर्दक्षैर्दक्षपितेह सीद देवा-
नाम्” यजु० १४ । ३ । “स्वैर्दक्षैः वीर्य्यैः सामर्थ्यैः
सह, दक्षशब्दोऽत्र वीर्य्यार्थः । दक्षपिता दक्षं वीर्य्यं
पातीति पालयिता” वेददी० ।

दक्षकन्या स्त्री ६ त० । दक्षस्य सुतासु ताश्च षष्टिः । यथाह

मत्स्यपु० ५ अ० ।
“ततस्तेषु विनष्टेषु षष्टिं कत्याः प्रजापतिः ।
वैरिण्यां जनयामास दक्षः प्राचेतसस्तथा । प्रादात् स दश
धर्माय कश्यपाय त्रयोदश । सप्तविंशतिं सोमाय चतस्रो-
ऽरिष्टनेमये । द्वे चैव भृगुपुत्राय द्वे कृशाश्वाय धीमते ।
द्वे चैवाङ्गिरसे तद्वत्तासान्नामानि विस्तरात्” । “तांश्चैव
नष्टान् विज्ञाय पुत्रान् दक्षः प्रजापतिः । षष्टिं
ततोऽसृजत् कन्यां वैरिण्यामिति नः श्रुतम् । तास्तदा प्रति-
जग्राह भार्य्यार्थं कश्यपः प्रभुः । सोमो धर्मश्च कौरव्य ।
तथैवान्ये महर्षयः । ददौ स दश धर्माय कश्यपाय
त्रयोदश । सप्तविंशतिं सोमाय चतस्रोऽरिष्टनेमिने । द्वे
चैव बहुपुत्राय द्वे चैवाङ्गिरसे तथा । द्वे कृशाश्वाय
विदुषे तासां नामानि मे शृणु” हरिवं० ३ अ० । २ सतीना-
म्न्यां भवपत्न्यां दुर्गायाञ्च तत्कथा “प्रसूतिं मानवीं दक्षः
उपयेमे ह्यजात्मजः । तस्यां ससर्ज्ज दुहितॄः षोड़शाम-
ललोचनाः । त्रयोदशाऽदाद्धर्माय तथैकामग्नये विभुः ।
पितृभ्य एकां युक्तेभ्यो भवायैकां भवच्छिदे” भाग० ४ । १ ।
“अथापमानेन पितुः प्रयुक्ता दक्षस्य कन्या भवपूर्वपत्नी ।
सती सती योगविसृष्टदेहा कुमा० दक्षसुतादयोऽप्यत्र ।

दक्षक्रतु पु० ६ त० । दक्षप्रजापतिकृते निरीश्वरभागे यज्ञ-

भेदे । तद्यज्ञकथा काशी० ८७ अ० यथा
“अहं यियक्षुर्यूयं मे यज्ञसाहाय्यकारिणः । भवन्तु
यज्ञसम्भारानानयन्तु त्वरान्विताः । श्वेतद्वीपनथो गत्वा
पृष्ठ ३४०७
चक्रे चक्रिणमच्युतम् । सहाक्रतूपदेष्टारं यज्ञपूरुष-
मेव च । तस्यर्त्विजोऽभवन् सर्वे ऋषयो ब्रह्मवादिनः ।
प्रावर्त्तत ततस्तस्य दक्षस्य च महाध्वरः । दूरादेव
निकायाच्च तस्मिन् दक्षमहाध्वरे । अनोश्वरात्ततो
वेधा व्याजं कृत्वा गृहं ययौ । दधीचिरथ संवीक्ष्य सर्वां-
स्त्रैलोक्यवासिनः । दक्षयज्ञे समेयातान् सतीश्वरविव
र्जितान् । प्राप्तसम्मानसम्भारान् वासोऽलङ्कृतिपूर्वकम्”
इत्युपक्रमे तत्र दधीचिना सह दक्षस्य उक्तिप्रत्युक्ती यथा
“तं विदन्ति वशिष्ठाद्यास्तवार्त्विज्यं भजन्ति ये । एको
रुद्रो न द्वितीयः संविदानाअपीति हि । प्रावर्त्तन्तर्षयो-
ऽन्येऽपि गौरवात्तव च क्रतौ । यदि मे ब्राह्मणस्यैकं
शृणोषि वचनं हितम् । तदा क्रतुफलाधीशं विश्वेशं
तं समाह्वय । विना तेन क्रतुरसौ कृतोऽप्यकृत एव हि ।
सति तस्मिन् महादेवे विश्वकर्मैकसाक्षिणि । तवापि
चैषां सर्वेषां फलिष्यति मनोरथः । यथा जड़ानि
वीजानि न फलन्ति स्वयं तथा । जड़ानि सर्वकर्माणि न
फलन्तीश्वरं विना । अर्थहीना यथा वाणी धर्महीना
यथा तनूः । पतिहीना यथा नारी शिवहीना तथा
क्रिया । गङ्गाहीना यथा देशाः पुत्रहीना यथा गृहाः
दानहीना यथा सम्पत् शिवहीना तथा क्रिया । मन्त्र-
हीनं यथा राज्यं श्रुतिहीना यथा द्विजाः । योषाहीनं
यथा सौख्यं शिवहीना तथा क्रिया । दर्भहीना यथा
सन्ध्या तिलहीनं तु तर्पणम् । हविर्हीनो यथा होमः
शिवहीना तथा क्रिया । इत्थं दधीचिनाख्यातं जग्राह
वचनं न तत् । दक्षो दक्षोऽपि तत्रैव शम्भोर्मायावि-
मोहितः । प्रोवाच च भृशं क्रुद्धः का चिन्ता तव
मे क्रतोः । क्रतुमुख्यानि सर्वाणि यानि कर्माणि
सर्वशः । तानि सिध्यन्ति नियतं यथार्थकरणादिह ।
अयथार्थविधानेन सिद्ध्येत् कर्मापि नेशितुः ।
स्वकर्मसिद्धये वाथ सर्व एव हि चेश्वरः । ईश्वरः
कर्मणां साक्षी यत् त्वयापीति भाषितम् । तत्तथास्तु परं
साक्षी नार्थं दद्याच्च कुत्रचित् । जड़ानि सर्वकर्माणि न
फलन्तीश्वरं विना । यदुक्तं भवता तत्राप्यहो दृष्टान्तया-
म्यहम् । जड़ान्यपि च वीजानि कालं संप्राप्य चात्सना ।
अङ्कुरयन्ति कालाच्च पुष्प्यन्ति च फलन्ति च । विना-
ऽपीशं यथा कर्म स्वयं काले फलत्यहो । किमीश्वरेण
तेनात्र महाऽमङ्गलमूर्त्तिना । दधीचिरुवाच । यथार्थकर-
णात् सिद्धमपि कार्यं कदाचन । ईश्वरप्रातिकूल्याच्च
सिद्धमेवाशु नश्यति । ईश्वरेच्छाबलात् कर्म कृतमप्यविधा-
नतः । संसिध्येत्तदधीनाश्च कथं सर्व इहेश्वराः । सामा-
न्यसाक्षिवन्नेशः सर्वेषां सर्वकर्मणाम् । साक्षी भवेदस-
न्दिग्धं फलस्य प्रतिभूरपि । भूजलादिस्वरूपेण
विदध्यादङ्कुरोदयम् । यत् त्वयोक्तं विनापीशं काले कर्म फलेत्
स्वयम् । सं एव कालो भगवान् सर्वकर्त्ता महेशिता ।
अन्यच्च भवता प्रोक्तं यदेकं तथ्यमेव तत् । किमीश्वरेण
तेनात्र महामङ्गुलभूत्तिना । ये महान्तो भवन्त्येव ये
च मङ्गलमूर्त्तयः । ईश्वराख्या च ये सन्ति किन्तैरत्र
तवान्तिके । उत्तरादुत्तरञ्चेति प्रत्युत्तरयति द्विजे ।
दधीचौ चुकुपेऽत्यन्तं दक्षो गर्वी हतश्रिया । आदिदेश
समीपस्थानालोक्य परितस्त्विति । ब्राह्मणाप्रसदं चामुं
परिदूरयताशु वै । अमुष्मादध्वरश्रेष्ठादनादिष्टात्मनाऽऽग-
तम् । इत्थं दधीचिराकर्ण्य प्रोवाच प्रहसन्निव । किं मां
दूरयसे मूढ़! दूरीभूतो भवानपि । सर्वेभ्यो मङ्गलेभ्यश्च
सर्वैरेभिः समं ध्रुवम् । अकाण्डे क्रोधजो दण्डस्तव
मूर्घ्नि पतिष्यति । महेशितुस्त्रिजगतीपुरीशास्तुः प्रजा-
पते! । इत्युक्त्वा निर्जगामाशु यज्ञवाटात् ततो द्विजः ।
तस्मिन्निर्याति निर्यातो दुर्वासाश्च्यवनो महान् । उत्तङ्क
उपमन्युश्च ऋचीलोद्दालकावपि । माण्डव्यो वामदेवश्च
गालवो गर्गगौतमौ । शिवतत्त्वविदीऽन्येऽपि दक्ष-
यज्ञाद्विनिर्थयुः” । दक्षयज्ञादयोऽप्यत्र । दक्षाः
कुशलाः क्रतवः संकल्पायेषाम् । २ चक्षुरादीन्द्रियरूपेषु
प्राणेषु “ये देवा मनोजाता मनोयुजो दक्षक्रत-
वस्ते नोऽवन्तु” यजु० ४११ । “ये देवा ईदृशाः
दीव्यन्ति द्योतन्ते इति देवाश्चक्षुरादीन्द्रियरूपाः प्राणाः ।
“इमे वै प्राणाः वागेवाग्निः प्राणोदानौ मित्राव-
रुणौ चक्षुरादित्यः श्रोत्रं विश्वे देवा इति” शत०
ब्रा० ३ । २ । २ । १३ श्रुत्युक्ताः । किम्भूताः मनोजाताः
दर्शनश्रवणादीच्छारूपान्मनस उत्पन्नाः इच्छोत्पत्तौ
तेषां प्रवर्त्तमानत्वात् । तथा मनोयुजः रूपादिदर्शन-
कालेऽपि मनसा युक्ता एव वर्त्तन्ते अन्यमनस्कस्य रूपा-
दिप्रतिमासाभावात् । यद्वा स्वप्नावस्थायां मनसा युज्यन्ते
ते मनोयुजः । तथा दक्षक्रतवः दक्षाः कुशलाः क्रतवः
संकल्पाः येषां ते सङ्कल्पितार्थकारिण इत्यर्थः । ते देवा
नोऽस्मानवन्तु यज्ञानुष्ठानविघ्नपरिहारेण पालयन्तु तेभ्यः
प्राणरूपेभ्यः स्वाहा इदं क्षीरं हुतमस्तु” वेददी० ।

दक्षक्रतुध्वंसिन् पु० दक्षक्रतुं ध्वंसयति ध्वन्स--णिच्-

णिनि । १ महादेवे तदंशाविर्भूते २ वीरभद्रे च तत्कथा
क्रतुध्वंसिन् शब्दे २२८४ पृ० दृश्यम् ।
पृष्ठ ३४०८

दक्षजा स्त्री दक्षात् जावते जन--ड । सतीरूपायां १ दक्षक-

न्यायां महेशकलत्रे दुर्यायाम् २ अश्विन्यादौ च । दक्षजा-
तादयोऽप्यत्र ।

दक्षजापति पु० ६ त० । १ शिवे २ चन्द्रे च हेमच० ।

दक्षतनया स्त्री ६ त० । दक्षप्रजापतेर्दुहितरि १ अश्विन्यादौ

२ दुर्गायाम् । ३ वेदिरूपायां भूमौ च । “अदितिर्ह्यजनिष्ट
दक्ष! या दुहिता तव” ऋ० १० । ७२ । ५ । दक्षस्य भूमि-
जत्वेऽपि तज्जनकत्वासम्भवमाशङ्क्य निरु० ११ । १३ ।
समाहितं यथा “अदितेर्दक्षो अजायत” “दक्षाद्वदितिं
परीति” च तत्कथमुपपद्येत? समानजन्मानौ स्यातामि-
त्यपि वा देवघर्मणेतरेतरजन्मानौ वेतरेतरप्रकृती” ।
पृषो० दक्षतनाप्यत्र “दक्षस्य पितरं तनां ऋ० ३ । २७ । ९
“दक्षस्य दक्षप्रजापतेस्तना तनया” भा० ।

दक्षपितृ पु० दक्षः दक्षप्रजापतिः पिता उत्पादकोऽस्य

समासान्तविधेरनित्यत्वात् न कप् । दक्षप्रजापतिजातप्रा-
णाभिमानिदेवे “ये देवा मनोजाता मनोयुजः सुदक्षाः
दक्षपितारस्तेनः पान्तु” तैत्ति० १ । २ । ३ । १ । दक्षपितार इत्यत्र
गौणत्यात् वृद्धिः । चक्षुरादिप्राणाभिमानिनो ये देवाः सन्ति
तेऽस्मान् पयःपानरूपव्रतानुष्ठायिनोऽन्तर्बर्हिश्च शुद्धि-
सम्पादनेन पालयन्तु । कीदृशा देवाः । उत्पत्तिकाले
मनसा सहोत्पन्नाः । व्यवहारकालेऽपि मनसा युज्यन्ते ।
अन्यमनस्कस्य चक्षुरादिभिः सन्निहिनविषयाणामप्यनव
गमात् । सति तु मनःसाहाय्ये स्वस्वविषयेषु सुदक्षाः
कुशलाः । दक्षः प्रजापतिरुत्पादको येषां ते दक्षपितारः”
भा० । लोके तु कप् । दक्षपितृका अश्विन्यादिषु स्त्री ।
दक्षस्य वीर्य्यस्य पिता पालक! । ३ वीर्य्योत्पादके दक्षशब्द-
शेषे उदा० दृश्यम् ।

दक्षविहिता स्त्री १ गीतिकाभेदे । “ऋग्गाथा पाणिका

दक्षविहिता ब्रह्मगीतिका । गेयमेतत्तदभ्यासकरणा-
न्मोक्षसंज्ञितम्” याज्ञ० । “ऋग्गाथाद्याश्चतस्रो गीतिकाः”
मिता० । २ दक्षकृते त्रि० ।

दक्षस् न० दक्ष--करणे असुन् । बले । “वृषणा दक्षसे यसुः”

ऋ० २ । २५९ । ३ । “दक्षसे बलाय” भा० ।

दक्षसावर्णि पु० मनुभेदे नवमे मनो । “नवमो दक्षसावर्णि

र्मनुर्वरुणसम्भवः । धृष्टकेतुर्दीप्तिकेतुरित्याद्यास्तत्सुता
नृप । परे भुरीचितर्भाद्या देवा दून्द्वः श्रुतः स्मृतः । द्युति-
मत्प्रमुखाः सप्त भविष्यन्त्यृषयस्ततः । आयुष्मतोऽन्धुधा-
रायामृषभो भगवान् किल । भविता येन संराद्धां
त्रिलोकीं भोक्ष्यते ऽद्भुतः” भाग० ८ । १३३ । ९ । “८ सावर्णि
९ र्दक्षसावर्णि १० र्ब्रह्मसावर्णिकस्ततः । ११ धर्मसावर्णिको १२
रुद्रपुत्रो १३ रौच्यश्च १४ भौत्यकः” पुराणान्तरम् । हरिवंशे
तु नवमस्य रोहितत्वतृमुक्तं यथा । “च्यवनश्चैव वाशिष्ठ
आत्रयो हव्यवाहनः । पौलहः सत्य इत्येते मुनयो
रौहितेऽन्तरे । देवतानां गणास्तत्र त्रय एव नराधिप! ।
दक्षपुत्रस्य पुत्रास्ते रोहितस्य प्रजापतेः । मनोः पुत्रो
धृष्टकेतुः पञ्चहोत्रो निराकतिः । पृथुश्रवा भूरिधामा
ऋर्वाकोऽष्टहतो गयः । प्रथमस्य तु सावर्णेर्नव पुत्रा
महौजसः” ७ अ० । कल्पभेदादविरोधः ।

दक्षसुत पु० ६ त० । १ देवे शब्दार्थचि० ।

देवस्य दक्षसृष्टत्वात् नष्टपुत्रेण दक्षेण पुत्रिकासर्मेण
दचायामादितावुत्पन्नत्वेन तस्य पुत्रिकापुत्रत्राच्च तत्सुत-
त्वम् यथाह हरिवं० ३ अ० ।
“प्रजाः सृजेति व्यादिष्ठः पूर्वं दक्षः मयम्भुवा । यथा
ससर्ज्र भूतानि तवा शृणु महीपते! । मनसा चैव
भूतानि पूर्वमेवासृजत् प्रभुः । ऋषीन् देवान् सगन्धर्वान-
सुरानथ राक्षसान्” । २ हर्य्यश्वादिषु तत्कथा “दक्षस्य
पुत्रा हर्य्यश्वा विवर्द्धयिषवः प्रजाः । समागता
महावीर्य्या नारदस्तानुवाच ह । वालिशा वत यूयं
वै नास्या जानीथ वै भुवः । प्रमाणं स्रष्टुकामा वै
प्रजाः पाचेतसात्सजाः । अन्तरूर्द्धसधश्चैव कथं स्रक्ष्यथ
वै प्रजाः । ते तु तद्वचनं श्रुत्वा प्रयाताः सर्वतोदिशः ।
अद्यापि न निवर्त्तन्ते समुद्रेभ्य इवापगाः । हर्य्य-
श्वेष्वथ नष्टेषु दक्षः प्राचेतसः पुनः । वैरण्यामेव
पुत्राणां सहस्रमसृजत् प्रभुः । विवर्द्धयिषवस्ते तु
शवलाश्वाः प्रजास्तदा । पूर्वोक्तं वचनं तात! नारदेयैव चो
दिताः । अन्योन्थमूचुस्ते सर्वे सम्यगाह महामुनिः ।
भ्रातृणां पदवीं ज्ञातुं गन्तव्यं नात्र संशयः । ज्ञात्वा
प्रमाणं पृथ्वाश्च सुखं स्रक्ष्यासहे प्रजाः । एकाग्राः
स्वस्थमनसो यथावदनुपूर्वशः । तेऽपि तेनैव मार्गेश्च
प्रयाताः सर्वतो दिशम् । अद्यापि न निवर्त्तन्ते समुद्रेभ्य
इवापगाः । नष्टेषु शवलाश्वेषु दक्षः क्रुद्धोऽब्रवीद्वचः ।
नारदं माशमेहीति गर्भवासं वसेति च । तदा प्रभृति वै
भ्राता भ्रातरन्वेषणे नृप! । पयातो नश्यति क्षिप्तं तन्न
कार्म्यं” विपश्चिता । तांश्चैव नष्टान् विज्ञाय पुत्रान् दक्ष ।
पृष्ठ ३४०९
प्रजापतिः । षष्टिं ततोऽसृजत् कन्यां वैरण्यामिति न
श्रुतम्” ।
३ अश्विन्यादौच स्त्री “तमोऽपहं दक्षसुता इवाबभुः” रघुः ।

दक्षाध्वरध्वंसक दक्षस्याध्वरं ध्वंसयति ध्वन्स--णिच्-

ण्वुल् । १ शिवे २ वीरमद्रे च दक्षाध्वरनाशकादयोऽप्यत्र ।

दक्षाय्य पु० दक्ष--आय्य । १ गरुडे २ गृध्रखगे च उणादिवृत्तौ

सि० कौ० । दक्ष--वृद्धौ अन्तर्भूतण्यर्थे ण्वुल् । ३ वर्द्धके
त्रि० । “मित्रो दक्षाय्यो अर्य्यमेवासि सोम!” ऋ० २ । ९२ । ३ ।
“दक्षाय्यः सर्वेषां वर्द्धकः” भा० ।

दक्षिण त्रि० दक्ष--इनन् । १ परच्छन्दानुवर्त्तिनि पराभिप्रा-

यानुवर्त्तिनि २ सरले । ३ दक्षभागस्थे च मेदि० ।
४ अवामे अपसव्ये देहभागभेदे (डाहिन) ख्याते भागे
हेमच० । “एषु त्वनेकमहिलासु समरागो दक्षिणः
क्रथितः” सा० द० उक्ते ५ नायकभेदे यथा “स्नाता
तिष्ठति कुन्तलेश्वरसुना वारोऽङ्गराजस्वसुर्द्यूतै रात्रि-
रियं जिता कमलया, देवी प्रासाद्याद्य च । इत्यन्तः
पुरसुन्दरीः प्रति मया विज्ञाय विज्ञापिते देवेनाऽप्रतिप-
त्तिमूढ़मनसा द्वित्राः स्थितं नाड़िकाः” । स्वापेक्षया मेरु-
गिरितो विप्रकृष्टायां ६ दिशि स्त्री ७ तद्वर्त्तिनि त्रि० ।
८ यज्ञदानान्ते दाने ९ प्रतिष्ठायां स्त्री यज्ञा-
द्यन्तदक्षिणानामनिरुक्तिः” शत० व्रा० २ । २ । २ । २ ।
“स एष यज्ञो हतो न ददक्षे । तं देवा दक्षिणासिरद-
क्षयंस्तद्यदेनं दक्षिणाभिरदक्षयंस्तस्माद्दक्षिणा नाम तद्यदे-
वात्र यज्ञस्य हतस्य व्यथते तदस्यैतद्दक्षिणाभिर्दक्षयत्यथ
समृद्ध एव यज्ञो भवति तस्माद्दक्षिणा ददाति” । दक्षि-
णाविशेषनिर्ण्णयः हेमा० दा० यथा
भविष्यपुराणे “अदत्तदक्षिणं दानं व्रतञ्चैव नृपोत्तम! ।
विफलं तद्विजानीयाद्भस्मनीव हुतं हविः” । षट्त्रिंश-
न्मतात् “श्रद्धायुक्तः शुचिर्दान्तो दानं दद्यात्
सदक्षिणम् । अदाक्षणन्तु यद्दानं तत् सर्वं निष्फलं
भवेत्” । मैत्रायणीयपरिशिष्टम् “दक्षिणालाभे मूलानां
भक्ष्याणां ददाति न त्वेवं यजेत्” । तथा शतपथ-
श्रुतिः “तस्मान्नादक्षिणं हविः स्यादिति” । भविष्योत्तरे
“काम्यं यद्दीयते किञ्चित्तत्समग्रं सुखावहम् ।
असमग्रन्तु दोषाय भवतीह परत्र च । तस्मान्न दक्षिणा
हीनं विधानविकलं न च । देयं दानं महाराज ।
तमग्रफलकाङ्क्षया । अन्यथा दीयमानं तदपकाराय
केवलम् । पत्यक्षतश्चार्थहानिर्न च तत् फलदं भवेत्” ।
आह भगवान् व्यासः “सुवर्णं परमं दानं सुवर्णं
दक्षिणा परा । सर्वेषामेव दानानां सुवर्णं दक्षिणे-
ष्यते ।” एतच्च, विशेषविहितगोवस्त्रादिदक्षिणकदान-
वर्जं सामान्यविहितदक्षिणेषु दानेषु व्यवतिष्ठते तत्रापि
परा श्रेष्ठतमेति प्राशस्त्यं दर्शयति न त्वन्यां दक्षिणां
निराचष्टे आनन्त्यांर्थत्वाद्दक्षिणायाः सुवर्णस्य प्रकृष्टत्वात्
सर्वदानेषु सुवर्णं दक्षिणेतिवचनार्थः, अन्यदपि
पुरुषस्याहारौपयिकं तण्डुलादिकं दक्षिणार्थेन योज्यं
यत्तु श्रूयते “अन्येषाञ्चैव दानानां सुवर्णं दक्षिणा
स्मृता । सुवर्णे दीयमाने तु रजतं दक्षिणेष्यते”
इति तदेतच्छ्रौतस्तैन्यं परिज्ञाय श्रद्धातव्यम् । “सुवर्णं
रजतं ताम्रं तण्डुला धान्यमेव च । नित्यश्राद्धं
देवपूजा सर्वमेव सदक्षिणम्” । स्कन्दपुराणे । “देय-
द्रव्यतृतीयांशं दक्षिणां परिकल्पयेत् । अनुक्तदक्षिणे
दाने दशांशं वापि शक्तितः” । तुलापुरुषादिदानानि
अधिकृत्य लिङ्गपुराणे “दक्षिणा च शतञ्चार्द्धं
तदर्द्धं वा प्रदापयेत् । ऋत्विजाञ्चैव सर्वेषां दश
निष्कान् प्रदापयेत्” । भविष्यीत्तरे “ज्ञेयं निष्कशतं
पार्थ । दानेषु विधिरुत्तमः । मध्यमस्तु तदर्द्धेन तदर्द्धे-
नाधमः स्मृतः । मेष्याञ्च कालपरुषे तथान्येषु महत्-
ष्वपि । एवं वृक्षे तथा द्वे च धेनोः कृष्णाजिनस्य च ।
अशक्तस्यापि कॢप्तोऽयं पञ्चसौवर्णिको विधिः ।
अतोऽप्यल्पेन यो दद्यान्महादानं नराधमः । प्रतिगृह्णाति वा
तस्य दुःखशोकावहं भवेत्” । जयाभिषेकमुदाहृत्य लिङ्ग-
पुराणे “अष्टषष्टिपलोन्मानं दद्याद्वै दक्षिणां गुरोः ।
होतॄणाञ्चैव सर्वेषां त्रिंशत्पलमुदाहृतम् । अध्येतॄणां
तदर्द्धेन द्वारपानां तदर्द्धतः” । एतेनान्यत्रापि, गुरो-
रर्द्धम्, ऋत्विजां तदर्द्धं, जापकानां तदर्द्धं द्वारपा-
लानां तदर्द्धमिति दक्षिणाविभागोऽवगन्तव्यः ।” अन्वा
अपि दक्षिणाः तत्र तत्रोक्ता वेदितव्याः । यज्ञभेदे दक्षि-
णाभेदः कात्या० श्रौ० सू० उक्तः कातीयशब्दे दर्शितप्रायः
विशेषतोदृश्यः । सर्वत्र दक्षिणाया अदाने कालविलत्बभेदे
च दोषा दक्षिणानामनिरुक्तिसहिता उक्ता यथा ।
“कार्त्तिक्यां पूर्णिमायान्तु रासे राधामहोत्सवे ।
आविर्भूता दक्षिणांसात् कृष्णस्य तेन दक्षिणा” । यज्ञो दक्षि-
णया सार्द्धं पुत्रेण च फलेन च । कर्मिणां फलदात्री
चेत्येवं वेदविदो विदुः । कृत्वा कर्म च तस्यैव तूर्णं दद्याच्च
दक्षिणाम् । तत् कर्मफलमाप्नोति वेदैरुक्तमिदं मुने! ।
पृष्ठ ३४१०
कर्त्ता कर्मणि पूर्णे च तत्क्षणं यदि दक्षिणाम् । न
दद्याद्व्राह्मणेभ्यश्च दैवेनाज्ञानतोऽथ वा । मुहूर्त्ते
समतीते तु द्विगुणा सा भवेद्ध्रुवम् । एकरात्रे व्यतीते
तु भवेत् शतगुणा च सा । त्रिरात्रे तद्दशगुणा सप्ताहे
द्विगुणा ततः । मासे लक्षगुणा प्रोक्ता ब्राह्मणानाञ्च
वर्द्धते । संवत्सरे व्यतीते तु सा त्रिकोटीगुणा
भवेत् । कर्म तद्यजमानानां सर्वञ्च निष्फलं भवेत् । स च
ब्रह्मस्वापहारी न कर्मार्होऽशुचिर्नरः । दरिद्रो
व्याधियुक्तश्च तेन पापेन पातकी । तद्गृहाद्याति
लक्ष्मीश्च शापं दत्त्वा सुदारुणम्! पितरी नैव गृह्णन्ति
तद्दत्तं श्राद्धतर्पणम् । एवं सुराश्च तत्पूजां तद्दत्ता-
मग्निराहुतिम् । दाता न दीयते दानं ग्रहीता च न
याचते । उभौ तौ नरकं यातश्छिन्नरज्जुर्यथा धटः ।
नार्पयेद्यजमानश्चेद्याचितृषु च दक्षिणाम् । भवेद्ब्रह्म
स्वापहारी कुम्भीपाकं व्रजेद्ध्रुवम् । वर्षलक्षं वसेत्तत्र
यमदूतेन ताड़ितः । ततो भवेत् स चाण्डालो व्याधि-
युक्तो दरिद्रकः । पातयेत् पुरुषान् सप्त पूर्वांश्च सप्त-
जन्मतः” ब्रह्मवैवर्त्ते प्रकृतिखण्डे । प्राणिरूप-
दक्षिणाद्रव्यग्रहणे मन्त्रभेदेनाभिमन्त्रणम् अप्राणिद्रव्य-
ग्रहणे तु अभिमर्शनमात्रम् यथाह आश्व० श्रौ० सू०
५ । १३ । १५ । “क इदं कस्मा अदात् कामायादात् कामो
दाता कामः प्रतिग्रहीता कामं समुद्रमाविश कामेन त्वा-
प्रतिगृह्णामि कामैतत्ते वृष्टिरसि द्यौस्त्वा ददातु पृथिवी
प्रतिगृह्णात्वित्यतीतास्वनुमन्त्रयेत् प्राणि” । सू०
“विहारदेशमतीत्य नीतेषुदक्षिणाद्रव्येषु तन्मध्ये यत् प्राणि-
द्रव्यं तदेतेनानुमन्त्रयते” नारा० । “अभिमृशेदप्राणि”
सू० “तन्मध्ये यदप्राणि तदभिमृशेत् नारा० । सा च
यज्ञपत्नी तथाह “दक्षिणा यज्ञपत्नी च दीक्षा
सर्वल पूजिता । यया विनापि विश्वस्य सर्वं कर्म
तु निष्फलम्” भाग० २९ । २ । २ । २८ । १० नायि-
काभेदे स्त्री यथा “या गौरवं भयं प्रेम सद्भावं
पूर्वनायके । न मुञ्चत्यन्यसक्तापि सा ज्ञेया दक्षिणा बुधैः”
इति विष्णुपु० टीकायां स्वामी” ११ विष्णौपु० । “अक्रूरः
पेशलो दक्षो दक्षिणः दक्षिणाम्बरः” विष्णुस० । अस्य
दिग्देशादिव्यवस्थायामेव सर्वनामता तेन दक्षिणे
गायकाः अन्यत्र दक्षिणाः (कुशलाः) इत्येव । “दिशः सपत्नी
भव दक्षिणस्याः” रघुः “दक्षिणीयमवगम्य पङ्क्तिशः
पङ्क्तिपावनमथ द्विजव्रजम् । दक्षिणः क्षितिपति-
र्व्यशिश्रयद्दक्षिणाः सदसि राजसूयकीः” माघः ।
अनृतादौ दक्षिणकर्णस्पर्शनं पराशरो विधत्ते । “क्षुते
निष्ठीवने चैव दन्तोच्छिष्टे तथाऽनृते । पतितानाञ्च
सम्भाषे दक्षिणं श्रवणं स्पृशेत् । ब्रह्मा विष्णुश्च रुद्रश्च
सोमः सूर्य्योऽनलस्तथा । ते सर्वे चापि तिष्ठन्ति कर्णे
विप्रस्य दक्षिणे” । १२ आचारभेदे दक्षिणाचारशब्दे
दृश्यम् । १३ दक्षिणाग्नौ पु० “दक्षिणपश्चिमे दक्षिणम्
आश्व० गृ० ४ । २ । ३ ।

दक्षिणकालिका स्त्री दक्षिणा कालिका । १ शिवहृदये न्यस्त-

दक्षिणपादायां कालिकायाम् ।

दक्षिणगोल पु० कर्म० । विषुवरेखातो दक्षिणस्थिते

तुलादिराशिषट्के यथाह सि० शि० “ससोम्यगोलो भदलं
यदाद्यं याम्योऽपरं सायनभागभानोः” दक्षिणायनशब्दे
रङ्गनाथ व्याख्या दृश्या ।

दक्षिणतस् अव्य० दक्षिणा--तसिल् सर्वनाम्नोवृत्तिमात्रे

पुंवद्भावः । १ दक्षिणस्यां दिशि । २ दक्षिणभागे च “पितृभ्यो
बलिशेषन्तु सर्वदक्षिणतो हरेत्” मनुः ।

दक्षिणतस्कपर्द्द त्रि० दक्षिणतः शिरसो दक्षिणभागे

कपर्दश्चूड़ा यस्य । दक्षिणभागचूड़ायुक्ते “श्वित्यञ्चो मा
दक्षिणतस्कपर्दाः” ऋ० ७ । ३३ । २ । चूड़ाकर्मणि दक्षिणतो
वशिष्ठानामिति स्मर्य्यते” भा० ।

दक्षिणतीर न० कर्म० तीरस्य तारभावः । नद्यादे र्दक्षिणस्थतीरे ।

दक्षिणत्रा स्त्री दक्षिण + वेदे नि० त्रा । दक्षिणभागादौ ।

“धिष्व वज्रं हस्त आ दक्षिणत्राभिः” ऋ० ६ २८ । ९ ।

दक्षिणदिक् स्त्री दक्षिणा दिक् । स्वापेक्षया मेरुतो

विप्रकृष्टदिशि । तदधिपः भौमः र्यथाह
“सूर्य्यः सोमः क्षमापुत्रः सैंहिकेयः शनिः शशी ।
सौम्यस्त्रिदशमन्त्री च प्राच्यादिदिगधीश्वराः” ज्यो० त० ।
तत्र बलिनौ ग्रहौ भास्करभूमिजौ यथाह
तत्रैव “प्राच्यां भौम्यसुराचार्य्यौ याम्यां भास्करभूमि-
जौ । प्रत्यक् सौरिरुदीच्यां तु सितेन्दू दिग्बलान्वितौ”
तद्दिक्पतिः शक्रः “इन्द्रो वह्निः पितृपतिर्नैरृतो वरुणो
मरुत् । कुवेर ईशः पतयः पूर्वादीनां दिशां क्रमात्”
इत्युक्तेः । तद्दिग्वलिनो राशयश्च अजवृषमृगसिंहाः ।
“ऐन्द्रे मानुषराशयस्तु पशवो याम्ये सवीर्य्याअलि-
र्वारुण्यां बलयुक् तथैव बलिनः पानीयजाश्चोत्तरे” ज्यो०
त० उक्तेः । तद्दिक्पतिराशवः वृषकन्यामकरराशयः
यथाह ज्यो० त० “प्रागादिककुभां नाथा यथासंख्यं
पृष्ठ ३४११
प्रदक्षिणम् । मेषाद्याराशयो ज्ञेयास्त्रिरावृत्त्या
परिभ्रमात्” । तद्दिङ्मुखनक्षत्राणि च मघादिसप्तकम् ।
“कृत्तिकाद्यास्तु पूर्वादौ सप्त सप्तोदिताः क्रमात्”
ज्यो० त० उक्तेः । दक्षिणदिग्भागस्था देशाश्च कूर्म्मवि-
भागशब्दे वृ० सं० १४ अ० उक्ताः “अथ दक्षिणेन लङ्का”
इत्युपक्रमे दर्शिताः ।

दक्षिणपश्चात् अव्य० दक्षिणस्याः परायाश्च दिशः अन्तराला

दिक् बहु० आति परस्य पश्चादेशः । प्रथमापञ्चमी
सप्तम्यर्थवृत्तौ दक्षिणपश्चिमाशब्दार्थे नैरृतकोणे ।

दक्षिणपश्चिमा स्त्री दक्षिणस्याः पश्चिमाया दिशोऽन्तराला-

दिक् । “दिग्नामान्यन्तराले” पा० बहु० पुंवत् । १
नैरृते कोणे । “जग्मुर्मरतशार्दूल! दिशं दक्षिण
पश्चिमाम्” भा० महाप्र० १ अ० । २ तद्देशवर्त्तिनि त्रि०
“दक्षिणपश्चिमे दक्षिणम्” आश्व० गृ० १ । २ । १३ ।

दक्षिणपूर्व्वा स्त्री दक्षिणस्वाः पूर्वस्या दिशोऽन्तराला दिक्

बहु० पुंवत् । १ अग्निकोणे २ तद्दिग्भागस्थे त्रि० “दक्षि-
णपूर्वे उद्धृतान्त आहवनीयं निदधाति” आश्व० गृ० ४ । २ । १

दक्षिणमानस न० गयास्थिते तीर्थभेदे “तस्य दक्षिणभागे

तु तीर्थं दक्षिणमानसम् । दक्षिणे मानसे चैव तीर्थत्रय-
मुदाहृतम्” वायुपु० गयामा० ।

दक्षिणमार्ग पु० १ तन्त्रोक्ते आचारभेदे २ पितृयाणे मार्गभेदे

“निर्विण्णोऽहं दक्षिणमार्गेण गतागतलक्षणेन”
ईशोपनिषद् भाष्यम् ।

दक्षिणसमुद्र पु० कर्म्म० । दक्षिणदिक्स्थे समुद्रे लवणाम्बुधौ ।

दक्षिणस्थ त्रि० दक्षिणे भागे तिष्ठति स्था--क ७ त० ।

१ दक्षिणभागस्थिते २ सारथौ पु० अमरः ।

दक्षिणा अ० दक्षिणा + प्रथमापञ्चमीसप्तम्यर्थे आच् । प्रथमा-

द्यर्थवृत्तिके दक्षिणाशब्दार्थे दक्षिणा वसति आगच्छति
रमणीयं वा “अयं दक्षिणा विश्वकर्मा” यजु० २३ । ५५

दक्षिणांसव्रणिन् पु० दक्षिणांसे दक्षस्कन्धे व्रणीऽस्त्यस्य

इनि । दक्षिणस्कन्धस्थव्रणयुक्ते “पितृस्वस्रभिंगमनात्
दक्षिणांसव्रणी भवेत् । तेनापि निष्कृतिः कार्य्या
अजादानेन शक्तितः” पराशरः ।

दक्षिणाग्नि पु० दक्षिणोऽग्निः । अन्वाहार्य्यपचनाख्ये यज्ञा-

ग्निमध्येऽग्निभेदे । “अन्वाहार्य्यं दक्षिणाग्नावधिश्रयति”
कात्या० श्रौ० २ । ५ । २७ “हीनं यज्ञस्यान्वाहरतीत्यन्वा-
हार्य्यः अध्यर्युरन्वाहार्यसंज्ञकं दक्षिणार्थं तण्डुल-
रूपमोदनं दक्षिणाग्नावधिश्रयति चतुर्णामृत्विजां
तृप्तिर्यावता सम्भाव्यते तत्परिमाणं ततोऽधिकं
वान्वाहार्यमोदनं कुर्य्यात्” कर्कः ।
“उत्सर्गेऽपराह्णे गार्हपत्यं प्रज्वाल्य दक्षिणाग्निमा-
नीय विट्कुलाद्वित्तवतो वैकयोनय इत्येके ध्रियमाणं
वा प्रज्वाल्यारणिमन्तं वा मथित्वा गार्हपत्यादाहव-
नीयं ज्वलन्तमुद्धरेत्” आश्व० श्रौ० २ । २ । १ “उत्सर्गे
अजस्रीत्सर्गे अग्निहोत्रहोमार्थं विहरेत् नाजस्रेषु ।
होमस्त्वजस्रेष्वपि भवतीत्युक्तम्, एवं स्थिते विहरण-
सहितमग्निहोत्रहोमप्रयोगं वक्तुकाम उत्सर्ग इत्युक्त-
वान् । अत्रापराह्णशब्देन अह्नश्चतुर्थमागो गृह्यते ।
विहरणकाले गार्हपत्यं प्रादुष्कृत्य प्रज्वाल्य च दक्षि-
णाग्निं वैश्यगृहादानयेत् । चतुर्णां वर्णानामन्यतमस्य
द्रव्यवतो वा गृहात्, गार्हपत्याद्वा । धार्य्यश्चेत् प्रज्वल-
येत् । काले काले यदि निर्मन्यः तदा मन्थेत् । एषां
प्रकाराणामुत्पत्तिवशाद्व्यवस्था । तेषामन्यतमप्रकारेण
दक्षिणाग्निं साधयित्वा ततो गार्हपत्यात् ज्वलन्तमग्नि-
माहवनीयार्थमुद्धरेत् पात्रान्तरेण पृथक् कुर्य्यादित्यर्थः”
नारा० । तस्य स्थापनञ्च नैरृतकोणे “दक्षिणपश्चिमे
दक्षिणम्” आश्व० गृ० ४ । १३ । उक्तेः ।

दक्षिणाग्र पु० दक्षिणस्यामग्रमस्य । दक्षिणदिग्भागस्थाग्रे

कुशादौ “अथ यान्यमून्युदीचीनाग्राणि तृणानि भवन्ति
दक्षिणाग्राणि तानि करोति पितृदैवत्यमेवैनत्तत्करोति”
शत० ब्रा० १२ । ५ । १ । १२ । “उदगग्रान् दक्षिणाग्रान्
करोतीति श्रुतेः” कात्या० श्रौ० ४ । १० । १५ ।

दक्षिणाचल पु० दक्षिणस्थितोऽचलः । मलयपर्वते हेमच०

दक्षिणपर्वतादयोऽप्यत्र ।

दक्षिणाचार पु० कर्म० १ तन्त्रोक्ते आचारभेदे । “स्वधर्मनि-

रतो भूत्वा पञ्चतत्त्वेन पूजयेत् । स एव दक्षिणाचारः
शिवो भूत्वा शिवां यजेत्” आचारभेदतन्त्रम् । इयांस्तु
तत्र भेदः मद्यस्थाने विजयारसः । “चतुर्मकाराः
सन्त्येव पञ्चमो विजयारसः” इत्युक्तेः । दक्षिणा दक्षि-
णस्यां चारो गतिरस्य । २ दक्षिणदिग्गतिशालिनि
त्रि० । “दक्षिणां दक्षिणाचारो दिशं येनाजयत् प्रभुः”
भा० वि० ५ अ० ।

दक्षिणाज्योतिस् पु० दक्षिणा दक्षिणस्यां ज्योतिरस्य ।

पञ्चौदने छागभेदे । “योऽजं पञ्चौदनं दक्षिणाज्यो-
तिषं ददाति” अथ० ९ । ५ । २२ । २३ । २४ । २५ । ६ । तद्वान-
फलमुक्तम् ।
पृष्ठ ३४१२

दक्षिणात् अव्य० दक्षिण + प्रथमापञ्चमीसप्तम्यर्थे आति ।

प्रथमाद्यर्थवृत्तौ दक्षिणशब्दार्थे दक्षिणात् रमणीयम्
आगच्छति वसति वा ।

दक्षिणान्तिका स्त्री “षड्विषमेऽष्टौ समे कलास्ताश्च समे

स्युर्नोनिरन्तराः । न समात्र पराश्रिता कला वैतालीयेऽन्ते
रलौ गुरुः” इत्युपक्रमे “तृतीययुग्दक्षिणान्तिका
समस्तपादेषु द्वितीयलः” वृ० र० उक्तलक्षणे वैतीलीयभेदे
मात्रावृत्तभेदे । “समस्तपादेषु द्वितीयलः यदि तृती-
ययुक् द्वितीयमात्रातृतीयमात्राभ्यामेको गुरुश्चेत् शेषं
वैतालीयवत् तदा दक्षिणान्तिका नाम च्छन्द इत्यर्थः ।

दक्षिणापथ पु० दक्षिणा (आजन्तः) पन्थाः अच् समा० ।

देशभेदे तद्देशवर्ण्णनं भा० व० ६१ अ० यथा
“एते गच्छन्ति बहवः पन्थानो दक्षिणापथम् ।
अवन्तीमृक्षवन्तञ्च समतिक्रम्य पर्वतम् । एष विन्ध्यो
महाशैलः पयोष्णी च समुद्रगा । आश्रमाश्च महर्षीणां
बहुमूलफलान्विताः । एष पन्था विदर्भाणाममी
गच्छन्ति कोशलाम् । अतः परञ्च देशोऽयं दक्षिणे दक्षि-
णापथः” । “दक्षिणापथजन्मानः सर्वे नरवरा-
न्ध्रकाः । गुहाः पुलिन्दाः शवराश्चुचुका मद्रकैः सह”
भा० शा० २०७ अ० । “युयुधे पाण्ड्यराजेन दिवसं
नकुलानुजः । तं जित्वा स महाबाहुः प्रययौ दक्षिणा-
पथम्” भा० स० ३० अ० । “तथापरे जनपदा दक्षिणा-
पथवासिनः । पाण्ड्याश्च केरलाश्चैव चोलाः कुल्यास्तथैव
च । सेतुका मुख्यकाश्चैव कुपथाचारवासिकाः । नवराष्ट्रा
माहिषकाः कलिङ्गाश्चैव सर्वशः । कालेराश्च सहैषी-
कैराटव्याः शवरास्तथा । पुलिन्दा विन्ध्यमूषिका वैदर्भा-
दण्डकैः सह । कुलीयाश्च सिरालाश्च रूपसास्तापसैः
सह । तथा तैत्तिरकाश्चैव सर्वे कारस्करास्तथा । नासि-
काद्याश्च ये चान्ये ये चैवान्तरनर्मदाः । भानुकच्छाः
समाहेयाः सह सारस्वतैस्तथा । कच्छीयाश्च सुराष्ट्राश्च
आनर्त्ताश्चार्बुदैः सह” मत्स्यपु० । २ दक्षिणास्थितमार्ग-
मात्रे पु० । “कृष्णाजिनानि धुन्वन्तः स्वयमेव दक्षिणापथं
यान्ति” आश्व० श्रौ० ५ । १३ । १२ । दक्षिणापथोऽस्त्यस्य
स्वामित्वेन आवासत्वेन सम्बद्धत्वेन वा ठन् । दक्षिणा-
पथिक तद्देशनृपे तत्र वासिनि तत्सम्बद्धे च । “एते
चान्ये च बहवो दक्षिणपथिकान् पथः” हरिवं० ११० अ० ।

दक्षिणापरा स्त्री दक्षिणाया अपराया दिशोऽन्तराला दिक्

१ नैरृतकोणे “दक्षिणपूर्वस्यां दिशि दक्षिणपरस्यां वा
आश्व० मृ० ४ । १ । ६ । २ तत्संस्थिते त्रि० “पुनर्दक्षिणापरे-
ऽध्वर्य्युः पूर्वोत्तरे यजमानः” कात्या० श्रौ० ८ । ५ । १९ ।
दक्षिणायां परः । ३ यज्ञपूर्त्त्यर्थद्रव्यदानरूपदक्षिणा
तत्परे त्रि० ।

दक्षिणाप्रवण त्रि० दक्षिणा (आजन्तः) दक्षिणस्यां प्रवणं

निम्नम् । उत्तरापेक्षया दक्षिणतो निम्ने श्राद्धादिदेशे
“दक्षिणाप्रवणम्” कात्या० श्रौ० २२ । ३ । ६ । “दक्षिणाप्रवणं
देवयजनं भवति” कर्कः “शुचिदेशं विविक्तं च गोमयेनो-
पलेपयेत् । दक्षिणाप्रवणं चैव प्रयत्नेनोपपादयेत्” मनुः ।
“दक्षणाप्लवनमप्यत्र परिश्रुते शुचौ देशे दक्षिणाप्लवने
तथा” याज्ञ० श्राद्धदेशोक्तौ ।

दक्षिणाप्रष्टि पु० धुर्य्यापेक्षया प्रकृष्टं देशमश्नोति प्र +

अशक्तिच् पृषो० दक्षिणा दक्षिणभागे प्रष्टिः वाह्यः । धुर्य्य-
मध्ये दक्षिणस्थे पुष्टाङ्गे प्र कृष्टदेशस्थे वा अश्व-
भेदे “दक्षिणाप्रष्टिं जवो यस्त इति” कात्या० श्रौ०
१४ । ३ । ८ । “रथे तृतीयमश्वं युनक्ति धुर्य्यापेक्षया प्रकृष्टं
देशमश्नोतीति प्रष्टिर्बाह्यो युग्यः” सं० व्या० । दक्षिणस्यां
स इव इति विग्रहे २ दक्षिणस्थे प्रष्टिसदृशेऽश्वे च ।
“अथ द--क्षिणा प्रष्टिं युनक्ति सव्यप्रष्टिं वा” शत० ब्रा०
५ । १ । ४ । ९ । “प्रष्टिर्नाम पादत्रयोपेतो भोजनपात्रादिका-
धारः” (तेषाइ) भा० ।

दक्षिणाबन्ध पु० दक्षिणायां बन्धः अनुबन्धः ।

गृहस्थादीनां दक्षिणानुबन्धभेदे यथा “दक्षिणाबन्धो नाम
गृहस्थब्रह्मचारिभिक्षुवैखानसानां काममोहोपहतचे-
तसामभिमानपूर्विकां दक्षिणां प्रयच्छतां दक्षिणाबन्ध इत्यु-
च्यते” तत्त्वसारः ।

दक्षिणाभिमुख त्रि० दक्षिणा दक्षिणस्यामभिमुखमस्य ।

दक्षिणदिङ्मुखे । “दक्षिणाभिमुखो रात्रौ सन्ध्ययोश्च
यथा दिवा” आह्नि० त० । दक्षिणामुखादयोऽप्यत्र ।
“आयुष्यं प्राङ्मुखो भुङ्क्ते यशस्यं दक्षिणामुखः” ।
“उदकेनैव विधिना निर्वपेत् दक्षिणामुखः” मनुः ।
“यद्वेष्टितशिराभुङ्क्ते यद्भुङ्क्ते दक्षिणामुखः” मनुना
श्राद्धीयविप्रस्थ तथा भोजनं निषिद्धम् । दक्षिणा दक्षिणस्यां
मुखम् । दक्षिणदिक्स्थे मुखे न० । “अमाश्राद्धं
गयाश्राद्धं दक्षिणामुखभोजनम् । न जीवत्पितृकः कुर्य्यात्
कृते च पितृहा भवेत्” ति० त० ।
पृष्ठ ३४१३

दक्षिणामूर्त्ति(क्) पु० दक्षिणा अनुकूला मूर्त्तिरस्य वा

कप् संज्ञात्वात् न पुंवत् । शिवमूर्त्तिभेदे तद्ध्यानादिकं
यथा “प्रोद्यच्छाखमहावटद्रुमतले योगासनस्थं प्रभुं प्रत्यक्-
तत्त्वबुभुत्सुभिः प्रतिदिशं प्रोद्वीक्ष्यमाणाननम् । मुद्रां
तर्कमयीं दधानममलं कर्पूरगौरं शिवं हृद्यन्तः कलये
स्कुरन्तमनिशं श्रीदक्षिणामूर्त्तिकम्” । “नित्यशो दक्षि-
णामूर्त्तिं ध्यायेत् साधकसत्तमः । शास्त्रव्याख्यानसामर्थ्यं
लभन्ते वत्सरान्तरे” तन्मन्त्रादिकं तन्त्रे दृश्यम् ।
ध्यानान्तरं ध्यानशब्दे दृश्यम् ।

दक्षिणायन न० दक्षिणा दक्षिणस्यां दक्षिणे गोले

वाऽयनं रवेः । रवेः स्वाधिष्ठितस्थानापेक्षया १ दक्षिण-
दिग्गमने २ दक्षिणगोलरूपतुलादिराशिषट्के गमने
तदुपलक्षिते ऋतुत्रयात्मके ३ कालभेदे च तत्राद्यार्थे
“ऋतुत्रयञ्चाप्ययनं द्वे अयने वर्षसंज्ञिते । कर्कटादिस्थिते
भानौ दक्षिणायनमुच्यते” मल० त० विष्णुपु० ।
द्वितीयार्थे “दैवे रात्र्यहनी वर्षं प्रविभागस्तयोः पुनः ।
अहस्तत्रोदगयनं रात्रिः स्याद्दक्षिणायनम्” मनुः ।
अयनशब्दे ३५३ पृ० उत्तरायणशब्दे ११०४ पृ०
खगोलशब्दे च दक्षिणायनशब्दार्थस्योक्तप्रायत्वेऽपि
दक्षिणायनव्यवस्थार्थमधिकमत्रोच्यते यद्यपि चन्द्रस्यापि
स्वाधिष्ठितस्थानापेक्षया दक्षिणस्यां दक्षिणगोले च गतिः
सम्भवति तथापि सूर्य्यस्यैव गतिभेदे तदुपलक्षितकाले च
दक्षिणायनशब्दव्यवहारः । “सौरेण द्युनिशीर्वामं
षड़शीतिमुखानि च । अयनं विषुवं चैव संक्रान्तेः
पुण्यकालता” सू० सि० अयनस्य सौरत्वोक्तेः “यान्
मासान् दक्षिणा आदित्य एति यान् मासानुत्तरादित्य
एति” वाजसनेयिनां पञ्चाग्निविद्यायां दक्षिणोत्तरमा-
र्गयोः पाठात् “तस्मादादित्यः षण्मासान् दक्षिणेनैति
षण्मासानुत्तरेणैतीति तैत्तिरीयश्रुतेश्चादित्यगतिमुपजी-
व्यैवायनशब्दप्रवृत्तेश्च । तेनादित्यगतिनिष्पन्नत्वात्तस्य
सौरत्वम् । उभयविधदक्षिणायनस्य किमवधिकस्य मनूक्तं
रात्रित्वं तदभिधीयते । तत्र “भेषादौ देवभागस्थो
देवानां याति दर्शनम् । असुराणां तुलादौ तु सूर्यस्तद्भा-
गसञ्चरः” सू० सि० ।
“जम्बुद्वीपलवणसमुद्रसन्धौ परिधिवृत्तं भूगोलमध्ये तत्सु-
गसूत्रेणाकाशे वृत्तं विषुवद्वृत्तं तत्र क्रान्तिवृत्तं षड्भा-
न्तरेण स्थानद्वये लग्नं तन्मेषतुलास्थानं प्रवहवायुना
विषुवद्वृत्तमार्गे भ्रमति मेषस्थानात् कर्कादिस्थानं विषुव-
द्वृत्ताच्चतुर्विंशत्यंशान्तर उत्तरतः । मकरादिस्थानं विषुव
द्वृत्ताश्चतुर्विंशत्यंशान्तरे दक्षिणतः । तत् स्वस्थाने प्रवह-
वायुना भ्रमति । एवं क्रान्तिवृत्तप्रदेशाः स्वस्वस्थाने प्रवह
वायुना भ्रमन्ति । तत्र मेषादौ देवभागस्थः “जम्बुद्वीपं च
तत्रापि देवासुरविभागकृदिति” पूर्वोक्तेः । तत्सम्बद्धा मेषा-
दिकन्यान्ता राशय उत्तरगोलः । तत्रस्थः सूर्यो मेषादौ
मेषादिप्रदेशे देवानां मेरोरुत्तराग्रवर्त्तिनां दर्शनं षण्मा-
सानन्तरं प्रथमदर्शनं याति गच्छति प्राप्नोतीत्यर्थः विषुव-
द्वृत्तस्य तत्क्षितिजत्वात् । एवं दैत्यानां मेरोर्दक्षिणाग्र-
वर्तिनामित्यसुराणामित्युक्तेनैवोक्तम् । तद्भागसञ्चरो
दैत्यभागे समुद्रादिदक्षिणविभागस्थास्तुलादिमीनान्ता
राशयो दक्षिणगोलस्तत्र सञ्चरो गमनं यस्येत्येतादृशसूर्य-
स्तुलादिप्रदेशे तुक्क्वाराददर्शनानन्तरं प्रथमदर्शनं प्राप्नो-
तीत्यर्थः तेषामपि विषुवद्वृत्तक्षितिजत्वात्” रङ्गना० ।
“देवासुरा विषुयति क्षितिजस्थं दिवाकरम् । पश्यन्त्य-
न्योन्यमेतेषां वामसव्ये दिनक्षपे” सू० सि० ।
“विषुवति काले देवदैत्याः सूर्य्यं क्षितिजस्थं पश्यन्ति
विषुवद्वृत्तस्य तयोः स्वस्थानाद्भूगोलमध्यस्थत्वेन क्षितिज-
त्वात् । एतेषां देवदैत्यानामन्योन्यं परस्परं ये वामसव्ये
अपसव्यसव्ये ते क्रमेण दिनक्षपे दिवसरात्री भवतः ।
अयं भावः देवानां भूमेरुत्तरभागः स्वकीयत्वात् सव्यमतो
दैत्यानामपसव्यं स्वकीयत्वाभावात् । एवं दैत्यानां भूमे-
र्दक्षिणभागः स्वकीयत्वात् सव्यं देवानां स्वकीयत्वाभावा-
दपसव्यमतो दैत्यानां वामसव्यगावुत्तरदक्षिणगोलौ देवानां
क्रमेण दिनरात्री । देवानां वामसव्यभागौ दक्षिणीत्तर-
गोलौ दैत्यानां दिनरात्री । अन्यथाऽन्योन्यं वामसव्ये
इत्यनयोः सङ्गतार्थानुपपत्तेः । अतएव पूर्वं मेषादा-
वित्याद्युक्तमिति” रङ्गना० । अथ पूर्वश्लोकोत्तरार्धस्य सन्दि-
ग्धत्वशङ्कया दिनपूर्वापरार्धकथनच्छलेन तदर्थं श्लोकाभ्यां
विशदयति ।
“मेषादावुदितः सूर्यस्त्रीन् राशीनुदगुत्तरम् । सञ्चरन्
प्रागहर्मध्यं पूरयेम्भेरुवासिनाम् । कर्कादीन् सञ्चरं-
स्तद्वदह्नः पश्चार्धमेव सः । तुलादींस्त्रीन्मृगादींश्च
तद्वदेव सुरद्विषाम्” सू० सि० ।
“मेषादौ विषुवद्वृत्तस्थक्रान्तिवृत्तभागे रेवत्यासन्न उदितो
दर्शनतां प्राप्तः सूर्य उत्तरं यथोत्तरं क्रमेणेति यावत्
त्रीन् राशीनुदगुत्तरभागस्थान् मेषवृषमिथुनान् सञ्चरन्न-
तिक्रामन् सत् मेरुस्थानां देवानां प्रागहर्मध्यं प्रथमं
दिनस्यार्धं पूरयेत् पूर्णं करोतित्यर्थः । मिथुनान्ते सूर्ये मेरु
स्थानां सध्याह्नं स्यादिति फलितार्थः । कर्फादीन् त्रीन्
पृष्ठ ३४१४
राशीन् कर्कसिंहकन्थास्तद्वत् क्रमेणेत्यर्थः । अतिक्रामन्
सन् स मूर्यो दिवसस्य पञ्चार्धमपरदलम् । एवकारोऽन्य-
योगव्यवच्छेदार्थः । पूरयेत् । कन्यान्ते सूर्ये मेरुस्थानो
सूर्यास्तो भवतीति फलितार्थः । अथ दैत्यानामाह ।
तुलादीनिति । सुरद्विषां मेरोर्दक्षिणाग्रवर्त्तिनां देत्याना
मित्यर्थः । तुलादींस्त्रीन् राशींस्तुलावृश्चिकधनुराख्यान्
मृगादींस्त्रीन् राशीन् मकरकुम्भमीनांस्तद्वत् क्रमेणाति-
क्रामन् सूर्यः । चकारस्तुलामृगादिक्रमेण पूर्वापरार्ध-
मित्यर्थकः । एवकार उक्तातिरिक्तव्यवच्छेदार्थः । दिनं
पूरयतीत्यर्थः । धनुरन्ते सूर्ये दैत्यानां मध्याह्न मीनान्ते
सूर्ये सूर्यास्ती भवतीति फलितार्थः” रङ्गना० ।
“अतो दिनक्षपे तेषामन्योन्यं हि विपर्ययात् । अहोरा-
त्रपमाणं च भानोर्मगणपूरणात् । दिनक्षपार्धमेतेषाम-
यनान्ते विपर्ययात् । उपर्यात्मानमन्योन्यं कल्पयन्ति
सुरासुराः” सू० सि० ।
“एतेषां देवदैत्यानामयनान्तेऽयनसन्धौ विपर्ययाद्व्यत्या-
साद्दिनक्षपार्धं दिनार्धं रात्र्यर्धं च भवति । यत्र देवानां
मध्याह्नं रात्र्यर्धं च तत्र दैत्यानां क्रमेण रात्र्यर्धमध्याह्ने
यत्र च दैत्यानां मध्याह्नरात्र्यर्धे तत्र देवानां क्रमेण
रात्र्यर्धमध्याह्ने इति फलितार्थः । अत्र हेतुमाह ।
उपरीति । देवदैत्या मेरोरुत्तरदक्षिणाग्रवर्तिनोऽन्योन्य-
मात्मानं स्वसुपरिभाग ऊर्द्धभागे कल्पयन्त्यङ्गीकुर्वन्ति ।
वस्तुतो भूमेर्गोलत्वेन सर्वत्र तुल्यत्वान्निरपेक्षोर्ध्वाधो-
भागयोरनुपपत्तेः । तथा च देवा दैत्यापेक्षयोर्ध्वस्थत्वं
मन्यमाना दैत्यानधःस्थानङ्गीकुर्वन्ति । दैत्याश्च देवस्थाना-
पेक्षयार्ध्वस्थं मन्यमाना देवानधः कुर्वन्तीति तात्पर्यार्थः ।
एवं च देवदैत्ययोर्विपरीतावस्थानाद्दिनरात्र्योर्वैपरीत्यं
युक्तमेवेति भावः” रङ्गना० ।
ततश्च उत्तरगोलरूपगेषादिराशिषट्कस्थरविककालस्य
देवानां दिनत्वेदक्षिणगोलरूपतुलादिराशिषट्कस्थरविक
कालस्य रात्रित्वे स्थितेऽपि मकरादिकानां देवानां
दिनरात्रिकालतोक्तिः श्रौतस्मार्त्तकर्म्मोपयोगिनी रवेः स्वा-
धिष्ठितस्थानापेक्षया दक्षिणोत्तरतो गत्या वा तथा व्यव-
ह्रियते इति बोध्यम् अतएव सि० शि० उक्तं यथा
“दिनं दिनेशस्य यतोऽत्र दर्शने तमी तमोहन्तुरदर्शने
सति । कुपृष्ठगानां द्युनिशं यथा नृणां तथा पितॄणां
शशिपृष्ठवासिनाम्” इदानीं संहितोक्तस्याभि-
प्रायमाह । “दिनं सुराणामयनं यदुत्तरं निशेतरत्
सांहितिकैः प्रकीर्तितम् । दिनोन्मुखेऽर्के दिनमेव
तन्मतं निशा तथा तत्फलकीर्त्तनाय तत् । द्वन्द्वान्तमा-
रोहति यैः क्रमेण तैरेव वृत्तैरवरीहतीनः । यत्रैव
दृष्टः प्रथमं स देवैस्तत्रैव तिष्ठन् न विलोक्यते किम्?” ।
“सांहितिकानां न चेदयमभिप्रायस्तर्हि मेषादेरूर्द्धं मिथु-
नान्तं यावद्यै र्वृत्तैरेवारोहणं कुर्वन्नपि देवैर्वृष्टस्तैरेव
पुनरवरोहणं कुर्वन् किं न दृश्यत इति” प्रमिता० ।
एतदभिप्रायेणैव श्रीपत्युक्तं यथा
“मृगादिराशिद्वयभानुभोगात् षट्चर्त्तवः स्युः शिशिरो
वसन्तः । ग्रीष्मश्च वर्षा च शरच्च तद्वद्धेमन्तनामा कथितोऽत्र
षष्ठः ॥ शिशिरपूर्वमृतुत्रयमुत्तरं ह्ययनमाहुरहश्च तदाम-
रम् । भवति दक्षिणमन्यदृतुत्रयं निगदिता रजनी मरुतां
च सा । गृहप्रवेशत्रिदशप्रतिष्ठाविवाहचौलव्रतबन्ध-
पूर्वम् । सोम्यायने सर्म शुभं विधेयं यद्गर्हितं तत् खलु
दक्षिणेच” ।
एतदभिप्रायेणैव च सत्यव्रतः--“देवतारामवाप्यादि-
प्रतिष्ठोदङ्मुखे रवौ । दक्षिणाभिमुखे कुर्वन् न तत्फल-
मवाप्नुयात्” सूर्य्यस्य दक्षिणोत्तराभिमुख्येनैव प्रतिष्ठाद्यै
विधिनिषेधावाह । अतएव सू० सि० “भानोर्मकरसं-
क्रान्तेः षण्मासा उत्तरायणम् । कर्कादेस्तु तथैव स्यात्
षण्मासादक्षिणायनम्” इत्युक्तम् । अतः स्वापेक्षया
दक्षिणोत्तरगमनादेव दक्षिणोत्तरायणव्यवहारो भाक्तो
दक्षिणोत्तरगोलयोर्गत्या तु मुख्य इत्यवधेयम् । तेन
भाक्ते दक्षिणायन एव प्रतिष्ठादिनिषेधः न मुख्ये” प्रागुक्त-
सत्यव्रतवाक्यैकवाक्यत्वात् । विवाहव्रतबन्धादिचूडासंस्का-
रदीक्षणम् । यज्ञगृहप्रवेशादिदानार्च्चनप्रतिष्ठनम् ।
पुण्यानि यानि कर्माणि वर्जयेद्दक्षिणायने” म० त० भविष्य-
पु० । तत्रावपादः कालमा० वेखानसंहितायां यथा
“मातृभैरववाराहनरसिंहत्रिविक्रमाः । महिषासुरहन्त्री
च स्थाप्या वै दक्षिणायने”
४ तदभिमानिदेवताभेदे च “धूसो रात्रिस्तथा कृष्णः
षण्मासादक्षिणायनम्” गीता । “आतिवाहिकास्तल्लि-
ङ्गात्” शा० भा० धूमादीनां तदभिमानिदेवतापरत्वसमर्थ-
नात् । ५ दक्षिणभागस्थे प्राणे च “दक्षिणस्थो यदा
प्राणस्तदा स्यात् दक्षिणायनम् । पञ्चभूतात्मकास्तत्र
ह्रस्वाः पञ्चोदयन्ति वै” पदार्थादर्श धृतप्रयोगसार-
वाक्यम् ।

दक्षिणारण्य न० दक्षिणस्थमरण्यम् । अरण्यभेदे ।

पृष्ठ ३४१५

दक्षिणारुस् पु० दक्षिणे भागे अरुर्व्रणमस्य । व्याधकृतदक्षि-

णाङ्गके मृगे अमरः ।

दक्षिणार्ह पु० दक्षिणामर्हति अर्ह--अण् उप्र० स० । दक्षिण्ये ऋत्विजि ।

दक्षिणावत् त्रि० दक्षिणा + अस्त्यर्थे मतुप् मस्य वः । दक्षि-

णायुक्ते अन्वाहार्य्यशब्दे २२० पृ० दृश्यम् ।

दक्षिणावर्त्त त्रि० दक्षिणे आवर्त्तते आ + वृत--अच् ।

१ दक्षिणे आवर्त्तयुक्ते । “मृत्कुम्भवालुकारन्ध्रपिधान-
रचनेच्छया । दक्षिणावर्त्तशङ्खोऽयं हन्त चूर्ण्णीकृतो मया”
सा० द० । दक्षिणा दक्षिणस्यां वर्त्तते वृत--अच् ।
२ दक्षिणदिक्स्थे त्रि० । “दक्षिणावर्त्त आदित्य एतन्मे
मनसि स्थितम्” भा० भी० १२० अ० ।

दक्षिणावर्त्तकी स्त्री दक्षिणावर्त्त इव कायति कै--क

गौरा० ङीष् । वृश्चिकाल्यां राजनि० ।

दक्षिणावह पु० दक्षिणा दक्षिणदिक्तो वहति वह--अच् । दक्षिणानिले ।

दक्षिणावृत् त्रि० दक्षिणा आवर्त्तते वृत--क्विप् । दक्षिणा-

वर्त्ते । “तस्मादिमं लोकं दक्षिणावृत् समुद्रः पर्य्येति”
शत० ब्रा० ७ । १ । ११२ ।

दक्षिणाशापति पु० ६ त० । १ यमराजे २ भौमे ग्रहे च ।

दक्षिणाहि अव्य० दक्षिण + आहि दूरे । दूरस्थे दक्षिणभागे

दक्षिणित् अव्य० दक्षिणात् + वेदे पृषो० । दक्षिणस्यामित्या-

द्यर्थे । “प्रदक्षिणिद्धरिवो मा वि वेनः” ऋ० ५ । ३६ । ४ ।

दक्षिणीय पु० दक्षिणामर्हति छ । दक्षिणार्हे ऋत्विजि ।

“क्रतवः संप्रवर्त्त्यन्तां दक्षिणीयैर्द्विजातिभिः । दक्षिणा-
श्चोपवर्त्तन्तां यथार्थं सत्रयाजिनाम्” हरिवं० ४९ अ० ।

दक्षिणेन अव्य० दक्षिण + एनप् । सप्तम्यर्थवृत्तौ १ दक्षिणस्यां

दिशि २ दक्षिणदेशे च । एनपा योगे पञ्चमीबाधिका
द्वितीया । “तत्रागार धनपतिगृहान् दक्षिणेनास्मदी-
यम्” मेध० । “जग्मतुर्दण्डकारण्यं दक्षिणेन परन्तपौ”
भा० व० २७८१ अ० ।

दक्षिणेर्म्मन् पु० दक्षिणे ईर्म्मं व्रणं यस्य नि० अनिच् ।

व्याधकृतव्रणयुक्तदक्षिणाङ्गके मृगे अमरः । “मृगयुमिव
मृगोऽथ दक्षिणेर्म्मा” भट्टिः ।

दक्षिण्य यि० दक्षिणामर्हति यत् । दक्षिणार्हे ऋत्विगादौ

“दक्षिण्यदिष्टं कृतमार्त्विजीनैः” भट्टिः ।

दक्षेश्वत् न० काशीस्थे दक्षप्रजापतिस्थापिते लिङ्गभेदे तत्कथा

“यत्त्वया स्थापितं लिङ्गमेतद्दक्षेश्वराभिधम् । अस्य
संसेवनात् पुंसामपराधसहस्रकम् । क्षमिव्येऽहं स सन्दे-
हस्तस्मात् पूज्यमिदं जनैः” काशीख० ८९ अ० ।

दगा(का)र्गल न० दकस्य जलद्वाररोधस्यार्गलमिव गमध्य-

पाठे पृषो० कमध्यपाठस्तु सम्यक् । ५४ अ० वराहसंहि-
तोक्ते निर्जलदेशे जलोपलब्धिसाधने उपायभेदे । यथा
“धर्म्यं यशस्यं च वदाम्यतोऽहं दगा(का)र्गलं येन
जलोपलब्धिः । पुंसां यथाङ्गेषु सिरास्तथैव क्षितावपि
प्रोन्नतनिम्नसंस्थाः । एकेन वर्णेन रसेन चाम्भश्च्युतं
नभस्तो वसुधाविशेषात् । नानारसत्वं बहुवर्णतां च
गतं परीक्ष्यं क्षितितुल्यमेव । पुरुहूतानलयमनिरृति
वरुणपवनेन्दुशङ्करा देवाः । विज्ञातव्याः क्रमशः
प्राच्यादीनां दिशां पतयः । दिक्पतिसञ्ज्ञाश्च सिरा
नवमी मध्ये महासिरानाम्नी । एताभ्योऽन्याः शतशो
विनिःसृता नामभिः प्रथिताः । पातालादूर्ध्वसिराः
शुभाश्चतुर्दिक्षु संस्थिता याश्च । कोणदिगुत्था न शुभाः
सिरानिमित्तान्यतो वक्ष्ये । यदि वेतसोऽम्बुरहिते
देशे हस्तैस्त्रिभिस्ततः पश्चात् । सार्धे पुरुषे तोयं वहति
सिरा पश्चिमा तत्र । चिह्नमपि चार्द्धपुरुषे मण्डूकः
पाण्डुरोऽथ भृत् पीता । पुटभेदकश्च तस्मिन् पाषाणो
भवति तोयमधः । जम्ब्वाश्चोदग्धस्तैस्त्रिभिः सिराधो
नरद्वये पूर्वा मृल्लोहगन्धिका पाण्डुराथ पुरुषेऽत्र
मण्डूकः । जम्बूवृक्षस्य प्राग् वल्मीकी यदि भवेत्
समीपस्थः । तस्माद्दक्षिणपार्श्वे सलिलं पुरुषद्वये स्वादु ।
अर्धपुरुषे च मत्स्यः पारावतसन्निभश्च पाषाणः ।
मृद्भवति चात्र नीला दीर्घं कालं बहु च तोयम् ।
पश्चादुदुम्बरस्य त्रिभिरेव करैर्नरद्वये सार्धे । पुरुषे
सितोऽहिरश्म्यञ्जनोपमोऽधः सिरा सुजला । उदगर्जु-
नस्य दृश्यो वल्मीको यदि ततोऽर्जुनाद्धस्तैः । त्निभि-
रम्बु भवति पुरुषैस्त्रिभिरर्धसमन्वितैः पश्चात् । श्वेता
गोधार्धनरे पुरुषे मृद्धूसरा ततः कृष्णा । पीता सिता
ससिकता ततो जलं निर्दिशेदमितम् । वल्मीकोप-
चितायां निर्गुण्ड्यां दक्षिणेन कथितकरैः । पुरुषद्वये
सपादे स्वादु जलं भवति चाशोष्यम् । रोहितमत्स्यो-
ऽर्धनरे मृत् कपिला पाण्डुरा ततः परतः । सिकता
सशर्कराथ क्रमेण परतो भवत्यम्भः । पूर्वेण यदि
वदर्या वल्मीको दृश्यते जलं पश्चात् । पुरुषैस्त्रिभि-
रादेश्यं श्वेता गृहगोधिकार्धनरे । सपलाशा बदरी
चेद् दिश्यपरस्यां ततो जलं भवति । पुरुषत्रये सपादे
पुरुषेऽत्र च ढुण्ढुभिश्चिह्नम् । बिल्वोदुष्वरयोगे विहाय
हस्तत्रयं तु याम्येन । पुरुषैस्त्रिभिरम्बु भवेत् कृष्णो
पृष्ठ ३४१६
ऽर्धनरे च मण्डूकः । काकोदुम्बरिकायां वल्मीको
दृश्यते सिरा तस्मिन् । पुरुषत्रये सपादे पश्चिमदिक्स्था
वहति सा च । आपाण्डुपीतिका मृद् गौरसवर्णश्च
भवति पाषाणः । पुरुषार्धे कुमुदनिभी दृष्टिपथं मूषिको
याति । जलपरिहीने देशे वृक्षः कम्पिल्लको यदा दृश्यः ।
प्राच्यां हस्तत्रितये वहति सिरा दक्षिणा प्रथमम् ।
मृन्नीलोत्पलवर्णा कापोती चैव दृश्यते तस्मिन् । हस्ते-
ऽजगन्धिमत्स्यो भवति पयोऽल्पं च सक्षारम् । शोणा-
कतरोरपरोत्तरे सिरा द्वौ करावतिक्रम्य । कुमुदा
नाम सिरा सा पुरुषत्रयवाहिनी भवति । आसन्नो
वल्मीको दक्षिणपार्श्वे विभीतकस्य यदि । अध्यर्धे
तस्य सिरा पुरुषे ज्ञेया दिशि प्राच्याम् । तस्यैव पश्चि-
मायां दिशि वल्मीको यदा भवेद्धस्ते । तत्रोदग्भवति
सिरा चतुर्भिरर्धाधिकैः पुरुषैः । श्वेतो विश्वम्भरकः
प्रथमे पुरुषे तु कुङ्कुमाभोऽश्मा । अपरस्यां दिशि च
सिरा नश्यति वर्षत्रयेऽतीते । सकुशासित ऐशान्यां
वल्मीको यत्र कोविदारस्य । मध्ये तयोर्नरैरर्धपञ्चमै-
स्तोयमक्षोभ्यम् । प्रथमे पुरुषे भुजगः कमलोदर-
सन्निभो मही रक्ता । कुरुविन्दः पाषाणश्चिह्नान्येतानि
वाच्यानि । यदि भवति सप्तपर्णो वल्मीकवृतस्तदुत्तरे
तोयम् । वाच्यं पुरुषैः पञ्चभिरत्रापि भवन्ति चिह्नानि ।
पुरुषार्धे मण्डूको हरितो हरितालसन्निभा भूश्च ।
पाषाणोऽभ्रनिकाशः सौम्या च सिरा शुभाम्बुवहा ।
सर्वेषां वृक्षाणामधःस्थितो दर्दुरो यदा दृश्यः । तस्मा-
द्धस्ते तोयं चतुर्भिरर्धाधिकैः पुरुषैः । पुरुषे तु भवति
नकुलो नीला मृत् पीतिका ततः श्वेता । दर्दुरसमान-
रूपः पाषाणो दृश्यते चात्र । यद्यहिनिलयो दृश्यो
दक्षिणतः संस्थितः करञ्जस्य । हस्तद्वये तु याम्ये
पुरुषत्रितये तु सिरा सार्धे । कच्छपकः पुरुषार्धे प्रथमं
चोद्भिद्यते सिरा पूर्वा । उदगम्या स्वादुजला हरितो-
ऽश्माधस्ततस्तोयम् । उत्तरतश्च मधूकादहिनिलयः
पश्चिमे तरोस्तोयम् । परिहृत्य पञ्च हस्तान् अर्धाष्टम-
पौरुषे प्रथमम् । अहिराजः पुरुषेऽस्मिन् धूम्रा धात्री
कुलत्थवर्णोऽश्मा । माहेन्द्री भवति सिरा वहति
सफेनं सदा तोयम् । वल्मीकः स्निग्धो दक्षिणेन
तिलकस्य सकुशदूर्वश्चेत् । पुरुषैः पञ्चभिरम्भो दिशि वारुण्यां
सिरा पूर्वा । सर्पावायः पश्चाद् यदा कदम्बस्य दक्षि-
णेन जसम् । परतो हस्तत्रितयात् षड्भिः पुरुषैस्तुरी-
योनैः । कौबेरी चात्र सिरा वहति जलं लोहगन्धि
चाक्षोभ्यम् । कनकनिभो मण्डूको नरमात्रे मृत्तिका
पीता । वल्मीकसंवृतो यदि तालो वा भवति नारि-
केलो वा । पश्चात् षड्भिर्हस्तैर्नरेश्चतुर्भिः सिरा याम्या ।
याम्येन कपित्थस्याहिसंश्रयश्चेदुदग्जलं वाच्यम् । सप्त
परित्यज्य करान् खात्वा पुरुषान् जलं पञ्च । कर्बुरको-
ऽहिः पुरुषे कृष्णा मृत् पुटभिदपि च पाषाणः । श्वेता
मृत् पश्चिमतः सिरा ततश्चोत्तरा भवति । अश्मन्तकस्य
वामे वदरी वा दृश्यतेऽहिनिलयो वा । षड्भिरुदक्
तस्य करैः सार्धे पुरुषत्रये तोयम् । कूर्मः प्रथमे पुरुषे
पाषाणो धूसरः ससिकता मृत् । आदौ सिरा च
याम्या पूर्वोत्तरतो द्वितीया च । वामेन हरिद्रतरो-
र्वल्मीकश्चेत्ततो जलं पूर्वे । हस्तत्रितये पुरुषैः सत्र्यंशैः
पञ्चभिर्भवति । नीलो भुजगः पुरुषे मृत् पीता मरकतो-
पमश्चाश्मा । कृष्णा भूः प्रथमं वारुणी सिरा दक्षिणे-
नान्या । जलपरिहीने देशे दृश्यन्तेऽनूपजानि
चिह्नानि । वीरणदूर्वा मृदवश्च यत्र तस्मिन् जलं पुरुषे ।
भार्गी त्रिवृता दन्ती सूकरपादी च लक्षणा चैव ।
नवमालिका च हस्तद्वयेऽम्बु याम्ये त्रिभिः पुरुषैः ।
स्निग्धाः प्रलम्बशाखा वामनविटपद्रुमाः समीपजलाः ।
सुषिरा जर्जरपत्रा रूक्षाश्च जलेन सन्त्यक्ताः ।
तिलकाम्रातकवरुणकभल्लातकबिल्वतिन्दुकाङ्कीलाः । पिण्डा-
रशिरीषाञ्जनपरूषकावञ्जुलातिबलाः । एते यदि सुस्नि-
ग्धा वल्मीकैः परिवृतास्ततस्तोयम् । हस्तैस्त्रिभिरुत्तर-
तश्चतुर्भिरर्धेन च नरस्य । अतृणे सतृणा यस्मिन् सतृणे
तृणवर्जिता मही यत्र । तस्मिन् सिरा प्रदिष्टा वक्तव्यं
वा धनं तस्मिन् । कण्टक्यकण्टकानां व्यत्यासेऽम्भ-
स्त्रिभिः करैः पश्चात् । खात्वा पुरुषत्रितयं त्रिभागयुक्तं
धनं वा स्यात् । नदति मही गम्भीरं यस्मिंश्चरणाहता
जलं तस्मिन् । सार्धैस्त्रिभिर्मनुष्यैः कौवेरी तत्र च
सिरा स्यात् । वृक्षस्यैका शाखा यदि विनता भवति
पाण्डुरा वा स्यात् । विज्ञातव्यं शाखातले जलं
त्रिपुरुषं खात्वा । फलकुसुमविकारो यस्य तस्य पूर्वे
सिरा त्रिभिर्हस्तैः । भवति पुरुषैश्चतुर्भिः बाषाणीऽधः
क्षितिः पीता । यदि कण्टकारिका तु कण्टकैर्विना दृश्यते
सितैः कुसुमैः । तस्यास्तलेऽम्बु वाच्यं त्रिभिर्नरैरर्ध-
पुरुषे च । खर्जूरी द्विशिरस्का यत्र भवेज्जलविवर्जिते
देशे । तस्याः पश्चिमभागे निर्देश्यं त्रिपुरुषे वारि ।
पृष्ठ ३४१७
यदि भवति कर्णिकारः सितकु सुमःस्यात्पलाशवृक्षो वा ।
सव्येन तत्र हस्तद्वयेऽम्बु पुरुषत्रये भवति । ऊष्मा
यस्यां धात्र्यां धूमो वा तत्र वारि नरयुग्मे । निर्दे-
ष्टव्या च सिरा महता तोयप्रवाहेण । यस्मिन् क्षेत्रो-
द्देशे जातं सस्यं विनाशमुपयाति । स्निग्धमतिपाण्डुरं
चा महासिरा नरयुगे तत्र । मरुदेशे भवति सिरा
यथा तथातः परं प्रवक्ष्यामि । ग्रीवा करभाणामिव
भूतलसंस्थाः सिरा भान्ति । पूर्वोत्तरेण पीलोर्यदि
वल्मीको जलं भवति पश्चात् । उत्तरगमना च सिरा
विज्ञेया पञ्चभिः पुरुषैः । चिह्नं दर्दुर आदौ मृत्
कपिलातः परं भवेद्धरिता । भवति च पुरुषेऽधोऽश्मा
तस्य तले वारि निर्देश्यम् । पीलोरेव प्राच्यां वल्मीको-
ऽतोऽर्धपञ्चमैर्हस्तैः । दिशि याम्यायां तोयं वक्तव्यं
सप्तभिः पुरुषैः । प्रथमे पुरुषे भुजगः सितासितो हस्त-
मात्रभूर्त्तिश्च । दक्षिणतो वहति सिरा सक्षारं भूरि
पानीयम् । उत्तरतश्च करींरादहिनिलये दक्षिणे जलं
स्वादु । दशभिः पुरुषैर्ज्ञेयं पुरुषे पीतोऽत्र मण्डूकः ।
रोहीतकस्य पश्चादहिवासश्चेत्त्रिभिः करैर्याम्ये । द्वादश
पुरुषान् खात्वा सक्षारा पश्चिमेन सिरा । इन्द्रतरो-
र्वल्मीकः प्राग्दृश्यः पश्चिमे सिरा हस्ते । खात्वा
चतुर्दश नरान् कपिला गोधा नरे प्रथमे । यदि वा
सुवर्णनाम्नस्तरोर्भवेद्वामतो भुजङ्गगृहम् । हस्तद्वये तु
याम्ये पञ्चदशनरावसानेऽम्बु । क्षारं पयोऽत्र नकुलो
ऽर्धमानवे ताम्रसन्निभश्चाश्मा । रक्ता च भवति वसुधा
वहति सिरा दक्षिणा तत्र । बदरीरोहितवृक्षौ
सम्पृक्तौ चेद्विनापि वल्मीकम् । हस्तत्रयेऽम्बु पश्चात्
षोड़शभिर्मानवैर्भवति । सुरसं जलमादौ दक्षिणा
सिरा वहति चोत्तरेणान्या । पिष्टनिभः पामाणो
मृच्छेता वृश्चिकोऽर्धनरे । सकरीरा चेद्वदरी त्रिभिः
करैः पश्चिमेन तत्राम्भः । अष्टादशभिः पुरुषैरैशानी
बहुजला च सिरा । पीलुसमेता वदरी हस्तत्रय-
सम्भिते दिशि प्राच्याम् । विंशत्था पुरुषाणामशोष्य-
मम्भोऽत्र सक्षारम् । ककुभकरीरावेकत्र संयुतौ यत्र
ककुभविल्वौ वा । हस्तद्वयेऽम्बु पश्चान्नरैर्भवेत्पञ्चविंशत्या ।
वल्मीकमूर्द्धनि यदा दूर्वा कुशाश्च पाण्डुराः सन्ति ।
कूपो मध्ये देयो जलमत्र नरैकविंशत्या । भूमिःकदम्बक-
युता वल्मीके यत्र दृश्यते दूर्वा । हस्तत्रयेण याम्ये
नरैर्जलं पञ्चविंशत्या । वल्मीकत्रयमध्ये रोहीतक-
पादपो यदा भवति । नानावृक्षैः सहितस्त्रिभिर्जलं
तत्र वक्तव्यम् । हस्तचतुष्के मध्यात् षोड़शभिश्चाङ्गुलै-
रुदग्वारि । चत्वारिंशत्पुरुषान् खात्वाश्मातः सिरा
भवति । ग्रन्थिप्रचुरा यस्मिञ्छमी भवेदुत्तरेण वल्मीकः ।
पश्चात्पञ्चकरान्ते शतार्धसङ्ख्यैर्नरैः सलिलम् । एकस्थाः
पञ्च यदा वल्मीका मध्यमो भवेच्छेतः । तस्मिन् सिरा
प्रदिष्टा नरषष्ट्या पञ्चवर्जितया । सपलाशा यत्र शमी
पश्चिमभागेऽम्बु मानवैः षष्ट्या । अर्धनरेऽहिः प्रथमं
सवालुका पीतमृत् परतः । वल्मीकेन परिवृतः श्वेतो
रोहीतको भवेद्यस्मिन् । पूर्वेण हस्तमात्रे सप्तत्या
मानवैरम्बु । श्वेता कण्टकबहुला यत्र शमी दक्षिणेन
तत्र पयः । नरपञ्चकसंयुतया सप्तत्याहिर्नरार्धे च ।
मरुदेशे यच्चिह्नं न जाङ्गले तैर्जलं विनिर्देश्यम् । जम्बू-
वेतसपूर्वे ये पुरुषास्ते मरौ द्विगुणाः । जम्बूस्त्रिवृता
मूर्वा शिशुमारी सारिवा शिवा श्यामा । वीरुधयो
वाराही ज्योतिष्मती च गरुडवेगा । सूकरिकामाष-
पर्णीव्याघ्रपदाश्चेति यद्यहेर्निलये । वल्मीकादुत्तरत-
स्त्रिभिः करैस्त्रिपुरुषे तोयम् । एतदनूपे वाच्यं जाङ्गल-
भूमौ तु पञ्चभिः पुरुषैः । एतैरेव निमित्तैर्मरुदेशे
सप्तभिः कथयेत् । एकनिभा यत्र मही तृणतरुवल्-
मीकगुल्मपरिहीना । तस्यां यत्र विकारो भवति
धरित्र्यां जलं तत्र । यत्र स्निग्धा निम्ना सवालुका
सानुनादिनी वा स्यात् । तत्रार्धपञ्चमैर्वारि मानवैः
पञ्चभिर्यदि वा । स्निग्धतरूणां याम्ये नरैश्चतुर्भिर्जलं
प्रभूतं च । तरुगहनेऽपि हि विकृतो यस्तस्मात्तद्वदेव
वदेत् । नमते यत्र धरित्री सार्धे पुरुषेऽम्बु जाङ्गला-
नूपे । कीटा वा यत्र विनालयेन बहवोऽम्बु तत्रापि ।
उष्णा शीता च मही शीतोष्णाम्भस्त्रिभिर्नरैः सार्धैः ।
इन्द्रधनुर्मत्स्यो वा वल्मीको वा चतुर्हस्तात् । वल्मी-
कानां पङ्क्त्यां यद्येकोऽभ्युच्छ्रितः सिरा तदधः ।
शुष्यति न रोहते वा सस्यं यस्यां च तत्राम्भः ।
न्यग्रोधपलाशोदुम्बरैः समेतैस्त्रिभिर्जलं तदधः ।
वटपिप्पलसमवाये तद्वद्वाच्यं सिरा चोदक् । आग्नेये
यदि कोणे ग्रामस्य पुरस्य वा भवति कूपः । नित्यं
स करोति भयं दाहं च समानुषं प्रायः । तैरृत-
कोणे बालक्षयं वनिताभयं च वायव्ये । दिक्त्रयमेत्त्यक्त्वा
शेषासु शुभावहाः कूपाः । सारस्वतेन मुनिना दगा(का)-
र्गलं यत्कृतं तदवलोक्य! आर्याभिः कृतमेतद् वृत्तैरपि
पृष्ठ ३४१८
मानवं वक्ष्ये । स्निग्धा यतः पादपगुल्मवल्ल्यो
निश्छिद्रपत्राश्च ततः सिरास्ति । पद्मक्षुरोशीरकुलाः
सगुण्ड्राः काशाः कुशा वा नलिका नलो वा । खर्जूर-
जम्ब्वर्जुनवेतसाः स्युः क्षीरान्विता वा द्रुमगुल्मबल्ल्यः ।
छत्रेभनागाः शतपत्रनीपाः स्युर्नक्तमालाश्च ससिन्धुवाराः ।
विभीतको वा मदयन्तिका वा यत्रास्ति तस्मिन् पुरुष-
त्रयेऽम्भः । स्वात्पर्वतस्योपरि पर्वतोऽन्यस्तत्रापि मूले
पुरुषत्रयेऽम्भः । या मौञ्चकैः काशकुशैश्च युक्ता नीला
च मृद् यत्र ससर्करा च । तस्यां प्रभूतं सुरसं च तोयं
कृष्णाथवा यत्र च रक्तमृद्वा । ससर्करा ताम्रमही
कषायं क्षारं धरित्री कपिला करोति । आपाण्डुरायां
लवणं प्रदिष्टं मिष्टं पयो नीलवसुन्धरायाम् । शाकाश्व-
कर्णार्जुणबिल्वसर्जाः श्रीपर्ण्यरिष्टाधवशिंशपाश्च । छिद्रैश्च
पर्णैर्द्रुमगुल्मवल्ल्यो रूक्षाश्च दूरेऽम्बु निवेदयन्ति ।
सूर्य्याग्निभस्मोष्ट्रखरानुवर्णा या निर्जला सा वसुधा
प्रदिष्टा । रक्ताङ्कुराः क्षीरयुताः करीरा रक्ता धरा
चेज्जलमश्मनोऽधः । वैदूर्यमुद्गाम्वुदमेचकाभा पाको-
न्मुखोदुम्बरसन्निभा वा । भृङ्गाञ्जनाभा कपिलाथ वा या
ज्ञेया शिला भूरिसमीपतोया । पारावतक्षौद्रघृतोपमा
वा क्षौमस्य वस्त्रस्य च तुल्यवर्णा । या सोमवल्ल्याश्चैः
समानरूपा साप्याशु तोयं कुरुतेऽक्षयं च । ताम्र
समेता पृषतैर्विचित्रैरापाण्डुभस्मोष्ट्रखरानुरूपा । भृङ्गो-
पमाङ्गुष्ठिकपुष्पिका वा सूर्याग्निवर्णा च शिला
वितोया । चन्द्रातपस्फटिकमौक्तिकहेमरूपा याश्चेन्द्रनील-
मणिहिङ्गुलुकाञ्जनामाः । सूर्य्योदयांशुहरितालनिभाश्च
याः स्युस्ताः शोभना मुनिवचोऽत्र च वृत्तमेतत् । एता
ह्यभेद्याश्च शिलाः शिवाश्च यक्षैश्च नागैश्च सदाभिजुष्टाः ।
येषां च राष्ट्रेषु भवन्ति राज्ञां तेषामवृष्टिर्न भवेत्कदा-
चित् । भेदं यदा नैति शिला तदानीं पालाशकाष्ठैः
सह तिन्दुकानाम् । प्रज्वालयित्वानलमग्निवर्णा सुधा-
म्बुसिक्ता प्रविदारमेति । तोयं शृतं मोक्षकभस्मना वा
यत्सप्तकृत्वः परिषेचनं तत् । कार्यं शरक्षारयुतं शिलायाः
प्रस्फोटनं वह्निवितापितायाः । तक्रकाञ्जिकसुराः
सकुलत्था योजितानि वदराणि च तस्मिन् । सप्तरात्रमुषि-
ताम्यभितप्तां दारयन्ति हि शिलां परिषेकैः । नैम्यं पत्रं
त्वक् च नालं तिलानां सापामार्गं तिन्दुकं स्याद्गुडूची ।
गोमूत्रेण स्रावितः क्षार एषां षट्कृत्वोऽतस्तापितो
भेद्यतेऽश्मा । आर्मं पयो हुडुविषाणमषीसमेतं पारा-
वताखुशकृता च युतं प्रलेपः । टङ्कस्य तैलमथितस्य
ततोस्य पानं पश्चाच्छितस्य न शिलासु भवेद्विघातः । क्षारे
कदल्या मथितेन युक्ते दिनोषिते पायितमायसं यत् ।
सम्यक् शितं चाश्मनि नैति भङ्गं न चान्यलोहेष्वपि
तस्य कौण्ठ्यम् । पाली प्रागपरायताम्बु सुचिरं धत्ते
न याम्यीत्तरा कल्लोलैरवदारमेति मरुता सा प्रायशः
प्रेरितैः । तां चेदिच्छति सारदारुभिरपां सम्पातमावार-
येत् पाषाणादिभिरेव वा प्रतिचयं क्षुण्णं द्विपाश्वादिभिः ।
ककुभवटाम्रप्लक्षकदम्बैः सनिचुलजम्बूवेतसनीपैः । कुरु-
वकतालाशोकमधूकैर्बकुलाविमिश्रैश्चावृततीराम् । द्वारं च
नैर्वाहिकमेकदेशे कार्य्यं शिलासञ्चितवारिमार्गम् ।
कोशस्थितं निर्विवरं कपाटं कृत्वा ततः पांशुभिराव-
पेत्तम् । अञ्जनमुस्तोशीरैः सराजकोशातकामलकचूर्णैः ।
कतकफलसमायुक्तैर्योगः कूपे प्रदातव्यः । कलुषं कटुकं
लवणं विरसं सलिलं यदि वाशुभगन्धि भवेत् । तदनेन
भवत्यमलं सुरसं ससुगन्धि गुणैरपरैश्च युतम् । हस्तो
मथानुराधापुष्यधनिष्ठोत्तराणिरोहिण्यः । शतभिषगित्या
रम्भे कूपानां शस्यते भगणः । कृत्वा वरुणस्य वलिं
वटवेतसकीलकं सिरास्थाने । कुसुमैर्गन्धैर्धूपैः संपूज्य
निधापयेत् प्रथमम् । मेघोद्भवं प्रथममेव मया प्रदिष्टं
ज्येष्ठामतीत्य बलदेबमतादि दृष्ट्वा । भौमं दगा(का)र्गल
मिदं कथितं द्वितीयं सम्यग्वराहमिहिरेण मुनिप्रसादात्” ।

दग्ध त्रि० दह--क्त । कृतदाहे १ भस्मीकृते “दृशा दग्धं

मनसिजं जीवयन्ति दृशैव याः” सा० द० । “सर्वं
स्याद् दग्धमामिषम्” कर्मलोचनम् । देहस्वाग्निदाह-
भेदाः सुश्रुते उक्ता यथा
“अत ऊर्द्ध्वमितरथा दग्धलक्षणं वक्ष्यामः । तत्र
स्निग्धं रूक्षं वा श्रित्य द्रव्यमग्निर्दहति । अग्निसन्तप्तो
हि स्नेहः सूक्ष्मसिरानुसारित्वात्त्वगादीननुप्रविश्याशु
दहति । तस्मात् स्नेहदग्धेऽधिका रुजो भवन्ति । तत्र
प्लुष्टं दुर्दग्धं सम्यग्दग्धमतिदग्धञ्चेति चतुर्विधमग्नि-
दग्धम् । तत्र यद्विवर्णं प्लुष्यतेऽतिमात्रं तत्प्लुष्टम् ।
यत्रोत्तिष्ठन्ति स्फोटास्तीव्राश्चोषदाहरागपाकवेदनाश्चिरा-
च्चोपशाम्यन्ति तद्दुर्दग्धम् । सम्यग्दग्धमनवगाढ़ं
तालफलवर्णं सुसंस्थितं पूर्वलक्षणयुक्तञ्च । अतिदग्धे मांसा-
वलम्बनं गात्रविश्लेषः सिरास्नायुसन्ध्यस्थिव्यापादनमति-
मात्रं ज्वरदाहपिपासामूर्च्छाश्चोपद्रवा भवन्ति व्रणश्चास्य
क्षिरेण रोहति रूढ़श्च विवर्णो भवति । तदेतच्चतुर्विध-
पृष्ठ ३४१९
मग्निदग्धलक्षणमात्मकर्मप्रसाधकं भवति । भवति चात्र ।
अग्निना कोपितं रक्तं भृशं जन्तोः प्रकुप्यति । ततस्ते-
नैव वेगेन पित्तमस्याभ्युदीर्य्यते । तुल्यवीर्य्ये उभे ह्येते
रसतो द्रव्यतस्तथा । तेनास्य वेदनास्तीव्राः प्रकृत्या च
विदह्यते । स्फोटाः शीघ्रं प्रजायन्ते ज्वरस्तृष्णा च
वर्द्धते” सुश्रु० ।
तिथिभेदेन युक्ते २ चन्द्राश्रितराशौ पु० । “मृगसिंहौ
तृतीयायां प्रथमायां तुलामृगौ । पञ्चम्यां बुधराशी द्वौ
सप्तम्यां चापचन्द्रभे । नवम्यां सिंहकीटाख्यावेकादश्यां
गुरोर्गृहे । वृषमीनौ त्रयोदश्यां दग्धसंज्ञास्त्वमी
गृहाः । दग्धसद्मनि यत् कर्म कृतं सर्वं विनश्यति”
ज्यो० त० । ३ वारभेदेन युक्ते नक्षत्रभेदे न० । “याम्यं
त्वाष्ट्रं वैश्यदेवं धनिष्ठार्य्यम्णं ज्येष्ठान्त्यं रवेर्दग्धभं
स्यात्” ज्यो० त० । ४ वारभेदयुक्ते तिथिभेदे स्त्री “एकादशी
चेन्दुवारे द्वादशी चार्कवासरे । षष्ठी वृहस्पतेर्वारे तृतीया
बुधवासरे । अष्टमी शुक्रवारे च नवमी शनिवासरे ।
पञ्चमी भौमवारे च दग्धयोगाः प्रकीर्त्तिताः” नारदः । “द्वा-
दश्येकादशी नागनौरीस्कन्दवसुष्वपि नवम्यां दग्धयोगा-
ख्या भानुवारादितः क्रमात्” वसिष्ठः । ५ सूर्य्यचन्द्राक्रान्त-
राशिभेदेन युक्ते तिथिभेदे स्त्री राजमार्त्तण्डे “द्वितीया
मीनधनुषोश्चतुर्थी वृषकुम्भयोः । मेषकर्कटयोः षष्ठी कन्या-
मिथुनकेऽष्टमी । दशमी वृश्चिके सिंहे द्वादशी मकरे
तुले । आद्या धनुःषु शफरीषु परा द्वितीया एकान्तरे
दिनकरे तिथयः प्रदग्धाः । कार्मुके च तथा कुम्भे
मेषे युग्ने हरौ घटे । एषु शुक्ला द्वितीयाद्याः दग्धाः
कृष्णा झषादिषु । राश्योश्चन्द्रस्य च रवेः स्थित्या वाच्यं
फलं बुधैः । याः प्रोक्तास्तिथयो दग्धाः मेषादिषु च
राशिषु । शुक्लास्ता विषमे राशौ समे कृष्णाः प्रकी-
र्त्तिताः । एभिर्जातो न जीवेत यदि शक्रसमो भवेत् ।
विवाहे विधवा नारी यात्रायां मरणं भवेत् । निष्फलं
कृषित्राणिज्यं विद्यारम्भे च मूर्खता । गृहप्रवेशे भङ्गः
स्वाच्चूड़ायां मरणं ध्रुवम् । ऋणदाने फलं नास्ति
व्रतदाने च निष्फले । शुभकर्माणि सर्वाणि नैव कुर्य्या-
द्विचक्षणः” । उत्तरराशिषु चन्द्रस्थित्या दग्धायौ व्यक्तत्वं
यथा “षष्ठी मेषकुलीरयोर्हिमकरे कन्यायुगे चाष्टमी सिंहे
वृश्चिकराशिगे च दशमी तौलौ मृगे द्वादशी । चापे
चाथ झषे द्विका यदि वृषे कुम्भे चतुर्थी यदा दग्धाख्या-
स्तिथयो वदन्ति मुनयस्त्याज्या सदा कर्मसु” ज्यो० त० ।
दग्धादिवस्त्राद्यस्यांशभेदे फलभेदः मु० चि० उक्तो यथा
“वस्त्राणां नवभागकेषु च चतुष्कोणेऽमरा राक्षसा
मध्यत्र्यंशगता नरास्तु सदशे पार्श्वे च मध्याशयोः ।
दग्धे वा स्फुटितेऽम्बरे नवतरे पङ्कादिलिप्ते
न सद्रक्षोऽंशे, नृसुरांशयोः शुभमसत् सर्वांशके प्रान्ततः”
तदुक्तं श्रीपतिना “कर्दमकज्जलगोमयलिप्ते वाससि दग्ध-
वति स्फुटिते वा । चिन्त्यमिदं नवधाभिहितेऽस्मिन्निष्ट-
मनिष्टफलञ्च सुधीभिः । निवसन्त्यमरा हि वस्त्रकोणे
मनुजाः पार्श्वदशान्तमध्ययोश्च । अपरेऽपि च रक्षसां
त्रयोऽंशे शयने चासनपादुकासु चैवम् । भोगप्राप्तिर्दे-
वतांशे, नरांशे पुत्राप्तिः, स्याद्राक्षसांशे च मृत्युः । प्रान्ते
सर्वांशेष्वनिष्टं तथा स्यात् प्लुष्टे वस्त्रे नूतने साध्व-
साधु” । ६ सूर्य्याधिष्ठितदिशि स्त्री । ७ दग्धरुहायां वृक्षे
च स्त्री ८ संतप्ते त्रि० ।

दग्धकाक पुंस्त्री० दग्ध इव काकः । द्रोणकाके हेमच० स्त्रियां जातित्वात् ङीष् ।

दग्धमन्त्र पु० नित्यकर्म्म० । “वह्निर्वायुसमायुक्तो यस्य मन्त्रस्य

मूर्द्धनि । सप्तधा दृश्यते तन्तु दग्धमन्त्रं प्रचक्षते” तन्त्र-
सारोक्ते मन्त्रभेदे ।

दग्धरथ पु० दग्धो रथोऽस्य । चित्ररथगन्धर्वे चित्ररथशब्दो २९४६ पृ० तद्रथदाहकथा दृश्या ।

दग्धरुह पु० दग्धोऽपि रोहति रुह--क । १ तिलकवृक्षे,

२ भस्मरोहायाञ्च स्त्री राजनि० ।

दग्धिका स्त्री कुत्सिता दग्धा कुत्सिते कन् । (पोड़ाभात)

१ दग्धान्ने भरतः । दग्ध + स्वार्थे क । अतैत्त्वम् ।
२ दग्धरुहावृक्षे राजनि० ।

दग्धेष्टका स्त्री कर्म्म० । झामके (झामा) हारा० ।

दघ त्यागे पालने च भ्वा० पर० सक० सेट् इदित् । दङ्घति

अदङ्घीत् । ददङ्घ ।

दघ घातने स्वा० पर० सक० सेट् दघ्नोति अदाघीत्--अद-

घीत् । ददाघ देघतुः । गतौ दिवा० निघण्टुः । दष्यति
इति भेदः । “पश्चा स दघ्या यो अघस्य” ऋ० १ । १२३ ।
५ । “दध्याः गच्छतु पुरुषव्यत्ययः” भा० । “पश्चाद्दष्य-
रथ्यो विभागे” ऋ० ७ । ५६ । २१ ।

दण्ड दण्डपातने दमने च अद० चुरा० उभ० सक० सेट् । दण्डयति

ते अददण्डत्--त । दण्डः दण्ड्यः दण्डनीयः दण्डितः ।
ग्रहणपूर्वकशासने द्विक० । “प्रजाः शतं दण्डयति
राजा । दुहा० गोणे कर्म्मणि लकारादयः । गर्गाः
शतं दण्ड्यन्ते । दण्डशब्दे उदा० “अदण्ड्यान् दण्डयन्
राजा दण्ड्यांश्चैवाप्यदण्डयन्” मनुः ।
पृष्ठ ३४२०

दण्ड पुंन० दण्ड--अच् कर्म्मणि पुंसि घ वा दमेर्डो वा ।

१ लगुड़े (लाटि) ख्याते पदार्थे २ विप्रदण्डोद्यमे “कृच्छ्र
मतिकृच्छ्रं निपातने । “परस्य दण्डं नोद्यच्छेत् क्रुद्धो
नैव निपातयेत्” मनुः । दण्डघारणगुणाः “स्खलतः
संप्रतिष्ठानं शत्रूणाञ्च निषेधनम् । अवष्टम्भनमायुष्यं
भयघ्नं दण्डधारणम्” वैद्यकम् ।
भिन्दिपालाङ्गदण्डलक्षणं हेमा० प० लक्षणसमुच्च-
योक्तं भिन्दिपालशब्दे वक्ष्यते तदनुसारेणान्योऽपि
दण्डो विधेयः । छत्राङ्गदण्डस्तु “समवृत्तदण्डयुक्तम्” वृ०
स० ७४ अ० उक्तः । चामराङ्गदण्डस्तु तत्रैव ७२ अ०
उक्तो यथा “अध्वर्द्धहस्तप्रमितोऽस्य दण्डो हस्तोऽथ
वा रत्निसमीऽथवान्यः । काष्ठाच्छुभात् काञ्चनरूप्यगुप्ताद्
रत्नैर्विचित्रैश्च हिताय राज्ञाम्” ।
ब्रह्मचारिधार्य्ये काष्ठमये लगुड़ाकारे २ पदार्थे, वर्णभेदेन
तत्प्रमाणादि मनुनोक्तं यथा “व्राह्मणो वेल्वपालाशौ-
क्षत्रियो वाटखादिरौ । पैलवौदुम्बरौ वैश्यो दण्डा-
नर्हन्ति धर्मतः । केशान्तिको ब्राह्मणस्य दण्डः कार्य्यः
प्रमाणतः । ललाटसम्मितो राज्ञः स्यात्तु नासान्तिको
विशः । ऋजवस्ते तु सर्वे स्युरव्रणाः सौम्यदर्शनाः ।
अनुद्वेगकरा नॄणां सत्वचो नाग्निदूषिताः । प्रतिगृह्ये-
प्सितं दण्डमुपस्थाय च भास्करम् । प्रदक्षिणं
परीत्याग्निं चरेद्भैक्षं यथाविधि” ।
संन्यासिनां दण्डधारणे विशेषादि नि० सि० उक्तो यथा
“हारीतः “कुटीचको बहूदको हंसश्चैव तृतीयकः ।
चतुर्थः परमो हंसो यो यः पश्चात् स उत्तमः” । आद्यः
पुत्रादिना कुटिं कारयित्वा तत्र गृहे वा वसन् काषाय
वासाः शिखोपवीतत्रिदण्डवान् बन्धुषु स्वगृहे वा
भुञ्जान आत्मज्ञो भवेत् एतदत्यन्ताशक्तपरम् द्वितीयस्तु
बन्धून् हित्वा सप्तागाराणि भैक्षं चरन् पूर्वोक्तवेषः
स्योत् । हंसस्तु पूर्वोक्तवेषोऽप्येकदण्डः “एकन्तु वैणवं दण्डं
घारयेन्नित्यमादरादिति” स्कान्दात् विष्णुरपि “यज्ञोप-
वीतं दण्डं च वस्त्रं जन्तुनिवारणम् । तावान्
परिग्रहः प्रोक्तो नान्यो हंसपरिग्रहः” । चतुर्थोऽपि
स्कान्दे “परहंसस्त्रिदण्डं च रज्जु” गोबालनिर्मि-
ताम् । शिखां यज्ञोपवीतं च नित्यं कर्म परित्यजेत् ।
अयमप्येकदण्डः एव । ये तु शिखोपवीतादित्याग-
निषेघास्ते कुटीचकादिपराः । यत्तु मेधातिथिंः
“यावन्न स्युस्त्रयो दण्डास्तावदेकेन वर्त्तयेदिति”
तदपि तत्परमेव । यच्चात्रिः “चतुर्धा भिक्षवः प्रोक्ताः सर्वे
चैव त्रिदण्डिनः” इति तद्वाग्दण्डादिपरं न यष्टिपरम्
“वाग्दण्डोऽथ मनोदण्डः कायदण्डस्तथैव च । यस्यैते
नियता दण्डाः स त्रिदण्डीति चोच्यते” मनूक्तेः । तस्मात्
परमहंसस्यैकदण्ड एव । सोऽप्यविदुषः विदुषस्तु सोऽपि
नास्ति “न दण्डं न शिखां नाच्छादनं न भैक्षं चरति
परमहंस” इति महोपनिषदुक्तेः “ज्ञानमेवास्य दण्ड” इति
वाक्यशेषाञ्च यत्तु यमः “काष्ठदण्डो धृतो येन सर्वाशी
ज्ञानवर्जितः । स याति नरकान् घोरान् महारौरवसं-
ज्ञकानिति” तद्वैराग्यं विना जीवनार्थकृतसन्न्यासपरम्
“एकदण्डं समाश्रित्य जीवन्ति बहवी नराः । नरके
रौरवे घोरे कर्मत्यानात् पतन्ति ते” इति स्मृतेः यच्चाश्व-
मेधिके “एकदण्डी त्रिदण्डी वा शिखामुण्डित एव वा ।
काषायमात्रसारोऽपि यतिः पूज्यो युधिष्ठिरेति” तस्यापि
पूर्वोक्तव्यवस्था ज्ञेया” ।
भावे अच् । ३ दमने “वाग्दण्डश्च मनोदण्डः कायदण्ड-
स्तथैव च” मनुः । “शरणागतसंत्राणं भूतानामप्यहिंस-
नम् । बहिर्वेदि च दानञ्च दण्डमित्यभिधीयते” भा०
मोक्षधर्म्मोक्ते ४ शरणागतत्राणादित्रिके । दण्ड इवाच
रति दण्ड + क्विप् ततो भावे घञ् । ५ दण्डतुल्यस्थितौ
(दाँड़ान) सारसुन्दरी दण्ड--यथायथं कर्मभावकरणादौ
अच् । ६ प्रकाण्डे ७ अश्वे ८ कोणे ९ मन्थने १० सैन्ये ११ भूमि-
मानभेदे (काठा) “हस्तैश्चतुर्भिर्भवतीह दण्डः” लीला० ।
गोचर्म्मशब्दे २६९५ पृ० दृश्यम् “दशहस्तेन दण्डेन”
इति पाठान्तरम् । १२ सूर्य्यपारिषदभेदे १३ यमे १४
अभिमाने च मेदि० । १५ दण्डाकारे ग्रहभेदे हेमच० ग्रहशृङ्गा-
टकशब्दे २७६९ पृ० दृश्यम् । १६ इक्ष्वाकुनृपपुत्रभेदे ।
तत्कथा जनस्थानशब्दे ३०२४ पृ० दृश्या । स्वार्थे क ।
तत्रार्थे । “धृष्णुकश्चाम्बरीषथ दण्डकश्चेति ते त्रयः ।
यश्चकार महात्मावै दण्डकारण्यमुत्तमम्” हरिवं० १० अ० ।
षष्टिपलात्मके दिनषष्टिभागरूपे घटिकापरपर्य्याये
१७ कालभेदे तज्ज्ञानोपायश्च घटीयन्त्रशब्दे उक्तप्रायः ।
श्रीपतिनाप्युक्तो यथा
“शुल्वस्य दिग्भिर्विहितं पलैर्यत् षड़ङ्गुलोच्चद्विगुणा-
यतास्यम् । तदम्भसा षष्टिपलैः प्रपूर्यं पात्रं घटार्द्ध-
प्रतिमं घटी स्यात् । सत्र्यंशमाषत्रयनिर्मिता या
हेम्नः शलाका चतुरङ्गुका स्यात् । विद्धं तयां प्राक्तनमत्र
पात्रं प्रपूर्य्यते नाड़िकयाम्बुना तत्” “षष्टिदण्डात्मिका-
पृष्ठ ३४२१
याश्च तिथेर्निष्क्रमणं परे” । “दण्डैकरजनीयोगः” ति० त० ।
१८ व्यूहभेदे तल्लक्षणभेदादि अग्निपु० २४१ अ० यथा
“मण्डलासंहतौ भागो दण्डास्ते बहुधा शृणु ।
तिर्य्यग्वृत्तिस्तु दण्डः स्यात् भोगोऽन्या वृत्तिरेव च ।
मण्डलः सर्वतो वृत्तिः पृथग्वृत्तिरसंहतः । प्रदरो दृढ़-
कोऽसह्यः चापो वैकुक्षिरेव च । प्रतिष्ठः सुप्रतिष्ठश्च
श्येनो विजयसञ्जयौ । विशालो विजयः सूची स्थूणा-
कर्णचमूमुखौ । सर्पास्यो बलयश्चैव दण्डभेदाश्च दुर्जयाः ।
अतिक्रान्तः प्रतिक्रान्तः कक्ष्याभ्याञ्चैकक्षपक्षतः ।
अतिक्रान्तस्तु पक्षाभ्यां त्रयोऽन्ये तद्विपर्य्यये । पक्षोरस्यैरति-
क्रान्तः प्रतिष्ठोऽन्यो विपर्य्ययः । स्थूणापक्षो धनुःपक्षो
द्विस्थूणो दण्ड ऊर्द्ध्वगः । द्विगुणोऽयन्त्वतिक्रान्तपक्षो-
ऽन्यस्य विपर्य्ययः । द्विचतुर्दण्ड इत्येते ज्ञेया लक्षणतः
क्रमात् । गोमूत्रिका हि सञ्चारी शकटो मकरस्तथा”
१९ राज्ञामुपायभेदे चतुर्थोपाये । ते चोपायाः सामदा-
नभेददण्डाः सर्व्त्र प्रसिद्धाः तु अग्निपु० २४० अ० ।
अन्येऽप्युपायाः सामादिप्रयोगविषयाश्चोक्ता यथा
“साम दानं च भेदश्च दपेण्डोक्षेन्द्रजालकम् ।
मायोपायाः सप्त परे निक्षिपेत् साधनाय तान् । चतुर्विधं
स्मृतं साम उपकारानुकीर्त्तनात् । मिथः सम्बन्धकथनं
मृदुपूर्वं च भाषणम् । आयाते दर्शनं वाचा तवाह-
मिति चार्पणम् । यः सम्प्राप्तधनोत्सर्ग उत्तमाधमम-
ध्यमः । प्रतिदानं तदा तस्य गृहीतस्यानुमोदनम् ।
द्रव्यदानमपूर्वं च स्वयंग्राहप्रवर्त्तनम् । देयश्च प्रति-
मोक्षश्च दानं पञ्चविधं स्मृतम् । स्नेहरागापनयनं
संहर्षोत्पादनं तथा । भिथो भेदश्च भेदज्ञैर्भेदश्च त्रिविधः
स्मृतः । वधोऽर्थहरणं चैव परिक्लेशस्त्रिधा दमः ।
प्रकाशश्चाप्रकाशश्च लोकद्विष्टान् प्रकाशतः” । “दण्डस्य
दर्शनाद्दुष्टान्, पुत्रभ्रात्रादि, सामतः । दानभेदैश्चमूमुख्यान्
योधान् जनपदादिकान् । सामन्ताटविकान् भेददण्डा-
भ्यामपराद्धकान् । देवताप्रतिमानान्तु पूजयान्तर्गतैर्नरैः ।
पुमान् स्त्रीवस्त्रसंवीतो निशि चाद्भुतदर्शनः । वेतालोल्-
कापिशाचानां शिवानां च स्वरूपिता । कामतो रूपधा-
रित्वं शस्त्राग्न्यश्माम्बुवर्षणम् । तमोऽनिलोऽनलो
मेघ इति माया ह्यमानुषी । जधान कीचकं भीम
आस्थितः स्त्रीस्वरूपताम् । अन्याये व्यसने युद्धे प्रवृत्तस्या-
निवारणम् । उपेक्षेयं स्मृता भ्रातोपेक्षितश्च हिड़ि-
ग्वया । मेघान्धकारवृष्ट्यग्निपर्वताद्भुतदर्शनम् । दरस्थानं
च सैन्यानां दर्शनं ध्वजशालिनाम् । छिन्नपाटितभि-
न्नानां संसृतानां च दर्शनम् । इतीन्द्रजालं द्विषतां
भीत्यर्थमुपकल्पयेत्” । २० विष्णौ पु० “धनुर्द्धरो धनुर्वेदो दण्डो
दमयिता दमः” विष्णुसं० । २१ शिवे “शत्रुन्दमाय दण्डाय
पर्णचीरपटाय च” भा० शा० २८६ अ० । २२ दण्डाकारे
ऋजौ सूर्य्यपरिवेषभेदे “परिधिस्तु प्रतिसूय्योर्दण्डस्त्वृजु-
रिन्द्रचापनिभः” वृ० स० १९ अ० । २३ दण्डवत्स्थिते
रविकरादेः संघाते “रविकिरणजलदमरुतां सङ्घातो
दण्डवत्स्थितो दण्डः । स विदिक्स्थितो नृपाणाम-
शुभो दिक्ष द्विजातीनाम् । शस्त्रभयातङ्ककरो दृष्टः
प्राङ्मध्यसन्धिषु दिनस्य । शुक्लाद्यो विप्रादीन् यदभि-
मुखस्तां निहन्ति दिशम्” ३० अ० ।
२४ राज्ञः प्रजाशासनभेदे तत्स्वरूपादि भा० शा० १२१ अ०
“शृणु कौरव्य! यो दण्डो व्यवहारो यथा च सः ।
यस्मिन् हि सर्वमायत्तं स दण्ड इह केवलः । धर्मसंस्था
महाराज! व्यवहार इतीर्य्यते । तस्य लोपः कथं न
स्याल्लोकेष्ववहितात्मनः । इत्येवं व्यवहारस्य व्यवहारत्व-
मिष्यते । अपि चैतत् पुरा राजन्! मनुना प्रोक्तमादितः ।
सुप्रणीतेन दण्डेन प्रियाप्रियसमात्मना । प्रजा रक्षति
यः सम्यक् धर्म्म एव स केवलः । यथोक्तमेतद्वचनं
प्रागेव मनुना पुरा । यन्मयोक्तं मनुष्येन्द्र! ब्रह्मणो
वचनं महत् । प्रागिदं वचनं प्रोक्तमतः प्राग्वचनं
विदुः । व्यवहारस्य चाख्यानाद्व्यवहार इहोच्यते ।
दण्डे त्रिवर्गः सततं सुप्रणीते प्रवर्त्तते । दैवं हि
परमो दण्डो रूपतोऽग्निरिवोत्थितः । नीलोत्पलदल-
श्यामश्चतुर्दंष्ट्रश्चतुर्भुजः । अष्टपान्नैकनयनः शङ्कुकर्णो-
र्द्ध्वरोमवान् । जटी द्विजिह्वस्ताम्रास्यो मृगराजतनु-
च्छदेः । एतद्रूपं बिभर्त्त्युग्रं दण्डो नित्यं दुराधरः ।
असिर्द्धनुर्गदा शक्तिस्त्रिशूलं मुद्गरः शरः । मुषलं परशु-
श्चक्रं पाशो दण्डर्ष्टितोमराः । सर्वप्रहरणीयानि सन्ति
यानीह कानिचित् । दण्ड एव स सर्वात्मा लोके
चरति मूर्त्तिमान् । भिन्दन् छिन्दन् रुजन् कृन्तन्
दारयन् पाटयंस्तथा । घातयन्नभिधावंश्च दण्ड एव
चरत्युत । असिर्विशसनो धर्मस्तीक्ष्णवर्म्मा दुराधरः ।
श्रीगर्भो विजयः शास्ता व्यवहारः सनातनः । शास्त्रं
ब्राह्मणमन्त्राश्च शास्ता प्राग्वदतां वर! । घर्मपालोऽक्षरो
देवः सत्यगो नित्यगोऽग्रजः । असङ्गो रुद्रतनयो
मनुर्ज्येष्ठः शिवङ्करः । नामान्येतानि दण्डस्य कीर्त्तितानि
पृष्ठ ३४२२
युधिष्ठिर! । दण्डो हि भगवान् विष्णुर्दण्डो नारा-
यणः प्रभुः । शश्वद्रूपं महद्बिभ्रन्महापुरुष उच्यते ।
तथोक्ता ब्रह्मकन्येति लक्ष्मीर्वृत्तिः सरस्वती । दण्ड-
नीतिर्जगद्धात्री दण्डो हि बहुविग्रहः । अर्थानर्थौ
सुखं दुःखं धर्म्माधर्म्मौ बलाबले । दौर्भाग्यं मागधेयञ्च
पुण्यापुण्ये गुणागुणौ । कामाकामावृतुर्म्मासः शर्वरी
दिवसः क्षणः । अप्रमादः प्रमादश्च हर्षक्रोधौ
शमोदमः । दैवं पुरुषकारश्च मोक्षामोक्षौ भयाभये । हिंसा-
हिंसे तपो यज्ञः संयमोऽथ विषाविषम् । अन्तश्चादिश्च
मध्यञ्च कृत्यानाञ्च प्रपञ्चनम् । मदः प्रमादो दर्पश्च दम्भो
धैर्य्यं नयानयौ । अशक्तिः शक्तिरित्येवं मानस्तम्भौ
व्ययाव्ययौ । विनयश्च विसर्गश्च कालाकालौ च भारत! ।
अनृतं ज्ञानिता सत्यं श्रद्धाश्रद्धे तथैव च । क्लीवता
व्यवसायश्च लाभालाभौ जयाजयौ । तीक्ष्णता मृदुता
मृत्युरागमानागमौ तथा । विरोधश्चाविरोधश्च कार्य्या-
कार्य्ये बलाबले । असूया चानसूया च धर्म्माधर्स्मौ
तथैव च । अपत्रपानपत्रपे ह्रीश्च सम्पद्विपत्पदम् ।
तेजः कर्म्माणि पाण्डित्यं वाक्छक्तिस्तत्त्वबुद्धिता । एवं
दण्डस्य कौरव्य! लोकेऽस्मिन् बहुरूपता । न स्याद्यदीह
दण्डो वै प्रमथेयुः परस्परम् । भयाद्दण्डस्य नान्योन्यं
घ्नन्ति चैव युधिष्ठिर! । दण्डेन रक्ष्यमाणा हि
राजन्नहरहः प्रजाः । राजानं वर्द्धयन्तीह तस्माद्दण्डः
परायणम् । व्यवस्थापयति क्षिप्रमिमं लोकं नरेश्वर! ।
सत्ये व्यवस्थितो धर्म्मो व्राह्मणेष्ववतिष्ठते । धर्म्मयुक्ता
द्विजश्रेष्ठा वेदयुक्ता भवन्ति च । बभूव यज्ञो वेदेभ्यो
यज्ञः प्रीणाति देवताः । प्रीताश्च देवता नित्यमिन्द्रे
परिवदन्त्यपि । अन्नं ददाति शक्रश्चाप्यनुगृह्णन्निमाः
प्रजाः । प्राणाश्च सर्वभूतानां नित्यमन्ने प्रतिष्ठिताः ।
तस्मात् प्रजाः प्रतिष्ठन्ते दण्डो जागर्त्ति तासु च ।
एवंप्रयोजनश्चैब दण्डः क्षत्त्रियतां गतः । रक्षन् प्रजाः
स जागर्त्ति नित्यं स्ववहितोऽक्षरः । ईश्वरः पुरुषः
प्राणः सत्त्वं चित्तं प्रजापतिः । भूतात्मा जीव इत्येवं
नामभिः प्रोच्यतेऽष्टभिः । अददद्दण्डमेवास्मै ध्रुवमैश्वर्य्य
मेव च । बलेन यश्च संयुक्तः सदा पञ्चविधात्मकः । कुलं
बहुधनामात्याः प्राज्ञाः प्रोक्ता बलानि तु आहार्य्य
मष्टकैर्द्रव्यैर्बलमन्यद्युधिष्ठिर! । हस्तिनोऽश्वा रथाः
पत्तिर्गावो विष्टिस्तथैव च । दैशिकाश्चाविकाश्चैव
तदष्टाङ्ग वल स्मृतम् । अथ वाऽङ्गस्य युक्तस्य रथिनो
हस्तियायिनः । अश्वारोहाः पदाताश्च मन्त्रिणो
रसदाश्च ये । भिक्षुकाः प्राड्विवाकाश्च मौहूर्त्ता दैवचिन्तकाः ।
कोषो मित्राणि धान्यञ्च सर्वोपकरणानि च । सप्त-
प्रकृति चाष्टाङ्गं शरीरमिह यद्विदुः । राज्यस्य दण्ड-
मेवाङ्गं दण्डः प्रभव एव च । ईश्वरेण प्रयत्नेन
कारणात् क्षत्त्रियस्य च । दण्डो दत्तः समानात्मा दण्डो
हीदं सनातनम् । राज्ञां पूज्यतमो नान्यो यथा धर्मः
प्रदर्शितः । ब्रह्मणा लोकरक्षार्थं स्वधर्म्मस्थापनाय च ।
भर्तृप्रत्यय उत्पन्नो व्यवहारस्तथाऽपरः । तस्माद्यः
सुहितो दृष्टो भर्तृप्रत्ययलक्षणः । व्यवहारस्तु वेदात्मा
वेदप्रत्यय उच्यते । मौलश्च नरशार्दूल! शास्त्रोक्तश्च
तथाऽपरः । उक्तो यश्चापि दण्डोऽसौ भर्तृप्रत्यय-
लक्षणः । ज्ञेयो नः स नरेन्द्रस्थो दण्डप्रत्ययलक्षणः ।
दण्डप्रत्ययदृष्टोऽपि व्यवहारात्मकः स्मृतः । व्यवहारः
स्मृतो यश्च स वेदविषयात्मकः । यश्च वेदप्रसूतात्मा स
धर्म्मो गुणदर्शनः । धर्म्मप्रत्यय उद्दिष्टो यथाधर्मं कृता-
त्मभिः । व्यवहारः प्रजागोप्ता ब्रह्मदिष्टो युधिष्ठिर! !
त्रीन् धारयति लोकान् वै सत्यात्मा भूतिवर्द्धनः ।
यश्च दण्डः स दृष्टो नो व्यवहारः सनातनः । व्यव-
हारश्च दृष्टो यः स वेद इति निश्चितम् । यश्च वेदः
स वै धर्म्मो यश्च धर्म्मः स सत्पथः । ब्रह्मा पितामहः
पूर्बं बभूवाथ प्रजापतिः । लोकानां स हि सर्वेषां
ससुरासुररक्षसाम् । समनुष्योरगवतां कर्त्ता चैव स
भूतकृत् । ततोऽन्यव्यवहारोऽयं भर्तृप्रत्ययलक्षणः ।
तस्मादिदमथोवाच व्यवहारनिदर्शनम् । माता पिता
च भ्राता च भार्य्या चेव पुरोहितः । नादण्ड्यो
विद्यते राज्ञो यः स धर्मेण तिष्ठति ।” तत्रैव १५ अ० ।
“दण्डः शास्ति प्रजाः सर्वा दण्ड एवाभिरक्षति ।
दण्डः सुप्तेषु जागर्त्ति दण्डं धर्मं विदुर्ब्बुधाः । धर्मं
संरक्षते दण्डस्तथैवार्थं जनाधिप! । कामं संरक्षते
दण्डस्त्रिवर्गो दण्ड उच्यते । दण्डेन रक्ष्यते धान्यं
धनं दण्डेन रक्ष्यते । एवंविद्वन्नुपादत्स्व भावं पश्यस्व
लौकिकम् । राजदण्डभयादेके पापाः पापं न कुर्वते ।
यमदण्डभयादेके परलोकभयादपि । परस्परभयादेके
पापाः पापं न कुर्वते । एवं सांसिद्धिके लोके सर्वं
दण्डे प्रतिष्ठितम् । दण्डस्यैव भयादेके न खादन्ति
परस्परम् । अन्धे तमसि मज्जेयुर्यदिं दण्डो न
पालयेत् । यस्माददान्तान्दमयत्यशिष्टान्दण्डयत्यपि । दम-
पृष्ठ ३४२३
नाद्दण्डनाच्चैव तस्माद्दण्डं विदुर्बुधाः । वाचा
दण्डो ब्राह्मणानां क्षत्त्रियाणां भुजार्पणम् ।
दानदण्डाः स्मृता वैश्या निर्दण्डः शूद्र उच्यते । असंमो-
हाय मर्त्त्यानामर्थसंरक्षणाय च । मर्य्यादा स्थापिता
लोके दण्डसंज्ञा विशाम्पते! । यत्र श्यामो लोहिताक्षो
दण्डश्चरति सूद्यतः । प्रजास्तत्र न मुह्यन्ते नेता चेत्-
साधु पश्यति । ब्रह्मचारी गृहस्थश्च वानप्रस्थश्च
भिक्षुकः । दण्डस्यैव भयादेते मनुष्या वर्त्मनि स्थिताः ।
नाभीतो यजते राजन्! नाभीतो दातुमिच्छति ।
नीभतः पुरुषः कश्चित्समये स्थातुमिच्छति । नाच्छित्त्वा
परमर्म्माणि नाकृत्वा कर्म दुष्करम् । नाहत्वा मत्स्य-
घातीव प्राप्नोति महतीं श्रियम् । नाघ्नतः कीर्त्ति-
रस्तीह न वृत्तं न पुनः प्रजाः । इन्द्रो वृत्रबधेनैव
महेन्द्रः समपद्यत । य एव देवा हन्तारस्तान् लोको-
ऽर्चयते भृशम् । हन्ता रुद्रस्तथा स्कन्दः शक्नोऽग्नि-
र्वरुणो यमः । हन्ता कालस्तथा मृत्युर्वायुर्वैश्रवणो
रविः । वसवो मरुतः साध्या विश्वे देवाश्च भारत! ।
एतान्देवान्नमस्यन्ति प्रतापप्रणता जनाः । न ब्रह्माणं
न धातारं न पूषाणं कथञ्चन । मध्यस्थान सर्वभूतेषु
दान्तान् शमपरायणान् । यजन्ते मानवाः केचित्-
प्रशस्ताः सर्वकर्भसु । न हि पश्यामि जीवन्तं लोके
कञ्चिदहिंसया । सत्त्वैः सत्त्वा हि जीवन्ति दुर्बलैर्बल-
वत्तराः । नकुलो मूषिकानत्ति विड़ालो नकुलं तथा ।
विड़ालमत्ति श्वा राजन् श्वानं व्यालमृगस्तथा । तानत्ति
पुरुषः सर्वान् पश्य कालो यथागतः । प्राणस्यान्नमिदं
सर्वं जङ्गमं स्थावरञ्च यत् । विधानं दैवविहितं तत्र
विद्वान्न मुह्यति । यथा सृष्टोऽसि राजेन्द्र! तथा भवितु-
मर्हसि । विनीतक्रोधहर्षा हि मन्दा वनमुपाश्रिताः ।
विना बधं न कुर्वन्ति तापसाः प्राणयापनम् । उदके
बहवः प्राणाः पृथिव्यां च फलेषु च । न च कश्चिन्न
तान् हन्ति किमन्यत्प्राणयापनात् । सूक्ष्मयोनीनि भूतानि
तर्कागम्याणि कानिचित् । पक्ष्मणोऽपि निपातेन येषां
स्यात् स्कन्धपर्य्ययः । ग्रामान्निष्क्रम्य मुनयो विगत-
क्रोधमत्सराः । वने कुटुम्बधर्माणी दृश्यन्ते परिमो-
हिताः । भूमिं भित्त्वौषधीश्छित्त्वा वृक्षादीनण्डजान्
पशून् । मनुष्यास्तन्वते यज्ञांस्ते स्वर्गं प्राप्नुवन्ति च ।
दण्डनीत्यां प्रणीतायां सर्वे सिध्यन्त्युपक्रमाः । कौन्तेय!
सर्वभूतानां तत्र मे नास्ति संशयः । दण्डश्चेन्न भवेल्लोके
विनश्येयुरिमाः प्रजाः । शूले मत्स्यानिवापक्ष्यन् दुर्बलान्
वलवत्तराः । सत्यं चेदं ब्रह्मणा पूर्बमुक्त दण्डः प्रजा
रक्षति साधुनीतः । पश्याग्नयश्च प्रतिशाम्य भीताः
सन्तर्ज्जिता दण्डभयाज्ज्वलन्ति । अन्धन्वम इवेदं
स्यान्न प्राज्ञायेत किञ्चन । दण्डश्चेन्न भवेल्लोके विभजन्
साध्वसाधुनी । येऽपि सम्भिन्नमर्य्यादा नास्तिका
वेदनिन्दकाः । तेऽपि भोगाय कल्पन्ते दण्डेनाशु निपी-
ड़िताः । सर्वो दण्डजितो लोके दुर्लभो हि शुचिर्जनः ।
दण्डस्य हि भयाद्भीतो भोगायैव प्रवर्त्तते । चातुर्वर्ण्य-
प्रभेदाय सुनीतिनयनाय च । दण्डो विधात्रा विहितो
धर्मार्थावभिरक्षितुम् । यदि दण्डान्न बिभ्येयुर्वयांसि
श्वापदानि च । अद्युः पशून्मनुष्यांश्च यज्ञार्थानि
हवींषि च । न व्रह्म चाप्यधीयीत कल्याणीं न दुहेत
गाम् । न कन्योद्वहनं गच्छेद्यदि दण्डो न पालयेत् ।
विश्वग्लोपः प्रवर्त्तोत भिद्येरन् सर्वसेतवः । ममत्वं न
प्रजानीयुर्यदि दण्डो न पालयेत् । न संवत्सरसत्राणि
तिष्ठेयुरकुतोभयाः । विधिवद्दक्षिणावन्ति यदि दण्डो
न पालयेत् । चरेयुर्नाश्रमे धर्मं यथोक्तं विधिमा-
श्रिताः । न विद्यां प्राप्नुयात् काञ्चित् यदि दण्डो न
पालयेत् । न चोष्ट्रा न बलीवर्द्दा नाश्वाश्वतरगर्दभाः!
युक्ता वहेयुर्यानानि यदि दण्डं न पालयेत् । न प्रेष्या
वचनं कुर्य्युर्न्न बाला जातु कर्हिचित् । तिष्ठेत्पितृ-
मती धर्म्मे यदि दण्डो न पालयेत् । दण्डे स्थिताः
प्रजाः सर्वा दण्डे सर्वं विदुर्बुधाः । दण्डे स्वर्गो
मनुष्याणां लोकोऽयञ्च प्रतिष्ठितः । न तत्र कूटं पापं
वा वञ्चना वाऽपि दृश्यते । यत्र दण्डः सुविहितश्चर-
त्यरिविनाशनः । हविः श्वाऽपि लिहेद्दृष्ट्वा दण्डश्चे-
न्नोद्यतो भवेत् । हरेत्काकः पुरोडाशं यदि दण्डो न
पालयेत् ।”
मनुनाप्युक्तं यथा “दण्डः शास्ति प्रजाः सर्वा दण्ड एवाभि-
रक्षति । दण्डः सुप्तेषु जागर्त्ति दण्डं धर्मं विदुर्बुधाः ।
समीक्ष्य स धृतः सम्यक् सर्वा रञ्जयति प्रजाः । असमीक्ष्य
प्रणीतस्तु विनाशयति सर्वतः । यदि न प्रणयेद्राजा दण्डं
दण्ड्येष्वतन्द्रितः । शूले मत्स्यानिवापक्ष्यन् दुर्बलान्
बलवत्तराः । अद्यात् क्राकः पुरोडाशं श्वाऽयलिह्या-
द्धविस्तथा । साम्यञ्च नंस्यात् कस्मिंश्चित् प्रवर्त्तेताध-
रोत्तरम् । णर्वो दण्डजितो लोको दुर्लभो हि शुचि-
र्न्नरः । दण्डस्य हि भयात् सर्वं जगद्भोगाय कल्पते ।
पृष्ठ ३४२४
देवदानवगन्धर्वा रक्षांसि पतगोरगाः । तेऽपि भोगाय
कल्पन्ते दण्डेनैव निपीड़िताः । दुष्येयुः सर्ववर्णाश्च
विद्येरन् सर्वसेतवः । सर्वलोकप्रकोपश्च भवेद्दण्डस्य
विभ्रमात् । यत्र श्यामो लोहिताक्षो दण्डश्चरति
पापहा । प्रजास्तत्र न मुह्यन्ति नेता चेत् साधु
पश्यति । तस्याहुः सम्प्रणेतारं राजानं सत्यवादिनम् ।
समीक्ष्यकारिणं प्राज्ञं धर्मकामार्थकोविदम् । तं राजा
प्रणयन् सम्यक् त्रिवर्गेणाभिवर्द्धते । कामात्मा विषमः
क्षुद्रो दण्डेनैव निहन्यते । दण्डो हि सुमहातेजा
दुर्द्धरश्चाकृतात्मभिः । धर्माद्विचलितं हन्ति नृपमेव
सवान्धवम् ।” तस्य स्थानानि च मनूक्तानि
“दश स्थानानि दण्डस्य मनुः स्वायम्भुवोऽब्र-
वीत् । त्रिषु वर्णेषु यानि स्युरक्षतो ब्राह्मणो
व्रजेत् । उपस्थमुदरं जिह्वा हस्तौ पादौ च पञ्चमम् ।
चक्षुर्नासा च कर्णौ च धनं देहस्तथैव च । अनुबन्धं
परिज्ञाय देशकालौ च तत्त्वतः । सारापराधौ चालोक्य
दण्डं दण्ड्येषु पातयेत् । अधर्मदण्डनं लोके यशोघ्नं
कीर्त्तिनाशनम् । अस्वर्ग्यञ्च परत्रापि तस्मात्तत्
परिवर्जयेत् । अदण्ड्यान् दण्डयन्राजा दण्ड्यांश्चैवाप्यदण्ड-
यन् । अयशो महदाप्नोति नरकञ्चैव गच्छति । वाग्-
दण्डं प्रथमं कुर्य्यात् धिग्दण्डं तदनन्तरम् । तृतीयं
धनदण्डन्तु बधदण्डमतः परम् । वधेनापि यदा त्वे
तान्निग्रहीतुं न शक्नुयात् । तदैषु सर्वमप्येतत् प्रयु-
ञ्जीत चतुष्टयम् ।”
तस्योत्तमाधममध्यमभेदेन परिमाणभेदा मनूक्ता यथा
“पणानां द्वे शते सार्द्धे प्रथमः साहसः स्मृतः ।
मध्यमः पञ्च विज्ञेयः सहह्रन्त्वेव चोत्तमः” ।
विवादभेदे तद्भेदाः स्मृत्युक्ताः क्रमशो दर्श्यन्ते ।
  • तत्र ऋणादाने प्रतिवादिनो निह्नवे निह्नुतद्रव्यतुल्यम् ।
वादिना मिथ्याभियोगे अभियोगविषयधनात् द्विगुणं धनं
वादिनो दमः । “निह्नवे भावितो दद्यात् धनं राज्ञे च तत्
समम् । मिथ्याभियोगीद्विगुणमभियोगात् धनं हरेत्”
याज्ञ० । मनुनात्र विशेष उक्तः यथा
“ऋणे देवे प्रतिज्ञाते पञ्चकं शतमर्हति । अपह्नवे
तद्द्विगुणं तन्मनोरनुशासनम्” ।
“यः साधयन्तं छन्देन वेदयेत् धनिकं नृपे । स राज्ञा
तच्चतुर्भागं दाप्यस्तस्य च तद्धनम्” मनुः ।
प्रतिपन्नार्थस्य राज्ञा दापने अधमर्णस्य निह्न-
वाभावे दशकं शतं साधितद्रव्यस्य दशमभागो दनः ।
“राज्ञाऽधमर्णिको दाप्यः साधिताद्दशकं शतम्” याज्ञ० ।
  • उपनिधिनिक्षेपादौ नाशभेदे दमभेदो याज्ञ० उक्तो यथा
“भ्रेषश्चेत् मार्गितेऽदत्ते दाप्यो दण्डं च तत्समम्”
आजीवन् स्वेच्छया दण्ड्यो दाप्यस्तञ्चापि सोदयम् ।
याचितान्वाहितन्यासनिःक्षेपादिकेष्वयं विधिः” ।
अत्र विशेषो मनुनोक्तो यथा “यो निक्षेपं नार्पयति
यश्चानिक्षिप्य याचते । तावुभौ चौरवच्छास्यौ दाप्यौ वा
तत्समं दमम् । निक्षेपस्यापहर्त्तारं तत्समं दापयेद्दमम् ।
तस्योपनिधिहर्त्तारमविशेषेण पार्थिवः” ।
  • छद्मना उत्कोचग्रहणे मनुनोक्तो यथा “उपधाभिश्च यः
कश्चित् परद्रव्यं हरेन्नरः । ससहायः संहन्तव्यः
प्रकाशं विविधैर्बधैः” । “करचरणशिरश्छेदादिभिर्ना-
नाविधैः बधोपायैः स दम्यः” कुल्लू० ।
  • कौटसाक्ष्ये मनुनोक्तो दमो यथा
“लोभान्मोहाद्भयान् मैत्र्यात् कामात् क्रोधात्तथैव च ।
अज्ञानाद्बालभावाच्च साक्ष्यं वितथमुच्यते । एषामन्य-
तमे स्थाने यः साक्ष्यमनृतं वदेत् । तस्य दण्डविशेषांस्तु
प्रवक्ष्याम्यनुपूर्वशः । लोभात् सहस्रं दण्ड्यस्तु मोहात्
पूर्वन्तु साहसम् । भयाद् द्वौ मध्यमौ दण्डौ मैत्र्यात् पूर्वं
चतुर्गुणम् । कामाद्दशगुणं पूर्वं क्रोधात्तु त्रिगुणं
परम् । अज्ञानात् द्वे शते पूर्णे चाशिष्याच्छतमेव तु ।
एतानाहुः कौटसाक्ष्ये प्रोक्तान् दण्डान् मनीषिभिः ।
धर्मस्याव्यभिचारार्थमधर्मनिधनाय च । कौटसाक्ष्यन्तु
कुर्वाणान् त्रीन् वर्णान् धार्मिको नृपः । प्रवासयेद्दण्ड-
यित्वा ब्राह्मणन्तु विवासयेत्” । अत्र विशेषमाह याज्ञ०
“यः साक्ष्यं श्रावितोऽन्येभ्यो निह्नुते तत्तमो वृतः ।
स दाप्योऽष्टगुणं दण्डं ब्राह्मणन्तु विवासयेत्” ।
  • साक्ष्यादाने दममाह याज्ञ० । “अब्रुवन् हि नरः साक्ष्य-
मृणं स दशबन्धकम् । राज्ञा सर्वं प्रदाप्यः स्यात्
षट्चत्वारिंशकेऽहनि । न ददाति च यः साक्ष्यं
जानन्नपि नराधमः । स कुटसाक्षिणां पापैस्तुल्यो दण्डेन
चैव हि” ।
  • मष्टस्वामिकद्रव्यविषये दमो मनुनोक्तो यथा “ममेदमिति यो
ब्रूयात् सोऽनुयोज्यो यथाविधि । संवाद्य रूपसंख्यादीन्
स्वामी तत्द्रव्यमर्हति । अवेदयानो नष्टस्य देशं कालञ्च
तत्त्वतः । वर्णं रूपं प्रमाणञ्च तत्समं दण्डमहति” ।
“हृतं प्रनष्टं यो द्रव्यं परहस्तादवाप्नुयात् । अनि-
पृष्ठ ३४२५
वेद्य नृपे दण्ड्यः स तु षण्णवतिं पणान्” मनुः ।
“आगमेनोपभोगेन नष्टं भाव्यमतोऽन्यथा । पञ्चवन्धो
दमस्तत्र राज्ञे तेनाविभाविते” याज्ञ० । “पञ्चबन्धः
पञ्चमांशः” मिता० ।
  • अस्वामिविक्रये मनुनोक्तो दमो यथा “अवहार्य्यो भवेच्चैव सान्वयः
षट्शतं दमम् । निरन्वयोऽनपसरः प्राप्तः स्याच्चौर-
किल्विषम्” । “एष परस्वविक्रयी यदि स्वामिनो भ्रात्रा-
दिरूपत्वेन सान्वयः सम्बन्धी भवति तदा षट् पणशतानि
अवहार्य्यो दमनीयः यदि पुनः स्वामिनः सम्बन्धी न
भवति अनपसरश्च स्यात् अपसरत्यनेनास्मात् सकाशाद्धन-
मित्यपसरः प्रतिग्रहक्रयादिः स यस्य स्वामिसम्बन्धि-
पुत्रादेः सकाशात् नास्ति तदा चौरसम्बन्धि पापं तद्वद्द-
मनीय इत्यर्थः” कुल्लू० “नान्यदन्ये न संसृष्टरूपं विक्रय-
मर्हति । न चासारं न च न्यूनं न दूरे न तिरोहितम्”
मनुः । “कुङ्कुमादिद्रव्यं कुसुम्भादिना मिश्रीकृत्य
न विक्रेत्यव्यं न चासारं सारमित्यभिधाय न च तुला-
दिना न्यूनं न च परोक्षावस्थितं न च रागादिना-
स्थापितरूपम् अत्रास्वामिविक्रयसादृश्यादस्वामिविक्रय-
दम एव स्यात्” कुल्लू० ।
  • दोषविशिष्टकन्यादाने दमो यथा । “यस्तु दोषवतीं
कन्यामनाख्याय प्रयच्छति । तस्य कुर्य्यान् नृपो दण्डं
स्वयं षण्णवतिं पणान् । अकन्येति च यः कन्यां ब्रूया-
द्द्वेषेण मानवः । स शतं प्राप्नुयाद्दण्डं तस्या दोषमद-
र्शयन्” ।
  • दत्ताप्रदानिके नारदेनोक्तो दमो यथा “गृह्णात्यदेयं यो लोभाद्
यश्चादेयं प्रयच्छति । अदेयदायको दण्ड्यस्तघाऽदत्तप्रती-
च्छकः” । तत्सममित्यर्थः ।
  • अभ्युपेत्याशुश्रूषायां “शिक्षयन्तमसन्दुष्टं य आचार्य्यं
परित्यजेत् । बलाद्वासयितव्यः स्यात् बधवन्धौ च सोऽर्हति”
नारदः । “बधोऽत्र ताड़ना दोषस्याल्पत्वात्” मिता० ।
  • संविद्व्यतिक्रमादौ “गणद्रव्यं हरेद्यस्तु संविदं यश्च लङ्घयेत् ।
सर्वस्वहरणं कृत्वा तं राष्ट्राद्विप्रवासयेत्” याज्ञ० । “अयञ्च
दण्डोऽनुबन्धाद्यतिशये द्रष्टव्यः । अनुबन्धाद्यल्पत्वे तु
“यो ग्रामदेशसङ्घानां कृत्वा सत्येन संविदम् । विसंवदेन्न-
रो लोभात्तं राष्ट्राद्विप्रवासयेत् । निगृह्य दापयेदेनं
समयव्यभिचारिणम् । चतुःसुसर्णं षण्णिष्कं शतमानञ्च
राजतमिति” मनूक्त निर्वासनचतुःसुवर्णनिष्कशतमानानां
चतुर्णामन्यतमो जातिशक्त्याद्यपेक्षया कल्पनीयः” मिता० ।
  • वेतनादाने “भृत्यो नार्त्तो न कुर्य्याद्यो दर्पात् कर्म यथोदितम् ।
स दण्ड्यः कृष्णलान्यष्टौ न देयं तस्य वेतनम्” मनुः ।
  • द्यूतसमाह्वये “राज्ञा सचिह्नं निर्वास्याः कूटाक्षोपधिदेविनः”
याज्ञ० “कूटाक्षदेविनः पापान् राज्ञा राष्ट्राद्विवासयेत् ।
कण्ठेऽक्षमालामासज्य स ह्येषां विनयः स्मृतः” नारदः
यानि च मनुवचनानि द्यूतनिषेधपराणि । “द्यूतं
समाह्वयञ्चैव यः कुर्य्यात् कारयेत् वा । तान् सर्वान्
घातयेद्राजा शूद्रांश्च द्विजलिङ्गिनः” इत्यादीनि तान्यपि
कूटाक्षदेवनविषयतया राजाध्यक्षसभिकरहितद्यूतविषय-
तया च योज्यानि” मिता० ।
  • स्वामिपालविवादे मिताक्षरोक्ता दमा यथा “माषानष्टौ तु
महिषी सस्यघातस्य कारिणी । दण्डनीया तदर्द्धं तु
गौस्तदर्द्धमजाविकम्” याज्ञ० । परसस्यविनाशकारिणी महिषी
अष्टौ माषान् दण्डनीया । गौस्तदर्द्धं चतुरो माषान्
अजामेषञ्च माषद्वयं दण्डनीयम् । महिष्यादीनां
धनसम्बन्धाभावात्तत्स्वामी पुरुषो लक्ष्यते । माषश्चात्र
ताम्रिकपणस्य विंशतितमो भागः “माषो विंशतिमो
भागः पणस्य परिकीर्त्तितः” इति नारदस्मरणात् ।
एतच्चाज्ञानपिपयम् । ज्ञानपूर्बं तु “पणस्य पादौ
द्वौ गां तु द्विगुणं महिषीं तथा । तथाऽजाविक-
वत्सानाम्पादो दण्डः प्रकीर्त्तितः” इति स्मृत्यन्तरोक्तं
द्रष्टव्यम् । यत् पुनर्नारदेनोक्तम् “माषङ्गान्दापयेद्दण्डं
द्वौ माषौ महिषीं तथा । तथाजाविकवत्सानां दण्डः
स्यादर्द्धमाषिक” इति । तत्पुनः प्ररोहयोग्यमूलावशेष-
भक्षणविषयम् । अपराधातिशयेन क्वचिद्दण्डद्वैगुण्य-
माह “भक्षयित्वोपविष्टानां यथोक्ताद्द्विगुणोदमः” याज्ञ० ।
“यदि पशवः परक्षेत्रे सस्यम्भक्षयित्वा तत्रैवानिवारिताः
शेरते । तदा यथोक्ताद्दण्डाद्द्विगुणो दण्डो वेदितव्यः ।
“वसतां द्विगुणः प्रोक्तः सवत्सानाञ्चतुर्गुण” इति वचनात् ।
क्षेत्रान्तरे पश्वन्तरे चातिदेशमाह “सममेषां विवीतेऽपि
खरोष्ट्रं महिषीसमम्” याज्ञ० । विवीतः प्रचुरतृणकाष्ठो-
रक्ष्यमाणः परग्रहीतो भूप्रदेशस्तदुपघातेऽपीतरक्षेत्र-
दण्डसमन्दण्डमेषां महिष्यादीनां विद्यात् ।
खराश्चोष्ट्राश्च खरोष्ट्रं तन्महिषीसमं महिषी यत्र यादृशेन
दण्डेन दण्ड्यते तत्र तादृशेनैव दण्डेन खरोष्ट्रमपि
प्रत्येकं दण्डनीयम् । सस्योपरोधकत्वे खरोष्ट्रयोः
प्रत्येकं महिषीतुल्यत्वाद्दमस्य चापराधानुसारित्वात्
खरोष्ट्रमिति समाहारो न विवक्षितः । परसस्यनाशे
पृष्ठ ३४२६
गोस्वामिनो दण्ड उक्त इदानीं क्षेत्रस्वामिने फलमप्य-
सौ दापनीय इत्याह “यावत्सस्यं विनश्येत्तु तावत्
स्यात् क्षेत्रिणः फलम् । गोपस्ताड्यस्तु गोमी तु पूर्वोक्तं
दण्डमर्हति” याज्ञ० । सस्यग्रहणं क्षेत्रोपचयोपलक्ष-
णार्थम् । यस्मिन् क्षेत्रे यावत्पलालधान्यादिकं गवादि-
भिर्विनाशितं तावत्क्षेत्रफलमेतावति क्षेत्रे एतावद्भवतीति
सामन्तैः परिकल्पितं तत्क्षेत्रस्वामिने गोमी दापनीयः ।
गोपस्तु ताड़नीय एव न फलं दापनीयः । गोपस्य
ताड़नं पूर्वोक्तधनदण्डसहितमेव पालदोषेण सस्यस्य
नाशे द्रष्टव्यः । “या नष्टा पालदोषेण गौस्तु सस्यानि
नाशयेत् । न तत्र गोमिनो दण्डः पालस्तद्दण्डमर्ह-
तीति” वचनात् । गोमी पुनः स्वापराधेन सस्यनाशं
पूर्वोक्तं दण्डमेवार्हतीति न ताड़नम् । फलदानं पुनः
सर्वत्र गोमिन एव तत्फलपुष्टमहिष्यादिक्षीरोपभोग
द्वारेण तत्क्षेत्रफलभोगत्वात् ।
“क्षेत्रविशेषेऽपवामाह “पथि ग्रामविवीतान्ते क्षेत्रे
दोषो न विद्यते । अकामतः कामचारे चौरवद्दण्डमर्हति”
याज्ञ० । पथि मार्गसमीपवर्त्तिनि क्षेत्रे ग्रामविवीत-
समीपवर्त्तिनि च क्षेत्रेऽकामतो गोभिर्भक्षिते
गोपगोमिनोर्द्वयोरप्यदोषः । दोषाभावप्रतिपादनं च
दण्डाभावार्थं विनष्टसस्यमौल्यदानप्रतिषेधार्थं च ।
कामचारे कामतश्चारे चौरवत् चौरस्य यादृशी दण्डः
तादृशं दण्डमर्हति । एतच्चानावृतक्षेत्रविषयम् ।
“तत्रापरिवृतं धान्यं विहिंस्युः पशवो यदि । न तत्र
प्रणयेद्दण्डं नृपतिः पशुरक्षिणामिति” दण्डाभावस्या-
नावृतक्षेत्रविषयत्वेन मनुनोक्तत्वात् । आवृते
पुनर्मार्गादिक्षेत्रेऽपि दोषोऽस्त्येव । वृतिकरणञ्च तेनै-
वोक्तम् “वृतिञ्च तत्र कुर्वीत यामुष्ट्रो नावलोकयेत् ।
छिद्रं निवारयेत्सर्वं श्वशूकरमुखानुगमिति” ।
पशुविशेषेऽपि दण्डाभावमाह “महोक्षोत्सृष्टपशवः
सूतिकागन्तुकाटयः । पालो येषां न, ते मोच्यादैव
राजपरिच्युताः” याज्ञ० । “महांश्चासावुक्षा च महोक्षः वृषः
सेक्ता । उत्सृष्टपशयः वृषोत्सर्गविधानेन देवतोद्देशेन
त्यक्ताः । सूतिका प्रसूता अनिर्दशाहा । आगन्तुकः
स्वयूथात्परिभ्रष्टोदेशान्तरादागतः । एते मोच्याः ।
परसस्यभक्षणेऽपि न दण्ड्याः । येषां च पालो न
विद्यते तेऽपि दैवराजपरिच्युताः दैवराजोपहृताः
सस्यनाशकारिणो न दण्ड्याः । आदिग्रहणात् हस्त्य-
श्चादयो गृह्यन्ते । ते चोशनसोक्ताः “अदण्ड्या
हस्तिनोह्यश्वाः प्रजापाला हि ते स्मृताः । अदण्ड्यौ
काणकुब्जौ च ये शश्वत्कृतलक्षणाः । अदण्ड्यागन्तुको
गौश्च सूतिका चाभिसारिणी । अदण्ड्याश्चोत्सवे गावः
श्राद्धकाले तथैव चेति” । अत्रोत्सृष्टपशूनामस्वामिकत्वेन
दण्ड्यत्वासम्भवात् दृष्टान्तार्थमुपादानं यथोत्सृष्टपशवो
न दण्ड्या एवं महोक्षादय इति” मिता० ।
“पथि क्षेते परिवृते ग्रामान्तीयेऽथवा पुनः । सपालः
शतदण्डार्हो विपालान् वारयेत् पशून्” मनुः ।
  • क्षेत्रादिसीमाविवादे मनूक्तो दमो यथा । “क्षेत्रकूपतड़ा-
गानामारामस्य गृहस्य च । सामन्तप्रत्ययो ज्ञेयः
सीमासेतुविनिर्णयः । सामन्ताश्चेन्मृषा ब्रूयुः सेतौ
विवदतां नृणाम् । सर्वे पृथक् पृथग्दण्ड्या राज्ञा मध्य-
मसाहसम्” । “मर्यदायाः प्रभेदे तु सीमातिक्रमणे तथा ।
क्षेत्रस्य हरणे दण्डा अधमोत्तममध्यमाः” याज्ञ० । “अनेक-
क्षेत्र व्यवच्छेदिका साधारणी भूर्मर्यादा तस्याः प्रकर्षेण
भेदने सीमातिक्रमणे सीमामतिलङ्घ्य कर्षणे क्षेत्रस्य च
भयादिप्रदर्शनेन हरणे यथाक्रमेणाधमोत्तममध्यमदमा
वेदितव्याः । क्षेत्रग्रहणञ्च गृहारामाद्युपलक्षणार्थम् । यदा
पुनः स्त्रीयभ्रान्त्या क्षेत्रादिकमपहरति तदा द्विशतो दमो
वेदितव्यः । “गृहं तड़ागमारामं क्षेत्रं वा भीषया
हरन् । शतानि पञ्च दण्ड्यः स्यादज्ञानाद्द्विशतो
दमः” मनूक्तेः । अपह्रियमाणक्षेत्रादिभूयस्त्वपर्य्यालोचनया
कदाचिदुत्तमोऽपि दण्डः प्रयोक्तव्यः । अतएवाह “बधसर्व-
स्वहरणं पुरान्निर्वासनाङ्कने । तदङ्गच्छेद इत्युक्तो दण्ड
उत्तमसाहस इति” मिता० ।
  • वाक्पारुष्ये दमो मनूक्तो यथा “शतं व्राह्मणमाक्रुश्य
क्षत्त्रियो दण्डमर्हति । वैश्योऽध्यर्द्धशतं द्वे वा शूद्रस्तु
बधमर्हति । पञ्चाशद्ब्राह्मणो दण्ड्यः क्षत्त्रियस्याभि-
शंसने । वैश्ये स्यादर्द्धपञ्चाशच्छूद्रे द्वादशकोदमः ।
समवर्णे द्विजातीनां द्वादशैव व्यतिक्रमे । वादेष्ववच-
नीयेषु तदेव द्विगुणं भवेत् । एकजातिर्द्विजातींस्तु
वाचा दारुणया क्षिपन् । जिह्वायाः प्राप्नुयाच्छेदं
जघन्यप्रभवो हि सः । नामजातिग्रहन्त्वेषामभि-
द्रोहेण कुर्वतः । निःक्षेप्योऽयोमयः शङ्कुर्ज्वलन्नास्ये
दशाङ्गुलः । धर्म्मोपदेशं दर्पेण विप्राणामस्य कुर्वतः ।
तप्तमासेचयेत्तैलं वक्त्रे श्रोत्रे च पार्थिवः । श्रुतं देशञ्च
जातिञ्च कर्म शारीरमेव च । वितथेन ब्रुवन् दर्पा-
पृष्ठ ३४२७
द्दाप्यः स्याद्द्विशतं दमम् । काणं वाप्यथ वा खञ्जमन्यं
वापि तथाविधम् । तथ्येनापि ब्रुवन् दाप्यो दण्डं
कार्षापणावरम् । मातरं पितरं जायां भ्रातरं तनयं
गुरुम् । आक्षारयन् शतं दाप्यः पन्थानं चाददद्गुरोः ।
ब्राह्मणक्षत्रियाभ्यान्तु दण्डः कार्य्यो विजानता । ब्राह्मणे
साहसः पूर्वः क्षत्त्रिये त्वेव मध्यमः । विट्शूद्रयोरेव-
मेव स्वजातिं प्रति तत्त्वतः । छेदवर्जं प्रणयनं दण्ड-
स्येति विनिश्चयः ।”
“सत्यासत्यान्यथास्तोत्रैर्न्यूनाङ्गेन्द्रियरोगिणाम् । क्षेपं
करोति चेद्दण्ड्यः पणानर्द्धत्रयोदश । अभिगन्तास्मि
भागिनीं मातरं वा तवेति च । शपन्तं दापयेद्राजा
पञ्चविंशतिकं दमम् । अर्द्धोऽधमेषु द्विगुणः परस्त्रीषूत्तमेषु
च । दण्डप्रणयनं कार्य्यं वर्णजात्युत्तराधरैः । प्राति-
लोम्यापवादेषु द्विगुणास्त्रिगुणादमाः । वर्णानामानुलोम्येन
तस्मादर्द्धार्द्धहानितः । वाहुग्रीवानेत्रसक्थिविनाशे
वाचिके दमः । शत्यस्तदर्द्धिकः पादनासाकर्णकरादिषु ।
अशक्तस्तु वदम्नेवं दण्डनीयः पणान् दश । तथा शक्तः
प्रतिभुवं दाप्यः क्षेमाय तस्य तु । पतनीये कृते क्षेपे
दण्डो मध्यमसाहसः । उपपातकयुक्ते तु दाप्यः प्रथम-
साहसः । त्रैविद्यनृपदेवानां क्षेप उत्तमसाहसः ।
मध्यमो जातिपूगानां प्रथमो ग्रामदेशयोः” याज्ञ० ।
  • दण्डपारुष्ये दण्डा मनूक्ता यथा “येन केनचिदङ्गेन हिंस्या
च्चेत् श्रेष्ठमन्त्यजः । छेत्तव्यं तत्तदेवास्य तन्मनोरनु-
शासनम् । पाणिमुद्दम्य दण्डं वा पाणिच्छेदनमर्हति ।
पादेन प्रहरन् कोपात् पादच्छेदनमर्हति । सहासन-
मभिप्रेप्सुरुत्कृष्टस्यापकृष्टजः । कट्यां कृताङ्को
निर्वास्यः स्फिचं वाऽस्यावकर्त्तयेत् । अवनिष्ठीवतो दर्पात्
द्वावोष्ठौछेदयेन्नृपः! अवमूत्रयतो मेढ्रमवशर्द्धयतो गुदम् ।
केशेषु गृह्णतो हस्तौ च्छेदयेदविचारयन् । पादयो-
र्द्दाढ़िकायान्तु ग्रीवायां वृषणेषु च । त्वग्भेदकः शतं
दण्ड्यो लोहितस्य तु दर्शकः । मांसभेत्ता तु षण्णिष्कान्
प्रवास्यस्त्वस्थिभेदकः । वनस्पतीनां सर्वेषामुपभोगो
यथा यथा । तथा तथा दमः कार्य्यो हिंसायामिति
धारणा । मनुष्याणां पशूनाञ्च दुःखाय प्रहृते सति ।
यथा यथा महद्दुःखं दण्डं कुर्य्यात्तथा तथा । अङ्गा-
वपीड़नायाञ्च प्राणशोणितयोस्तथा । समुत्थानव्ययं दाप्यः
सर्वं दण्डमथापि वा । द्रव्याणि हिंस्यात् यो यस्य ज्ञा-
नतोऽज्ञानतोऽपि वा । स तस्योत्पादयेत्तुष्टिं राज्ञो
दद्याच्च तत्समम् । चर्मचार्मिकभाण्डेषु काष्ठलोष्ट-
मयेषु च । मूल्यात् पञ्चगुणो दण्डः पुष्पमूलफलेषु च ।
यानस्यैव तु यातुश्च यानस्वामिन एव च । दशाति-
वर्त्तनान्याहुः शेषे दण्डो विधीयते । छिन्ननास्ये
भिन्नयुगे तिर्य्यक्प्रतिमुखागते । अक्षभङ्गे च
यानस्य चक्रभङ्गे तथैव च । छेदने चैव यन्त्राणां योक्त्र-
रश्म्योस्तथैव च । अ क्रन्दे चाप्यपैहीति न दण्डं
मनुरव्रयीत् । यत्रापवर्त्तते युग्यं वैगुण्यात् प्राजकस्य
तु । तत्र स्वामी भवेद्दण्ड्यो हिंसायां द्विशतं दमम् ।
प्राजकश्चेद्भवेदाप्तः प्राजको दण्डमर्हति । युम्यस्थाः
प्राजकेऽनाप्ते सर्वे दण्ड्याः शतं शतम् । स चेत्तु
पथिसंरुद्धः पशुभिर्वा रथेन वा । प्रमापयेत् प्राणभृतस्तत्र
दण्डोऽविचारतः । मनुष्यमारणे क्षिप्रं चौरवत्
किल्विषी भवेत् । प्राणभृत्सु महत्खर्द्धं गोगजोष्ट्र-
हयादिषु । क्षुद्रकाणां पशूनाञ्च हिंसायां द्विशतो
दमः । पञ्चाशत्तु भवेद्दण्डः शुभेषु मृगपक्षिषु । गर्द-
भाजाविकानाञ्च दण्डः स्यात् पञ्चमाषकः ।
भाषकन्तु भवेद्दण्डः श्वशूकरनिपातने । भार्य्या पुत्रश्च
दासश्च शिष्यो भ्राता च सोदरः । प्राप्तापराधा
स्ताड्याः स्यू रज्ज्वा वेणुदलेन वा । पृष्ठतस्तु शरीरस्य,
नोत्तमाङ्गे कथञ्चन । अतोऽन्यथा तु प्रहरन् प्राप्तः
स्याच्चौरकिल्वषम्” । अत्र विशेषमाह याज्ञ० यथा
“भस्मपङ्करजःस्पर्शे दण्डो दशपणः स्मृतः ।
अमेध्यपार्ष्णिनिष्ठ्यूतस्पर्शने द्विगुणस्ततः । समेष्वेवं
परस्त्रीषु द्विगुणन्तूत्तमेषु च । हीनेष्वर्द्धदमो मोहमदा-
दिभिरदण्डनम् । विप्रपीड़ाकरं छेद्यमङ्गमब्राह्मणस्य,
तु । उद्गूर्णे प्रथमो दण्डः संस्पर्शे तु तदर्द्धिकः ।
उद्गूर्णे हस्तपादे च दशविंशतिकौ दमौ । परस्परन्तु
सर्वेषां शस्त्रे मध्यमसाहसम् । पादकेशांशुककरोल्लुञ्छ-
नेषु पणान् दश । पीड़ाकर्षांशुकावेष्टपादाध्यासे शतं
दमः । शोणितेन विना दुःखं कुर्वन् काष्ठादिभिर्नरः ।
द्वात्रिंशतं पणान् दाप्यो द्विगुणं दर्शनेऽसृजः ।
करपाददतो भङ्गे च्छेदने कर्णनासयोः । मध्यो दण्डो
व्रणोद्भेदे मृतकल्पहते तथा । चेष्टाभोजनवाग्रोधे
नेत्रादिप्रतिभेदने । कराङ्घ्रिबाहुसक्थ्राञ्च भङ्गे मध्यम-
साहसः । एकं घ्नतां बहूनाञ्च यथोक्ताद्घिगुणो दमः ।
कलहापहृतं देयं दण्डश्च द्विगुणः स्मृतः । दुःखमुतपा-
दयेद्यस्तु स ससुत्थानजव्ययम् । दाप्यो दण्डश्च यो
पृष्ठ ३४२८
यस्मिन् कलहे समुदाहृतः । अभिघाते तथा च्छेदे भेदे
कुड्यावपातने । पणान् दाप्यः पञ्चदशविंशतिन्तद्द्वयं तथा ।
दुःखोत्पादि गृहे द्रव्यं क्षिपन् प्राणहरन्तथा । षोड़-
शाद्यः पणान् दाप्यो द्वितीयो मध्यमं दमम् । दुःखे च
शोणितोत्पादे शाखाङ्गच्छेदने तथा । दण्डः क्षुद्रपशू-
नाञ्च द्विपणप्रभृति क्रमात् । लिङ्गस्य च्छेदने मृत्यौ
मध्यमो मूल्यमेव च । महापशूनामेतेषु स्थानेषु द्विगुणो
दमः । प्ररोहिशाखिनां शाखास्कन्धसर्वविदारणे ।
उपजीव्यद्रुमाणाञ्च विंशतेर्द्विगुणो दमः । चैत्यश्मशानसी-
मासु पुण्यस्थाने सुरालये । जातद्रुमाणां द्विगुणां दमो
वृक्षेऽथ विश्रुते । गुल्मगुच्छक्षुपलताप्रतानौषविवीरुधाम् ।
पूर्वस्मृतादर्द्धदण्डः स्थानेषूक्तेषु कर्त्तने” ।
  • विक्रयासम्प्रदाने “वसानस्त्रीन् पणान् दण्ड्यो नेजकस्तु
परांशुकम् । विक्रयावक्रयाधानयाचितेषु पणान् दश ।
पितापुत्रविरोधे तु साक्षिणां त्रिपणो दमः । अन्तरे च
तयोर्यः स्यात्तस्याप्यष्टगुणो दमः । तुलाशासनमानानां
कूटकृन्नाणकस्य च । एभिश्च व्यवहर्त्ता यः स दाप्यो
दण्डमुत्तमम् । अकूटं कूटकं ब्रूते कूटं यश्चाप्यकूटकम् ।
स नाणकपरीक्षी तु दाप्य उत्तमसाहसम् । भिषङ्-
मिथ्या चरन् दाप्यस्तिर्य्यक्षु प्रथमं दमम् । मानुषे
मध्यमं राजमानुषेषूत्तमं दमम् । अबन्ध्यं यश्च बध्नाति
बन्ध्यं यश्च प्रमुञ्चति । अप्राप्तव्यवहारञ्च स दाप्यो
दण्डमुत्तमम् । मानेन तुलया वापि योऽंशमष्टमकं
हरेत् । दण्डं स दाप्यो द्विशतं वृद्धौ हानौ च कल्पि-
तम् । भेषजस्नेहलवणगन्धधान्यगुड़ादिषु । पण्येषु
प्रक्षिपन् हीनं पणान् दाप्यस्तु षोड़श । मृच्चर्म्ममणि-
सूत्रायःकाष्ठवल्कलवाससाम् । अजातौ जातिकरणे
विक्रेयाष्टगुणो दमः । समुद्रपरिवर्त्तञ्च सारभाण्डञ्च
कृत्रिमम् । आधानं विक्रयं वापि नयतो दण्डकल्पना ।
भिन्ने पणे तु पञ्चाशत् पणे तु शतमुच्यते । द्विपणे
द्विशतो दण्डोमुल्यवृद्धौ च वृद्धिमान्” याज्ञओ उक्तो दमः ।
“अन्यहस्ते च विक्रीतं दुष्टं वाऽदुष्टवद् यदि ।
विक्रीणीते दमस्तत्र मूल्यात्तु द्विगुणो भवेत्” याज्ञ० ।
  • साहसे याज्ञ० उक्तो दमो यथा “सामान्यद्रव्यप्रसभहरणात् साहसं
स्मृतम् । तन्मूल्यादुद्विगुणो दण्डो निह्नवे तु चतुर्गुणः ।
यः साहसं कारयति स दाप्यो द्विगुणं दमम् । यश्चैव-
मुक्त्राऽहं दाता कारयेत् स चतुर्गुणम् । अर्घ्याक्रोशाति-
क्रमकृद्भ्रातृभार्य्याप्रहारकः । सन्दिष्टस्याप्रदाता च
समुद्रगृहभेदकृत् । सामन्तकुलिकादीनामपकारस्य
कारकः । पञ्चाशत्पणिको दण्ड एषामिति विनिश्चयः ।
स्वच्छन्दं विधवागामी विक्रुष्टेऽनाभिधावकः । अकारणे
च विक्रोष्टा चण्डालश्चोत्तमान् स्मृशन् । शूद्रः प्रव्र-
जितानाञ्च दैवे पित्र्ये च भोजकः । अयुक्तं शपथं
कुर्वन्नयोग्योऽयोग्यकर्मकृत् । वृषक्षुद्रपशूनाञ्च पुंस्त्वस्य
प्रतिघातकृत् । साधारणस्यापलापी दासीगर्भविनाश-
कृत् । पितृपुत्रस्वसृभ्रातृदम्पत्याचार्य्यशिष्यकाः ।
एषामपतितानां तु त्यागो च शतदण्डभाक् ।”
  • चौर्य्ये दण्डो मनूक्तो यथा । “यस्तु रज्जु घटं क्वूपाद्धरे-
द्भिन्द्याच्च यः प्रपाभ् । स दण्डं प्राप्नुयात् भाषं तच्च
तस्मिन् समाहरेत् । धान्यं दशभ्यः कुम्भेभ्यो हरतो-
ऽभ्यधिकं बधः । शेषेऽप्येकादशगुणं दाप्यस्तस्य च तद्ध-
नम् । तथा धरिममेयानां शतादभ्यधिके बधः । सुवर्णं
रजतादीनामुत्तमानाञ्च वाससाम् । पञ्चाशतस्त्वभ्यधिके
हस्तच्छेदनमिष्यते । शेषेऽप्येकादशगुणं मूल्याद्दण्डं
प्रकल्पयेत् । पुरुषाणां कुलीनानां नारीणाञ्च विशे-
षतः । मुख्यानां चैव रत्नानां हरणे बधमर्हति ।
महापशूनां हरणे शस्त्राणामौषधस्य च । कालमासाद्य
कार्य्यञ्च राजा दण्डं प्रकल्पयेत् । गोषु ब्राह्मणसंस्यासु
च्छुरिकायाश्च भेदने । पशूनां हरणे चैव सद्यः कार्य्यो-
ऽर्द्धपादिकः । सूत्रकार्पासकिण्वानां गोमयस्य गुड़स्य
च । दध्नः क्षीरस्य तक्रस्य पानीयस्य तृणस्य च ।
वेणुवैदलभाण्डानां लवणानान्तथैव च । मृण्मया-
नाञ्च हरणे मृदो भस्मन एव च । मत्स्यानां पक्षिणा-
ञ्चैव तैलस्य च घृतस्य च । मांसस्य मधुनश्चैव यच्चान्यत्
पशुसम्भवम् । अन्येषाञ्चैवमादीनां मद्यानामोदनस्य
च । पक्वान्नानाञ्च सर्वेषां तन्मूल्याद्द्विगुणो दमः ।
पुष्पेषु हरिते धान्ये गुल्मवल्लीनगेषु च । अन्येष्वपरि-
पूतेषु दण्डः स्यात् पञ्चकृष्णलः । परिपूतेषु धान्येषु
शाकमूलफलेषु च । निरन्वये शतं दण्डः सान्वयेऽर्द्धशतं
दमः । स्यात् साहसं त्वन्वयवत् प्रसभं कर्म यत्कृतम् ।
निरन्वयं भवेत् स्तेयं कृत्वापह्नुयते च यत् । यस्त्वेतान्यु-
पकॢप्तानि द्रव्याणि स्तेनयेन्नरः । तमाद्यं दण्डयेद्राजा
यश्चाग्निं चोरयेद्गृहात् । येन येन यथाङ्गेन स्तेनो
नृषु विचेष्टते । तत्तदेव हरेत्तस्य प्रत्यादेशाय पार्थिवः” ।
अन्यत्र च चौर्य्यादिनानाविषये मनुनोक्तो दमो यथा ।
“न होढ़ेन विना चोरं घातयेद्धार्मिको नृपः । स-
पृष्ठ ३४२९
होढ़ं सोपकरणं घातयेदविचारयन् । ग्रामेष्वपि च
ये केचिच्चौराणां भक्तदायकाः । भाण्डावकाशदाश्चैव
सर्वांस्तानपि घातयेत् । राष्ट्रेषु रक्षाधिकृतान् सामन्तां-
श्चैव चोदितान् । अभ्याघातेषु मध्यस्थान् शिष्याच्चौरा-
निव द्रुतम् । यश्चापि धर्म्मसमयात् प्रच्युतो धर्मजीवनः ।
दण्डेनैव तमप्योषेत् स्वकाद्धर्म्माद्धि विच्युतम् । ग्रामघाते
हिताभङ्गे पथि मोषाभिदर्शने । शक्तितो नाभिधावन्तो
निर्वास्याः सपरिच्छदाः । राज्ञः कोषापहर्त्तृंश्च प्रतिकूलेषु
च स्थितान् । घातयेद्विविधैर्दण्डैररीणाञ्चोपजापकान् ।
सन्धि छित्त्वा तु ये चौर्य्यं रात्रौ कुर्वन्ति तस्कराः ।
तेषां छित्त्वा नृपो हस्तौ तीक्ष्णशूले निवेशयेत् । अङ्गुली
ग्रन्थिभेदस्य च्छेदयेत् प्रथमे ग्रहे । द्वितीये हस्तचरणौ
तृतीये बधमर्हति । अग्निदान् भक्तदांश्चैव तथा शस्त्रा-
वकाशदान् । सन्निधातॄंश्च मोषस्य हन्याच्चौरमिवेश्वरः ।
तड़ागभेदकं हन्यादप्सु शुद्धबधेन वा । तद्वापि प्रति-
संस्कुर्य्याद्दाप्यस्तूत्तमसाहसम् । कोष्ठागारायुधागार-
देवतागारभेदकान् । हस्त्यश्वरथहर्त्तॄंश्च हन्यादेवाऽवि-
चारयन् । यस्तु पूर्वनिविष्टस्य तड़ागस्योदकं हरेत् ।
आगमं वाप्ययां भिन्द्यात् स दाप्यः पूर्वसाहसम् ।
समुत्सृजेद्राजमार्गे यस्त्वेकध्यमनापदि । स द्वौ कार्षा-
प्रणौ दद्यादमेध्यञ्चाशु शोधयेत् । आपद्गतोऽथवा वृद्धो
गर्भिणी बाल एव वा । परिभाषणमर्हन्ति तञ्च शोध्य-
मिति स्थितिः । चिकित्सकानां सर्वेषां मिथ्या प्रचरतां
दमः । अमानुषेषु प्रथमो मानुषेषु तु मध्यमः । संक्रम-
ध्वजयष्टीनां प्रतिमानाञ्च भेदकः । प्रतिकुर्य्याच्च तत् सर्वं
पञ्चदद्याच्छतानि च । अदूषितानां द्रव्याणां दूषणे भेदने
तथा । मणीनामपवेधे च दण्डः प्रथमसाहसः । समैर्हि
विषमं यस्तु चरेद्वै मूल्यतोऽपि वा । स प्राप्नुयाद्दमं
पूर्वं नरो मध्यममेव वा । बन्धनानि च सर्वाणि
राजमार्गे निवेशयेत् । दुःखिता यत्र दृश्येरन् विकृताः
पापकारिणः । प्राकारस्य च भेत्तारं परिखाणाञ्च पूरकम् ।
द्वाराणाञ्चैव भङ्क्तारं क्षिप्रमेव प्रवासयेत् । अभिचारेषु
सर्वेषु कर्त्तव्यो द्विशतो दमः । मूल्यकर्मणि चानाप्तैः
कृत्यासु विविधासु च । अवीजविक्रयी चैव वीजोत्-
कृष्टन्तथैव च । मर्य्यादाभेदकश्चैव विकृतं प्राप्नुयाद्बधम् ।
सर्वकण्टकपापिष्ठं हेमकारन्तु पार्थिवः । प्रवर्त्तमान-
मन्याये छेदयेल्लवशः क्षुरैः । सीताद्रव्यापहरणे शस्त्राणा-
मौषधस्य च । कालमासाद्य कार्य्यञ्च राजा दण्डं प्रक-
ल्पयेत्” “चौरं प्रदाप्यापहृतं घातयेद्विविधैर्बधैः । सचिह्नं
ब्राह्मणं कृत्वा स्वराष्ट्राद्विप्रवासयेत्” या० । अङ्कन-
विशेषो मनुनोक्तो यथा “गुरुतल्पे भगः कार्य्यः सुरा-
पाने सुराध्वजः । स्तेये च श्वपदं कार्य्य ब्रह्महण्यशिराः
पुमान्” । “एतच्च दण्डोत्तरकालं प्रायश्चित्तमचिकी-
र्षतां द्रष्टव्यम् । यथाह मनुः “प्रायश्चित्तन्तु कुर्वाणा ।
सर्वे वर्णा यथोदितम् । नाङ्क्या राज्ञा ललाटे तु दाप्या-
स्तूत्तमसाहसमिति” मिता० । “घातितेऽपहृते दोषो
ग्रामभर्त्तुरनिर्गते । विवीतभर्तुस्तु पथि चौरो-
द्धर्तुरवीतके । स्वसीम्नि दद्याद् ग्रामस्तु पदं वा यत्र
गच्छति । पञ्चग्रामो वहिःक्रोशाद्दशग्राम्यथ वा पुनः ।
वन्दिग्राहांस्तथा वाजिकुञ्जराणाञ्च हारिणः । प्रसह्य-
घातिनश्चैव शूलमारोपयेन्नरान् । उत्क्षेपकग्रन्थिभेदौ
करसन्दंशहीनकौ । कार्य्यौ द्वितीयापराधे करपादैक-
हीनकौ । क्षुद्रमध्यमहाद्रव्यहरणे सारतोदमः ।
देशकालवयःशक्तिं संचिन्त्य दण्डकर्म्मणि । भक्ताव-
काशाग्न्युदकमन्त्रोपकरणव्ययान् । दत्त्वा चौरस्य
हन्तुर्वा जानतो दम उत्तमः । शस्त्रावपाते गर्भस्य
पातने चोत्तमो दमः । उत्तमो वाऽधमो वापि पुरुष-
स्त्रीप्रमापणे । विप्रदुष्टां स्त्रियञ्चैव पुरुषघ्नीमगर्भिणीम् ।
सेतुभेदकरीञ्चाप्सु शिलां बद्ध्वा प्रवेशयेत् । विषाग्निदां
पतिगुरुनिजापत्यप्रमापिणीम् । विकर्णकरनासौष्ठीं कृत्वा
गोभिः प्रमापयेत् । अविज्ञातहतस्याशु कलहं
सुतबान्धवाः । प्रष्टव्या योषितश्चास्य परपुंसि रताः पृथक् ।
स्त्रीद्रव्यवृत्तिकामो वा केन वायं गतः सह । मृत्यु-
देशसमासन्नं पृच्छेद्वापि जनं शनैः । क्षेत्रवेश्मवनग्राम-
विवीतखलदाहकाः । राजपत्न्याभिगामी च दग्ध-
व्यास्तु कटाग्निना” याज्ञ० । “तृणं वा यदि वा काष्ठं पुष्पं
वा यदि वा फलम् । अनापृच्छन् हि गृह्णानो हस्त-
च्छेदनमर्हति” मिता० धृतवचनम् ।
  • स्त्रीसंग्रहे मनुनोक्तो दमो यथा “परदाराभिमर्षेषु प्रवृत्तान्नॄन्
महीपतिः । उद्वेजनकरैर्दण्डैश्चिह्नयित्वा प्रवासयेत् ।
परस्य पत्न्या पुरुषः सम्भाषां योजयन् रहः । पूर्वमाक्षा-
रितो दोषः प्राप्नुयात् पूर्वसाहसम् । परस्त्रियं योभि-
वदेत् तीर्थेऽरण्ये वनेऽपि वा । नदीनामपि संभेदे स
संग्रहणमाप्नुयात् । उपचारक्रियाकेलिः स्पर्शो भूषणवा-
ससाम् । सह खद्वासनञ्चैव सर्वं संग्रहणं तथा ।
स्त्रियं स्पृशेददेशे यः स्पृष्टो वा मर्षयेत्तथा । परस्परस्या-
पृष्ठ ३४३०
नुमते सर्वं संग्रहणं स्मृतम् । अब्राह्मणः संग्रहणे
प्राणान्तं दण्डमर्हति । न सम्भाषां परस्त्रीभिः प्रति-
षिद्धः समाचरेत् । निषिद्धो भाषमाणस्तु सुवर्णं दण्ड-
मर्हति । नैष चारणदारेषु विधिर्नात्मोपजीविषु । सज्ज-
यन्ति हि ते नारीर्निगूढ़ाश्चारयन्ति च । किञ्चिदेव तु
दाप्यः स्यात् सम्भाषां ताभिराचरन् । योऽकामां दूषयेत्
कन्यां ससद्यो वर्धमर्हति । सकामां दूषयंस्तुल्यो न बधं
प्राप्नुयान्नरः । कन्यां भजन्तीमुत्कृष्टं न किञ्चिदपि
दापयेत् । जघन्यं सेवमानान्तु संयतां वासयेद्गृहे ।
उत्तमां सेवमानस्तु जघन्यो वधमर्हति । शुल्कं दद्यात्
सेवमानः समामिच्छेत् पिता यदि । अभिसह्य तु यः
कन्यां कुर्य्याद्दर्पेण मानवः । तस्याशु कर्त्तेदङ्गुल्यौ
दण्डञ्चार्हति षट् शतम् । सकामां दूषयंस्तुल्यो नाङ्गु-
लिच्छेदमाप्नुयात् । द्विशतन्तु दमं दाप्यः प्रसङ्गविनिवृ-
त्तये । कन्यैव कन्यां या कुर्य्यात् तस्याः स्याद्द्विशतो दमः ।
शुल्कञ्च द्विगुणं दद्याच्छिफाश्चैवाप्नुयाद्दश । या तु कन्यां
प्रकुर्य्यात् स्त्री सा सद्यो मौण्ड्यमर्हति । अङ्गुल्योरेव च
छेदं खरेणोद्वहनं तथा । भर्त्तारं लङ्घयेद्या तु
स्त्री ज्ञातिगुणदर्पिता । तां श्वभिः खादयेद्राजा संस्थाने
बहुसंस्थिते । पुमांसं दाहयेत् पापं शयने तप्त आयसे ।
अभ्यादध्युश्च काष्ठानि तत्र दह्येत पापकृत् । संवत्-
सराभिशस्तस्य दुष्टस्य द्विगुणो दमः । व्रात्यया सह
संवासे चाण्डाल्या तावदेव तु । शूद्रो गुप्तमगुप्तं वा द्वै-
जातं वर्णमावसन् । अगुप्तमङ्गसर्वस्वैर्गुप्तं सर्वेण हीयते ।
वैश्यः सर्वस्वदण्ड्यः स्यात् संवत्सरनिरोधतः । सहस्रं
क्षत्रियो दण्ड्या मौण्ड्यं मूत्रेण चार्हति । ब्राह्मणीं
यद्यगुप्तान्तु गच्छेतां वैश्यपार्थिवौ । वैश्यं पञ्चशतं
कुर्य्यात् क्षत्रियन्तु सहस्रिणम् । उभावपि तु तावेव
ब्राह्मण्या गुप्तया सह । विप्लुतौ शूद्रवद्दण्ड्यौ दग्धव्यौ
वा कटाग्निना । सहस्रं ब्राह्मणो दण्ड्यो गुप्तां विप्रा
बलाद्व्रजन् । शतानि पञ्च दण्ड्यः स्यादिच्छन्त्या सह
सङ्गतः । मौण्ड्यं प्राणान्तिकीदण्डो ब्राह्मणस्य विधी-
यते । इतरेषान्तु वर्णानां दण्डः प्राणान्तिको भवेत् ।
न जातु ब्राह्मणं हन्धात् सर्वपापेष्वपि स्थितम् । राष्ट्रा-
देनं बहिः कुर्य्यात् समग्रधनमक्षतम् । न ब्राह्मणबधाद्-
गूयानधर्मो विद्यते भुवि । तस्मादस्य बधं राजा मनसापि
न चिन्तयेत् । वैश्यश्चेत् क्षत्रियां गुप्तां वैश्यां वा क्षत्रियो
व्रजेत् । योब्राह्मण्यामगुप्तायां तावुभौ दण्डमर्हतः ।
सहसं ब्राह्मणो दण्डं दाप्यो गुप्ते तु ते व्रजन् । शूद्रायां
क्षत्रियविशोः साहस्रो वै भवेद्दमः । क्षत्रियायामगुप्तायां
वैश्ये पञ्चशतं दमः । मूत्रेण मौण्ड्यमिच्छेत्तु क्षत्रियो
दण्डमेव वा । अगुप्ते क्षत्रियावैश्ये शूद्रां वा ब्राह्मणो
व्रजन् । शतानि पञ्च दण्ड्यः स्यात् सहस्रन्त्व-
न्त्यजस्त्रियम्” ।
“स्त्री निषेधे शतं दद्याद्द्विशतन्तु दमं पुमान् । प्रतिषेधे
द्वयोर्द्दण्डो यथा संग्रहणे तथा । खजातावुत्तमो दण्ड
आनुलोम्ये तु मध्यमः । प्रातिलोम्ये बधः पुंसः स्त्रीणां
नासादिकर्त्तनम् । अलङ्कृतां हरन् कन्यामुत्तमस्त्वन्यथा-
ऽधमम् । दण्डं दद्यात् सवर्णासु प्रातिलोम्ये बधः स्मृतः ।
स्वकाम स्वनुलोमासु न दोषस्त्वन्यथा दमः । दूषणे तु
करच्छेद उत्तमायां बधस्तथा । शतं स्त्रीदूषणे दद्याद् द्वे
तु मिथ्य भिशंसने । पशून् गच्छन् शतं दाप्यो हीनां
स्त्रीं गाञ्च मध्यमम् । अवरुद्धासु दासीषु भुजिष्यासु
तथैव च । गम्यास्वपि पुमान् दाप्यः पञ्चाशत्पणिकं
दमम् । प्रसह्य दास्यभिगमे दण्डो दशपणः स्मृतः ।
बहूनां यद्यकामासौ चतुर्विंशतिकः पृथक् । गृहीतवे-
तना वेश्या नेच्छन्ती द्विगुणं वहेत् । अगृहीते समं
दाप्यः पुमानप्येवमेव च । अयोनौ गच्छतो योषां पुरुषं
वापि मोहतः । चतुर्विंशतिको दण्डस्तथा प्रव्रजिता-
गमे । अन्त्याभिगमने त्वङ्क्यः कुबन्धेन प्रवासयेत् । शूद्र-
स्तथान्त्य एव स्यादन्त्वस्यार्य्यागमे वधः” ।
  • राजशासनकूटकरणादौ मनुनोक्तो दमो यथा
“ऊनं वाप्यधिकं वापि लिखेद् यो राजशासनम् ।
पारदारिकचौरं वा मुञ्चतो दण्ड उत्तमः । अभक्ष्येण
द्विजं दुष्यन् दण्ड्य उत्तमसाहसम् । क्षत्त्रियं मध्यमं
वैश्यं प्रथमं शूद्रमर्द्धकम् । कूटस्वर्णव्यवहारी विमांसस्य
च विक्रयी । त्र्यङ्गहीनस्तु कर्त्तव्यो दाप्यश्चोत्तम-
साहसम् । चतुष्पादकृतो दोषो नापैहीति प्रजल्पतः ।
काष्ठलोष्ट्रेषु पाषाणबाहुयुम्यकृतस्तथा । छिन्ननस्येन
यानेन तथा भग्नयुनादिना । पश्चाच्चैवापसरता हिंसने
स्वाम्यदोषभाक् । शक्तो ह्यमोक्षयन् स्वामी दंष्ट्रिणां
शृङ्गिणां तथा । प्रथम साहसं दद्याद्विक्रुष्टे द्विगुणं
ततः । जारं चौरेत्यभिवदन् दाप्यः पञ्चशतं दमम् ।
उपजीव्य धनं मुञ्चंस्तदेवाष्टगुणीकृतम् । राज्ञोऽनिष्ट-
प्रवक्तारं तस्यैवाक्रोशककारिणम् । तन्मन्त्रस्य च भेत्तारं
जिह्वां छित्त्वा प्रवासयेत् । मृताङ्कसम्बविकेतुर्गुरो-
पृष्ठ ३४३१
स्ताड़यितुस्तथा । राजयानासनारोढुर्दण्ड उत्तमसा-
हसः । द्विनेत्रभेदिनो राजद्विष्टादेशकृतस्तथा । विप्र-
त्वेन च शूद्रस्य जीवतोऽष्टशतो दमः । दुर्दृष्टांस्तु पुनर्दृष्ट्वा
व्यवहारान्नृपेण तु । सभ्याः सजयिनो दण्ड्या
विवादाद्द्विगुणं दमम् । यो मन्येताजितोऽस्मीति न्याये-
नापि पराजितः । तमायान्तं पुनर्जित्वा दापयेद्द्विगुणं
दमम्” । याज्ञवल्क्यवचनांनि अनुपदमेषां मानवत्वोक्तिः
प्रामादिकी ।
  • सामान्यतोदमविधिः “पिताचार्य्यः सुहृन्माता भार्य्या पुत्रः
पुरोहितः । नादण्ड्यो नाम राज्ञोऽस्ति यः स्वधर्मे न
तिष्ठति । कार्षापणं भवेद्दण्ड्यो यत्रान्यः प्राकृतो जनः ।
तत्र राजा भवेद्दण्ड्यः सहस्रमिति धारणा । अष्टापाद्यन्तु
शूद्रस्य स्तेये भवति किल्विषम् । षोड़शैव तु वैश्यस्य
धात्रिंशत् क्षत्रियस्य च । ब्राह्मणस्य चतुःषष्टिःपूर्णँवापि
शतं भवेत् । द्विगुणा वा चतुःषष्टिस्तद्दोषगुणविद्धि सः ।
वानस्पत्यं मूलफलं दार्वग्न्यर्थं तथैव च । तृणञ्च
गोभ्यो ग्रासार्थमस्तेयं मनुरव्रवीत् । योऽदत्तादायिनो
हस्ताल्लिप्सेत ब्राह्मणो धनम् । याजनाध्यापनेनापि
यथा स्तेनस्तथैव सः । द्विजोऽध्वगः क्षीणवृत्तिर्द्वाविक्षू द्वे
च मूलके । आददानः परक्षेत्रान्न दण्डं दातुमर्हति ।
असन्धितानां सन्धाता सन्धितानाञ्च मोक्षकः । दासाश्व-
रथहर्त्ता च प्राप्तः स्याच्चौरकिल्विषम्” ।
“ऋत्विजं यस्त्यजेद्याज्यो याज्यञ्चर्त्विक् त्यजेद्यदि ।
शक्तं कर्म्मण्यदुष्टञ्च तयोर्दण्डः शतं शतम् । न माता
न पिता न स्त्री न पुत्रस्त्यागमर्हति । त्यजन्नपतिता-
नेतान् राज्ञा दण्ड्यः शतानि षट्” मनूक्तो दमः ।
  • अग्निपु० २२६ अ० सर्वविषये दमभेद उक्तो यथा
“चौरैरभूषितो यस्तु मूषितोऽस्मीति भाषते । तत्प्रदा-
तरि भूपाले स दण्ड्यस्तावदेव तु । यो यावद्विप-
रीतार्थं मिथ्या वा यो वदेत्तु तम् । तौ नृपेण
ह्यधर्मज्ञौ दाप्यौ तद्द्विगुणं दमम् । कूटसाक्ष्यं तु कुर्वा-
णांस्त्रीन् वर्णांश्च प्रमापयेत् । विवासयेद्ब्राह्मणन्तु
विधिरेष न हीतरः । निक्षेपस्य समं मूल्यं
दण्ड्यो निक्षेपभुक् तथा । वस्त्रादिकस्य, धर्मज्ञ! तथा
धर्मो न हीयते । यो निक्षेपं घातयति यश्चानि-
क्षिप्य याचते । तावुभौ चौरवच्छास्यौ दण्ड्यौ वा
द्विगुणं दमम् । अज्ञानाद्यः पुमान् कुर्य्यात् परद्रव्यस्य
विक्रयम् । निर्द्दोषो, ज्ञानपूर्वन्तु चौरवद्दण्डमर्हति ।
मूल्यमादाय यः पण्यं न दद्याद् दण्ड्य एव सः ।
प्रतिश्रुत्याप्रदातारं सुवर्णं दण्डयेन् नृपः । भृतिं गृह्य
न कुर्य्याद्यः कर्माष्टौ कृष्णला दमः । अकाले तु
त्यजन् भृत्यं दण्ड्यः स्यात्तावदेव तु । क्रीत्वा
विक्रीय वा किञ्चिद्यस्येहानुशयो भवेत् । सोऽन्तर्दशा-
हात्तत्स्वामी दद्याच्चैवाददीत च । परेण तु दशाहस्य
नादद्यान्नैव दापयेत् । आददद्धि ददच्चैव राज्ञा
दण्ड्यः शतानि षट् । वरे दोषानविख्याप्य यः कन्यां
वरयेदिह । दत्ताप्यदत्ता सा तस्य राज्ञा दण्ड्यः
शतद्वयम् । प्रदाय कन्यां योऽन्यस्यै पुनस्तां सम्प्रयच्छति ।
दण्डः कार्य्यो नरेन्द्रेण तस्याप्युत्तमसाहसः । सत्य-
ङ्कारेण वाचा च युक्तं पण्यमसंशयम् । लुब्धोऽन्यत्र
च विक्रेता षट्शतं दण्डमर्हति । दद्याद्धेनुं न यः
पालो गृहीत्वा भक्तवेतनम् । स तु दण्ड्यः शतं
राज्ञा सुवर्णं वाप्यरक्षिता । धनुःशतं परीणाहो
ग्रामस्य तु समन्ततः । द्विगुणं त्रिगुणं वापि नगरस्य
च कल्पयेत् । वृतिं तत्र प्रकुर्वीत यामुष्ट्रो नावलोक-
येत् । तत्रापरिवृते धान्ये हिंसिते नैव दण्ड म् ।
गृहन्तड़ागमारामं क्षेत्रं वा भीषया हरन् । शतानि
पञ्च दण्ड्यः स्यादज्ञानात् द्विशतो दमः । मर्यादा-
भेदकाः सर्वे दण्ड्याः प्रथमसाहसम् । शतं ब्राह्मण-
माक्रुश्य क्षत्रियो दण्ड्यमर्हति । वैश्यस्तु द्विशतं
राम शूद्रस्तु बधमर्हति । पञ्चाशद्ब्राह्मणो
दण्ड्यः क्षत्रियस्याभिशंसने । वैश्ये चाप्यर्द्धपञ्चाश-
च्छूद्रे द्वादशको दमः । क्षत्रियक्षेपके वैश्यः
साहसं पूर्वमेव तु । शूद्रः क्षत्रियमाक्रुश्य जिह्वा-
च्छेदमवाप्नुयात् । धर्मोपदेशं विप्राणां शूद्रः कुर्वंश्च
दण्डभाक् । श्रुतदेशादिवितथी दाप्यो द्विगुणसाहसम् ।
उत्तमः साहसस्तस्य यः पातैरुत्तमान् क्षिपेत् । प्रमा-
दाद्यैर्भयात् प्रोच्य प्रीत्या दण्डार्द्धमर्हति । मातरं पितरं
ज्येष्ठं भ्रातरं श्वशुरं गुरुम् । आकारयञ्च्छतं
दण्ड्यः पन्थानं चाददद्गुरोः । एकजातिर्द्विजातेस्तु
येनाङ्गेनापराध्नुयात् । तदेव च्छेदयेत्तस्य क्षिप्रमेवावि-
चारयन् । अवनिष्ठीवतो दर्पाद् द्वावोष्ठौ छेदयेन्नृपः ।
अपमूत्रयतो मेढ्रमपशर्द्दयतो शुदम् । उत्कृष्टासनसंस्थस्य
नीचस्याधोनिकृन्तनम् । यो यदङ्गुं च रुजयेत्तदङ्गन्तस्य
कर्त्तयेत् । अर्द्धपादकराः कार्या गोगजाश्वोष्ट्रघातकाः ।
वृक्षन्तु विफलं कृत्वा सुवर्णं दण्डमर्हति । द्विगुणं
पृष्ठ ३४३२
दापयेच्छिन्ने पथि सीम्नि जलाशये । द्रव्याणि यो
हरेद्यस्य ज्ञानतोऽज्ञानतोऽपि वा । स तस्योत्पाद्य
तुष्टिन्तु राज्ञे दद्यात्ततो दमम् । यस्तु रज्जुं घटं
कूपाद्धरेच्छिन्द्याच्च वा प्रपाम् । स दण्डं प्राप्नुयान् माषं
दण्ड्यः स्यात् प्राणिताड़ने । धान्यं दशभ्यः कुम्भेभ्यो
हरतोऽभ्यधिकं बधः । शेषेऽप्येकादशगुणं तस्य दण्डं
प्रकल्पयेत् । सुवर्णरजतादीनां नृस्त्रीणां हरणे बधः ।
येन येन यथाङ्गेन स्तेनो नृषु विचेष्टते । तत्तदेव
हरेदस्य प्रत्यादेशाय पार्थिवः । ब्राह्मणः शाकधान्यादि
अल्पं गृह्णन्न दोषभाक् । गोदेवार्थं हरंश्चापि, हन्या-
द्दष्टं बधोद्यतम् । गृहक्षेत्रापहर्त्तारं तथा पत्न्य-
भिगामिनम् । अग्निदं गरदं हन्यात्तथा चाभ्यु-
द्यतायुधम् । राजगत्यभिचाराभ्यां हन्याच्चैवातता-
यिनम् । परस्त्रियं न भाषेत प्रतिषिद्धो विशेन्न हि ।
अदण्डा स्त्री भवेद्राज्ञा वरयन्ती पतिं स्वयम् ।
उत्तमां सेवमानः स्त्रीं जघन्यो बधमर्हति । भर्त्तारं
लङ्घयेद्या तां श्वभिः सङ्घातयेत् स्त्रियम् । सवर्णदूषितां
कुर्य्यात् पिण्डमात्रोपजीविनीम् । ज्यायसा दूषिता
नारी मुण्डनं समवाप्नुयात् । वैश्यागमे तु विप्रस्य
क्षत्रियस्यान्त्यजागमे । क्षत्रियः प्रथमं, वैश्यो दण्ड्यः
शूद्रागमे भवेत् । गृहीत्वा वेतनं वेश्या लोभादन्यत्र
गच्छति । वेतनन्द्विगुणं दद्याद्दण्डञ्च द्विगुणं तथा ।
भार्या पुत्राश्च दासाश्च शिष्यो भ्राता च सोदरः ।
कृतापराधास्ताड्याः स्यूरज्वा वेणुदलेन वा । पृष्ठे, न
मस्तके हन्याच्चौरस्याप्नोति किल्विषम् । रक्षास्वधिकृतै-
र्यैस्तु प्रजाऽत्यर्थं विलुप्यते । तेषां सर्वस्वमादाय राजा
कुर्य्यात् प्रवासनम् । ये नियुक्ताः स्वकार्येषु हन्युः
कार्याणि कर्मिणाम् । निर्घृणाः क्रूरमनसस्तान्निःस्वान्
कारयेन्नृपः । अमात्यः प्राड्विवाको वा यः कुर्य्यात्
कार्य्यमन्यथा । तस्य सर्वस्वमादाय तं राजा विप्रवास-
येत् । गुरुतल्पे भगः कार्य्यः सुरापाने सुराध्वजः ।
स्तेयेषु श्वपदं विद्याद् ब्रह्महण्याशिरः पुमान् । शूद्रा-
दीन् घातयेद्राजा पापान्, विप्रान् प्रवासयेत् ।
महापातकिनां वित्तं वरुणायोपपादयेत् । ग्रामेष्वपि च
ये केचिच्चौराणां भक्तदायकाः । भाण्डारकोषदाश्चैव
सर्वांस्तानपि घातयेत् । राष्ट्रेषु राजाधिकृतान्
सामन्तान् पापिनो हरेत् । सन्धिं कृत्वा तु ये चौर्यं रात्रौ
कुर्वन्ति तस्कराः । तेषां पछित्वा नृपो हस्तौ तीक्ष्णे
शूले निवेशयेत् । तड़ागदेवतागारभेदकान् घातयेन्नृपः ।
समुत्सृजेद्राजमार्गे यस्त्वमेध्यमनापदि । स हि कार्षा-
पणन्दण्ड्यस्तममेध्यञ्च शोधयेत् । प्रतिमासङ्क्रमभिदो
दद्युः पञ्च शतानि ते । समेषु विषमं यो वा चरते
मूल्यतोऽपि वा । समाप्नुयान्नरः पूर्वं दमं मध्यममेव
वा । द्रव्यमादाय बणिजामनर्घेणावरुन्धताम् । राजा
पृथक् पृथक् कुर्य्याद्दंण्डमुत्तमसाहसम् । द्रव्याणां
दूषको यश्च प्रतिच्छन्दकविक्रयी । मध्यभं प्राप्नुयाद्-
दण्डं कूटकर्त्ता तथोत्तमम् । कलहापहृतं देयं दण्डश्च
द्विगुणस्ततः । अभक्ष्यभक्षे विप्रे वा शूद्रे वा कुष्णलो
दमः । तुलाशासनमानानां कूटकृन्नाणकस्य च ।
एभिश्च व्यवहर्त्ता यः स दाप्यो दममुत्तमम् । बिषा-
ग्निदां पतिगुरुविप्रापत्यप्रमापिणीम् । विकर्णकरना-
सौष्ठीं कृत्वा गोभिः प्रवासयेत् । क्षेत्रवेश्मवनग्रामवि-
दाहकास्तथा नराः । राजपत्न्यभिगामी च दग्धव्यास्तु
कटाग्निना । ऊनं वाप्यधिकं वापि लिखेद्यो
राजशासनम् । पारजायिकचौरौ च मुञ्चतो दण्ड उत्तमः ।
राजयानासनारीढुर्दण्ड उत्तमसाहसः । यो मन्ये-
ताजितोऽस्मीति न्यायेनापि पराजितः । तमायान्तं
पराजित्य दण्डयेद् द्विगुणं दमम् । आह्वानकारी बध्यः
स्यादनाहूतमथाह्वयन् । दाण्डिकस्य च यो हस्ताद-
भिमुक्तः पलायते । हीनः पुरुषकारेण तद् दद्याद्-
दाण्डिको धनम्” । “दण्डो दमयतामस्मि” गीता ।
“दण्डवत्प्रायश्चित्तानि भवन्ति” प्रा० वि० धृतवाक्यम्
कुलालचक्रार्थे “कलसे निजहेतुदण्डजः किमु चक्रभ्रमि-
कारिता गुणः” नैष० । दण्ड्यतोऽनेन करणे घञ् ।
२५ देहे दण्डपारुष्यशब्दे मिता० । २६ द्वापरोद्भवे
नृपभेदे । “क्रोधहन्तेति यस्तस्य बभूवावरजोऽसुरः ।
दण्ड इत्यभिविख्यातः सोऽभवन्मनुजर्षभः” भा० आ०
६७ अ० । “बधः पाण्ड्यस्य च तथा अश्वत्थाम्ना
महात्मना । दण्डसेनस्य च ततो दण्डस्य च वधस्तथा” भा०
आ० १ अ० । दण्डयति कर्त्तरि--अच् । २७ नृपे
दण्डनीतिशब्दे कामन्द० । अस्य शब्दस्य शब्दकल्पद्रुम-
दृष्ट्या शरणागतत्राणार्थतोक्तिः प्रामादिकी तत्प्रमा-
णवाक्ये दत्तमित्यभिधीयते इत्येव पाठः साधुः । लिपि-
करप्रमादात् दत्तमित्यत्र दण्डमिति पाठ इति बोध्यम्
दत्तशब्दे दृश्यम् ।
पृष्ठ ३४३३

दण्डक पु० दण्ड + स्वार्थे क । १ इक्ष्वाकुराजपुत्रभेदे “दण्ड-

को नृपतिः कामात् क्रोधाच्च जनमेजयः” कामन्दकी ।
जनस्थानशब्दे दृश्यम् । ह्रस्वो दण्डः अल्पार्थे कन् ।
२ ह्रस्वलगुडे(स्ॐटा) । ३ षड्विंशत्यक्षराधिकपादके चण्ड-
प्रयातादौ छन्दोभेदे । “यदिह नयुगलं ततः सप्त-
रेफास्तदा चण्डप्रयातो भवेद्दण्डकः” वृ० र० । ४ दण्डनृप-
कृते सन्निवेशे पु० । “दण्डकानध्यवात्तां यौ” भट्टिः
पुंस्त्वेन बहुवचनान्ततया जयमङ्गलः पपाठ । “परा-
क्रमात् जिगमिषुरेव दण्डकान्” रामा० अयो० २१ स०
६४ श्लो० । “प्राप्तानि दुःखान्यपि दण्डकेषु” रघुः ।
तद्भूमिपरत्वे स्त्री त्रिका० “भरतस्तु दण्डकामध्यवात्तां
यौ” इति पपाठ उदाजहार च “क्वायोध्यायाः पुनरुप-
गमो दण्डकायावने वः” भवभूतिवाक्यम् । तच्च वनं वृ०
स० १४० अ० कूर्म्मवि० दक्षिणस्यामुक्तं यथा “बलदेवपट्टन-
दण्डकावनतिमिङ्गिनाशना भद्राः” ।

दण्डकन्दक पु० दण्डः प्रकाण्डः कन्दोऽस्य कप् । भूमिकन्दे राजनि० ।

दण्डकाक पुंस्त्री० दण्डः यम इव कृष्णत्वात् काकः ।

(डाँड) काकभेदे हेमच० ।

दण्डगौरी स्त्री अप्सरोभेदे “उर्वशी मिश्रकेशी च दण्डगौरी वरूथिनी” भा० व० ४३ अ० ।

दण्डग्राह त्रि० दण्डं गृह्णाति ग्रह--अण् उप० स० ।

दण्डधारके ततः रेवत्या० अपत्यादौ ठक् । दाण्डग्राहिक
तदपत्यादौ पुंस्त्री० ।

दण्डघ्न त्रि० दण्डेन देहेन हन्ति हन--क । देहेन घातिनि

दण्डपारुष्यकर्त्तरि । “न साहसिकदण्डघ्नौ स राजा
शक्रलोकभाक्” मनुः ।

दण्डढक्का स्त्री दण्डा प्रकाण्डा ढक्का । (दामामा) ख्याते वाद्यभेदे त्रिका० ।

दण्डताम्री स्त्री ताम्रेण निर्वृत्ता अण् ङीष् दण्डा

प्रकाण्डा ताम्री । ताम्रीवाद्यभेदे शब्दर० ।

दण्डदास पु० दण्डेन कृतो दासः । दण्डद्रव्यदाना-

सामर्थ्येन तच्छोधनार्थं स्वीकृतदासभावे दासभेदे
“ध्वजाहृतो भक्तदासो गृहजः क्रीतदत्त्रिमौ । पैतृको
दण्डदासश्च सप्तैते दासयोनयः” मनुः । “दण्डादिधन-
शुद्ध्यर्थं स्वीकृतदासभावः” कुल्लू० ।

दण्डधर पु० दण्डं लोकानां कर्मानुसारिणं दण्डं लगुड़ं वा

धरति धर--अच् ६ त० । १ यमे अमरः २ नृपे । ३ लगुड़-
धारके त्रि० । “श्रमनुदं मनुदण्डधरान्वयम्” रघुः ।
“ईशो दण्डस्य वरुणो राज्ञां दण्डधरो हि सः” मनुः ।
“नाहं दण्डधरस्तव” भा० शा० २३ अ० ।

दण्डधार पु० दण्डं धरति धृ--अण् उप० म० । १ यमे २ नृपे

च मेदि० । ३ लगुड़हस्ते त्रि० “क्रोधवर्द्धन इत्येव
यस्त्वन्यः परिकीर्त्तितः । दण्डधार इति ख्यातः
स आसीन् नृपतिः क्षितौ” भा० आ० ६७ अ० उक्ते ४ नृपभेदे पु०
५ धृतराष्ट्रपुत्रभेदे । “कवची निषङ्गी दण्डी दण्डधारो
धनुर्ग्रहः” ६७ अ० धृतराष्ट्रपुत्रकथने ।

दण्डनायक पु० दण्डं नयति नी--ण्वुल् ६ त० । १ सेनान्याम्

हेमच० । दण्डप्रणेतरि २ नृपे च ।

दण्डनीति स्त्री दण्डो नीयतेऽनया नी--करणे क्तिन् ।

विद्याभेदे । “एकैव दण्डनीतिस्तु विद्येत्यौशनसी स्थितिः ।
तस्यान्तु सर्वविद्यानामारम्भाः समुदाहृताः” । “दमो दण्ड
इति ख्यातस्तात्स्थ्याद्दण्डो महीपतिः । तस्य नीति-
र्दण्डनीतिर्नयनान्नीतिरुच्यते” काम० नीतिः । तच्छास्त्र-
विषयविभागादि भा० शा० ५९ अ० उक्तं यथा
“ततोऽध्यायसहस्राणां शतञ्चक्रे स्वबुद्धिजम् । यत्र
धर्मस्तथैवार्थः कामश्चैवाभिवर्णितः । त्रिवर्ग इति
विख्यातो गण एष स्वयम्भुवा । चतुर्थो मोक्ष इत्येव
पृथगर्थः पृथग्गुणः । मोक्षस्यापि त्रिवर्गोऽन्यः प्रोक्तः
सत्त्वं रजस्तमः । स्थानं वृद्धिः क्षयश्चैव त्रिवर्गश्चैव
दण्डजः । आत्मा देशश्च कालश्चाप्युपायाः कृत्यमेव च ।
सहायाः कारणञ्चैव षड्वर्गो नीतिजः स्मृतः । त्रयी
चान्वीक्षिकी चैव वार्त्ता च भरतर्षभ! । दण्डनीतिश्च
विपुला विद्यास्तत्र निदर्शिताः । अमात्यरक्षा प्रणिधी
राजपुत्त्रस्य लक्षणम् । चारश्च विविधोपायः प्रणिधेयः
पृथग्विधः । साम भेदः प्रदानञ्च ततो दण्डश्च पार्थिव! ।
उपेक्षा पञ्चमी चात्र कार्त्स्न्येनैवमुदाहृता । मन्त्रश्च
वर्णितः कृत्स्नस्तथा भेदार्थ एव च । विभ्रमश्चैव मन्त्रस्य
सिद्ध्यसिद्ध्योश्च यत् फलम् । सन्धिश्च त्रिविधाभिख्यो हीनो
मध्यस्तथोत्तमः । भयसत्कारवित्ताख्यं कार्त्स्न्येन
परिवर्णितम् । यात्राकालाश्च चत्वारस्त्रिवर्गस्य च विस्तरः ।
विजयो धर्मयुक्तश्च तथार्थविजयश्च ह । आसुरश्चैव
विजयस्तथा कार्त्स्न्येन वर्णितः । लक्षणं पञ्चवर्गस्य
त्रिविधञ्चात्र वर्णितम् । प्रकाशश्चाप्रकाशश्च दण्डोऽथ
परिशब्दितः । प्रकाशोऽष्टविधस्तत्र गुह्यस्य च सुविस्तरः ।
रथा नागा हयाश्चैव पादाताश्चैव पाण्डव! । विष्टिर्नावश्च-
राश्चेह दैशिका इति चाष्टमम् । अङ्गान्येतानि कौरव्य!
प्रकाशानि बलस्य तु । जङ्गमाजङ्गमाश्चोक्ताश्चूर्णयोगा
विषादयः । स्पर्शे चाभ्यवहार्य्ये चाप्युपांशुस्त्रिविधः
स्मृतः । अरिर्मित्रमुदासीन इत्येतेऽप्यनुवर्णिताः ।
पृष्ठ ३४३४
कृत्स्ना मार्गगुणाश्चैव तथा भूमिगुणाश्च ह । आत्म-
रक्षणमाश्वासः सर्गाणाञ्चान्ववेक्षणम् । कल्पना विविधा-
श्चापि नृनागरथवाजिनाम् । व्यूहाश्च विविधाभिख्या
विचित्रं युद्धकौशलम् । उत्पाताश्च निपाताश्च सुयुद्धं
सुपलायितम् । शस्त्राणां पालनं ज्ञानं तथैव भरर्तषभ! ।
बलव्यसनमुक्तञ्च तथैव बलहषर्णम् । पीड़ातापदकालश्च
पत्तिज्ञानञ्च पाण्डव! । तथा खातविधानञ्च योगसञ्चार
एव च । चौरैराटविकेश्चोग्रैः परराष्ट्रस्य पीड़नम् ।
अग्निदैर्गरदैश्चैव प्रतिरूपककारकैः । श्रेणीमुख्योपजा-
पेन वीरुधश्छेदनेन च । भूषणेन च नागानामातङ्का-
जननेन च । आराधनेन भक्तस्य प्रत्ययोपार्ज्जनेन च ।
सप्ताङ्गस्य च राज्यस्य ह्रासवृद्धी समञ्जसम् । कृतसाम-
र्थ्ययोगाच्च राष्ट्रस्य च विवर्द्धनम् । अरिमध्यस्थमित्राणां
सम्यक् चोक्तं प्रपञ्चनम् । अवमर्द्दः प्रतीघातस्तथा चैव
बलीयसाम् । व्यवहारः सुसूक्ष्मश्च तथा कण्टकशोधनम् ।
श्रमो व्यायामयोगश्च त्यागो द्रव्यस्य संग्रहः । अभृता-
नाञ्च भरणं भृतानाञ्चान्ववेक्षणम् । अर्थस्य काले दानञ्च
व्यसने चाप्रसङ्गिता । तथा राजगुणाश्चैव सेनापति-
गुणाश्च ह । कारणञ्च त्रिवर्गस्य गुणा दोषास्तथैव च ।
दुष्टेप्सितञ्च विविधं वृत्तिश्चैवानुवर्त्तिनाम् । शङ्कित-
त्वञ्च सर्वस्य प्रसादस्य च वर्जनम् । अलब्धलाभो, लब्धस्य
तथैव च विवर्द्धनम् । प्रदानञ्च विवृद्धस्य पात्रेभ्यो विधि-
वत्ततः । विसर्गोऽर्थस्य धर्म्मार्थं कामहेतुकमुच्यते ।
चतुर्थं व्यसनाघाते तथैवात्रानुवर्ण्णितम् । क्रोधजानि
तथोग्राणि कामजानि तथैव च । दशोक्तानि कुरुश्रेष्ठ!
व्यसनान्यत्र चैव ह । मृगयाक्षास्तथा पानं स्त्रियश्च
भरतर्षभ! । कामजान्याहुराचार्य्याः प्रोक्तानीह स्वयम्भुवा ।
वाक्पारुष्यं तथोग्रत्वं दण्डपारुष्यमेव च । निग्रहो-
ऽथात्मनस्त्यागमर्थदूषणमेव च । यन्त्राणि विविधान्येव
क्रियास्तेषाञ्च वर्ण्णिताः । अवमर्द्दः प्रतीघातः केतना-
नाञ्च भञ्जनम् । चैत्यद्रुमावमर्दश्च रोधः कर्म्मानुशासनम्
अपस्करोऽथ गमनं तथोपायाश्च वर्ण्णिताः । पणवान-
कशङ्खानां भेरीणाञ्च युधिष्टिर! । उपार्जनञ्च द्रव्याणां
परिमर्दश्च तानि षट् । लब्धस्य च प्रशमनं सताञ्चैवाभि-
पूजनम् । विद्वद्भिरेकीभावश्च दानहोमविधिज्ञता ।
मङ्गलालम्भनञ्चैव शरीरस्य प्रतिक्रिया । आहार-
योजनञ्चैव नित्यमास्तिक्यमेव च । एकेन च
यथोत्थेयं सत्यत्वं मधुरं गिरः । उत्सवानां समाजानां
क्रियाकेतनजास्तथा । प्रत्यक्षाश्च परोक्षाश्च सर्वाधि-
करणेष्वथ । वृत्ते भरतशार्दूल! नित्यञ्चैवान्ववेक्षणम् ।
अदण्ड्यत्वञ्च विप्राणां युक्त्या दण्डनिपातनम् ।
अनुजीविस्वजातिभ्यो गुणेभ्यश्च समुद्भवः । रक्षणञ्चैव पौराणां
राष्ट्रस्य च विवर्द्धनम् । मण्डलस्था च या चिन्ता
राजन्! द्वायशराजिका । द्वासप्ततिविधा चैव शरीरस्य
प्रतिक्रिया । देशजातिकुलानाञ्च धर्म्माः समनुवर्णिताः ।
धर्मश्चाथश्च कामश्च मोक्षश्चात्रानुवर्णितः । उपायश्चार्थ-
लिप्सा च विविधा भूरिदक्षिणा । मूलकर्मक्रिया चात्र
मायायोगश्च वर्णितः । दूषणं स्रोतसाञ्चैव वर्ण्णितं च
स्थिराम्भसाम् । यैर्यैरुपायैर्लोकस्तु न चलेदार्य्यवर्त्मनः ।
तत्सर्वं राजशार्दूल! नीतिशास्त्रेऽभिवर्णितम् । एतत्
कृत्वा शुभं शास्त्रं ततः स भगवान् प्रभुः । देवानुवाच
संहृष्टः सर्वाञ्छक्रपुरोगमान् । उपकाराय लोकस्य त्रि-
वर्गस्थापनाय च । नवनीतं सरस्वत्या बुद्धिरेषा प्रभा-
विता । दण्डेन सहिता ह्येषा लोकरक्षणकारिका ।
निग्रहानुग्रहरता लोकाननुचरिष्यति । दण्डेन नीयते
चेदं दण्डं नयति वा पुनः । दण्डनीतिरिति ख्याता
त्रींल्लोकानतिवर्त्तते । षाड्गुण्यगुणसारैषा स्थास्यत्यग्रे
महात्मसु । धर्म्मार्थकाममोक्षाश्च सकला ह्यत्र
शब्दिताः । ततस्तां भगवान्नीतिं पूर्बं जग्राह शङ्करः ।
बहुरूपो विशालाक्षः शिवः स्याणुरुमापतिः । प्रजा-
नामायुषो ह्रासं विज्ञाय भगवान् शिवः । सञ्चिक्षेप
ततः शास्त्रं महार्थं ब्रह्मणा कृतम् । विशालाक्षमिति
प्रोक्तं तदिदं प्रत्यपद्यत । दशाध्यायसहस्राणि सुब्रह्मण्यो
महातपाः । भगवानपि तच्छास्त्रं सञ्चिक्षेप पुरन्दरः ।
सहस्रैः पञ्चभिस्तात! यदुक्तं बाहुदन्तकम् । अध्या-
यानां सहस्रंस्तु त्रिभिरेव वृहस्पतिः । सञ्चिक्षेपेश्वरो
बुद्ध्या वार्हस्पत्यं यदुच्यते । अध्यायानां सहस्रेण काव्यः
संक्षेपमब्रवीत् । तच्छास्त्रममृतप्रज्ञो योगाचार्य्यो
महायशाः । एवं लोकानुरोधेन शास्त्रमेतन्महर्षिभिः ।
संक्षिप्तमायुर्विज्ञाय मर्त्यानां ह्रासमेव च ।”
२ दुर्गायाम् “नयानयगता लोके विकल्पनिलयामला ।
दण्डनाद्नयनाद्वापि दण्डनीतिरिति स्मृता” देवीपु० ४५ अ०
भावे क्तिन् । ३ दण्डप्रणयने स्त्री ।

दण्डनेतृ न० दण्डं नयति अपराधिनम् नी--तृच् ६ त० ।

दण्डप्रणायके नृपे । “सैन्यापत्यञ्च राज्यञ्च दण्डनेतृत्वमेव
च” मनुः ।
पृष्ठ ३४३५

दण्डप पु० दण्डेन पाति पा--क । दण्डेन पालके नृपे

तस्यापत्यं नडा० फक् । दाण्डपायन तदपत्ये पुंस्त्री ।

दण्डपांशुल पु० दण्डेन यष्टिधारणेन पांशुलः अधमः ।

द्वारपाले शब्दर० ।

दण्डपाणि पु० दण्डः यष्टिः पाणौ यस्य । दण्डधरे यमे ।

काशीस्थे २ भैरवभेदे “विश्वेशं माधवं ढुण्ढिं दण्ड-
पाणिञ्च भैरवम्” स च पूर्णभद्रयक्षसुतो हरिकेशनामा
आराधितशिववरेण काश्यां दण्डपाणिनामत्वम-
वाप । यथाह काशीख० ३२ अ० “इति श्रुत्वा वचः
पत्न्याः पूर्णभद्रः स यक्षराट्” इत्थुपक्रमे “अन्तर्वत्न्यथ
कालेन तत्पत्नी सुषुवे सुतम् । तस्य नाम पिता चक्रे
हरिकेश इति द्विज!” इत्यनेन तस्योत्पत्तिमुक्त्वा तस्य
शिवाराधनमुपवर्ण्य तपसाप्रसन्नशिवस्य तस्मै वरदानमुक्तं
यथा “भक्तस्य धीरस्य तपोनिधेदेदौ हरो वराणां निकरं
तदा मुदे । क्षेत्रस्य यक्षास्य मम प्रियस्य भो भवाधुना
दण्डधरो वरान्मम । स्थिरस्त्वमद्यादि दुरात्मदण्डकः
सुपालकः पुण्टकृताञ्च मत्प्रियः । त्वं दण्डपाणिर्भव
नामतोऽधुना सर्वान् गणान् शाधि ममाज्ञयोत्कटान् ।
त्वत्सात्कृतक्षेत्रवरेऽद्य यक्षराट् कस्त्वामनाराध्य मुमु-
क्तिभाजनम् । सभाजनं प्रागत एव ते चरेत् ततः समर्च्चा
मम भक्त आदरात् । मद्भक्तियुक्तोऽपि विना त्वदीयां
भक्तिं न काशीवसतिं लभेत । गणेषु देवेषु हि
मानवेषु तदग्रमान्यो भव दण्डपाणे” । काश्यां तत्स्थिति-
स्थानञ्च तत्रैवोक्तं यथा “त्वं दक्षिणस्यां दिशि दण्ड-
पाणे! सदैव मे नेत्रसमक्षमत्र । त्वं दण्डयन् प्राण-
भृतो दुरीहानिहास्व निस्वानभयं दिशन् वै” ।

दण्डपारुष्य न० दण्डेन देहेन पारुष्यम् । व्यवहारविषय-

भेदे “तत्स्वरूपञ्च नारदेनोक्तम् “परगात्रेष्वभिद्रोहो
हस्तपादायुधादिभिः भस्मादिभिश्चोपघातो दण्ड-
पारुष्यमुच्यत” इति । “परगात्रेषु स्थावरजङ्गमात्मक-
द्रव्येषु हस्तपाद्रायुधैरादिग्रहणाद्ग्रावादिभिर्योऽभि-
द्रोहो हिंसनं दुःखोत्पादनं तथा भस्मना
आदिग्रहणाद् रजःपङ्कपुरीषाद्यैश्च य उपघातः संस्पर्शनरूपं
मनोदुःखोत्पादनन्तदुभयं दण्डपारुष्यम् । दण्ड्यतेऽने-
नेति दण्डो देहस्तेन यत् पारुष्यं विरुद्धाचरणं जङ्ग-
मादेर्द्रव्यस्य, तद्दण्डपारुष्यम्” मिता० ।
तद्भेदादिकं वीरमि० उक्तं यथा
“तस्य त्रैविध्यमाह नारदः । “तस्यापि दृष्टन्त्रैविध्यं
हीनमध्योत्तमक्रमात् । अवगोरणनिःशङ्कपातनक्षत-
दर्शनैः । हीनमध्योत्तमानाञ्च द्रव्याणां समतिक्रमात् ।
त्रीण्येव साहसान्याहुस्तत्र कण्टकशोधनमिति” ।
अवगोरणं ताड़नाद्युद्योगः । निःशङ्कपातनं निःशङ्कप्रह-
रणम् । त्रीण्येव साहसानि त्रिप्रकाराण्येव सहसा-
कृतानि दण्डपारुष्याणीत्यर्थः । अन्यानपि भेदानाह
परिशिष्टकारः । “दुःखं रक्तं व्रणं भङ्गं छेदनं भेदन-
न्तथा । कुर्य्याद्यः प्राणिनां तद्धि दण्डपारुष्य-
मुच्यते” । स्थावरजङ्गमप्राणिनां प्राण्यन्तरकृतनखा-
दिना छेदनादिभवं दुःखं रक्तव्रणादिकञ्च दण्डपारुष्य-
मुच्यत इत्यर्थः । व्यासोऽपि “भस्मादिना प्रक्षिपणी
ताड़नञ्च करादिना । आवेष्टनञ्चांशुकाद्यैर्दण्डपारुष्य-
मुच्यते” । आदिग्रहणाद्दुःखकरं कर्दमपांशु-
मलादि द्रव्यं गृह्यते । करादिनेत्यादिशब्देन पाषा-
णेष्टकायुधादि द्रव्यम् । अंशुकाद्यैरित्यादिशब्देन रज्ज्वु-
शृङ्खलादिद्रव्यम् । दण्डपारुष्यस्य पञ्चप्रकारा
विधयो नारदेन दर्शिताः । “विधिः पञ्चविधस्तूक्त
एतयोरुभयोरपि । पारुष्ये सति संरम्भादुत्पन्ने
क्रुद्धयोर्द्वयोः । स मान्यते यः क्षमते दण्डभाग्योऽति-
वर्त्तते । पूर्ववमाक्षारयेद्यस्तु नियतं स्यात् स दोषभाक् ।
पश्चाद्यः सोऽप्यसत्कारी पूर्वे तु विनयो गुरुः । द्वयो-
रापन्नयोस्तुल्यमनुबध्राति यः पुनः । स तयोर्दण्ड-
माप्नोति पूर्वो वा यदि चेतरः । पारुष्यदीषावृतयो-
र्युगपत्सम्प्रवृत्तयोः । विशेषश्चेन्न लक्ष्येत विनयः स्यात्
समस्तयोः । श्वपाकषण्डचाण्डालव्यङ्गेषु बधवृत्तिषु ।
हस्तिपव्रात्यदासेषु गुर्वाचार्यनृपेषु च । मर्य्यादातिक्रमे
सद्यो घात एवानुशासनम् । यमेव ह्यतिवर्त्तेरन्नेते
सन्तञ्जनं नृषु । स एव विनयं कुर्य्यात् न तद्विनय-
भाङ्नृपः । मला ह्येते मनुष्याणां धनमेषां मलात्म-
कम् । अतस्तान् घातयेद्राजा नार्थदण्डेन दण्डये-
दिति” । अयमर्थः । वाग्दण्डपारुष्ययोंसभयोरपि
द्वयोः प्रवृत्तकलहयोर्मध्ये यः क्षमते न तस्य केवलं
दण्डाभाव एव किन्तु पूज्यत्वमपि । तथा पूर्वं कलहे
प्रवृत्तस्य दण्डगुरुत्वम् । कलहे च वृद्धवैरानुसन्धातुरेव
दण्डभाक्त्वम् । तथा तयोर्द्वयोरपराधविशेषापरि-
ज्ञाने सम एव दण्डः । तथा श्वपचादिभिरार्याणामप-
राधे कृते सज्जना एव दण्डने अधिकारिणस्तेषा-
मशक्यत्वे तान् राजा घातयेदेव नार्थं गृह्णीयादिति ।
पृष्ठ ३४३६
यत्तु वृहस्पतिवचनम् “आक्रुष्टस्तु समाक्रोशं
ताड़ितः प्रतिताड़यन् । हत्वापराधिनञ्चैव नापराधी
भवेन्नरः” इति । तत्पूर्वप्रवृत्तस्य समो दण्डः पश्चात्
प्रवृत्तस्य नेत्येवंपरन्न तु दण्डाभावपरम् । दण्डपारुष्य
स्वरूपसन्देहे निर्णायकमाह याज्ञवल्क्यः “असा-
क्षिकहते चिह्नैर्युक्तिभिश्चागमेन च । द्रष्टव्यो व्यव-
हारस्तु कूटचिह्नकृतो भयादिति” । यदा कश्चिद्रहस्य-
हमनेनाहत इति राज्ञे निवेदयति तदा चिह्नैर्व्रणा-
दिभिस्तत्स्वरूपगतैर्लङ्गैः युक्तिभिः कारणप्रयोजन
पर्य्यालोचनादिभिः आगमेन जनप्रवादेन चशब्दा-
द्दिव्येन वा कूटचिह्नकृतसम्भावनभयात् परीक्षा
कार्य्येत्यर्थः ।

दण्डपाल पु० दण्डं देहं पालयति भक्षणात् पालि--अण्

उप० स० । (डाड़िकोणा) मत्स्यभेदे हारा० तद्भोजिनो
रोगिणी देहस्यास्थ्यजननात्तस्य तथात्वम् । संज्ञायां
कन् । दण्डपालक शकुलमत्स्यभेदे हारा० । उभयमपि
दण्डनायके ।

दण्डपिङ्गलक पु० दण्डः देहः पिङ्गलोऽत्र । उत्तरस्थदेशभेदे

“उत्तरतः कैलासः” इत्युपक्रमे वृ० स० १४ अ० कूर्म-
विभागे “पौरवकवचदारुदण्डपिङ्गलकाः” उक्तः ।

दण्डबालधि पु० दण्ड इव बालधिरस्य । हस्तिनि शब्दर० ।

तस्य लाङ्गूलस्य दण्डाकारत्वात् तथात्वम् ।

दण्डबाहु त्रि० दण्ड इव वाहुरस्य । १ दण्डाकारबाहुयुक्ते

२ कुमारानुचरभेदे पु० । “दण्डबाहुः सुबाहुश्च रजःको-
किल एव च” भा० श० ४६ अ० कुमारानुचरोक्तौ ।

दण्डभृत् त्रि० दण्डं यष्टिं लोकदमनं वा बिभर्त्ति

भृक्विप् । १ यष्टिधारके २ यमे त्रिका० ।

दण्डमत्स्य पु० दण्ड इव मत्स्यः । दण्डाकारे शकुलमत्स्ये ।

“दण्डमत्स्यो रसे तिक्तः पित्तरक्तं कफं हरेत् । वात
साधारणः प्रोक्तः शुक्रलो बलवर्द्धन” राजव० ।

दण्डमांन(ण)व पु० दण्डप्रधानो मान(ण)वः शा० त० ।

दण्डप्रधाने जने बालके च तदर्थपरतायां गोत्रप्रत्ययान्त-
शब्दात् “दण्डमान(ण)वान्तेवासिषु” पा० न वुञ् ।
दाक्षा दण्डमान(ण)बाः शिष्या वा” सि० कौ० ।

दण्डमातङ्ग पु० पिण्डतगरे पारस्करनिघण्टुः ।

दण्डमाथ पु० दण्डाकारो माथः पन्थाः शा० त० । प्रधानपथे

दण्डमाथं धावति ठक् । दाण्डमाथिक तत्रधावके नि० ।

दण्डमुद्रा स्त्री दण्डाकारा मुद्रा “उत्तानोर्द्ध्वमुखा मध्या

सरला बद्धमुष्टिका । दण्डमुद्रा समाख्याता” तन्त्रसा-
रोक्ते मुद्राभेदे ।

दण्डयात्रा स्त्री दण्डार्थं शत्रुदमनार्थं दण्डा प्रकाण्डा वा

यात्रा । १ जिगीषोर्थात्रायां २ सम्यग्गमने ३ वरयात्रा-
याञ्च मेदि० ।

दण्डयाम पु० दण्डेन यच्छति यम--बा० कर्त्तरि यम--घञ् ।

१ यमे २ दिने । दण्डे इन्द्रियदमने यामः संयमो यस्य ।
३ अगस्त्ये मुनौ च मेदि० ।

दण्डरी स्त्री दण्डं तदाकारं राति रा--क गौरा०

ङीष् । (डङ्गरा) इतिनामके वृक्षे राजनि० ।

दण्डवादिन् पु० दण्डेन तदुत्तोलनेन वदति

वदणिनि । १ द्वारपाले हारा० २ दण्डवक्तरि प्राड्विकादौ च ।

दण्डवासिन् पु० दण्डे दण्डनिमित्तं वसति द्वारदेशे

वसणिनि । १ द्वारपाले त्रिका० । २ एकग्रामदण्डनेऽधिकृते
जने जटा० ।

दण्डविष्कम्भ पु० दण्डं मन्थानदण्डं विष्कभ्नाति वि +

स्कन्भ--अण् उप० स० । (चोलमओयार खुँटि) तक्र-
मन्थनार्थं रज्ज्वा दण्डाकर्षणार्थे मन्थानवन्धनहेतौ
स्तम्भभेदे अमरः ।

दण्डवृक्ष पु० दण्डाकारः पत्रादिहीनत्वात् वृक्षः । स्नुही-

वृक्षे । स्वार्थे क । स्नुहीवृक्षे राजनि० । तस्य पत्र-
शून्यत्वेन दण्डाकारत्वात्तथात्वम् ।

दण्डव्यूह पु० दण्डसंज्ञको व्यूहः । व्यूहभेदे दण्डशब्दे

दृश्यम् । “दण्डव्यूहेन तन्मार्गं यायात्तु शकटेन वा”
मनुः । “दण्डाकृतिरचनो दण्डव्यूहः” कुल्लू० । “यत्राग्रे
बलाध्यक्षो मध्ये राजा पश्चात् सेनापतिः पार्श्वयोर्हस्ति-
नस्तत्समीपे घोटकास्ततः पदातयः इत्येवं कृतरचनो
दीर्घः सर्वतः समविन्यासो दण्डव्यूह उच्यते । तेन
थातव्यं मार्गं सर्वतोभये सति यायात्” तदर्थः ।

दण्डसहाय पु० दण्डे सहायः । दुष्टनिग्रहादौ राज्ञा

सहाये । स च सहाया इत्युपक्रमे “दण्डेषु सुहृत्कु-
माराटविकाः सामन्तकाद्याश्चेति” सा० द० उक्तः ।

दण्डसेन पु० पौरवे विष्वक्सेनसुते नृपभेदे विष्यक्सेनस्य

पुत्रोऽभूत् दण्डसेनो महीपतिः” हरिवं० २० अ० २ द्वाप-
रयुगीये नृपभेदे च । “वधः पाण्डस्य च तथा अश्वत्थाम्ना
महात्मना दण्डसेनस्य च ततो दण्डस्य च बधस्तथा”
भा० आ० १ अ० ।

दण्डस्थान न० ६ त० । मनूक्तेषु दशसु दण्डस्थानेषु उपस्थादिषु

दश स्थानानि दण्डस्येत्यादिवाक्यं दण्डशब्दे दृश्यम् ।
"https://sa.wikisource.org/w/index.php?title=वाचस्पत्यम्/द&oldid=85309" इत्यस्माद् प्रतिप्राप्तम्