सामग्री पर जाएँ

वाचस्पत्यम्/छ

विकिस्रोतः तः
← वाचस्पत्यम्/च वाचस्पत्यम्/छ
तारानाथ भट्टाचार्य
वाचस्पत्यम्/ज →
पृष्ठ २९७६

छकारो व्यञ्जनवर्णभेदः स्पर्शसंज्ञस्तस्योच्चारणस्थानं

तालु आभ्यम्नरप्रयत्नः जिह्वामध्येन तालुस्मर्शः । बाह्य-
प्रयत्नाः विवारश्वासाऽथोषा महाप्राणश्च । मातृका-
न्यासेऽस्य वामकूर्परे न्यासः । तन्त्रमते अस्य वाचक-
शब्दाः । “छश्छन्दनं सुषुम्णा च पशुः पशुपति-
र्मृतिः । निर्मलं तरलं वह्निर्भूतमात्रा विलासिनी ।
एकनेत्रश्च वृषली द्विशिरा वामकूर्परः । गोकर्णो
लाङ्गली रामः काममाता सदाशिवः । माता निशाचरः
पायुर्विक्षतः स्थितिशब्दकः” वर्णाभिधानम् । “मातृका
वर्णात्मिकायास्तस्या ध्यानमुक्तं वर्णोद्धारतन्त्रे
“ध्यानमस्याः प्रवक्ष्यामि द्विभुजां तु त्रिलोचनाम् ।
पीताम्बरधरां नित्यं वरदां भक्तवत्सलाम् । एवं
ध्यात्वा छकारन्तु तन्मन्त्रं दशधा जपेत्” । काव्येऽस्य
प्रथमनिर्द्देशफलं वृ० र० टी० उक्तं यथा “कः खोगो
घश्च लक्ष्मीं वितरति वियशोङस्तथा चः सुखं छः प्रीति
जोमित्रलाभमित्यादि” ।

पु० १ छकारवर्णे । छो--घञर्थे भावे क । २ छेदने स्त्री

कर्म्मणि घञर्थे क । ३ निर्म्मले त्रि० मेदि० । ४ गृहे न०
शब्दार्थचि० । छद--बा० भावे ड । ५ छादने ।

छग पुंस्त्री छं रोमभिश्छादनं गच्छति गम--ड । अजे छागे

हेमच० । स्त्रियां जातित्वात् ङीष् ।

छगण पुंन० । छाय वह्नेश्छादनाय गण्यते गण--कर्मणि

अच् । करीषे हेमच०

छगल पुंस्त्री छो--कलच् गुक् हस्वश्च । १ छागे स्त्रियां

जातित्वात् ङीष् । २ नीलवस्त्रे न० । ३ वृद्धदारकवृक्षे पु०
हेमच० । ४ छगलप्रधानदेशे पु० सोऽभिजनोऽस्य तक्ष-
शिला० अञ् । ५ तद्देशवासिनि त्रि० । ६ मुनिपत्नीभेदे
स्त्री छागली ७ ऋषिभेदे पु० । ततो बाह्वा० अपत्ये
इञ् । छागलि तदपत्ये पुंस्त्री । आत्रेये तु अण् ।
छागल आत्रेये छागलापत्ये । तद्भिन्ने छागल्या अपत्ये
च ढक् । छागलेय ऋषिभेदे सच स्मृतिकर्त्ता ।

छगलक पुंस्त्री छगल + स्वार्थे क । छागे अमरः ।

छगलण्ड पु० दक्षिणदेशे समुद्रसन्निधौ प्रचण्डादेव्याःस्थाने

शब्दार्थचि० ।

छगलाङ्घ्रि(न्त्री) स्त्री छगलस्येवान्त्रम् अङ्घ्रिर्मूलं वा यस्याः

अदन्तात् गौरा० ङीष् । १ वृद्धदारकौषधे अमरः २ वृके
शब्दर० । स्वार्थे क । अत्रैवार्थे ।

छगलिन् पु० ऋषिभेदे । स च कलाप्यन्तेवासी । हरिद्रु-

श्छगली तुम्बुरुरुलपश्चत्वारः कलाप्यत्नेवासिनः”
मनो० तत्र कलाप्यन्तेवासित्वात् अणि प्राप्ते विशेषवि-
धिना तेन प्रोक्तमधीयते इत्यर्थे ढिनुक् । छागलेयिन्
तदुक्ताध्ये तृषु ब० व० ।

छच्छिका स्त्री “छच्छिका सरहीनं स्यादच्छा प्रचुरवा-

रिका । छच्छिका शीतला लघ्वी पित्तश्रमतृषाहरी ।
वातनुत् कफकृत् सा तु दीपनी लबणान्विता” इत्युक्ते
तक्रभेदे । भावप्र० । सरहीनं दधीति शषः ।

छटा स्त्री छो--अटन् किच्च । १ दीप्तौ, २ परम्परायाञ्च शब्दा-

र्थचि० “यस्याश्चलद्वारिधिवारिवीचिच्छटोच्छ्वलच्छङ्ख
कुलाकुलेन” “शठच्छटाभिन्नघनेन बिभ्रता” माघः ।
“स्वच्छन्दोच्छलदच्छकच्छकुहरच्छातेतराम्बुच्छटा”
काव्यप्र० । “स्मेरेन्दीवरदामसुन्दरवपुस्तस्याः कटाक्ष-
च्छटा” सा० द० ।

छटाफल पु० छटेव परम्परान्वितं फलं यस्य । गुवाके । त्रिका० ।

छटाभा स्त्री छटया दीप्त्या भाति भा०--क । विद्युति

हारा० ।

छत्त्र पु० छद--णिच् ष्ट्रन् ह्रस्वः अर्द्धर्चा० । छत्राकारपत्रे

(छातारिया) १ क्षुपभेदे रत्नमाला । २ आतपत्रे न० ।
मेदि० । ३ अतिच्छत्रायां (सुल्पा) वृक्षे स्त्री । ४ भूतृणे
राजनि० । तत्र आतपत्रशब्दे ६३९ पृ० उष्णवारण-
शब्दे १३८० पृष्ठे च विवृतिः । “रथाश्वं हस्तिनं छत्त्रं
धनं धान्यं पशून् स्त्रियः” । “अभ्यङ्गमञ्जनञ्चाक्ष्णा
रुपानच्छत्त्रधारणम्” मनुः । शशिप्रभं छत्त्रमुभे च
चामरे” रघुः । ५ आवरणमात्रे च । छत्त्रं गुरो र्वैगु
ण्याच्छादनं शीलं यस्य छत्त्रा० ण । छात्त्रा शिष्ये ।

छत्त्रक पु० छत्रमिव कायति कैक । (राङ्गाकुलेखाडा)

१ वृक्षे, २ मत्स्यरङ्गे पक्षिणि च रत्नमालाः स्वार्थे क
३ छत्रे न० । ४ ईश्वरगृहभेदे शब्दार्थचि० ।

छत्त्रगुच्छ पु० छत्त्रमिव गुच्छोऽस्य । गुण्डतृणे राजनि० ।

छत्त्रध(धा)र पु० छत्त्रं धरति धारयति वा अच् अण् वा ।

छायाकरणाय नियुक्ते दामभेदे तत्र अणन्तस्य “अणि-
नियुक्ते” पा० पूर्व्वपदमाद्युदात्तम् ।

छत्त्रपत्र पु० छत्त्रमिव पत्रमस्य । १ स्थलपद्मे, रत्नमाला

२ भूर्जपत्रवृक्षे च त्रिका० ।

छत्रपुष्प(क) पु० छत्त्रमिव पुष्पमस्य वा कप् । तिलकवृक्षे

शब्दार्थचि० ।

छत्त्रभङ्ग पु० छत्रस्य भङ्गो यत्र । १ नृपनाशे २ वैधव्ये ३ अस्वातन्त्र्ये च मेदि० ।

छत्त्रा स्त्री छद--त्रण् टाप । (मौरि) वृक्षे मेदि० २ अतिच्छत्रे

(सुल्पा) ३ कुस्तुम्बुरौ (धनिया) ४ शिलीन्ध्रे च मेदि० ।
५ मञ्जिष्ठायां राजनि० ।

छत्त्राक न० छत्त्रा अतिच्छत्त्रेव कायात कै--क । १ शिलीन्ध्रे

“छत्त्राकं विड्वराहञ्चेति” मनुः । “पलाण्डुं विड्-
वराहञ्च छत्त्राकं ग्रामकुक्कुटम्” याज्ञ० । २
जालवर्वुरकक्षे पु० राजनि० गौरा० ङीष् । ३ रास्नायां स्त्री
अमरः ।

छत्त्रातिच्छत्त्र पु० च्छत्त्रमतिक्रम्य छत्रमावरणमस्त्यस्य

अच् । छत्त्राकारे जलोद्भवे सुगन्धितृणभेदे शब्दरत्ना० ।

छत्त्रादि पु० “छत्त्रादिभ्योणः” पा० शीलार्थे णप्रत्ययनि-

मित्ते पा० ग० सू० उक्ते गणभेदे स च गणो यथा
छत्त्र शिक्षा प्ररोह स्था बुभुक्षा चुरा तितिक्षा उप
स्थान कृषि कर्मन् विश्वधा तपस् सत्य अनृत विशिखा
विशिका भक्षा उदस्थान पुरोड श विक्षा चुक्षा मन्त्र”
छात्रः चौर इत्यादि

छत्त्राधान्य न० छत्त्रा धान्यमिव । कुस्तुम्बुरौ धन्याके राजनि० ।

पृष्ठ २९७७

छत्त्रिका स्त्री छत्त्रं तदाकारं पुष्पं वाऽस्त्यस्य ठन् ।

१ शिलीन्ध्रे स्वेदजे शाकभेदे हारा० तस्या उत्पत्ति-
स्थानादिकं भावप्र० उक्तं यथा
“उक्तं संस्वेदजं शाकं भूमिच्छत्रं शिलीन्ध्रकम् । क्षिति
गोमयकाष्ठेषु वृक्षादिषु तदुद्भवेत् । सर्वे संस्वेदजाः
शाकादोषलाः पिच्छलाश्च ते । गुरवश्छर्द्यतीसारज्वर-
श्लेष्पामयप्रदाः । श्वेतशुभ्रस्थलीकाष्ठवंशयोमयसम्भवाः ।
नातिदोषकरास्ते स्युः शेषास्तेभ्योविगर्हिताः” । २ छत्त्र-
विशिष्टे त्रि० ततः पुरोहिता० भावे यक् । छात्त्रिक्य
छत्त्रयुक्तत्वे न०

छत्त्रिन् त्रि० छत्त्रमस्त्यस्य । १ आतपत्रयुक्ते । “छत्त्रिणो

गच्छन्ति” सा० द० । “वर्षातपे च छत्त्री दण्डी रात्र्य
टवीषु च” भावप्र० “मौञ्जी यज्ञोपवीती च छत्त्री
दण्डाजिनी तथा” (वामनः) हरिबं० २६२ अ० ।
२ नापिते पु० शब्दरत्ना०

छत्वर पु० छद--ष्वरच् नि० दस्य तः । १ गृहे २ कुञ्जे च सि० कौ०

छद संवृतौ अद० चु० उभ० सक० सेट् । छदयति ते अचिच्छदत् त

छद संवृतौ वा चु० पक्षे भ्वा० उभ० सक० सेट् ।

छादयति ते छदति ते अचिच्छदत् त अच्छादीत्--अच्छदीत्
अच्छदिष्ट । ऊर्ज्जने बलाधाने जीवने चायं मित् ।
छदयति ते इति भेदः । छन्नः--छादितः । घे ह्रस्वः छदः ।
“अग्निमन्तश्छादयसि” अथ० ९, ३, १४, “अन्तं
छादयेदाज्येन” कात्या० श्रौ० ४, ६, ५, “छादयन्निषुजालेन”
भा० आ० १३८३ अ० । उपसर्गपूर्ब्बकस्य तत्तदुपसर्ग-
द्योत्यार्थयुक्तसंवरणे “आच्छाद्य चार्च्चयित्वा च” मनुः ।

छद संवृतौ चु० उभ० सक० सेट् इदित् पाणि० । छन्द-

यति ते अचिच्छन्दत् त । छन्दः ।

छद पु० छद--पुंसि संज्ञायां घः ह्रस्वः । १ वृक्षादिपत्त्रे

२ खगपक्षे अमरः ३ ग्रन्थिपर्णवृक्षे ४ तमालवृक्षे च मेदि०
“कृतां विन्दुसरोरत्नैर्मयेन स्फाटिकच्छदाम्” (नलिनीम्)
भा० स० ४९ अ० । “नित्यपुष्प फलास्तत्र पादपाः
हरितच्छदाः” भा० व० ८९ अ०

छदन न० छद--ल्युट् । १ पत्रे, २ पक्षे मेदिनिः (तेजपात)

३ त्वचे राजनि० । भावे ल्युट् । ४ पिधाने न० । “विम-
लस्फाटिकाभानि पाण्डरच्छदनानि” हरिवं० २३९ अ० ।
“बिमलस्फाटिकाभानि पाण्डुरच्छदनैर्द्विजैः” भा० व०
१५८ अ० ।

छदपत्त्र पु० छदर्थं पत्रमस्य । भूर्जपत्रे रत्नमाला ।

छदि स्त्री छद--कि । छदिषि पटले (चाल) अमरः “छदिः

स्त्रियाम्” पा० उक्तेरिदन्ततास्य ।

छदिस् न० छद--इसि । पटले सान्तं क्लीवं रायमुकुटः ।

“इन्द्रस्य छदिरसि” यजु० ४ । २८ । २ गृहे निघण्टुः

छद्मतापस पु० छद्मना, छलेन तापसः । लोकप्रतार-

णार्थं तापसताख्यापनाय तापसलिङ्गधारिणि तत्कर्मा-
ननुष्ठायिनि वैडालव्रतिके शब्दार्थचि०

छद्मन् न० छाद्यते स्वरूपमनेन छद--मनिन् । १ कषटे २ छले ।

३ स्वरूपाच्छादने मेदि० । “जगाद वदनच्छद्मपद्मपर्य्यन्त
पातिना” माघः । “छद्मना चरितं च तत्” मनुः
“शकांश्च यवनांश्चैव अजयच्छद्मपूर्वकम्” भा० स० २९ अ०

छद्मिका स्त्री छद्म अस्त्यस्याः व्रीह्या० इनि सज्ञायां कन् ।

गुडूच्यां राजनि० ।

छद्मिन् त्रि० छद्म अस्त्यर्थे व्रीह्या० इनि । छद्मयुक्ते “ब्राह्म-

णच्छद्मिने देवलोके गन्ता परां गतिम्” भा० व० २९९ अ० ।
“वाहुकच्छद्मिनं नलम्” ७७ अ० । स्त्रियां ङीप् ।

छन्द पु० छदि--संवरणे धातोरनेकार्थत्वात् इह इच्छायाम्

अच् । १ अभिलाषे, २ वशतायाम्, “स्वच्छन्दोच्छलदकच्छ-
कुहरच्छातेतराम्बुच्छटा” काव्यप्र० । ३ विषभेदे च अमरः
४ विषे शब्दच० । ५ रहसि त्रि० अमरटीका । “छन्दा-
नुवृत्तिदुःसाधाः सुहृदोविमनीकृताः” माघः ।
“वरदानात् पितुः कामं छन्दमृत्युरसि प्रभो!” भा शा०
५० अ० ।

छन्दक त्रि० छन्दयति संवृणोति रक्षति छदि--ण्वुल् ।

१ रक्षके २ वासुदेवे पु० । “वासुदेव । सर्वच्छन्दक!
हरिहय! हरिमेध! महायज्ञ” । मा० शा० ३४० अ० नारद-
कृतनारायणस्तवे ।

छन्दःपर्ण्ण पु० छन्दांसि वेदविहितकर्म्माणि पर्ण्णानीव यस्य ।

मायामये संसारे । “छन्दांसि यस्य पर्ण्णानि यस्तं वेद स
वेदवित्” गीता छन्दांसि छादनात् तत्त्ववस्तुप्रावरणात्
संसारवन्धनादीनि कर्म्माणि ऋग्यजुःसामवेदविहितानि
पर्ण्णानीव यस्य यथा वृक्षस्य छादनार्थानि रक्षणार्थानि च
पर्णानि एवं धर्म्माधर्म्मोपार्ज्जनेन कर्म्मभिः संसार
वृक्षोरक्ष्यते इति तस्य तथात्वम् ।

छन्दश्चिति स्त्री ६ त० छन्दसां समूहे । तत्र छन्दोभेदे

एकादिगुरुज्ञानाय करणसूत्रं लीला० उक्तं यथा
“छन्दश्चित्यादौ करणसूत्रं श्लोकत्रयम् “एकाद्येकोत्त-
राअङ्का व्यस्ता भाज्याः क्रमस्थितैः । परः पूर्वेण सङ्गु-
पृष्ठ २९७८
ण्यस्तत्परस्तत्परेण च ॥ एकद्वित्र्यादिभेदाः स्युरिदं
साधारणं स्मृतम् । छन्दश्चित्युत्तरे छन्दस्युपयोगोऽस्य
तद्विदाम् ॥ मूषावहनभेदादौ खण्डमेरौ च शिल्पके ।
वैद्यके रसभेदीये तन्नोक्तं विस्तृतेर्भयात् । तत्र छन्दश्चि-
त्युत्तरे किञ्चिदुदाहरणम् । “प्रस्तारे मित्र! गायत्र्याः
स्युः पादे व्यक्तयः कति । एकादिगुरवश्चाशु कथ्यतां
तत्पृथक् पृथक् । इह हि षडक्षरगायत्रीचरणः
अतः षडन्तानां एकाद्येकोत्तराङ्गाणां व्यस्तानां क्रम
स्थानाञ्च न्यासः
६ ५ ४ ३ २ १
१ २ ३ ४ ५ ६
६ १५ २० १५ ६ १ यथोक्तकरणेन लब्धाः
एकगुरुव्यक्तयः । ६ । द्विगुरवः । १५ । त्रिगुरवः । २० ।
चतुर्गुरवः । १५ । पञ्चगुरवः । ६ । षड़्गुरवः ।
१ । तथैका सर्व्वलघुः । १ । एवमासामैक्यं
पादव्यक्तिगितिः । ६४ । एवञ्चतुश्चरणाक्षरसङ्ख्यकान-
ङ्कान् यथोक्तं विन्यस्य एकादिगुरुभेदानानीय
तान् सैकानेकीकृत्य जाता गायत्रीवृत्तव्यक्तिसङ्ख्या ।
१६७७७२१६ । एवमुक्थाद्युत्कृतिपर्य्यन्तं छन्दसां
व्यक्तिमितिर्ज्ञातव्या” ।
अधिकं प्रस्तावशब्दे मर्कटीजालशब्दे मेरुशब्दे
पताकाशब्दे च दृश्यम् ।

छन्दस् न० छन्दयति असुन् । १ वेदे भावे असुन् । २ स्वैरा-

चारे ३ अभिलाषे च मेदि० । ४ कपटे । नियताक्षरबर्ण-
मात्रादिसन्निवेशवशात् ५ चतुश्चरणादौ पद्ये । लौकिक
तत्संज्ञाभेदाश्च वृत्तरत्नाकरादौ सलक्षणा उक्तास्ते तु
तत्तच्छब्दे उक्ता वक्तव्याश्च । वैदिकच्छन्दांसि तु सर्वानु-
क्रमिकायां कात्यायनेन दर्शितानि यथा
“अथ छन्दांसि गायत्र्युपङ्क्तिष्णिगनुष्टुव्वृहतीत्रिष्टुब्-
जगत्यतिजगतीशक्वर्यतिशकर्यष्ट्यत्यष्टिधृत्यतिधृतयः कृति-
प्रकृत्याकृतिविकृतिसंकृत्यतिकृत्युत्कृतयः चतुर्विंशत्य-
क्षरादोनि चतुरुत्तराणि । जनाधिकेनैकेन निचृद्भू-
रिजौ द्वाभ्यां विराट्स्वराजौ । पादपूरणार्थं तु क्षैप्रसं-
योगैकाक्षरीभावान् व्यूडेत् । आद्ये तु सप्तवर्गे पादवि-
शेषात् संज्ञाविशेषास्ताननुक्रामन्त एवोदाहरिष्यामो
विराड़्रूपा विराट्स्थानाश्च बहुला अपि त्रिष्टुभ एवेत्यु-
द्देशः । तत्र दशैकादण्यादशाक्षराणां वैराजत्रैष्टुभजा-
गता इति संज्ञा अनादेशेऽष्टाक्षराः पादाश्चतुष्पादाश्च-
र्चः । प्रथमं छन्दस्त्रिपदा गायत्री । पञ्चकाश्च
त्वारः षट्कश्चैकश्चतुर्थश्चतुष्को वा पदपङ्क्तिः ।
षट्सप्तैकादशा उष्णिग्गर्भा । त्रयः सप्तकाः पाद निचृन्-
मध्यमः षत्कश्चेदतिनिचृद्दशकश्चेद्यवमध्या । यस्यास्तु षट्
सप्तकाष्टकाः सा वर्धमाना विपरीता प्रतिष्ठा । द्वौ
षट्कौ सप्तकश्चेति ह्रसीयसी । १
द्वितीयमुष्णिक् त्रिपदान्त्यो द्वादशकः । आद्यश्चेत् पुर
उष्णिङ् मध्यमश्चेत्ककुप् । त्रैष्टुभजागतचतुष्काः ककुम्
न्यङ्कुशिरैकादशिनोः परः षट्कस्तनुशिरा मध्ये चेत्पि-
पीलिकमध्याद्यपञ्चकस्त्रयोऽष्टका अनुष्टुब्गर्भा । चतुः-
सप्तकोष्णिगेव । ३
तृतीयमनुष्टुप् । पञ्चपञ्चकाः षट्कर्श्चको महापद-
पङ्क्तिः । जागतावष्टकश्च कृतिः । मध्ये चेदष्टकः पिपी-
लिकमध्या । नवकयोर्मध्ये जागतः काविराट् । नववैरा-
जत्रयोदशैर्नष्टरूपा । दशकास्त्रयो विराड़ैकादशका वा । ४
चतुर्थं बृहती तृतीयो द्वादशकः । आद्यश्चेत् पुरस्ता-
द्वृहती । द्वितीयश्चेन्न्यङ्कुमारिण्युरोवृहती स्कन्ध-
ग्रीवी वा । अन्त्यश्चेदुपरिष्टाद्वृहती । अष्टिनोर्मध्ये
दशकौ विष्टारवृहती । त्रिजागतोर्ध्ववृहती ।
त्रयोदशिनोर्मध्येऽष्टकः पिपीलिकमध्या । नवकाष्टकैका
दशाष्टिनो विषमपदा । चतुर्नवका वृहत्येव । ५
पञ्चमं पङ्क्तिः पञ्चपदा । अथ चतुष्पदा विराड्-
दशकाः । अयुजौ जागतौ सतोवृहती युजौ चेद्बि-
परीताऽऽदौ चेत प्रस्तारपङ्क्तिरन्त्यौ चेदास्तारपङ्क्ति
राद्यन्त्यौ चेत् संस्तारपङक्तिर्मध्यमौ चेद्विष्टार
पङ्क्तिः । ६
षष्ठं त्रिष्टुप् त्रैष्टुभपदा । द्वौ तु जागतौ यस्याः सा
जागते जगती त्रैष्टुभे त्रिष्टुप् । वैराजौ जागतौ
चाभिसारिणी । नवकौ वैराजस्त्रैष्टुभश्च द्वौ वा
वैराजौ मवकस्त्रैष्टुभश्च विराट् स्थानैकादशिनस्त्रयोऽष्टकश्च
विराड्रूपा । द्वादशिनस्त्रयोऽष्टकश्च ज्योतिष्मती ।
यतोऽष्टकस्ततोज्योतिः । चत्वारोऽष्टका जागतश्च महावृ-
हती । मध्येजागतश्चेद्यवमध्या आद्यौ दशकावष्टका-
स्त्रयः पङ्क्त्युत्तरा विराट् पूर्वा वा । ७
सप्तमं जगती जागतपदा । अष्टिनस्त्रयः रखौ च द्वौ
महासतोवृहती । अष्टकौ सप्तकः षट्को दशको
नवकश्च षडष्टका वा महापङ्क्तिः”
तत् प्रतिपादकग्रन्थस्य वेदाङ्गत्वं यथोक्तं शिक्षाग्रन्थे
पृष्ठ २९७९
३१ । ७ । “छन्दःपादौ तु वेदस्य हस्तौक ल्पोऽथ पठ्यते
ज्योतिषामयनं चक्षुर्निरुक्तं श्रोत्रमुच्यते । शिक्षा घ्राणं
तु वेदस्य मुखं व्याकरणं स्मृतम् । तस्मात् साङ्गमधीत्यै-
व व्रह्मलोके महीयते” इति ।
छन्दोग्रन्थस्य वेदोपयोगिता ऋग्वेदभाष्ये दर्शिता यथा
छन्दोग्रन्थोऽप्युपयुज्यते छन्दोविशेषाणां तत्र तत्र विहि-
तत्वात् । “तस्मात् सप्त चतुरुत्तराणि छन्दांसि प्रातरनु-
वाकेऽनूच्यन्ते” इति ह्याम्नातम् । गायत्र्युष्णिगनुष्टुव्
वृहतीपङ्क्तित्रिष्टुब्जगतीत्येतानि सप्त छन्दांसि ।
चतुर्विंशत्यक्षरा गायत्री । ततोऽपि चतुर्भिरक्षरैरधि-
काष्टाविंशत्यक्षरोष्णिक् । एवमुत्तरोत्तराधिका अनुष्टु-
वादयोऽवगन्तव्याः । तथान्यत्रापि श्रूयते । “गायत्री-
भिर्व्राह्मणस्य दध्यात्, त्रिष्टुब्भीराजन्यस्य, जगतीभि-
र्वैश्यस्येति” । तत्र मगणयगणादिसाध्यो गायत्र्यादि
विवेकश्छन्दोग्रन्थमन्तरेण न सुविज्ञेयः । किञ्च “यो
ह वा अविदितार्षेयच्छन्दोदैवतव्राहणेन मन्त्रेण
याजयति वाऽध्यापयति वा स्थाणुं वर्च्छति । गर्त्ते वा
पत्यते । प्र वा मीयते पापीयान् भवति तस्मादेतानि
मन्त्रे मन्त्रे विद्यादिति” श्रूयते । तस्मात्तादद्वेदनाय
छन्दोग्रत्थ उपयुज्यते ।
६ सामभेदे “छन्दांसि जज्ञिरे तस्मात् यजुस्तस्मादजायत”
श्रुतिः छन्दोगः ।
छन्दोऽधीते “श्रोत्रियँश्छन्दोऽधीते” पा० अण् वा श्रो-
त्रियन्नादेशः । श्रोत्रिय छन्दोऽध्येतरि पुक्षे अण्मात्रम् ।
छान्दस तत्रार्थे “श्रोत्रियच्छान्दमौ समौ” अमरः ।
छन्दसा इच्छया निर्म्मितम् यत् । छन्दस्य इच्छया
निर्म्मिते त्रि० । छन्दसो व्याख्यानो ग्रन्थः यत् अण् वा ।
छन्दस्य छान्दस वेदव्याख्यानग्रन्थे । तत्र गायत्र्यादौ
छन्दसि “सप्त छन्दांसि क्रतुमेकं तन्वन्ति” भा० व०
१३४ अ० । “गायत्री छन्दसामहम्” गीता । “छन्दो-
भिरच्छादयन् यदेभिरच्छादयन् तच्छन्दसां छन्दस्त्वम्”
छा० उ० । वेदे “छन्दसि बहुलम्” पा० । “युक्तश्छ-
न्दांस्यधीयत” मनुः “हिरण्यगर्भो भगवान् यएष छन्दसा
स्तुतः” हरिवं० २२६ अ० । “आसीन्महीक्षितागाद्यः
प्रणवश्छन्दसामिव” रघुः । इच्छायां छन्दस्वः ।
छन्दस इदम् अण् । छान्दस वेदसम्बन्धिनि त्रि०
सर्वच्छन्दसि समार्द्धसमविषमभेदादिज्ञानाय लीला०
उक्तं यथा
“समादिवृत्तज्ञानाय करणसूत्रं सार्द्धार्य्या । पादा-
क्षरमितगच्छे गुणवर्गफलञ्चये द्विगुणे ॥ समवृत्तानां
सङ्ख्या तद्वर्गोवर्गवर्गश्च । स्वस्वपदोनौ स्यातार्मसमा-
नाञ्च विषमाणाम् ॥ उदाहरणम् । समानामर्द्धतुल्यानां
विषमाणां पृथक् पृथक् । वृत्तानां वद मे सङ्ख्यामनुष्टुप्-
छन्दसि द्रुतम् ॥ न्यासः । उत्तरगुणः । २ । गच्छः ।
८ । लब्धाः समवृत्तानां सङ्ख्याः । २५६ । तथार्द्ध-
समानाम् । ६५२८० । विषमाणाञ्च । ४२९४९०१७६० ।
“अद्ध्रयोयस्य चत्वारस्तुल्यलक्षणलक्षिताः । तच्छन्दः
शास्त्रतत्त्वज्ञाः समवृत्तं प्रचक्षते ॥ प्रथमाङ्घ्विसमोयस्य
तृतीयश्चरणोभवेत् । द्वितीयस्तुर्यवद्वृत्तं तदर्द्धसममुच्यते ॥
यस्य पादचतुष्केऽपि लक्ष्म भिन्नं परस्परम् । तदाहु-
र्विषसं वृत्तं छन्दःशास्त्रविशारदाः” ॥

छन्दस्तुभ् पु० छन्दसा पक्षेण स्तुम्नाति सूर्य्यम् स्तुभ--क्विप् ।

गरुडाग्रजेऽरुणे तस्य तत्कथा “पितामह उवाच ।
एष लोकविनाशाय रविरुद्यन्तुमुद्यतः । पश्यन्नेव
हिलोकान् स भस्मराशीकरिष्यति । तस्य प्रतिविधानञ्च
विहितं पूर्वमेव हि । कश्यपस्व सुतोधीमानरुणेत्यभि-
विश्रुतः । महाकायो महातेजाः स स्थास्यति पुरोरवेः ।
करिष्यति च सारथ्यं तेजश्चास्य हरिष्यति । लोकानां
स्वस्ति चैवं स्यादृषीणाञ्च दिवौकसाम् । प्रमतिरुवाच ।
ततः पितामहाज्ञप्तः सर्वं चक्रे तदाऽरुणः । उदितश्चैव
सविताप्यरुणेन समावृतः” भा० आ० २४ अ० ।

छन्दु त्रि० छदि--उण् । उपच्छन्दयितरि । “कृषा छन्दुर्भवति

हर्य्यतः” ऋ० १८५४, ४ । “छन्दुरुपच्छन्दयिता” भा० ।

छन्दोग पु० छन्दः सामवेदं गायति गै--क । “सामवेदज्ञे

“यत्नेन भोजयेत् श्राद्धे वह्वृचं वेदपारगम् । शाखान्त-
गमथाध्वर्य्युंछन्दोगन्तु समाप्तिकम्” मनुः । “छन्दो-
गैर्विविधैः पृथक्” गीता । छन्दोगपरिशिष्टम् ।

छन्दोदेव पु० ब्राह्मण्यां नापितेन जाते मतङ्गनामके चण्डा-

लभेदे तपस्यया इन्द्रदत्तवरेण छन्दोदेवनामतां प्राप्ते
स्त्रीणां पूज्ये देवभेदे तत्कथा भा० आनु० २७ अ० ।
“व्राह्मण्यां वृपलेन त्वं गत्तायां नापितेन ह ।
जातस्त्वमसि चण्डाली ब्राह्मण्यं तेन तेऽनशत्” २७ अ० इत्यु-
पक्रमे तेन निर्विद्य तपश्चरातं त प्रति इन्द्रस्य वरदानादि
“नूनं दैवं न शक्यं हि पोरुषेणातिवर्त्तितुम् । तदर्थं
यत्नवानेवं न लभे विप्रतां विभो! । एवं गते तु धर्म्मज्ञ ।
दातुमर्हसि मे वरम् । याद तेऽहपनुग्राह्यः किञ्चिद्वा
पृष्ठ २९८०
सुकृतं मम । वंशम्पायन उवाच । वृणीष्वेति तदा प्राह
ततस्तं बलवृत्रहा । चोदितस्तु महेन्द्रेण मतङ्गः प्राब्र-
वीदिदम् । यथा कामविहारी स्यां कामरूपी विहङ्गमः ।
ब्रह्मक्षत्राविरोधेन पूजाञ्च प्राप्नुयामहम् । यथा
ममाक्षया कीर्त्तिर्भवेच्चापि पुरन्दर! । कर्त्तुमर्हसि तद्देव!
शिरसा त्वां प्रसादये । शक्र उवाच । छन्दोदेव इति
व्यातः स्त्रीणां पूज्यो भविष्यसि । कीर्त्तिश्च तेऽतुला
त्स! त्रिषु लोकेषु यास्यति । एवं तस्मै वरं दत्त्वा
वासवोऽन्तरधीयत । प्राणांस्त्यक्त्वा मतङ्गोऽपि संप्राप्तः
स्थानमुत्तमम्” भा० अनु० २९ अ० ।

छन्दोभाषा स्त्री छन्दसा भाषा । १ छन्दसा कथन ततोभवे

तद्व्याख्याने ग्रन्थेऽर्थे ऋगयनादि० अण् । छान्दोमाष
तत्रभवे तद्व्याख्याने ग्रन्थेच । २ उपाङ्गशास्त्रभेदे
“उपाङ्गानि शृणु प्रभो!” इत्युपक्रमे “प्रतिपदमनुपदं
छन्दोभाषासमचितम् । मीमांसान्यायतर्काश्च उपाङ्गं
परिकीर्त्तितम्” हेमा० दा० ख० देवीपु० ।

छन्दोम पु० त्रिसूत्ये अहीने यागभेदे “त्र्यहाः पञ्च गर्गवैद

छन्दोमान्तर्वसुपराकाः” कात्या० श्रौ० २३ । २ । ८! त्र्यहा-
स्त्विसुत्याः पञ्च अहीनाः “द्वितीये त्रिवृतोऽतिरात्राःसर्वे
राज्यकामस्य” ९ । १० । सू० । “त्रिवृतस्तिवृत्स्तोमयुक्ताः
अतिरात्राः (सर्वे गर्गादयः) पञ्च राज्यकामस्य क्रतवो
भवन्ति” कर्कः ।

छन्दोमदशाह पु० दशाहसाध्ये यागभेदे “छन्दोमदशाहः

पशुकामस्य” कात्या० श्रौ० । २३ । ५ । २८ । छन्दोमदशाह
इति संज्ञा स पशुकामस्य भवति” कर्कः तत्राहान्याह ।
“पृष्ठावलम्बाच्चत्वारश्छन्दोमाः” २९ सू० । “चतुर्थे
दशरात्रे पृष्ठ्यावलम्बादूर्द्धं द्वादशाहिकाश्चत्वारश्छन्दोमा
भवन्ति तत्र पूर्वं वृहद्रथन्तरपृष्टाःपञ्चाहाः ततश्चत्वार-
श्छन्दोमाः ततोदशमोविश्वजिदतिरात्रः” स० व्या० ।

छन्दोमान न० ६ त० । छन्दसां माने ततो भवे व्याख्याने-

च ऋगयनादि० अण् । छान्दोमान तत्र भवे तद्व्या
ख्याने च ।

छन्दोविविति स्त्री ६ त० । छन्दमां गायत्र्यादीनां १

समुदाये । छन्दंसां विचितिर्विचयोयत्र । छन्दःशास्त्रे
च । “छन्दोविचितिरित्येतं षडङ्गोवेदैष्यते” ततः
ऋगयना० भवे व्याख्याने चार्थे अण । छान्दोविचित
तद्भवे तद्व्याख्याने च!

छन्न त्रि० चु० छद--क्त नि० । १ आच्छादिते । २ निर्ज्जने

३ रहसि न० “छन्नेष्वपि स्पष्टतरेषु यत्र” माघः । पक्षे-
छादित तत्रार्थे त्रि० ।

छपगतौ वा चुरा० उभ० पक्षे भ्वा० पर० सक० सेट् इदित् ।

छम्पयति ते छम्पति अचच्छम्पत् त अच्छम्पीत् । चच्छम्प ।

छम भक्षणे भ्वा० पर० सक० सेट् । छमति अच्छमीत् ।

उदित् छमित्वा--छान्त्वा छान्तः । छमण्डः

छमण्ड पु० छम--अण्डच् । मातापितृविहोने (छ्ॐड) उणादिकोषः

छर्द्द वमने चरा० उभ० सक० सेट् । छर्दयति ते अचच्छर्दत्

त । छर्दितः । छर्दिः ।

छर्द्द न० छर्द--भावे अच् । वमने हेम० । क्लीवत्वमभिधानात् ।

छर्द्दन न० छर्द--भावे ल्युट् । १ वमने । हेमच० । “छर्दनं

दध्युदश्विद्भ्यासथ वा तण्डुलाम्बुना” सुश्रु० । कर्त्तरि
ल्यु । २ वमनकर्त्तरि त्रि० । ३ अलम्बुषराक्षसे पु० । हेतौ
णिच्--ल्यु । ४ निम्बवृक्षे पु० हेमच० ५ मदनवृक्षे भावप्र० ।

छर्द्दपनिका स्त्री छर्दं वमनमापयति आपि--ल्यु स्वार्थे क

अत इत्त्वम् । कर्कट्याम् राजनि० ।

छर्द्दि स्त्री छर्दयति छर्द--हेतौ णिच--इन् । वमनरोगे

तन्निरुक्तिनिदानादि च सुश्रुते उक्तं यथा ।
“अथातश्छर्द्दिप्रतिषेधमध्याय व्याख्यास्यामः ।
अतिद्रवैरतिस्निग्धैरहृद्यैर्लवणैरपि । अकाले चातिमात्रैश्च
तथाऽसात्म्यैश्च भोजनैः । श्रमात् क्षयात्ययोद्वेगादजीर्णा०
त्कृमिदोषतः । नार्य्याश्चापन्नसत्वायास्तथाऽतिद्रुतमश्नतः ।
बीभत्सैहतुभिश्चान्यैर्द्रुतमुत्क्लेशितो बलात् । छादय-
न्नाननं वेगैरर्द्दयन्नङ्गभञ्जनैः । निरुच्यते छर्दिरिति
दोषो वक्त्रं प्रधावितः । दोषानुदीरयन् वृद्धानुदानो
व्यानसङ्गतः । ऊर्द्ध्वमागच्छति भृशं विरुद्धाहारसेविनाम् ।
हृल्लासोद्गाररोधौ च प्रसेको लवणस्तनुः । द्वेषोऽन्न-
पाने च भृशं वमीनां पूर्व्वलक्षणम् । प्रच्छर्द्दयेत् फेनिल-
मल्पमल्पं शूलार्द्दितोऽभ्यर्द्दितपार्श्वपृष्ठः । श्रान्तः
सघोषं बहुशः कषायं जीर्णेऽधिवं साऽनिलजा वमिस्तु ।
योऽम्लं भृश वा कटुतिक्तवक्त्रे पीतं सरक्तं हरितं
वमेद्वा । सदाहचोषज्वरवक्त्रशोषमूर्च्छान्विता पित्तनि-
सित्तजा सा । यो हृष्टरोमा मधुर पू० तं शुक्लं हिमं
सान्द्रकफानुविद्धम अभक्तरुग्गौरवसादयुक्तोवमेद्वमी
सा कफकोपजा स्यात् । सर्व्वाणि रूपाणि भवन्ति
यस्यां सा सर्व्वदोषप्रभवा मता तु । बीभत्सजा दौर्हृद-
जाऽऽमजा च याऽसात्म्यतोवा कृमिजा च या हि । सा
पञ्चमी ताश्च विभावयेत्तु दोषोच्छयणैव यथोक्तमादौ ।
पृष्ठ २९८१
आमाशयोत्क्लेशभवाश्च सर्व्वास्तस्माद्धितं लङ्गनमेव
तासु । शूलहृक्कासबहुला कृमिजा च विशेषतः । कृमि-
हृद्रोगतुल्येन लक्षणेन च लक्षिता । क्षीणम्योपद्रवैर्युक्तां
सासृक्पूयां सतन्द्रिकाम् । छर्दिं प्रसक्तां कुशलो
नारभेत चिकित्सितुम् । वमीषु बहुदोषासु छर्दनं
हितमुच्यते । विरेचनं वा कुर्व्वीत यथादोषोच्छ्रयं भिषक् ।
संसर्गांश्चानुपूर्व्वेण यथास्वं भषजाय तान् । लघूनि
परिशुष्काणि सात्म्यान्यन्नानि वाऽऽचरेत् । यथास्वञ्च
कषायाणि ज्वरघ्नानि प्रयोजयेत्” ।
“कासः श्वासो ज्वरो हिक्का तृष्णा वैचित्त्यमेव च ।
हृद्रीगस्तमकश्चैव ज्ञेयाश्छद्र्देरुपद्रवाः” इति माधवकरः ।
वा ङीप् । तत्रार्थे “आमाशयोत्क्लेशभवा हि सर्व्वाच्छ-
र्दोमता लङ्घनमेव तस्मात्” सुत्रुतः ।

छर्दिका स्त्री छर्द--णिच् ण्वुल् । १ उत्कासिकायां, २ विष्णु-

क्रान्तायाञ्च । धात्वर्थे ण्वुल् । ३ वमने । राजनि० ।
स्वार्थे क प्तषो० । छर्दीकाप्यत्र ।

छर्दिकारिपु स्त्री पु० ६ त० । १ क्षुद्रैलायाम् । २ छर्दिनाशके च शब्दच० ।

छर्दिघ्न पु० छर्दिं हान्त--हन--टक् । १ निम्बभेदे । २ छर्दिना-

शके त्रि० रत्नागाला स्त्रियां ङीप् ।

छर्दिस् स्त्री छर्द--भावे इसि । १ वममे० २ कर्त्तरि इसि ।

२ बमिरोगे ३ उद्गारे च । छर्द्द--कर्म्मणि इसि । ४ गृहे
निघ० । “यातं छर्द्दिष्पा उत नः परस्पाः” ऋ० ८ । ९ । ११ ।
“छर्दिरिति गृहनाम तस्य पालकाः” भा० । “अग्निष्ट्वा-
भिपातु मह्या स्वस्त्या छदिषा” यजु० १३ । १९ । “छर्दिषा
गृहेण” वेददी० । छृद--दीप्तौ इसि । ४ तेजसि “बायु-
ष्ट्वाभिपातु मह्या खस्त्या छर्दिषा” यजु० १४ । १२ ।
“छर्दिषा तेजोविशेषेण” वेददी० ।

छल न० छल--अच् । १ स्वरूपाच्छादने २ व्याजे ३ यथार्थगूहने

४ कटयुद्धादिना तन्मर्य्यादायाश्चलने ५ शाठ्ये ६ कापट्यें
न्यायमतसिद्धे कार्य्यान्तरेण प्रयुक्तस्य वाद्युक्तशब्दस्यार्थान्तर
कल्पनया प्रतिवादिना दत्ते ७ दूषणभेदे तल्लक्षणभेदा-
दिकं गौ० सृ० वृत्तौ दर्शितम् । यथा “विघातोऽर्थ-
विकल्पोपपत्त्या छलम् । १ । तत् त्रिविधं वाक्छलं सा०
मान्यच्छलमुपचारच्छलञ्चेति । २ । अविशेषाभिहितेऽर्थे
वक्तुरभप्रायादर्थान्तरकल्पना वाक्छलम् । ३ । सम्भ-
वतोऽर्थस्यातिसामान्ययोगादसम्मतार्थकल्पना सामान्य
च्छलम् । ४ । धर्मविकल्पनिर्देशोऽर्थसम्भावप्रतिषेध
उपचारच्छलम् । ५ । वाकछलमेवोपचारच्छलं तदवि-
शेषात् । ६ । न तदर्थान्तरभावात् । ७ । अपिशे-
षे वा किञ्चित्साधर्म्यादेकच्छलप्रसङ्गः । ८ । गौ० सू०
“क्रमप्राप्तं छलं लक्षयति । अर्थस्य वाद्यभिमतस्य यो
विकल्पो विरुद्धः कल्पो अर्थान्तरकल्पनेति यावत् तदुप-
पत्त्या युक्तिविशेषेण यो वचनस्य वाद्युक्तस्य विघातो
दूषणं तच्छलमित्यर्थः वक्तृतात्पर्य्याविषयार्थकल्पनेन
दूषणाभिधानमिति फलितं तात्पर्य्याविषयत्वं विशेष्ये
विशेषणे संसर्गे वा यथा नेपालादागतोऽयं नवकम्बलव-
त्त्वादित्यत्र नवसङ्ख्यापरत्वकल्पनयाऽसिद्ध्यभिधानं, प्रमेयं
धर्मत्वादित्यत्र पुण्यार्थकल्पनया भागासिद्ध्यभिधानम्
वह्निमान् धूमादित्यत्र धूमावयवे व्यभिचाराभिधानम् । १ वृ०
लक्षितं छलं विभजते । २ । तत्र वाक्छलं लक्षयति ।
यत्र शक्यार्थद्वये सम्भवति एकार्थनिर्णायकविशेषाभावा-
दनभिप्रेतशक्यार्थकल्पनेन दूषणाभिधानं तद्वाक्छलं, लक्ष-
णन्तु शक्त्या एकार्थशाब्दबोधतात्पर्य्यकशब्दस्य शक्या-
र्थान्तरंतात्पर्य्यकत्वकल्पनया दूषणाभिधानं यथा नेपाला-
दागतोऽयं नवकम्बलवत्त्वादित्युक्ते कुतोऽस्य नवसङ्ख्यकाः
कम्बला इति एवं गौर्विषाणीत्युक्ते कुतोगजस्य शृङ्गं
श्वेतोधावतीति श्वेतरूपवदभिपायेणोक्ते श्वेतो न
धावतीत्यभिधानमित्यादिकमुह्यम् ॥ ३ वृ० । सामान्यछलं
लक्षयति । सामान्यविशिष्टसम्भवदर्थामिप्रायेणोक्तस्य
अतिसामान्ययोगादसम्भवदर्थकत्वकल्पनया दूषणाभिधानं
सामान्यच्छलम् । यथा ब्राह्यणोऽयं विद्याचरणसम्पन्न
इत्युक्ते ब्राह्मणत्वेन विद्याचरणसम्पदं साधयतीति
कल्पयित्वा परो वदति कुतो ब्राह्मणत्वेन विद्याचरण-
सम्पद्बाल्ये व्यभिचारात् ॥ ४ वृ० । उपचारच्छलं लक्ष-
यति । धर्मशब्दस्यार्थेन विकल्पो विविधः कल्पः शक्ति-
लक्षणान्यतररूपस्तया शक्तिलक्षणयोरेकतरर्वृत्त्या प्रयुक्ते
शब्दे तदपरवृत्त्या यः प्रतिषेधः स उपचारच्छलं यथा
मञ्चाः क्रोशन्ति नीलो घट इत्यादौ मञ्चस्था एव क्रोशन्ति
न तु मञ्चाः एवं घटस्य कथं नीलरूपाभेदः । एवम् अहं
नित्य इति शक्ता प्रयुक्ते अमुकस्मादुत्पन्नस्त्वं कथं नित्य
इति प्रतिषेधोऽप्युपचारच्छलम् वाद्यभिप्रेतार्थस्यादूषणेन
छलस्यासदुत्तरत्वम् । न च श्लिष्टलाक्षणिकप्रयोगाद्वा-
दिनएवापराधः स्यादिति वाच्यं तत्तदर्थबोधकतया
प्रसिद्धस्य शब्दस्य प्रयोग वादिनोऽनपराधात अन्यथा
पर्वतीवह्निमानित्युक्ते पर्वतोऽयं कथमवह्निमानित्यादि-
दषणेनानुमानाद्युच्छेदः स्यात् ॥ ५ । वृ० । प्रसङ्गाच्छलं
पृष्ठ २९८२
परीक्षितुं पूर्वपक्षयति । शब्दस्यार्थान्तरकल्पनाऽविशेषा-
द्वाक्छलमेवोपचारच्छलं स्यादिति द्वित्वमेव न तु त्रित्व-
मिति शङ्कार्थः ॥ ६ वृ० ॥ समाधत्ते । उपचारच्छलस्य
वाक्छलाभेदो न, तयोरर्थान्तरभावात् भिन्नत्वात् भिन्न-
तया प्रमाणसिद्धत्वादिति फलितार्थः । पूर्व्वोक्तभेदकधर्म्मेण
भेदसम्भवेऽपि यत्किञ्चिद्धर्मेणाभेदे सामान्यधर्मेणाभेदस्य
सर्व्वत्र सम्भवाद्विभागः कुत्रापि न स्यादिति । ७ वृ० ।
विपक्षे बाधकमभिप्रेत्याह यत्किञ्चिद्धर्मादविशेषे
किञ्चित्साधर्म्याच्छलत्वादिरूपाच्छलस्यैक्यं स्यान्न तु त्वद्-
भिमतं द्वित्वमपीति भावः” ॥ ८ वृत्तिः
“आक्षिप्तकेतुकुथसैन्यगजच्छलेन” माधः । “धर्म्मेण
व्यवहारेण छलेनाचरितेन च । प्रयुक्तं साधयेदर्थं पञ्च-
मेन बलेन च” मनुः । “भुवनहितच्छलेन यम्” भट्टिः
“अध्यारुरोहेव रजश्छलेन” रघुः । “छलं
भूतेन व्यवहारान्नयेन्नृपः” याज्ञ० । “भूतं तत्त्वार्थ-
सम्बद्धं प्रमादाभिहितं छलम्” नारदोक्ते ८ प्रमादा-
भिहिते च ९ छलकारिणि त्रि० । स्वार्थे क । तत्रार्थे
“आवाभ्यां (मधुकैटभाभ्याम्) छाद्यते विश्वं रजसा तमसा
तथा । रजस्तमोमयावावां यतीनां दुःखलक्षणौ । छलकौ
धर्म्मशीलानां दुस्तरौ सर्वदेहिनाम्” हरिवं २०३ अ० ।
१० नाटकप्रभेदव्यीथ्यङ्कभेदे न० “वीथ्यामेको भवेदङ्कः”
इत्युपक्रमे “अस्यास्त्रयोदशाङ्गानि निर्दिशन्ति
मनीषिणः । उद्थात्यकावलगितेत्यादिना विभज्य सा० द०
लक्षितं यथा “प्रियाभैरप्रियैर्वाक्यैर्विलोभ्य छलना
छलम् “यथा वेण्यां भीमार्ज्जुनौ” “कर्त्ता द्यूत-
च्छलानां जतुमयशरणोद्दीषनः सोऽभिमानी
राजा दुःशासनादेर्गुरुरनुजशतस्याङ्गराजस्य मित्रम् ।
कृष्णाकेशोत्तरीयव्यपनयनपटुः पाण्डवा यस्य दासाः
क्वास्ते? दुर्य्योधनोऽसौ कथयतु न रुषा द्रुष्टुमभ्या-
गतौ स्वः” ।

छल नामधातुः छल + कृतौ--णिच् सक० सेट् । छलयति

“छलयति विक्रमणे अद्भुत वामनः” गीतगो० “द्यूतं
छलयतामस्मि” गीता ।

छलन न० छल + कृतौ णिच्--भावे ल्युट् । १ प्रतारणे

“यथापरं यथायोगं न च स्यात् छलनं पुनः” भा०
भी० १ अ० । युच् । २ वञ्चनायां स्त्री शब्दार्थचि० ।
“छलना छलम” सा० द० ।

छलिक न० नाटकभेदे अलङ्कारशब्दे ३९२ पृ० उक्ते दृश्य

काव्यभेदे दृश्यम् । “देवि! शर्म्मिष्ठायाः कृतिं चतुष्प-
दीम् छलिकं दुष्प्रयोज्यमुदाहरन्ति” मालविका० ।

छलित छल + नामधा० कर्म्मणि क्त । १ प्रतारिते “छलितरामं

नाटकम् । भावे क्त । २ प्रतारणे न० ।

छल्ली स्त्री छद--क्विष् तां लाति ला--क गौरा० ङीष् । १

वल्कले (छाल) शब्दरत्ना० २ लतायाम् ३ सन्ततौ च ।
मेदि० ला--बा० कि । छल्लिरपि तत्रार्थे ।

छवि(वी) स्त्री छ्यति असारं छिनत्ति तमो वा छो--वि-

किच्च वा ङीप् । १ शोभायां २ कान्तौ च अमरः ।
“आपाण्डुरमुखच्छविः” रघुः । “आपाण्डरीभूतमुख-
च्छवीनाम् कुमा० ।

छष बधे भ्वा० उभ० सक० सेट् । छषति ते अच्छा(च्छ)षीत्

अच्छषिष्ट । चच्छाष चच्छषे ।

छा पु० छो--क्विप् । १ पारदे एकाक्षरको० २ छेदनकर्त्तरि त्रि० ।

छाग पुंस्त्री छो--गन् स्वनामख्याते पशुभेदे अमरः । जाति-

त्वात् स्त्रियां ङीष् । २ पुरोडाशे न० शब्दार्थचि० ।
छाग्या दुग्धम् अण् । २ छाग्या दुग्धे न० छागस्येद-
मण् । ४ छागसम्बन्धिनि त्रि० स्त्रियां ङीप् । छागस्य
लक्षणादिकं वृ० सं० दर्शितं यथा
“छागशुभाशुमलक्षणमभिधास्ये नवदशाष्टदन्तास्ते ।
घन्याः स्थाप्या वेश्मनि सन्त्याज्याः सप्तदन्ता ये ।
दक्षिणपार्श्वे मण्डलमसितं शुक्लस्य शुभफलं भवति ।
ऋष्यनिभकृष्णलोहितवर्णानां श्वेतमपि शुमदम् ।
स्तनवदवलम्बते यः कण्ठेऽजानां मणिः स विज्ञेयः ।
एकमणिः शुभफलकृद्धन्यतमा द्वित्रिमणयो ये ।
मुण्डाः सर्वे शुभदाः सर्वसिताः सर्वकृष्णदेहाश्च ।
अर्धासिताः सितार्धा धन्याः कपिलार्धकृष्णाश्च ।
विचरति यूथस्याग्रे प्रथमं चाम्भोऽवगाहते योऽजः ।
स शुभः सितमूर्धा वा मूर्धनि वा टिक्किका यस्य ।
स पृषतकण्टशिरा वा तिलपिष्टनिभश्च ताम्रदृक् शस्तः ।
कृष्णचरणः सितो वा कृष्णो वा श्रेतचरणो यः ।
यः कृष्णाण्डः श्वेतो मध्ये कृष्णेन भवति पट्टेन ।
यो वा चरति सशब्दं मन्दं च स शोभनश्छागः ।
ऋष्यशिरोरुहपादो यो वा प्राक्पाण्डुरोऽपरे नीलः ।
स भवति शुभकृच्छागः श्लोकश्चाप्यत्र गर्गोक्तः । कुट्टकः
कुटिलश्चेव जटिलो वामनस्तथा । ते चत्वारः श्रियः पुत्रा
नालक्ष्मीके वसन्ति ते । अथाप्रशस्ताः खरतुल्यनादाः
प्रदीप्तपुच्छाः कनखा विवर्णाः । निकृत्तकर्णा द्विपमस्तकाश्च
पृष्ठ २९८३
भवन्ति ये चासिततालुजिह्वाः । वर्णैः प्रशस्तैर्मणिभिश्च
युक्ता मुण्डाश्च ये ताम्रविलोचनाश्च । ते पूजिता
वेश्मसु मानवानां सौख्यानि कुर्वान्त यशः श्रियं च” ।
बलौ तस्य शुभाशुभत्व युक्तिकल्पतरौ दर्शितं यथा
“तेषा शुभाय निर्दिष्टं पशुवस्तुत्रयं बलौ । ये कृष्णाः
शुचयश्छागाः पशवोऽन्ये तथैब च । देवजातिभिरुत्-
सृज्यास्ते सर्वार्थोपसिद्धये । ये पीता हरिता वापि
नरजातेरुदीरिताः । ये शुक्लाश्च महान्तो वा रक्षो
जातेः शुमप्रदाः । यो मोहादथ वाऽज्ञानाद्बलिमन्ये
प्रयच्छति । बध एव फलं तस्य नान्यत् किञ्चित् फलं
भवेदिति” । तन्मासगुणा भावप्र० उक्ता यथा
“छागलो वर्करश्छागो वस्तोऽजः छेलकः स्तुभः । अजा
छागी स्तुभा चापि छेलिका च गलस्तनी । छागमांसं
लघु स्निग्धं स्वादुपाकं त्रिदोषनुत् । नातिशीतमदाहि
स्यात् स्वादु पीनसनाशनम् । परं बलकरं रुच्यं वृंहणं
विर्य्यवर्द्धनम् । अजाथा अप्रसूताया मांसं पीनस-
नाशनम् । शुष्ककासेऽरुचा शोषे हितमग्नेनश्च दीपनम् ।
अजासुतस्य बालस्य मांसं लघुतरं स्मृतम् । हृद्यं
ज्वरहरं श्रीष्ठं सुखदं बलदं भृशम् । मांसं निष्कुषि
ताण्डस्य (खासि) छागस्य कफकृद्गुरु । स्रोतःशुद्धिकरं
बल्यं मांसदं वातपित्तनुत् । वृद्धस्य वातलं रूक्षं तथा
व्याधिमृतस्य च । ऊर्द्धजत्रुविकारघ्नं छागमुण्डं रुचि-
प्रदम् ।” तद्दुग्धादिगुणास्तत्रोक्ता यथा “छाग कषायं
मधुरं शीतं ग्राहि पयो लघु । रक्तपित्तातिसारघ्नं
क्षयकासज्वरापहम् । अजानां लघुकायत्वान्नानाद्रव्य-
निषेवणात् । नात्यम्बुपानाद् व्यायामात् सर्वव्याधि
हर पयः । आजं दध्युत्तम ग्राहि लघु दोष
त्रयापहम् । शस्यते श्वासकासार्शःक्षयकासेषु
दीपनम् । तद् घृतगुणा घृतशब्द २७९८ पृ० दृश्याः ।
तन्मूत्रगुणाः “गोजाविमहिषीणां तु स्त्रीणां मूत्रं
प्रशस्यते । खरोष्ट्रेभनराश्वानां पुंसां मूत्र हितं
स्पृतम्” “अनादेशे पशुश्छागः” ति० त० “मात्स्य-
हारिणकौरभ्रभशाकुनच्छागलार्षभैः” याज्ञ० । “षण्मा
सांश्छागमांसेन” मनुः “अनादेशे यज्ञे स एव पशुशब्द-
वाच्यः यथाह कात्या० श्रौ० ६ । ३ । २० । “छागं मन्त्राम्नानात्”
सू० । “अजं पशुमुपाकरोति होता यक्ष्यदश्विनौ
छागस्येत्यादिषु भन्त्रेषु छागस्याम्नानात् तथा “अग्नीषोमाभ्यां
छागस्य वपायै मेदसोऽनुब्रूहीति” यदि च छागी याग-
साधनं भवति तदा अयं मन्त्रः संगताथो भवति
नान्यथा । पुन कीवृशम् । “पन्नदम्” सू० । “पन्नदो
जातदन्त इति निगमषूक्तम्” । “अव्यङ्गम्” सू० ।
विगतमङ्गं चक्षुःकर्णादिकं यस्यासौ व्यङ्गः अन्यूनाङ्गगम्
शाखान्तरात्” कर्कः “वायव्यं श्वेतमालभेत” श्रुता छाग
एवालभ्यः “छागो वा मन्त्रवर्णात्” जै० सू० तथा निर्णयात् ।

छागण पु० छया छादनेन गण्यते गण--कर्म्मणि अच् ।

छगण + स्वार्थे अण्--बा । करीषाग्नौ त्रिका० ।

छागभोजिन् पु० छागं भुङ्क्ते भुज--णिनि । १ वृके

राजनि० । २ छागमासभक्षके त्रि० स्त्रियां ङीप् ।

छागमय न० छाग + मयट् । स्कन्दस्य षष्ठे वक्त्रे “षष्ठ छागमयं

वक्त्रं स्कन्दस्यैवेति विद्धि तत् । षटाशरोभ्यन्तरं राजन् ।
नित्यं मातृगणार्चितम । “षण्णान्तु प्रवरं तस्य शीर्षाणा-
मिह शब्द्यते । शक्तिं येनासृजद्दिव्याम भद्रशाख
इति स्म ह” भा० व० २२७ अ०

छागमुख पु० छागस्य मुखमिव मुखमस्य । १ कुमारानु-

चरभेदे २ कुमारे कार्त्तिकेये च तस्य षष्ठशिरसच्छागतु-
ल्याकारत्वात् तथात्वम् “कुमारास्ते विशाखञ्च पितृत्वे
समकल्पयन् । स भूत्वा भगवान् संख्ये रक्षंश्छागमुख-
स्तदा” भा० व० २२७ अ० ।

छागमित्र पु० छागस्य मित्रम् । देशभेदे तत्र भवः काश्या०

ठक् ञिठ् वा इदित् । छागमित्रक तद्भवे त्रि० स्त्रियां
ढञि ङीप् जिठि टाप् ।

छागरथ पु० छागोरथोऽस्य । छागवाहने वह्नौ हेमच०

छागल पुंस्त्री छगल एव प्रज्ञा० अण् । १ छागे पशुभेदे ।

छगलस्यार्षेर्गोत्रापत्यम् अण् । २ आत्रेये ऋषिभेदे
आत्रेयभिन्ने तु छागलिरित्येव छगलशब्दे दृश्यम् । स्वार्थे
क । तत्रार्थे संज्ञायां कन् । “श्वेतं सुपाक समदीर्घवृत्तं
निःशल्कलं छागलकं वदन्ति । गले द्विकण्टः किल तस्य
पृष्ठे कण्टः मुपथ्यो रुचिदोबलप्रदः” राजनि० उक्ते
४ मत्स्यभेदे

छागलाद्यघृत न० चक्रदत्तोक्ते छागमांसपक्वे घृतभेदे यथा

“छागमांसतुलां गृह्य साधयेल्ललणाम्भसि ।
पादशेषेण तेनैव घृतपस्थं विपाचयेत् । ऋद्धिवृद्धी च मेदे
द्वे जीवकर्षभकौ तथा । काकाली क्षीरकाकोली
पृथक् कल्केः पलोन्मितैः । सम्यक्सिद्धे त्ववतार्य्य
शीते तस्मिन् प्रदापयेत् । शर्करायाः पलान्यष्टौ मधुनः
कुड़बं क्षिपेत् । पलं पलं पिवेत् प्रातर्यक्ष्माणं हन्ति
पृष्ठ २९८४
दुर्ज्जयम् । क्षतक्षयञ्च कासञ्च पार्श्वशूलमरीचकम् ।
स्वरक्षयमुरोरोगं श्वासं हन्यात् सुदारुणम्” ।
“तोयद्रोणद्वितये मांसं छागलस्य पलशतं पक्त्वा ।
जलमष्टांशं सुकृतं तस्मिन् विपचेद् घृतं प्रस्थम् । कल्केन
जीवनीयानां कुड़वेन तु मांससर्पिरिदम् । पित्तानिलं
निहन्यात् तज्जानपि रसकयोजितं पीतम् । श्वास-
कासावुग्रौ यक्ष्माणं पार्श्वहृद्रुजां घोराम् । अध्वव्यपाय-
शोषं शमयति चैवापरं किञ्चित् । छागशकृद्रसमूत्रक्षीरै-
र्दध्ना च साधितं सर्पिः । सक्षारं यक्ष्महरं
कासश्वासोपशान्तये परमम्” । भैषज्यरत्नाबल्यां विशेषो यथा
“आजं चर्म्मविनिर्गुक्तंत्यक्तशृङ्गनखादिकम् । पञ्चमूली-
द्वयञ्चैव जलद्रोणे विपाचयेत् । तेन पादावशेषेण
घृतप्रस्थं विपाचयेत् । जीवनीयैः सयष्ट्याह्वैः क्षीरञ्चैव
शतावरी । छागलाद्यमिदं नाम्ना सर्ववातविकारनुत् ।
अर्दिते कर्णशूले च बाधिर्य्ये मूकमिन्मिने । जडगद्गद-
पङ्गूनां खञ्जे गृध्रसिकुब्जयोः । अपतानेऽपतन्त्रे च
सर्पिरेतत् प्रशस्यते । पृथगूर्द्धं तुलां पञ्चमृलद्वन्द्वाजमां
सर्याः । निःक्वाथ्य सलिलद्रोणे क्वाथे पादावशेषिते” ।
“छागमांसतुलां गृह्य दशमूल्याः पलं शतम् । अश्व-
गन्धपलशतं वाट्यालकशतं तथा । घृताढकं पचेत्तो-
यैश्चतुर्भागावशेषितैः । क्षीरं स्नेहसमं दद्यात्
शतावर्य्या रसं तथा । ताम्रपात्रे दृढ़े चैव शनैर्मृद्वग्निना
पचेत् । अस्यौषधस्य कल्कस्य प्रत्येकं शुक्तिसम्मितम् ।
जीवन्ती मधुकं द्राक्षा काकोल्यौ नीलमुत्पलम् । मुस्तं
सचन्दनं रास्ना पर्णिनीद्वयं शारिवे । मेदे द्वे च
तथा कुष्ठं जीवकर्षभकौ शटी । दार्व्वी प्रियङ्गुः त्रिफला
नतं तालीशपद्मकौ । एलापत्रं वरी नागजातीकुसुम
धान्यकम् । मञ्जिष्ठा दाड़िमं दारु रेणुकं
शैलवालुकम् । विड़ङ्गं जीरकञ्चैव पेषयित्वा विनिः-
क्षिपेत् । वस्त्रपूते च शीते च शर्कराप्रस्थसंयुतम् ।
निधापयेत् स्निग्धभाण्डे आर्द्रे वा भाजने शुभे । अस्यौ-
षधस्य सिद्धस्य शृणु वीर्य्यमतःपरम् । देवदेवं नमस्कृत्य
संपूज्य गणनायकम् । पिबेत् पाणितलं तस्य व्याधिं
वीक्ष्यानुपानतः । सर्ववातविकारेषु अपस्मारे विशेषतः ।
उन्मादे पक्षघाते च आध्माने कोष्ठनिग्रहे । कर्णरोगे
शिरोरोगे बाधिर्थ्ये चापतन्त्रके । भूतोन्मादे च गृघ्रस्यां
सोद्गारे चाक्षिपातजे । पार्श्वशूले च हृच्छूले वाह्याया-
मार्हिते तथा । वातकण्टकहृद्रोगमूत्रकृच्छ्रे सपङ्गुले ।
क्रोष्टुशीर्षे तथा खञ्जे कुब्जे चाध्मानमिन्मिने ।
अपतानेऽन्तरायामे रक्तषित्ते तथोर्द्ध्वगे । आनाहे-
ऽर्शोविकारेषु चातुर्थकज्वरेऽपि च । हनुग्रहे तथा
शोषे क्षीणे चैवापवाहुके । दन्तापतानवे भग्ने दाहे
चाक्षेपके तथा । जीर्णज्वरे विषे कुष्ठे शेफस्तम्मे
मदात्यये । आद्यबातेऽग्निमान्द्ये च वातरक्तगदेषु च ।
एकाङ्गरोगिणे चैव तथा सर्वाङ्गरोगिणे । हस्त
कम्पे शिरःकम्पे जिह्वाकम्पे जड़े भ्रमे । क्षीणेन्द्रिये
नष्टशुक्रे शुक्रनिःसरणे तथा । स्त्रीणां वातास्रपाते च
पटले चाक्षिस्यन्दने । एकाङ्गस्पन्दने चैव सर्वाङ्गस्पन्दने
तथा । नागादिजनिते वाते स्त्रीणामप्राप्तिहेतुके ।
आभिचारिकदोषे च धनसन्तापसम्भवे । य वातप्रभवा
रोगा ये च पित्तसमुद्भवाः । शिरोमध्यगता ये च
जङ्घापार्श्वादिसंस्थिताः । मातृग्रहाभिमूतश्च शिशुर्यश्च
विशुष्यति । प्रक्षीणबलमांसश्च न वर्त्मगमनक्षमः ।
घृतेनानेन सिध्यन्ति वज्रमुक्तिरिवासुरान् । निहन्ति
सकलान् रोगान् घृतं परमदुर्लभम् । रसायनं वह्नि-
बलप्रदञ्च वपुःप्रकर्षं विदधाति रूपम् । दन्ता-
वलेन्द्रेण समानतेजा दीर्घायुषं पुत्रशतं करोति ।
स्त्रीणां शतं गच्छति वातिरेकं न याति तृप्तिं सरसः
समाङ्गः । अपुत्रिणी पुत्रशतं करोति शतायुषं
कामसमं बलिष्ठम् । महत् घृतं नाम तु छागलाद्यं
विनिर्मितं वातनिसूदनञ्च । शिवं शुभं रोगभयाप-
हञ्च चकार हारीतमुनिर्विशिष्टः । शृगालवर्हिणः
पाके पुमांसं तत्र दापवेत् । मयूरी जम्बुकी च्छागी
वीर्य्यहीनाः स्वभावतः । भाषितं काशिराजेन
छागमेव नपुंसकम्” ।

छागवाद्वन पु० छागोवाहनमस्य । वह्नौ त्रिका० ।

छात त्रि० छो--क्त । १ छिन्ने २ दुर्बले अमरः । “छातेतराम्बुच्छटा”

छात्त्र पु० छत्त्रं गुरोर्वैगुण्यावरणं शीलमस्य छत्त्रा० ण ।

१ अन्तेवासिनि शिष्ये २ मधुभेदे न “वरटाः कपिलाः
पीताः प्रायोहिमवतोवने । कुर्वन्ति छत्त्राकारं तु
तज्जं च्छात्त्रं मघु स्मृतम् । छात्त्रं कपिलपीतं स्यात्
पिच्छिलं शीतलं गुरु । स्वादुपाकं कृमिघ्नं च रक्त-
पित्तप्रमेहजित् । भ्रमतृण्मीहविषहृत् तर्पणञ्च गुणा-
पिकम्” भावप्र० ।

छात्त्रगण्ड पु० छात्त्री गण्ड इव । पद्यस्य पादमात्रवेत्तरि अल्पज्ञे मन्दे शिष्ये हारा० ।

छात्त्रदर्शन न० छात्त्रं मधुभेद इव दृश्यते दृश--कर्म्मणि

ल्युट् । १ मधुतुल्यास्वादे हैयङ्गवीने शब्दच० । ६ त०
२ शिष्यस्य दर्शने च ।
पृष्ठ २९८५

छात्त्रव्यंसक पु० छात्रो व्यंसकः मयू० परनि० । मन्दशिष्ये

छात्त्रि स्त्री चु० छद--क्तिन् । छादने । कर्त्तरि क्तिच् । २ छाद्के

अस्य शालाशब्दे परे “छात्त्र्यादयः शालायाम्” पा० ।
आद्युदात्तता । छात्त्रिशाला “यदापि शालान्त
स्तत्पुरुषे नपुंसकलिङ्गोभवति तदापि “तत्पुरुषे शालायां
नपुंसके” पा० इत्येतस्मान् पूर्वविप्रतिषेधेनायमेव खरः
छात्त्रिशालम् सि० कौ०

छात्त्र्यादि पु० “छात्त्र्यादयः शालायात्” पा० शालान्त

तत्पुरुषे आद्युदात्ततानिमित्ते शब्दगणे स च गण
छात्त्रि पेलि भाण्डि व्याडि आखण्डि आटि गोमि”
छात्त्रिशाला छात्त्रिशालम् ।

छाद न० छादयात् चु० छद--अच् । पटले (छात्) चाल ।

इतिख्याते पदार्थे जटाधरः ।

छादन पु० चु०--छद--ल्यु । १ नीलाम्लानवृक्षे । भावे ल्युट् ।

२ छादने । “छादनार्थं प्रकीर्णश्च कटैश्च तृणसङ्गतैः”
हरिवं० ६६ अ० । करणे ल्युट् । ३ पत्रे न० राजनि० ।
“छादने वक्रदारुणि” अमरनिर्देशात् कर्तारि ल्यु ।
४ छादके त्रि० । “फणाभृतां छादनमेकमोकसाम्” माघः ।

छादित त्रि० छद--क्त “वादान्तत्यादिना पक्षे णिलो-

भावः । आच्छादिते छन्ने ।

छादिषेय न० छदिषे हितम् “छदिरुपधिबलेर्ढक्” पा० । ढक् । तृणे ।

छाद्मिक त्रि० छद्मना चरति व्यवहरति ठक् । १ कापटिके

कपटव्यवहारिणि “धर्म्मध्यजी सदा लुब्धश्छाद्मिको
लोकदम्भकः” मनुः ।

छान्दड पु० ऋषिभेदे

छान्दस पु० छन्दोऽधीते वेत्ति वा पक्षे अण् । वेदाध्येतरि

१ श्रोत्रिय अभरः । छन्दसो व्याख्यानो ग्रन्थः तत्रभवो
वा अण् । २ वेदव्याख्याने ग्रन्थे ३ वेदभवे च त्रि० । तस्ये-
दम् अण । ४ वेदमम्बन्धिनि त्रि० स्त्रियां सर्व्वत्र ङीप् ।
“छान्दसीभिरुदाराभिः श्रुतिभिः (कर्णैः) ससलङ्कृतः
(वराहः)” हरिवं० २२३ अ० । छान्दसः प्रयोगः ।
ततो मनोज्ञा० भावे वुञ् । छान्दसिका छान्दसभावे स्त्री ।

छान्दोग्य न० छन्दोगानां धर्म्म आम्नायः समूहो वा

“चरणेभ्यो धर्म्मवत् पा० छन्दोगोक्थेभ्योञ्य” पा० ञ्य ।
छन्दोगानामाम्नायभेदे उपनिषद्रूपे । उपनिषच्छवदे
१२२२ पृ० दृश्यम् । तेषां २ धर्म्मे ३ समूहे च ।

छान्दोमिक त्रि० छन्दोमस्येदम् ठक् । यज्ञभेदसम्बन्धिनि

१ सूक्ते २ अहनि च “छान्दोमिकं सूक्तम्” निरु० ७ । २१ ।
“अहनी च्छान्दोमिके” २२ । ६ । ३३ कात्या० श्रौ० कर्कः

छाया स्त्री छो--ण । १ आतपाभावे २ प्रतिविम्बे ३ सूर्य्यपत्नी

भेदे संज्ञाप्रतिकृतौ० ४ कान्तौ च अमरः ५ पालने
६ उत्कोचे ७ पङ्क्तौ मेदि० । ८ कात्यायन्यां शब्दरत्ना० ।
९ तमसि हेमच० । तत्र अनातपे “छायामिषे सानु-
गतां निषेव्य” कुमा० । “छायामच्छामृच्छति
सलिलस्य” माघः “छायेव तस्यालगतिस्य पश्चात्” नैष० ।
“स्वं रागादुपरि वितन्वतोत्तरीयम् । कान्तेन प्रतिपद-
वारितातपायाः । स छत्रादपरविलासिनीसमूहाच्छा-
यासीदधिकतरा तद परस्याः” माघः ।
“गुहां प्रविष्टौ सुकृतस्य लोके छायातपौ व्रह
विदो वदन्ति” श्रुतिः संज्ञाप्रतिकृतिछायाकथा हरि
वं० ९ अ० । “सै वै विवस्वतः पूर्व्वं श्राद्धदेवः प्रजापतिः
यमश्च यमुना चैव यमजौ संवभूवतुः । श्यामवर्णं च
तद्रूपं संज्ञा दृष्ट्वा विवस्वतः । असहन्ती तु स्वां छायां
सवर्णां निर्ममे ततः । मायामयी तु सा संज्ञा तस्या-
श्छायासमुत्थिता । प्राञ्जलिः प्रणता भूत्वा छाया संज्ञां
नरेश्वर! । उवाच किं मया कार्य्यं कथयस्व शुचि-
स्मिते! । स्थिताऽस्मि तवनिर्दोशे शाधि मां वरवर्णिगि! ।
संज्ञोवाच अहं याम्यामि भद्रन्ते स्वमेव भवनं पितुः ।
त्वयेह भवने मह्यं वस्तव्यं निर्व्विकारया
इमौ च बालकौ मह्यं कन्या चेयं सुमध्यमा । संभा-
व्यास्ते न चाख्येयमिदं भगवते क्वचित् । छायोबाच ।
आ कचग्रहणाद्देवि! आ शापान्नैव कर्हिचित् । आख्या-
स्यामि मतं तुभ्यं गच्छ देवि! यथासुखम् । वैशम्पायन
उवाच । समादिश्य सवर्णान्तु तथेत्युक्ता तया च सा ।
त्वष्टुः समीपमगमद्व्रीडितेव तपस्विनी । पितुः समीपगा
सा तु पित्रा निर्भत्सिता तदा । भर्त्तुः समीपं गच्छेति
नियुक्ता च पुनः पुनः । अगच्छद्बडवा भूत्वाऽऽच्छाद्य रूप
मनिन्दिता । कुरूनथोत्तरान् गत्वा तृणान्यथ चचार ह ।
द्वितीयायान्तु संज्ञायां संज्ञेयमिति चिन्तयन् ।
आदित्यो जनयामास पुत्रमात्मसमं तदा । पूर्वजस्य
मनोस्तात सदृशोऽयमिति प्रभुः । मनुरेवाभवन्नाम्ना सावर्ण
इति चोच्यते । द्वितीयोयः सुतस्तस्याः स विज्ञेयः
शनैश्चरः । सततं पार्थिवी तात । स्वस्य पुत्रस्य वै तदा ।
चकाराभ्यधिकं स्नेहं न तथा पूर्व्वजेषु वै । मनुस्तस्याक्ष
पृष्ठ २९८६
मत्तत्तु यमस्तस्या न चक्षमे । ता स रोषाच्च वाल्याच्च
भाविनोऽर्थस्य गौरवात् । पदा सन्तर्जयामास छायां
वैवस्वतो यमः । तं शशाप ततः क्रोधात् सावर्णजननी
नृपः । चरणः पततामेष तवेति भृशदुखिता” ।
छाया च तमोरूपद्रव्यान्तरमिति मीमांसकाः ।
तेन “त्वंदूरमपि गच्छन्ती हृदयं न जहासि मे । दिवा-
वसानच्छायेव पुरोमूलं वनस्पतेः” शकु० । छाया-
गतिरुक्ता सङ्गच्छते” नैयायिकास्तु तेजःसामान्या
भाव एव तमश्छायादिकमङ्गीचक्तुः तत्र गत्यादिक-
मौपचारिकम्” “अत्र च तेजःसामान्याभावप्रयोजकस्य
छायासम्बन्धित्वम् यथा वृक्षस्यातपसम्बन्धप्रतिरोधात्
छायासम्बन्धित्वं तथा च वृक्षप्रयुक्तातपाभावः” इति बोधः
“छाया बाहुल्ये” पा० । छायान्तस्तत्पुरुषो नपुंसकं
स्यात् पूर्व्वपदार्थबाहुल्ये” इक्षूणां छाया इक्षुच्छायम्
सि० कौ० । कस्य बाहुल्यमित्यप्रेक्षायां छायायानिमि
त्तभूतावरकद्रव्याणामेव बाहुल्यमर्थाक्षिप्तं तच्च षष्ठी
तत्पुरुषे पूर्व्वपदार्थगतमित्याशयेन पूर्व्वपदार्थेत्युक्तम् ।
“इक्षुच्छायानिषादिन्य” इत्यत्र आङ्प्रश्नेषः” सि० कौ० ।
“आवरकद्रव्यस्यैकत्वे तु “विभाषा सेनासुराच्छायेत्यादि”
पा० वा क्लीवत्वम् कुड्यछाया कुद्ध्यच्छायम् ।
आतपाभावश्च तेजःसामान्यप्रभासञ्चाराभावः तेन प्रदीप
प्रभावरकपदार्थस्य प्रभानिरोधसम्बन्धित्वात् शङ्कुच्छाया
नरच्छाया इत्यादि । दीपादिच्छायामानज्ञानार्थो व्यव-
हारःछायाव्यवहारः तत्र करणसूत्रं लीला० उक्तं यथा ।
“अथ छायाव्यवहारे करणसूत्रं वृत्तम् । छाययोः
कर्णयीरन्तरे यै तयोर्वर्गविश्लेषभक्तारसाद्रीषवः ।
सैकलब्धेः पदघ्नन्तु कर्ण्णान्तरं भान्तरेणोनयुक्तं दलेस्तः प्रभे ।
उदाहरणम् । नन्दचन्द्रैर्मितं छाययोरन्तरं कर्ण्णयो-
रन्तरं विश्वतुल्यं ययोः । ते प्रभे वक्ति योयुक्तिमान्
वेत्त्यसौ व्यक्तमव्यक्तयुक्तं हि मन्येऽखिलम् । न्यासः

<Picture>

छायान्तरं । १९ । कर्ण्णान्तरम् । १३ । अनयोर्वर्गा-
न्तरेण । १९२ । भक्ता रसाद्रीषवः । ५७६ । लब्धं ३ । सैक
स्यास्य । ४ । मूलम् । २ । अनेन कर्ण्णान्तरं । १३ । गुणितं।
२६ । द्विस्थं । २६ । भान्तरेण । १९ । ऊनयुतं । ७ ।
४५ । तदर्द्धे लब्धे छाये ७२ । ४५२ तत्कृत्योर्योगपद-
मित्यादिना जातौ कर्ण्णौ २५२ । ५१२ । छायान्तरे
करणसूत्रं वृत्तार्द्धम् । शङ्गुः पदीपतलशङ्कुतलान्तर
घ्नश्छाया भवेद्विनरदीपशिखौच्च्यभक्तः ।
उदाहरणम् । शङ्कुप्रदीपान्तरभूस्त्रिहस्ता दीपोच्छ्रितिः
सार्द्धकरत्रया चेत् । शङ्कोस्तदा काङ्गुलसम्मितस्य तत्र
प्रभा स्यात्कियती वदाशु । न्यासः

<Picture>

शङ्कुः १२ प्रदीपशङ्कुतलान्तरं ३ अनयोघातः ३२
विनरदीपशिखौच्च्येन । ३ । भक्तोलब्धानि छायाङ्गुलानि।
१२ । अथ दीपोच्छ्रित्यानयनाय करणसूत्रं वृत्तार्द्धम् ।
छायाहृते तु नरदीपतलान्तरघ्ने शङ्कौ भवेन्नरयुते खलु
दीपकौच्च्यम् ।
उदाहरणम् । प्रदीपशङ्क्वग्तरभूस्त्रिहखा छायाङ्गुलैः
षोडशभिः सना चेत् । दीपोच्छ्रितिः स्यात्कियती वदाशु
प्रदीपशङ्क्वन्तरमुच्यतां मे । न्यासः

<Picture>

शङ्कुः । १२ । छायाङ्गुलानि । १६ । शङ्कुप्रदीपान्तर
पृष्ठ २९८७
हस्ताः । ३ । लब्धं दीपकौच्च्यं हस्ताः ११४ । प्रदीप
शङ्क्वन्तरभूमानानयनाय करणसूत्रं वृत्तार्द्धम् । विशङ्कु
दीपोच्छ्रयसङ्गुणा भा शङ्कूद्धृता दीपनरान्तरं स्यात् ।
उदाहरणम् । पूर्व्वोक्तएव दीपोच्छ्रायः ११४ शङ्क्व
ङ्गुलानि । १२ । छाया । १७ । लब्धाः शङ्कुप्रदीपा
न्तरहस्ताः । ३ ।
छायाप्रदीपान्तरदीपौच्च्यानयनाय करणसूत्रं सार्द्धं
वृत्तम् । छायाग्रयोरन्तरसङ्कुणा भा छायाप्रमाणान्तर
हृद्भवेद्भूः । भूशङ्कुघातः प्रभया विभक्तः प्रजायते
दीपशिखौच्च्यभेवम् । त्रैराशिकेनैव यदेतदुक्तं व्याप्तं
स्वभेदैर्हरिणेव विश्वम् । उदाहरणम् । शङ्कोर्भार्क-
मिताङ्गुलस्य सुमते! दृष्टा किलाष्टाङ्गुला छायाग्राभि-
मुखे करद्वयमिते न्यस्तस्य देशे पुनः । तस्यैवार्कमिता-
ङ्गुला यदि तदा छाया प्रदीपान्तरं दीपौच्च्यञ्च कियद्वद
व्यवहृतिं छायाभिधां वेत्सि चेत् । न्यासः

<Picture>

अत्र छायाग्रयोरन्तरमङ्गुलात्मकं । ५२ । छाये च । ८ ।
१२ । अनयोराद्या । ८ । इयमनेन । ५२ । गुणिता।
४१६ । छायाप्रमाणान्तरेण । ४ । भक्ता लब्धं
भूमानम् । १०४ । इदं प्रथमच्छायाग्रदीपतलयोरन्तरमित्यर्थः ।
एवं द्वितीयच्छायाग्रमानं । १५६ । भूशङ्कुघातः प्रभया
विभक्तैति जातमुभयतोऽपि दीपौच्च्यं सममेव हस्ताः
६१२ एवमित्यत्र छायाव्यवहारे त्रैराशिककल्पनयाऽऽ
नयनं वर्त्तते तद्यथा । प्रथमच्छायातोद्वितीयच्छाया ।।
१२ । यावताधिका तावता छायावयवेन यदि छाया-
ग्रान्तरतुल्या भूर्ल्लभ्यते तदा छायया किमिति एवं पृथक्
पृथक् छायाप्रदीपतलान्तरप्रमाणं लभ्यते । ततोद्वितीयं
त्रैराशिकं यदि छायातुख्ये भुजेशङ्कुः केटिस्तदा भूतुल्ये
भुजेकिमिति लब्धं दीपकीच्च्यमुभयतोऽपि तुल्यमेव ।
एवं पञ्चराशिकादिकमखिलं त्रैराशिककल्यनयैव सिद्वम् ।
“भवेत्सैव (मेघविस्फूर्जितैव) च्छाया तयुगगयुता स्याद्
द्वादशान्ते यदा” इत्युक्ते ऊनविंशत्यक्षरपादके १
छन्दोभेदे च ।
शङ्कुछाया हि दिग्देशकालज्ञानोपायः यथोक्तं त्रिप्रश्ना-
धिकारे सूर्य्यसिद्धान्तरङ्गनाथाभ्याम् । तत्र चं त्रयाणां
दिग्देशकालानां प्रश्नाः त्रिप्रश्नाः तेषामधिकार इति
त्रिपश्नशब्दार्थः । तत्रादौ दिग्ज्ञानमाह ।
“शिलातलेऽम्बुसंशुद्धे वज्रलेपेऽपिवा समे । तत्र शड्क्व-
ङ्गुलैरिष्टैः समं मण्डलमालिखेत् । तन्मध्ये स्थापये-
च्छङ्कुं कल्पनाद्वादशाङ्गुलम् । तच्छायाग्रं स्पृशेद्यत्र
वृत्ते पूर्वापरार्धयोः । तत्र विन्दू विधायोभौ वृत्ते
पूर्वापराभिधौ । तन्मध्ये तिमिना रेखा कर्त्तव्या दक्षि-
णोत्तरा । याम्योत्तरादिशोर्मध्ये तिमिना पूर्वपश्चिमा ।
दिङ्मध्यमत्स्यैः संसाध्या विदिशस्तद्वदेव हि” । सू० सि०
“तत्र दिक्साधनोपक्रमे प्रथममम्बुसंशुद्धे जलवत्समी-
कृते शिलाप्रदेशे । अपि वाथ वा तदभावेऽन्यत्र वज्रलेपे
चत्वरादौ घुण्टनादिना समस्थाने कृते शङ्क्वङ्गुलैः
शङ्कस्थाङ्गुलविभागमानगृहीतैरभीष्टसङ्ख्याकाङ्गुलैर्व्यासा-
र्धरूपैवृत्तमवक्रमालिखेत् । सर्वतः केन्द्राद्वृत्तपरिधिरेखा
तुल्या यथा स्यात् तथेत्यर्थः । ततस्तन्मध्ये तस्य वृत्तस्य
केन्द्ररूपमध्ये कल्पनया द्वादशसङ्ख्याकाङ्गुलानि तुल्यानि
यस्मिंस्तं द्वादशविभागाङ्कितमित्यर्थः ॥ शङ्कुं समतल-
मस्तकपरिधिकाष्ठदण्डं स्थापयेत् । ततः पूर्वापरार्धयो-
र्दिनस्य प्रथमद्वितीयभागयोस्तच्छायाग्रं स्थापितशङ्का-
श्छायान्तप्रदेशो मण्डलपारधौ यस्मिन् विमागे स्पृशेत् ।
दिनस्य प्रथमविभागेऽनुलणं छायाह्रासाद्वृत्ते यत्र प्रवि-
शति, दिनस्यापरार्धे छायानुक्षणवृद्धेर्वृत्ते यत्र निर्ग-
च्छतीत्यर्थः । तत्र निर्गमनप्रवेशस्थानयोरुभौ द्वौ विन्दू
पूर्बापरसञ्ज्ञौ क्रमेण वृत्ते परिधिरेखायां कृत्वा
तन्मध्ये पूर्वापरविन्द्वन्तरमध्ये तिमिना मत्स्येन रेखा
कार्या सा दक्षिणोत्तररेखा भवति । मत्स्यस्तु विन्द्व-
न्तरालसूत्रमितेन व्यामार्धेन विन्दुद्वयकेन्द्रकल्पनेन वृत्त-
द्वयं निष्पाद्य हलद्वयसयोगाभ्यां वृत्तद्वयपरिधिविभागा-
भ्यामन्तर्गतं मत्स्याकारं स्थानं भवति । तत्रैकः संयोगो
मुखं बाह्यवृत्तभागसम्मार्जगेन, अपरसंयोगखु पुच्छ-
मितरवृत्तभागद्वयसम्मर्जनेन । मुखपुच्छानध्यृज्वी रेखा
दक्षिणोत्तररेखा । तत्र पूर्व्वविन्दोः सव्यं रेखाग्रं
दक्षिणा दिक् । पश्चिमविन्दोः सव्यं रेखाग्रसुतरा दिक ।
पृष्ठ २९८८
अनन्तरं पूर्ववृत्तं मत्स्यश्च सम्मार्जनीयः । शङ्कुरपि
तत्स्थानान्निष्कास्यः इति केवला दक्षिणोत्तररेखा स्थितेति
तात्पर्य्यमु । दक्षिणोत्तरदिशोर्मध्यस्थाने तिमिना दक्षि-
णोत्तररेखामितेन व्यासार्धेन दक्षिणोत्तरस्थानाभ्यां
पूर्बवत् प्रत्येकं वृत्तं विधाय पूर्बवत् सिद्धेन मत्स्येनेत्यर्थः ।
पूर्वपश्चिमा रेखा कार्या । तत्र पूर्वविन्दोरासन्नं रेखाग्रं
पूर्वा, पश्चिमविन्दोरासन्नं रेखाग्रं पश्चिमेति मत्स्यसम्मा-
र्जनेन केवला पूर्वापररेखापि सिद्धा । अथ रेखासंयो-
गस्थानाद्दिक्साधनोपक्रमोक्तं पूर्ववृत्तमुल्लिखेत् तद्वृत्तप-
रिधौ यत्र रेखा लग्ना तत्र दिगिति तद्वृत्तमध्यस्य दिक्-
चतुष्टयं वृत्ते सिद्धम् । तद्वत् यथा दक्षिणोत्तराभ्यां
पूर्वापरा साधिता तत्प्रकारणेत्यर्थः । एवकारोऽन्य-
प्रकारनिरासार्थकः । हि निश्चयेन । विदिशः
कोणदिशो दिशां पर्वादिसिद्धदिशां ये मध्यमत्स्या
अव्यवहितदिग्द्वयान्तरोत्पन्ना लघवस्तैः संसाध्याः
सम्यक्प्रकारेण साध्याः । रेखावृत्तसंयोगस्थत्वेन
ज्ञेयाः । अत्रोपपत्तिः । क्षितिजपूर्वापरवृत्त संयोगौ
पूर्वापरविभागस्यौ पूर्वापरदिशे तत्र पूर्वापरविभाग-
ज्ञानं सूर्य्योदयास्ताभ्यां तत्र क्षितिजे पूर्वापरवृत्तं
कत्र लग्नमिति ज्ञानं तु विषुवद्वृत्तक्रान्तिवृत्तसम्पा-
तस्थसूर्य्यस्योदयास्तस्थलज्ञानेन विषुवद्वृत्तस्य पूर्वापर-
क्षितिजवृत्तसम्पातयोः सम्बद्वत्वात् । अघान्यस्मिन् दिने
सूर्य्यस्योदयास्तावग्रागान्तररेण याम्योत्तरे भवत इति
सूर्य्योदयास्तस्थानाभ्यामग्राशान्तरेणोत्तरयाम्ये पूर्वापर-
स्थानं भवतीति क्षितिजस्य महत्त्वाद्दूरत्वाच्च तद्दानेन
पूर्वापरज्ञानमशक्यमतस्तत्सूत्रेण स्वामीष्टप्रदेशे तज्ज्ञा-
नार्थमभीष्टसमस्थले क्षितिजानुकारं वृत्तं कृतम् । तत्रापि
सूर्य्योदयास्तसमसूत्रण स्थलद्ञानस्य दुःशकत्वात् छायार्थं
शङ्गुः स्थाप्यः । तथापि सूर्य्योदये छायानन्त्याद्वृत्तपरिधौ
तदग्रस्पर्शाभावः । परन्तु यथा यथा सूर्य ऊर्द्घ
भवति तथा तथा छायाह्रासाद्यत्र छाया वृत्तपरिधौ
यदा प्रविशति तत्स्थानात् तात्कालिको वक्ष्यमाणभुजो
व्यस्तोऽर्धज्याकारेण देयस्तदुत्क्रमज्या यत्र परिधिप्रदेशे
लगति तत्र शङ्कुस्यानस्य पश्चिमा । छायाग्रस्य पूर्वा
परसूत्राद्भुजान्तरेण याम्योत्तरपतनात् सूर्य्यापरदिशि
छायापतनाच्च । एवं दिनापरार्धे सूर्य्यो यथा यथाधः
सञ्चरति तथा तथा छायावृद्धः शङ्कुच्छायावृत्तपरिधौ
यत्र यदा निर्गच्छति तात्कालिको वक्ष्यमाणभुजो व्यस्तो-
ऽर्द्धज्याकारेण तत्स्थाने देयस्तदुत्क्रमज्या यत्र परिधि-
प्रदेशे लगति तत्र शङ्कुस्थानस्य पूर्वा । तत्सूत्रं पूर्वापर-
सूत्रम् । इदं शङ्कोरुपलक्षणत्वेन ज्ञानं तथा छायोप-
लक्षणेनापि प्रदेशस्य पूर्वापरसूत्रज्ञानम् । तथा हि ।
यत्र छायाग्रं विशति तत्रापरा, छायाग्रं यतो निर्गच्छति
तत्र पूर्वा । तत्रापि प्रवेशनिर्गमयोरेककालत्वासम्भवा-
द्यत्कालिकः प्रवेशस्तत्काले छायायाः पाश्चमत्वं तत्र वस्त-
भूतं तत्काले निर्गमनस्य पूर्वत्वासम्भवः । एवं निर्गम-
काले निर्गमस्थानस्य पूर्वत्वं वस्तुभूतं तत्काले प्रवेशस्य
पश्चिमत्वासम्भवः । एककालिकसिद्ध्यर्थमुमयोरेकतर
चिह्नं चाल्यं तात्कालिकभुजयोरन्तरेण तत्र पूर्वचिह्नं
भुजान्तराङ्गुलैरयनदिशि चाल्यम् । पश्चिमचिह्नं वा
त्यस्तायनदिशि चाल्यम् । तत्सूत्रं सूत्रमध्यदेशस्य पूर्वा-
परसूत्रम् । एतन्मध्ये स्थापितशङ्कोश्छायाग्रप्रवेशनिर्गम-
चिह्नाभ्यां यथोक्तरीत्या मुजदानेन सिद्धपूर्वापरसूत्रेणा-
भिन्नत्वात् । तदुक्तं सिद्धान्तशिरोमणौ “तत्काला-
पमजीवयोस्तु विवराद्भाकर्णमित्या हतात् लम्बज्याप्त-
मिताङ्गुलैरयनदिश्यैन्द्री स्फुटा चालिता” इति ।
तदेतद्भगवता लोकानुकम्पया खल्पान्तरत्वादेकतरवि न्दु-
चालनं नोक्तं सुखार्थं किञ्चित्स्थूलावेव निर्गभप्रवेश-
विन्दू पूर्वापराभिधावुक्तौ । एवञ्चाभीष्टस्थानं प्रवेश-
निर्गमसूत्रमध्ये यथा भवति तथानेन प्रकारेण मण्डल-
केन्द्रशङ्कुस्थापनादिनाऽभीष्टप्रदेशे पूर्वापरदिशे साध्ये
इति । तन्मध्ये दक्षिणोत्तररेखाविन्दुद्वयोत्पन्नमध्य-
मत्स्यरेखैवेति । याम्योत्तरमध्ये पूर्वापरा रेखा तद्दि
ङ्मध्यमत्स्येनेति याम्योत्तरदिशोरित्यादि सम्यगुक्तम्
ननु पूर्वापरविन्दुभ्यां मत्स्येन या दक्षिणोत्तररेखा
तदग्राभ्यां मत्स्येन रेखा पूर्वापरविन्दुस्पृष्टैवेति पूर्वं
तस्या एव विन्द्वन्तरत्वेन सिद्धत्वात् पुनं साधनं व्यर्थ-
मन्यथा दक्षिणोत्तररेखाया अप्यसङ्गतत्वापत्तेरिति चेत्
सत्यम् । दक्षिणोत्तररेखाशुद्ध्यर्थमेव पूर्वापरविन्दुस्पृष्ट-
रेखायाः पुनः साधनमिति केचित् । वस्तुतस्तु दक्षि-
णोत्तरपूर्वापरसूत्रसगातरूपाभीष्टस्थानात् केन्द्रात् प्रा-
गुक्तवृत्तस्य वक्ष्यमाणोपयोगित्वेनावश्यकत्वात् तस्य च
पूर्वापरविन्द्वन्तरख्यत्राधिकव्याससूत्रत्वाद्विन्द्वन्तररेखा मूला
ग्रयोर्बर्धनीया सा तत्र वृत्ते पूर्वापररेखा भवति ।
तस्या विन्दोरुपर्यधश्च वक्रत्वं कदाचित् स्यादतः प्रथम-
मेव पूर्णरेखासिद्ध्यर्थ विन्द्वन्तरसिद्धमत्स्यमुखपुच्छगत-
पृष्ठ २९८९
रेखाया विन्द्वतराधिकत्वेन तदुत्पन्नमत्स्यरेखाया ऋज्व्याः
सुतरामधिकत्वेन पुनः पूर्वापररेखासाधनं युक्ततरमिति
तत्त्वम् । एवमेवाव्यवहितदिग्द्वयान्तरोत्पन्नलघुमत्स्यै-
श्चतुर्मिः सूत्रैर्वृत्ते कोणदिशः । तदिदमभीष्टस्थान-
केन्द्रकमण्डले दिगष्टकं सिद्धम् ॥ अथ दिक्सूत्रसम्पात-
रूपाभीष्टस्थानात् तात्कालिकच्छायाग्रस्थानमाह” र० ना०
“चतुरश्रं बहिः कुर्य्यात् सूत्रैर्मध्याद्विनिर्गतैः ।
भुजसूत्राङ्गुलैस्तत्र दत्तैरिष्टप्रभा स्मृता” सू० मि० ।
“मध्यादभीष्टस्थानाद्दिग्रेखा सम्पातरूपाद्विनिर्गतैर्निः-
सृतैरष्टदिग्रेखारूपैः । बहिर्दिक्सूत्रसम्पातकेन्द्रवृत्ताद्ब-
हिः । अनेनैव वृत्तकरणं पूर्वमनुक्तं द्योतितम् । अन्यथा
बहिरित्यस्यानुपपत्तेः । पूर्ववृत्तग्रहणे तु दिग्रेखा-
सम्पातस्य मध्यत्वानुपपत्तेः । चतुरश्रं कोणरेखाधिक-
सूत्रकर्णद्वयतुल्यं समचतुर्भुजं कुर्य्यात् । यथा च तद्द-
र्शनम् । तत्र चतुरश्रे भुजसूत्राङ्गुलैर्वक्ष्यमाणभुजमित-
सूत्रस्याङ्गुलैर्निर्गमप्रवेशकालिकैर्दत्तैः पूर्वापरसूत्रादर्धज्या-
वद्दीयमानैस्तत्र वृत्ते यस्मिन् प्रदेशे भुजाग्रं ततप्रदेशे
इष्टप्रभा निर्गमप्रवेशान्यतरकालिकच्छायाग्रमुक्तम् । प्रती-
तिस्तु दिक्सूत्रसम्पातस्थशङ्कुना ज्ञेया । अत्रोपपत्तिः ।
वक्ष्यमाणभुजस्य छायाग्रपूर्वापरसूत्रान्तरत्वेन प्रतिपादि-
तत्वादिष्टच्छायाग्रमुक्तदिशा ज्ञातं सम्यक् । चतुरश्र
करणं वक्ष्यमाणाग्रसाधकप्राच्यपररेखानुकाररेखाया
वृत्तान्तस्तद्बहिर्वा ऋजुत्वसिद्ध्यर्थमिति । अथ पूर्वा-
पररेखायाः सञज्ञान्तरसाह” र० ना० ।
“प्राक्पश्चिमाश्रिता रेखा प्रोच्यते सममण्डलम् । उन्म-
ण्डलं च विषुवन्मण्डलं परिकीर्त्यते” सू० सि० ।
“प्राक्पश्चिमाश्रिता पूर्वपश्चिमसम्बद्धा साधिता रेखा
समवृत्तमुच्यते । सैव रेखोन्मण्डलं विषुवन्मण्डलम् । चः
समुच्चये । उभयसञ्ज्ञकं कथ्यते । अत्रीपपत्तिः ।
क्षितिजपूर्वापरवृत्तसंयोगौ पूर्वापरे तत्सूत्रं पूर्वापर-
सूत्रमिति । पूर्वापरवृत्तस्य भूमावूर्ध्वाधरानुकारिवृत्तत्वेना-
दर्शनाद्रेखाकारंतयैव दर्शनाच्च पूर्वापरवृत्तमपि
तत्सूत्रम् । पूर्वापरवृत्तस्य सममण्डलत्वेनाभिधानात्
तद्रेखासममण्डलसञ्ज्ञोक्ता । अथ स्वनिरक्षदेशक्षितिज-
वृत्तस्योन्मण्डलाख्यस्य तत्संयीगयोः संलग्नत्वात् तन्मध्य-
सूत्रत्वेन पूर्वापरसूत्रस्यापि सत्त्वात् पूर्वापरसूत्रमुन्म-
ण्डलसञ्ज्ञम् । एतेनान्यदेशक्षितिजसञ्ज्ञया स्वदेश-
क्षितिजसञज्ञा स्तुतरां सिद्धेति पूर्वापरसूत्रस्य क्षिति-
जवृत्तसञ्ज्ञा द्योतिता । पूर्वापरस्थानयोः क्षितिजवृत्तस्य
संलग्नत्वादुल्लिखितवृत्तस्य क्षितिजानुकारित्वाच्च । एवं
निरक्षदेशपूर्वापरवृत्तं विषुवन्मण्डलाख्यं पूर्वापरस्थानयोः
संलग्नमिति तन्मध्यसूत्रत्वेनापि पूर्वापरसूत्रस्य सिद्धत्वात्
पूर्वापरसूत्रं विषुवन्मण्डलसञ्ज्ञं क्रान्तिवृत्तस्य दृग्वृत्तस्य
च चलत्वात् कादाचित्कत्वेन पूर्वापरस्थानसंलग्नत्वात्
तत्सञ्ज्ञा नोक्तेति ध्येयम् अथाग्राज्ञानमाह” र० ना० ।
“रेखा प्राच्यपरा साध्या विषुवद्भाग्रगा तथा । इष्ट-
च्छायाविषुवतोर्मध्यमग्राऽभिधीयते” सू० सि० ।
“तस्मिंश्चतुरश्रे पूर्वापररेखात उत्तरभागे विषुवद्भाग्र-
गाऽक्षभाग्रप्रदेशस्थाक्षमाङ्गुलान्तरितेत्यर्थः । प्राच्यपरा रेखा
पूर्वापररेखानुकारा रेखा तथा सर्वतस्तुल्यान्तरेण
यथेष्टच्छायाग्ररेखाभुजान्तरेण तथाक्षभान्तरेण कार्या ।
अनन्तरमिष्टच्छायाविषुवतोरिष्टच्छायाग्ररेखाक्षभाग्ररेखयो-
रित्यर्थः । मध्यं चतुरश्रेऽङ्गुलात्मकमन्तरालं सर्वतस्तु-
ल्यम् । अग्रा कर्णवृत्ताग्रोच्यते । अत्रोपपत्तिः । भुजस्य
कर्णवृत्ताग्रा पलभासंस्कारेणाग्रे उक्तत्वद्दक्षिणगोले
पलभाधिकोत्तरभुजसद्भावेन पलभोनो भुजोऽग्रेति, प्राच्यप-
रसूत्रादुत्तरभागेऽक्षभाग्ररेखा भुजमध्ये भवतीति द्वयो
रेखयोरन्तरमग्रा पलभोनभुजरूपा । एवमुतरगीले
उत्तरभुजस्य पलभाल्पत्वाद्धुजोनपलभाग्रेति पलभारेखा
प्राच्यपरसूत्रादुत्तरभागस्था भुजरेखातोऽप्यग्रान्तरेणोत्त-
रदिशीति द्वयो रेखयोरन्तरं भुजोनपलभारूपं कर्ण-
वृत्ताग्रा । एवं दक्षिणभुजस्य पलभोनाग्रात्वात् पलमा-
युतो मुजोऽग्रति प्राच्यपरसूत्राद्भु जाग्रपलभारारेखयोः
क्रमेण याभ्योत्तरत्वात् तयोरन्तरालं पलभाभुजैक्यरूप-
मग्रा, पलभायाः शङ्कुतलानुकल्पत्वात् सदोत्तरत्वं छाया
मम्बुन्धाद्युक्तम् गोले शङ्कुतलस्य दक्षिणत्वाद्ग्रहाप-
रदिशि छायासद्भावाच्च । अतएव प्राच्यपरसूत्राद्दक्षिण-
भागे दक्षिणभुजवशादक्षभाग्ररेखाकल्पने उक्तानुपपत्त्या
सम्यगुत्तरभागे पूर्वापरसूत्रादिति विषुवड़ाग्रगेत्यत्र व्याख्या-
तम्” अथ प्रसङ्गाज्ज्ञातच्छायातः कर्णज्ञानं तच्छुद्धिं
चाह र० ना० ।
“शङ्कुच्छायाकृतियुतेर्मलं कर्णोऽस्य वर्गतः । प्रोज्झ्य
शङ्कु कृतिं मूलं छाया शङ्कुर्विपर्ययात्” सू० सि०
“हादशाङ्गुलशङ्कुच्छाययोर्वर्गयोगात पदं छायाकर्णः
स्यात् । अथास्य शुद्धिरूपं छायासाधनमाह ।
अस्येति । छायाकर्णस्य वर्गात् शङ्कु वर्णं चतुश्चत्वारिंशु-
पृष्ठ २९९०
दधिकं शतं विशीध्य मूल छाया । प्रकारान्तरेण
छायाकर्णशुद्धिमाह । शङ्कुरिति । विपर्ययाच्छायासाधनवैप-
रीत्यावछायाकर्ण्णवर्गाच्छायावर्गं विशोध्य मूलमित्यर्थः ।
शङ्कुर्द्वादशाङ्गुलमितः स्यात् । अत्रोपपत्तिः । द्वादशा-
ङ्गुलशङ्कुः कोटिरक्षभा भुजस्तत्कृत्योर्योगपदं कर्ण इत्यक्ष-
कर्णः कर्ण इत्याद्यक्षक्षेत्राद्युक्तरीत्योपपन्नम् । ननु दिक्-
साधनोत्तरमिष्टप्रभाग्राकर्णसाधनं भगवता सर्वज्ञेन
किमर्थमुक्तमग्रेऽग्रादीनां स्वतन्त्रतयोक्तत्वात् । न च
विना गणितश्रममग्राज्ञानार्थमिदं युक्तमुक्तमिति वाच्यम् ।
वक्ष्यमाणभुजज्ञानस्याग्रोपजीव्यत्वेन तस्याश्च भुजीपजीव्य-
त्वेनान्योत्याश्रयात् गणितज्ञाताग्रायाः पुनः
साधनस्य व्यर्थत्वाच्च । न च भुजसूत्राङ्गुलैर्दत्तैरित्यनेनेष्टच्छा-
याग्रं ज्ञातमिति न, किन्त्वेतदुक्त्या दिक्सूत्रसम्पातस्थश-
ङ्कोर्वृत्तपरिधौ छायाग्रज्ञानात् तत्पूर्वापरसूत्रान्तरे
भुजसद्भावाद्विना गणितं भुजोऽपि ज्ञात इति नान्योन्या-
श्रय इति वाच्यम् । तथापि भगवतः सर्वज्ञस्य निष्प्र-
योजनत्वोक्तेरनुचितत्वात् । विना प्रयोजनं मन्दोक्तेरष्व-
भावाच्च । न हि दिक्साधनेऽग्राभुजादिकमावश्यर्क
येन तदुक्तिर्युक्ता । किञ्च कर्णसाधनस्य गणितोक्त्या
वक्ष्यमाणकर्णसाधनतुल्यत्वेनात्र कथनमनुचितम् । न
हि दिक्साधनार्थं “भाकर्णमित्या हतादिति” सिद्धान्त-
शिरोमण्युक्तिवदत्र छायाकर्ण उपयुक्तो येन तदुक्ति-
र्युक्तेति चतुरश्रमित्यादिश्लोकचतुष्टयमन्येन मन्दबुद्धिना
क्षिप्तं न भगवतोक्तामति चेन्मैवम् । भुजसाधनोप-
जीव्याग्राया एतदुक्तप्रकारेण सिद्धौ दिशः सम्यक् सिद्धा
इति दिक्साधनशुद्ध्व्ययमग्रासाधनम् । प्रकारान्तरेणापि
वक्ष्यमाणत्रिज्यावृत्तीयाग्रया त्रिज्या लभ्यते तदानया-
गतया केव्यनुपातेन साधितकर्णसंवादेन शुद्ध्यवगमार्थं
कर्णसाधनं चोक्तम् । अनयाग्रया कर्णस्तदा त्रिज्या-
वृत्तीयाग्रया क इति फलस्य त्रिज्यातुल्यस्यातयनार्थं वा
कर्णसाधनमिति केचित् । वस्तुतस्तु मण्डले छायाप्र-
वेशनिर्गसस्थानस्थितपूर्वापरविन्द्वोः प्रत्येकं रेखेति
रेखाद्वयं सर्वतस्तुल्यान्तरं कार्यं तेनान्तरेणान्यतरो
विन्दुबाल्यस्तो पूर्वापरविन्यू तद्रेखामध्यस्थानस्य पूर्वा-
पररेखेति । तत्रोभयविन्दुरेखयोरन्तराङ्गुलमानं
स्वल्पत्वाद्गणयितुमशक्यमतः प्रत्येकरेखे प्राच्यपररेखे
प्रकल्प्य तन्मध्यकेन्द्रात् पूर्ववृत्तं प्रत्यकमिति वृत्तद्वयं
कुर्यात् । तत्र स्वस्वेवृत्त खखपाच्यपररेखास्पृष्टा
कार्या ताभ्यां स्वस्वकालिकौ भुजौ स्वस्ववृत्ते देयौ तदग्रे
छायाग्ररेखे स्वस्ववृत्ते कार्ये स्वस्वप्राच्यपरसूत्रत् स्वस्व-
वृत्ते उत्तरभागेऽक्षभाङ्गुलान्तरेण रेखे कार्ये ततः
स्वस्ववृत्ते स्वस्वतद्रेखयोरन्तरं स्वस्ववृत्ते उभयकालिककर्ण-
वृत्ताग्रे बहुत्वेन गणयितुं शक्ये तदन्तरं पूर्वविन्द्वोर्या-
म्योत्तरमन्तरं कर्णवृत्ताग्रासाधनकथनेनानीतं भुजान्तरस्य
विन्द्वन्तरत्वात् तस्य चाग्रान्तरत्वेन फलितत्वात् । विषु-
वद्दिने गोलमेदे तु भुजान्तरमग्रायोग इति विन्द्वोर्या-
म्योत्तरमग्रायोग इति । तेनोक्तरीत्या विन्दुश्चाल्यस्तत्सूत्रं
पूर्वापरसूत्रं स्फुटमित्याशयेन मगवताग्रा निरूपिता
तस्याः शुद्ध्यर्थं कर्णोऽपि साधित इति तत्त्वम्” र० ना० ।
अतः परं “त्रिंशत्कृत्यो युगे भानामित्यादिः” ग्रन्थः । स चं
अयनशब्दे ३३६ । ३३७ पृ० दर्शितः । सोऽत्रानुसन्धेयः ।
“स्फुटं दृक्तुल्यतां गच्छेदयने विषुवद्वये । प्राक्
चक्रं चलितं हीने छायार्कात् करणागते । अन्तरांशैर-
थावृव्य पश्चाच्छेषैस्तथाधिके” सू० सि० ।
“अयने दक्षिणोत्तरावणसन्धौ विषुवद्वये गोलसन्धौ
चलितं चक्रं दृक्तुल्यतां दृष्टिगोचरतां स्फुटमनायासं
गच्छेत् । तत्र प्रत्यक्षतस्तन्मितमन्तरं दृश्यत इत्यर्थः ।
तथा च सृष्ट्यादिकाले रेवतीयोगतारासन्नावधि मेषतु-
लाद्योः कर्कमकराद्योर्विषुवायनप्रवृत्तेरिदानीं त्वन्यत्र
तत्स्वरूपे प्रत्यक्षे इति क्रान्तिवृत्तं चलितमन्यथा तदनु-
पपसेरिति भावः । ननु पूर्वतोऽपरत्र वा चलितमिति
कथं ज्ञेयमित्यत आह । प्रागिति । छायार्काद्यद्दिने
सूर्यस्यायनदिक्परावर्तनमुदये प्राच्यपरसूत्रस्थत्रं वा
तस्मिन् दिनेऽन्यस्मिन् दिमे वा मध्याह्नच्छायातो वक्ष्यमा-
णप्रकारेण सूर्यः साध्यस्तस्मादित्यर्थः । करणागते प्रागु-
क्तप्रकारेणानीतः स्पष्टः सूर्यस्तस्मिन्नित्यर्थः । न्यूने
सति । अन्तरांशैः सूर्ययोरन्तरांशैश्चक्रं क्रान्तिवृत्तं
प्राक् पूर्वस्मित् चलितमिति ज्ञेयम् । अथ यद्यविके
सति शेषैः सूर्वयोरन्तरांशैश्चक्रमावृत्य परिवृत्य पश्चात्
पश्चिमाभिमुखं तथा चलितमिति ज्ञेयम । अत्रोपप-
त्तिः । छायातो वक्ष्यमाणप्रकारेण सूर्यो वर्त्तमानस-
म्पानाद्गणितागतस्तु रेवतीयोगतारासन्नाद्यवधितोऽत-
स्तयोरन्तरमयनांशास्तत्र क्रान्तिवृत्तस्य पूर्व्वचलने
गणितागतार्काच्छायार्कोऽधिको बबति । पश्चिमचणने तु
न्यूनो भवतीति सम्यगुपपन्नम । अथ चराद्युपजी
व्यां पलभामाह” र० ना० ।
पृष्ठ २९९१
एवं विषुवती छाया स्वदेशे या दिनार्धजा । “दक्षिणी-
तारेखायां सा तत्र विषुवत्प्रभा” सू० सि० ।
“स्वाभीष्टदेशे एवं विषुवती चलितविषुवद्दिनसम्बद्धा
रेवत्यासन्नस्याप्युपचाराद्विषुवत्सञ्ज्ञा तद्व्यावर्तकमेवमिति ।
दिनार्धजा माध्याह्निकी या यन्मिता द्वादशाङ्गुलशङ्को-
श्छाया दक्षिणोत्तररेखायां निरक्षोत्तरदक्षिणदेशक्र-
मेणोत्तरस्यां दक्षिणस्यां प्रमायाः दक्षिणोत्तररेखास्थत्वं
विना मध्याह्नासम्भवात् सा तन्मिता तत्र तस्मिन्नभीष्टदेशे
विषुवत्प्रभाऽक्षभा भवति । एतेन द्वादशाङ्गुलशङ्कुः
कोटिः पलभा भुजस्तत्कृत्योर्योगपदं कर्ण इत्यक्षकर्णः
कर्ण इत्यक्षक्षेत्रं वक्ष्यमाणोपयुक्तं प्रदर्शितम् । तदा
सूर्य्यस्य विषुवद्वृत्तस्थत्वाद्विषुवत्प्रभेति सन्ज्ञोक्ता । अथ
लम्बाक्षयोरानयनमाह” र० ना० ।
“शङ्कुच्छायाहते त्रिज्ये विषुवत्कर्णभाजिते । लम्बा-
क्षज्ये तयोश्चापे लम्बाक्षौ दक्षिणौ सदा” सू० सि० ।
“त्रिज्येद्विस्थानस्थे शङ्कुच्छायाहते एकत्र द्वादशगुणिता-
परत्र प्रागुक्तया विषुवत्प्रभया गुणिता विषुवत्कर्णभाजि-
तोभयत्राक्षकर्णेन भक्ता फले क्रमेण लम्बज्याक्षज्ये
तयोर्ज्ययोर्धनुषी क्रमण लम्बाक्षौ सदाभयगोले दक्षिणदिक्स्थौ
भवतः । अत्रोपपात्तिः । याम्योत्तरवृत्ते निरक्षस्वदेश-
पूर्वापरवृत्तयोर्यदन्तरं तदक्षः । याम्योत्तरवृत्ते दक्षि-
णक्षितिजप्रदेशाद्विषवद्वृत्तस्य यदन्तरं तल्लम्बः ।
उभावूर्द्ध्वगोले स्वपूर्वापरवृत्ताद्दक्षिणौ तज्ज्ये अक्षलम्बज्ये
भूजकोटी त्रिज्याकर्ण इत्यक्षक्षेत्रादक्षकर्णकर्णे द्वादशप-
लभे कोटिभुजौ तदा त्रिज्याकर्णे कावित्यनुपाताभ्यां
लम्बाक्षज्ये तद्धनुषो लम्बाक्षावित्युपपन्नम् । अथ
मध्याह्नच्छायातोऽक्षानयनं श्लोकाभ्यामाह” र० ना०
“मध्यच्छाया भुजस्तेन गुणिता त्रिभमौर्विका । स्वक-
र्णाप्ता धनुर्लिप्ता नतास्ता दक्षिणे भुजे । उत्तरा-
श्चोत्तरे थाम्यास्ताः सूर्यक्रान्तिलिप्तिकाः । दिग्भेदे
मिश्रिताः साम्ये विश्लिष्टाश्चाक्षलिप्तिकाः” सू० सि० ।
“अभीष्टदिन माध्याह्निका छाया भुजसञ्ज्ञा ज्ञेया ।
तेन भुजेन त्रिज्या गुणिता मध्याह्नच्छायाकर्णेन भक्ता
फलस्य धनुःकला नता नतसञ्ज्ञास्ता नतकला दक्षिणे
भुजे मध्याह्नच्छायारूपभुजे प्राच्यपरसूत्रमध्याद्दक्षिणदि-
कस्थे सति, उत्तरदिक्का उत्तरे भुजे दक्षिणाः । चो
विषयव्यवस्थार्थकः । ता नतकलाः सूर्यक्रान्तिकलाः
प्रागुक्ताः दिगभेदे खदिशोर्भिन्नत्वे मिश्रिताः संयुक्ताः
साम्येऽभिन्नदिक्त्वे विश्लिष्टा अन्तरिताः । चो विषय-
व्यवस्थार्थकः । अक्षकला भवन्ति । अत्रानावश्यक-
भुजसञ्ज्ञया भगवतोपपत्तिरुक्ता । तथाहि । द्वाद-
शाङ्गुलशङ्कुकोटौ मध्याह्नच्छायाकर्णे वा मध्यच्छाया-
भुजस्तथा स्वस्वस्तिकान्मध्याह्नकाले सूर्यस्य याम्योत्तरवृत्ते
यदन्तरेण नतत्वं ता नतकलास्तज्ज्या नतांशज्या मध्या-
ह्नोनतांशज्यारूपशङ्कौ त्रिज्याकर्णे वा भुज इति मध्या-
ह्नच्छायाकर्णे कर्णे मध्याह्नच्छाया भुजस्तदा त्रिज्याक-
र्णे को भुज इत्यनुपातेन नतज्या तद्धनुरत्र कलात्मक-
त्वान्नतकलास्ता ग्रहसम्बद्धा इति च्छायादिग्विपरीत-
दिक्काः । अथ क्रान्त्यंशाक्षांशयोरेकदिक्त्वे योगेन नतां-
शा इति दक्षिणा नतकला दक्षिणक्रान्तिकलाभिर्हीना
अक्षांशा भवन्ति । क्रान्त्यंशाक्षांशयोर्मिन्नदिक्त्वेऽन्तरेण
नतांशा यदि दक्षिणास्तदा क्रान्त्यूनाक्षांशस्य नतत्वा-
दुत्तरक्रान्तियुता अक्षांशाः । यदि तूत्तरास्तदाक्षांन-
क्रान्तेर्नतत्वान्नतोनोत्तरक्रान्तिरक्ष इति सम्यगुपपन्नम् ।
अथाक्षात् पलमानयनमाह” र० ना० ।
“ताभ्योऽक्षज्या च तद्वर्गं प्रोज्झ्य त्रिज्याकृतेः पदम् ।
लम्बज्यार्कगुणाक्षज्या विषुवद्भा थ लम्बया” सू० सि० ।
“ताभ्योऽक्षकलाभ्योऽक्षज्या भवति । चः समुच्चये ।
अक्षज्यावर्गं त्रिज्याबर्गात् त्यक्त्वा शेषान्मूलं लम्बज्या ।
अनन्तरमक्षज्या द्वादशगुणा लम्बया लम्बज्यया गुणनस्य
भजनसम्बन्धाद्भक्तेत्यर्थसिद्धम् । अक्षभा स्यात् ।
अत्रोपपत्तिः । अक्षकलानां याक्षज्या तस्यास्त्रिज्याकर्णे
भुजत्वात् तद्वर्गोनात् त्रिज्यावर्गान्मूलं लम्बज्या कोटिः ।
तयाक्षज्या भुजस्तदा द्वादशकोटौ को भुज इत्यनुपातेन
विषुवच्छायेति । अथाक्षज्ञाने नतभागेभ्यः क्रान्तिद्वारा
सूर्यसाधनं सार्धश्लोकाभ्यामाह” र० ना० ।
“स्वाक्षार्कनतभागानां दिक्साम्येऽन्तरमन्यथा । दिग्-
भेदेऽपक्रमः शेषस्तस्य ज्या त्रिज्यया हता ।
परमापक्रमज्याप्ता चापं मेषादिगो रविः । कर्कादौ प्रो-
ज्झ्य चक्रार्धात् तुलादौ भार्धसंयुतात् । मृगादौ प्रो-
ज्झ्यभगणान्मध्याह्नेऽर्कःस्फुटीभवेत्” सू० सि० ।
“स्वदेशाक्षांशेष्टदिनीयमध्याह्नसूर्य्यनतांशयोर्भागाना
बहुत्वाद्बहुवचनम् । एकदिक्त्वेऽन्तरमन्यदिक्त्वेऽन्यथा योगः
कार्य्यः । शेष उक्तसंस्कारसिद्धोऽङ्कः क्रान्तिः स्यात् ।
तस्यापक्रमस्य ज्या त्रिज्यया गुण्या परमक्रान्तिज्यया
प्रागुक्तया भक्ता फलस्य धनुर्भागादिकं मेषादिगो मेषादि-
पृष्ठ २९९२
राशित्रितयान्तर्गतोऽर्कः स्यात् । कर्कादित्रयेऽर्के चक्रा-
र्धात षड्राशित आगतार्कं त्यक्त्वा शेषं मध्याह्नकाले स्फु-
टोऽर्कः स्यात् । तुलादित्रितये षड्भयुतादागतार्कात्
स्फुटोऽर्कोज्ञेयः । आगतोऽर्कः षड्मयुतः स्फुटोऽर्कः
स्यादित्यर्थः । मकरादित्रयेऽर्के द्वादशराशिभ्य आगतार्कं
त्यक्त्वा शेषमयनांशसंस्कृतः स्फुटोऽर्कः स्यात् । करणाग-
तज्ञानार्थं व्यस्तायनांशसंस्कृत इत्यर्थसिद्धम् । पूर्वं
तत्संस्कृतग्रहात् क्रान्तिः साध्येत्यर्थस्योक्तेः । अत्रोप-
पत्तिः । एकदिशि क्रान्त्यक्षयोगान्नतं दक्षिणमतोऽक्षोनं
क्रान्तिर्दक्षिणा । भिन्नदिशि क्रान्त्यूनाक्षो नतं दक्षि-
णमनेनाक्षो हीनः क्रान्तिरुत्तरा । अक्षोनक्रान्तिर्नतं
तूत्तरमतोऽक्षयुतं क्रान्तिरुत्तरा । अस्या ज्या क्रान्तिरर्कज्या ।
यदि परमक्रान्तिज्यया त्रिज्याभुजः स्यात् तदानया
केतीष्टा सायनार्कभुजज्या वद्धनुः सायनार्कभुज ।
भुजस्य चतुर्षु पदेषु तुल्यत्वात् प्रथमपदे मेषादित्रये सूर्य्य-
स्यैव भुजत्वाद्भुज एव सूर्य्यः । कर्कादित्रये द्वितीयपदे
षडभादूनस्यार्कस्य भुजत्वाद्भुजोनषड्भमर्कः । एवं तृती-
यपदे तलादित्रये षड्भेन हीनार्कस्य भुजत्वात् षड़्युतो
भुजोऽर्कः । चतुर्थपदे मकरादित्रये सूर्योनभगणस्य
भुजत्वात् सर्य्योनभगणोऽर्क इति सर्वं वैपरीत्यात् सुगम-
तरम् । अथागतस्फुटसूर्य्यस्य करणागतस्फुटतुल्यत्वज्ञान
मागतस्फुटसूर्य्यान्मध्यमस्य करणागतमध्यमार्कतुल्यत्वेन
विशेषं वक्तुं श्लोकार्धेनाह र० ना० ।
“तन्मान्दमसकृद्वामं फलं मध्यो दिवाकरः” । सू० सि० ।
“तस्मादागतस्फुटसूर्य्यान्मान्दं फलं मन्दफलमसकृदनेक-
वारं वामं व्यस्तं संस्कतं स्फुटसूर्य्योऽहर्गणानीतः
स्फुटसूर्य्यः स्यात् । अयमर्थः । स्फुटसूर्य्यं मध्यमं
प्रकल्प्य पूर्व्वमन्दोच्चात् प्रागुक्तरीत्या मन्दफलं धनमृणमा-
नीय स्फुटसूर्य्ये ऋणं धनं कार्य्यं मध्यमसूर्य्यः । अस्मा-
दपि मन्दफलं स्पष्टसूर्य्ये व्यस्तं संस्कृतं मध्यमोऽस्मादपि
मन्दफलं स्पष्टे व्यस्तं मध्यमार्क इति यावदविशेषस्ता-
वदसकृत् साध्योऽर्को मध्योऽहर्गणानीती भवतीति ।
तथा च मध्यमार्कात् स्फुटार्कसाधनमेकवारं मन्दफल-
संस्कारः स्फुटार्कान्मध्यार्कसाधने त्वनेकवारं मन्दफल-
व्यस्तसंस्कार इति विशेषोऽभिहितः । अत्रोपपत्तिः ।
मध्यमसूर्य्यादानीतमन्दफलेन संस्कृतो मध्यःस्फुटोऽर्को
भवति । अयं वा तेनैव मन्दफलेन व्यस्तं संस्कृतो मध्यो
भवति । अत्र स्फुटार्कान्मध्यार्कसाधने मध्यमज्ञानासम्भवात्
तदानीतमन्दफलज्ञानमशक्यमतः स्फुटसूर्य्यं मध्यमं
प्रकल्प्यानीतमन्दफलेनाभिमतासन्नेन स्फुटोऽर्कोव्यस्तं
सस्कृतो मध्यमासन्नः । अस्मादपि मन्दफलमभिमतास-
न्नमपि पूर्व्वस्मात् सूक्ष्ममिति यावदविशेषे मध्यार्कसाधित
मन्दफलं भवतीति निरवद्यं सर्वमुक्तम् । अथ मध्याह्ने
छायाकर्णयोरानयनं विवक्षुः प्रथमं तात्कालिकनतांशज्ञानं
कथयंस्तद्भुजकोटिज्ये कार्य्ये इत्याह” र० ना० ।
“स्वाक्षार्कापक्रमयुतिर्दिक्साम्येऽन्तरमन्यथा । शेषं नतां
शाः सूर्य्यस्य तद्बाहुज्या च कोटिजा” सू० सि० ।
“दिकमाम्ये एकदिक्त्वे स्वदेशाक्षांशमध्याह्नकालिकसूर्य्यक्रा
न्त्यंशयोर्योगः । अन्यथा अत उक्तादेकदिक्त्वाद्वैपरीत्ये
भिन्नदिक्त्वे इत्यर्थः अक्षांशक्रान्त्यंशयोरन्तरं कार्य्य
शेषं संस्कारोत्पन्नं सूर्य्यस्य मध्याह्ने नतांशास्तेषां
नतांशानां भुजरूपाणां ज्या कोटिजा तदंशा नवति
शुद्धाः कोटिस्तत उत्पन्ना ज्या । चः समुच्चये । साध्या ।
अत्रोपपत्तिः । याम्योत्तरवृत्ते सूर्य्यस्य मध्याह्ने स्वस्वस्ति-
कादनन्तरं नतांशा विषुवद्वृतपर्य्यन्तमत्तांशाः । विषु-
वद्वृत्तसूर्य्ययोरन्तरं क्रान्त्यंशाः । अतो दक्षिणक्रान्तौ
क्रान्त्यक्षयोगो नतांशा उत्तरक्रान्तौ क्रान्त्यूनाक्षोऽक्षोन-
क्रान्तिर्वा दक्षिणोत्तरनतांशास्तेषां ज्या दृग्ज्या भुजस्त-
त्कोटिज्या महाशङ्कुः कोटिस्त्रिज्या कर्ण इति
छायाक्षेत्रे तदंशानां भुजत्वात” अथ छायाकर्णयो-
रानयनमाह । र० ना० ।
“शङ्कुमानाङुलाभ्यस्ते भुजत्रिज्ये यथाक्रमम् । कोटि-
ज्यया विभज्याप्ते छायाकर्णावहर्दले” सू० सि० ।
“भुजत्रिज्ये नतांशज्यात्रिज्ये इत्यथः । शङ्को प्रमा-
णाङ्गुलानि द्वादश तैर्गुणिते कार्य्ये । उभयत्र कोटि-
ज्यया नतांशीननवत्यंशानां ज्ययेत्यर्थः । भक्त्वा लब्धे-
द्वे यथाक्रमं भुजज्यात्रिज्यास्थातीयफलक्रमेण मध्याह्ने
छायातत्कर्णौ भवतः । अत्रोपपत्तिः । द्वादशाङ्गुलशङ्कोः
कोटिरिष्टच्छायाभुजस्तत्कृत्योर्योगपदं कर्ण इति छाया-
कर्णः कर्ण इति छायाक्षेत्रे । महाशङ्कुकोटौ दृग्ज्या-
त्रिज्ये भुजकर्णौ तदा द्वादशाङ्गुलशङ्कुकोटौ कावित्य-
नुपातेन मध्याह्नकाले छायातत्कर्णौ भवतः । साधक-
योस्तात्कालिकत्वादित्युपपन्नम” र० ना० ।
अथ भुजमाधनं विवक्षुः प्रथममग्रा कर्णाग्रे आनयति ।
“क्रान्तिज्या विषुवत्कर्णगुणाप्ता शङ्कुजीवया । अर्काग्रा
स्वेष्टकर्णघ्नी मध्यकर्णोद्धृता स्वका” सू० सि० ।
पृष्ठ २९९३
सूर्यक्रान्तिज्या अक्षकर्णगुणिता शङ्कुजीवया शङ्कुर्द्वादशा-
ङ्गुलस्तद्रूपा ज्या तयेत्यर्थः । द्वादशभिरिति फलितम् ।
भक्ता फलं सूर्यस्याग्रा । उपलक्षणाद्ग्रहस्यापि ।
इयमग्रा स्वाभिमतकालिकच्छायाकर्णेन गुणिता मध्य-
कर्णोद्धृता कर्ण्णस्य व्यासस्य मध्यमर्धमिति मध्यकर्णोव्या-
सार्द्धं त्रिज्या तयेत्यर्थः । भक्ता फलं स्वका स्वकर्णाग्रा
स्यात् । अत्रोपपत्तिः । क्रान्तिज्योन्मण्डले कोटिरग्रा
क्षितिजे कर्णः कुज्या भुज इत्यक्षक्षेत्रे द्वादशकोटावक्ष
कर्णः कर्णस्तदा क्रान्तिज्याकोटौ क कर्ण इत्यनुपाते-
नाग्रा । त्रिज्यावृत्ते इयं कर्णवृत्ते केत्यनुपातेन कर्ण्ण-
वृत्ताग्रेत्युपपन्नम् । अथ भुजानयनं श्लोकाभ्यामाह”
र० ना० ।
“विषुवद्भायुतार्काग्रा याम्ये स्यादुत्तरो भुजः । विषु-
वत्यां विशोध्योदग्गोले स्याद् बाहुरुत्तरः । विपर्यया-
द्भुजो याम्यो भवेत् प्राच्यपरान्तरे । माध्याह्निको भुजो
नित्यं छाया माध्याह्निकी स्मृता” सू० सि० ।
“अर्काग्रा सूर्य्यस्याभीषकालिककर्णाग्रा याम्ये दक्षिण-
गोले विषुवद्भायुताक्षच्छायया युक्तोत्तरदिक्को भुजःस्या-
तु । उत्तरगोले विषुवत्यां पलभायां कर्णाग्रां विशोध्य
न्यूनीकृत्य शेषमुत्तरदिक्को भुजः स्यात् । ननु कर्णाग्रा
पलभायां यदा न शुध्यति तदा कथं भुजः साध्य इत्यत
आह । विपर्ययादिति । अक्षभां कर्णाग्रायां विशोध्य
शेषं दक्षिणो भुजः स्यात् । ननु भुजस्य याम्यत्वमुत्त-
रत्वं वा कस्मादित्यत आह प्राच्यपरान्तर इति ।
पूर्वापरसूत्रादन्तरालपदेशे याम्ये उत्तरो वा भुजः स्या-
दित्यर्थः । ननु तथापि द्वितीयावधेरनुक्तत्वादन्तरस्याप्र-
सिद्धेः पूर्वापरसूत्रात् कम्यान्तरं भुज इत्याशङ्काया
उत्तरं मध्याह्नच्छायास्वरूपकथनच्छलेनाह माध्याह्निक
इति मध्याह्नकालिको भुजः सदा माध्याह्निकी मध्याह्न-
कालिकी छायोक्ता । तथा च छायाग्रं प्राच्यपरसूत्रा-
द्याम्यमुत्तरं वा यदन्तरेण स भज इति व्यक्ती-
कृतम् । अत्रोपपत्तिः । शङ्कमूलं प्राच्यपरसूत्रा-
द्याम्यमुत्तरं वा यदन्तरेण स याम्योत्तरो भुजो
ग्रहस्य । शङ्गुस्तु ग्रहादवलम्बसूत्रं क्षितिजसम-
सूत्रावधि तत्रायं भुजः शङ्कुतलाग्रयोः संस्का-
रजः । शङ्कुतलं तु स्वाहोरात्रवृत्तस्थितोदयास्त-
सूत्राच्छङ्कुमूलं यदन्तरेण तद्दक्षिणम् । अग्रा तु
पूर्वापरसूत्राददयास्तगूत्रावध्यन्तरसुत्तरदक्षिणगोलक्रमेणो-
त्तरदक्षिणा । तत्र ग्रहापरदिशि षड्भान्तरेऽस्मा-
द्व्यस्तमिति शङ्कुतलमुत्तरमग्रापि व्यस्तदिक्केति
तत्संस्कारो भुजो गोले प्रत्यक्षः । स महाशङ्कोरिति
यदि महाशङ्कोरयं तदा द्वादशाङ्गुलशङ्कोः क इत्यनुपातेन
भुजः पूर्वापरसूत्राच्छायाग्रावधिः । तत्र शङ्कुतलाग्रे
द्वादशाङ्गुलशङ्कोः साधिते तत्संस्कारेण भुजः स एव ।
तत्राप्यग्रा पूर्वं साधिता शङ्कुतलं तु द्वादशाङ्गुलशङ्कोः
पलभा महाशङ्कुः कोटिः शङ्कुतलं भुजो हृतिः कर्ण
इत्यक्षक्षेत्रे द्वादशकोटौ पलभा भुजस्तदा महाशङ्कुकोटौ
को भुज इत्यनुपातेन शङ्कुतलमानीय महाशङ्कोरियं
द्वादशाङ्गुलशङ्कोः किमित्यनुपातेन गुणहरयोस्तुल्यत्वा-
न्नाशेन पलभाया एवावशिष्टत्वात् । सा तूत्तरा दक्षिण-
गोलेऽग्राया उत्तरत्वादेकदिक्त्रेन पलभाग्रयोर्योगे उत्तरो
भुजः । उत्तरगोलेऽग्राया दक्षिणत्वेन भिन्नदिक्त्रात्
पलभाग्रयोरन्तरं भुजस्तत्र पलभायाः शेषमुत्तरो भुजो-
ऽग्रायाः शेषं दक्षिणो भुजः । मध्याह्ने छायाया
भुजरूपत्वान्मध्याह्नकालिको भुजो मध्याह्नच्छायेति सर्वं
युक्तम् । अथ याम्योत्तरवृत्तस्थच्छायाकर्णमुक्त्वा पूर्वापर-
वृत्तस्थच्छायाकर्णं प्रकारद्वयेनाह” र० ना० ।
“लम्बाक्षजीवे विषुवच्छायाद्वादशसङ्गुणे । क्रान्तिज्याप्ते
तु तौ कर्णौ सममण्डलगे रवौ” सू० सि० ।
“लम्बज्याक्षज्ये क्रमेणाक्षभाद्वादशभ्यां गुणिते उभयत्र
क्रान्तिज्यया भक्ते तुकारात् फले, समवृतस्थेऽर्के तौ
दृग्योग्यच्छायासम्बद्धौ कर्णौ भवत उभयत्र छायाकर्णः
स्यात् । अत्रोपपत्तिः । स्वमस्तकोपरि पूर्वापरानुका-
रेण यद्वृत्तं तत्सममण्डलसञ्ज्ञम् । तत्रस्थस्य छाया-
कर्णानयनम् । पलमाभुजेऽक्षकर्णः कर्णस्तदा क्रान्ति-
ज्याभुजे कः कर्ण इति, समशङ्कुः क्रान्तिज्याभुजे समशङ्कु
कुजपोनतद्धृत्योः क्रमेण कर्णकोटित्वात् । अस्माच्छङ्गु
मानाङ्गुलाम्यस्ते इत्यादिना त्रिज्या द्वादशगुणितानेन
भक्ता तत्र ।
“छेदं लघं च परिवर्त्य हरस्य शेषः कार्योऽत्र भाग
हरणे गुणानाविधिश्च” इत्युक्तेः । पलभयापि गुण्या
क्रान्तिज्याक्षकर्णाभ्यां भक्ता । तत्र त्रिज्या द्वादशगुणि-
ता अक्षकर्णभक्ता लम्बज्यैव सिद्धातो लम्बज्या पलभागुणि-
ता क्रान्तिज्याभक्ता फलं समवृत्तगतच्छायाकर्णः । अथात्रैव
पलभाभुजे द्वादशकोटिरक्षज्याभुजे का कोटिरिति लम्ब
ज्याग्रहणे पलभयोस्तल्यत्वान्नाशादक्षज्या द्वादशगुण
पृष्ठ २९९४
क्रान्तिज्या भक्ता छायाकणः सममण्डलगतः । क्रान्ति-
ज्यायाः सदायं कर्णः सिद्ध्येन्न हि सर्वदा समवृहगतो
ग्रह इति समवृत्तगतग्रहस्यैव कर्णः साध्यो नान्यदेति
सूचनार्थं सममण्डलगे रवावित्युक्तम्” ।
तनु ग्रहाधिष्ठिताहोरात्रपूर्वापरवृत्तसम्पातादवलम्बरूप-
समशङ्कोर्गोले प्रत्यक्षसिद्धस्य साधनार्थं समवृत्तस्थात्वाभावे-
ऽपि छायाकर्णः साध्यः । सममण्डलगे रवावित्युक्तिस्तु
स्वाधिष्ठिताहोरात्रवृत्तपरा न त्वन्यदा न साध्योऽन्यथा-
लक्ष्यत्वेन प्रकारस्यातिप्रसङ्गापत्तेः । न हि प्रकारे
तद्व्यावर्तकं विशेषणं प्रसिद्धं येन नातिप्रसङ्गः । परन्तु
यदा सममण्डलेऽक्षांशाधिकक्रान्त्या ग्रहाधिष्ठितद्युरात्र-
वृत्तानामसम्बन्धस्तदा गोले समशङ्कोरदर्शनात् तत्र कथं
तत्साधनमनिवारितमित्यतः सममण्डलगे रवावित्यस्य
पूर्वोक्त एवार्थ इत्यभिप्रायं सममण्डलकर्णानयनप्रका-
रान्तरकथनच्छलेनाह” र० ना० ।
“सौम्याक्षोना यदा क्रान्तिः स्यात्तदा द्युदलश्रवः ।
विषुवच्छाययाभ्यस्तः कर्णो मध्यगुग्रयोद्धृतः” सू० सि०
“यदोत्तरा क्रान्तिरक्षादल्पा स्यात् तदा द्युदलश्रवः
समवृत्तस्थार्कक्रान्तिसाधितमध्याह्नकर्णः । न तु मध्या-
ह्नकालिकः । अक्षमया गुणितो मध्याग्रया गृहीत-
मध्याह्नकर्णाग्रया भक्तः फलं सममण्डलगतग्रह-
विम्बस्य छायाकर्णः स्यात् । अत्र सौम्येत्यनेन
दक्षिणक्रान्तौ तदसाधनं सममण्डलगतग्रहविम्ब-
स्यादर्शनादिति स्फुटमुक्तम् अन्यथाक्षाल्पक्रान्तौ
दक्षिणगोले समशङ्कोः प्रत्यक्षत्वात् तन्निवारणानुपपत्तेः ।
अत्रोपपत्तिः । सममण्डलप्रवेशकालिकमध्याह्नच्छाया-
कर्णादवस्तुभूतात् कर्णेन द्वादशाङ्गुलशङ्कुस्तदा त्रिज्या-
कर्णेन क इति मध्यशङ्कुस्तात्कालिकः । द्वादशकोटा-
वक्षभा भुजस्तदा महाशङ्कुकोटौ क इति शङ्कुतलम् ।
द्वादशनाशात् पलभात्रिज्याघातो मध्यकर्णभक्त इति ।
अनेन भुजेन मध्यशङ्कुस्तदाऽग्राभुजेन क इति समशङ्कु-
र्द्वादशाग्रामध्यकर्णघाती मध्यकर्णपलभाभ्यां भक्तोऽग्राभुजे
समशङ्कुतद्धृत्योः कोटिकर्णत्वात् । अस्मात् पूर्वप्रका-
रेण छायाकर्णानयने द्वादशनाशान्मध्यकर्णपलभात्रि-
ज्याघातोऽग्रामध्यकर्णाभ्यां भक्त इति तुल्ययोर्मध्य-
कर्णमितगुणहरयोर्नाशाकरणेन सिद्धम् स्वतन्त्रेच्छस्य
नियोक्तुमशक्यत्वात् । तत्रापि भाज्यहरौ त्रिज्यया-
ऽपवर्त्य हरस्थाने मध्यकर्णगुणिताग्रा त्रिज्याभक्तेति
भध्यकर्णाग्रा सिद्धातो मध्याग्रयोद्धृत इत्युक्तम् ।
भाजास्थाने तु मध्यकर्णपलभाधात इति दक्षिणगोले
ग्रहादर्शनान्न साधितः । उत्तरगोलेऽपि क्रान्तिरक्षा-
धिका तदा सममण्डलप्रवेशासम्भवान्न साधितः
सममण्डलावध्यक्षांशत्वात् । अल्पक्रान्तौ तत्सम्मवात्
साधितः । नह्यसिद्धं गोले गणितसाध्यं मानाभावा
दित्युपपन्नं सौम्येत्यादि । भास्कराचार्यैस्तु “भार्तण्डः
सममण्डलं प्रविशति स्वल्पेऽपमे स्वात् पलात् दृश्यो
ह्युत्तरगोल एव स विशन् साध्या तदैवास्य भा । अप्रा-
प्तेऽपि समाख्यमण्डलमिनेयः शङ्कुरुत्पद्यते नूनं सोऽपि
परानुपातविधये नैवं क्वचिद्दुष्यति” इत्यनेन तत्रापि
साधितः । अथ स्वाभिमतकर्णेन स्वस्वकाकाले भुजार्थं
कर्णवृत्ताग्रा साध्येति सूचनार्थं कर्णाग्रामुक्तप्रकारेण
पुनरपि मध्यकर्ण इति प्रागुक्तस्य स्फुटीकरणार्थं
चाह” र० ना० ।
“स्वक्रान्तिज्यात्रिजीवाघ्नी लम्बज्याप्ताऽग्रा मौर्विका ।
स्वेष्टकर्णहता भक्ता त्रिज्ययाग्राङ्गुलादिका” सू० सि०
“स्वाभिमतकालिकक्रान्तिज्या त्रिज्यया गुणिता लम्ब-
ज्यया भक्ता फलमग्रा ज्यारूपा । लम्बज्याकोटौ त्रि-
ज्या कर्णः क्रान्तिज्याकोटौ कः कर्ण इत्यग्रेत्युपपत्तिः ।
उत्तरार्धं पुनरुक्तं व्याख्यातप्रायम् । यदि तु पूर्वोक्तकर्ण-
वृत्ताग्रानयनश्लोके शङ्कुजीवयेत्यस्य शङ्कोः कोटिरूपत्वात्
पूर्वसाधितनतांशभुजकोटिज्ययेत्यर्थो मध्यकर्ण इत्यस्य च
तात्कालिकमध्याह्नच्छायायाः कर्णस्तदा न पुनरुक्तम् ।
परन्त्वर्काग्रेत्यस्य तात्कालिकमध्याह्नकालिककर्णाग्रार्थः
स्वकेत्यस्य च स्वाभीष्टकालिककर्णाग्रार्थो बोध्यः ।
एतदुपपत्तिस्तु द्वादशकोटावक्षकर्णः कर्णस्तदा क्रान्ति-
ज्याकोटौ कः कर्ण इति स्वकालिकाग्रा । त्रिज्यावृत्ते
इयं तदा तात्कालिकमध्याह्नकालिकच्छायाकर्णेन नतां-
शकोटिज्याभक्तद्वादशत्रिज्याधातात्मकेन केति द्वादश-
त्रिज्याघातयोर्गुणहरत्वेन तुल्ययोर्नाशादक्षकर्णगुणित-
क्रान्तिज्या तात्कालिकमध्याह्ननतांशकोटिज्यया भक्तेति ।
तात्कालिकमध्याह्नच्छायाकर्णेनेयं कर्णाग्रा तदा स्वाभीष्ट-
कालिकच्छायाकर्णेन केति स्वकालिकी कर्णाग्रेत्यु
पपन्ना । सूर्याधिष्ठिताहोरात्रवृत्तयाम्योत्तरवृत्तोर्ध्वस-
म्पातस्तात्कालिकुमध्याह्न परानुपातार्थं बोध्यम् । अथ
कोणच्छायाकर्णसाधनार्थं कोणशङ्कुदृग्ज्ये श्लोक
पञ्चकेनाह” र० ना० ।
पृष्ठ २९९५


“त्रिज्यावर्गार्धतोऽग्रज्या वर्गोनाद्द्वादशाहतात् ।
पुनर्द्दादशनिघ्नाच्च लभ्यते यत् फलं बुधैः । शङ्कुवर्गार्ध-
संयुक्तविषुवद्वर्गभाजितात् । तदेव करणीनाम तां पृथक्
स्थापयेद्बुधः । अर्कघ्नी विषुवच्छायाऽग्रज्यया गुणिता
तथा । भक्ता फलाख्यं तद्वर्गसंयुक्तकरणीपदम् । फलेन
हीनसंयुक्तं दक्षिणोत्तरगोलयोः । याम्ययोर्विदिशोः
शङ्कुरेवं याम्योत्तरे रवौ । परिभ्रमति शङ्कोस्तु शङ्कु-
रुत्तरयोस्तु सः । तत्त्रिज्यावर्गविश्लेषान्मूलं दृगज्याभि-
धीयत” सू० सि० ।
“पूर्वप्रकारानीतैस्तात्कालिकाग्रज्याया न तु कर्णा-
ग्रायाः पूर्वं कर्णस्यैवासिद्धेः । वर्गेण हीनात् त्रिज्या-
वर्गार्धाद्द्वादशगुणात् पुनर्द्वितीयवारं द्वादशगुणात् ।
चः समुच्चये । तेन द्वादशगुणितस्य द्विधा स्थापननिरासा-
च्चतुश्चत्वारिंशदधिकशतगुणितादित्यर्थः । पृथक् गुणको-
क्तिस्तु गुणनसुखार्थम् । शङ्कोर्द्वादशाङ्गुलात्मकस्य वर्गा
र्धेन द्विसप्तत्या युक्तेन पलभावर्गेण भाजिताद्बुधैर्गणित
कर्तृभिर्यत्सङ्ख्यामितं फलं प्राप्यते तत्सङ्ख्यामितं करणी
नामसञ्ज्ञया करणी । तां करणीं बुधो गणकः
पृथगेकत्र स्थाने स्थापयेत् । ततो द्वादशगुणिता पलभाग्र-
ज्यया पूर्वगृहीतया गुणिता तथा द्विसप्ततियुतेन
पलभावर्गेण भक्ता लब्धं फलसञ्ज्ञं तस्य फलस्य वर्गेण
युतायाः करण्या मूलं दक्षिणोत्तरगोलयोः क्रमेण
फलेनोनयुतम् । एवमुक्तप्रकारेण सिद्धः शङ्कुः, शङ्कोर्ग-
णितकर्तुः सकाशाद्दक्षिणोत्तरे सूर्ये परिभ्रमति सति
तुकारः क्रमार्थे क्रमेण याम्ययोरुत्तरयोर्विटिशोराग्नेय-
नैरृत्योरैशानीवायव्योः कोणयोरित्यर्थः । द्वितीयतु-
कारः पूर्वापरदिने विभागक्रमार्थकत्वेन विदिशोरित्यत्रा
न्वेति तेन दिनपूर्वार्धे आग्नेयैशान्योर्दक्षिणोत्तरक्रमेण,
दिनापरार्धे नैरृत्यवायव्योर्दक्षिणोत्तरक्रमेणेति
फलितार्थः । स कोणसञ्ज्ञः शङ्कुः स्यात् । कोणशङ्कु-
त्रिज्ययोर्वर्गान्तरान्मूलं दृग्ज्योच्यते” र० ना० ।
अथैतच्छायाच्छायाकर्णयोरानयनमाह ।
“स्वशङ्कुना विभज्याप्ते दृक्त्रिज्ये द्वादशाहते । छाया-
कर्णौ त कोणेषु यथास्वं देशकालयोः” सू० सि० ।
“कोणीयदृग्ज्यात्रिज्ये द्वादशगुणे दृग्ज्यासम्बन्धिको-
णशङ्कुना भक्त्वा लब्धे दृग्ज्यात्रिज्याक्रमेण छायाच्छा-
याकर्णौ स्तः । तुकारादेवं कोणेषु चतुर्षु देशकालयोः
यथाम्बं स्वमनतिक्रम्येति यथास्वं यथादेशं यथाकालं
छायाच्छायाकर्णौ साध्यौ । अयमर्थः । क्वचिद्दे
शे चतुर्षु कोणेषु क्वचिच्च कोणद्वये क्वचिच्च दिनार्ध एव
कोणद्वय इत्यादि देशकालानुरोधेन यथायोग्यमिति ।
अत्रोपपत्तिः प्रागुक्ता स्पष्टा च” । अथ दिक्प्रदेशसम्ब-
न्धेन च्छायाकर्णावुक्त्वा कालसम्बर्न्धन सार्धश्लोकाभ्यामाह”
र० ना० ।
“त्रिज्योदक्चरजायुक्ता याम्यायां तद्विवर्जिता । अन्त्या
नतोत्क्रमज्योना स्वाहोरात्रार्द्धसङ्गुणा । विज्याभक्ता
भवेच्छेदो लम्बज्याघ्नोऽथ भाजितः । त्रिभज्यया
भवेच्छङ्कुस्तद्वर्गं परिशोधयेत् । त्रिज्यावर्गात् पदं दृग्ज्या
छायाकर्णौ तु पूर्ववत्” । मू० सि०
“उत्तरगोले चरोत्पन्नया ज्यया चरज्ययेत्यर्थः । पूर्व-
चरानयने चरज्यायाश्चरजेति सञ्ज्ञोक्तेः । युक्ता
त्रिज्याऽन्त्या स्यात् । याम्यगोले तया चरज्ययोना
त्रिज्याऽन्त्या स्यात् । नतोत्क्रमज्योना सूर्योदयाहिन-
गतघट्यो दिनशेषघट्यो वा दिनार्धान्तर्गता उन्नतसञ्ज्ञा-
स्ताभिरूनं दिनार्धं नतकालो घट्यात्मकस्तस्यासुम्यो
लिप्तास्तत्त्वयमैरित्यादिविधिना, मुनयो रन्ध्रयमला इत्याद्यु-
क्तोत्क्रमज्यापेण्डैर्ज्योत्क्रमज्या । पञ्चदशघट्यधिकनते
तु पञ्चदशघट्यूननतस्य क्रमज्याखण्डैः क्रमज्या तया
युक्ता त्रिज्योत्क्रमज्या भवति । तया हीनेत्यर्थः ।
स्वाहोरात्रार्धसङ्गुणा । गृहीतचरज्यासम्बन्ध्यहोरा-
त्रवृत्तव्यामार्धं द्युज्या तया गुणिता त्रिज्यया भक्ता
फलं छेदसञ्ज्ञं स्यात् । अथानन्तरं छेदो लम्बज्यया
गुणितस्त्रिज्यया भाज्यः फलमिष्टकाले शङ्कुः स्यात् ।
तस्य शङ्कोर्वर्गं त्रिज्यावर्गाच्छोधयेत् । शेषस्य मूलं
दृग्ज्या । आभ्यां छायाकर्णौ तु पूर्ववत् । पूर्वोक्त-
रीत्या भवतः । अत्र च्छायाकर्णौ त्विति कोणच्छाया-
कर्णसाधनश्लोकान्तर्भागम्य ग्रहणात् तच्छ्लोकोक्तरीत्या-
ऽमीष्टशङ्कुदृग्ज्याभ्यां छायाकर्णौ साध्यावित्युक्तम् ।
अत्रोपपत्तिः । याम्योत्तरवृत्तोर्द्धभागग्रहाधिष्ठितद्युरात्र-
वृत्तसम्पातात् क्षितिजद्युरात्रवृत्तसम्पातद्वयबद्धोदयास्तसू-
त्रक्षितिजसम्बद्धयाम्योत्तरवृत्तसूत्रसम्पातपर्यन्तमहोरात्रदृत्ते
सूत्रं त्रिज्यानुरुद्धभन्त्या । सा तूत्तरगोले चरज्यायुता
त्रिज्या दक्षिणगोले चरज्ययोना त्रिज्या ।
उन्मण्डलयाम्योत्तरसूत्रावध्यहोरात्रवृत्तव्यासार्धे त्रि-
ज्यात्वात् उन्मण्डलस्योत्तरदक्षिणक्रमेण क्षितिजादू-
र्ध्वाधःस्थत्वेन तद्याम्योत्तरसूत्रयोर्मध्ये चरज्यात्वाच्च ।
पृष्ठ २९९६
ग्रहाहोरात्रवृत्त याम्योत्तराऽहोरात्रवृत्तसम्पाता-
दुभयत्र नतघट्यन्तरस्थाने तत्सूत्रं नतकालस्य सम्पूर्ण-
ज्या । तन्मध्यादूर्ध्वसूत्रं शररूपं नतोत्क्रमज्या । तया
हीनान्त्या ग्रहस्थानादहोरात्रवृत्ते उदयास्तसूत्रपर्य-
न्तमृजुसूत्रं त्रिज्यानुरुद्धमिष्टास्त्या । तत्तुल्या याम्योत्त-
रोर्ध्वव्यासमूत्रान्तर्गता सा द्युज्याप्रमाणसाधितेष्टहृतिः ।
द्युज्यागुणा त्रिज्याभक्ता फलं छेदः । यदि तस्मात् त्रि-
ज्याकर्णे लम्बज्या कोटिस्तदेष्टहृतिकर्णे का कोटिरि-
त्यनुपातेनेष्टशङ्कुः । अस्माद्दृगज्या च्छाया तत्कर्णा
उक्तरीत्या सिद्ध्यन्तीत्युक्तमुषपन्नम् । अथ श्लोकत्रयेण
छायाकर्णाभ्यां नतकालानयनमाह” र० ना० ।
“अभीष्टच्छाययाभ्यस्ता त्रिज्या तत्कर्णभाजिता । दृग्-
ज्या तद्वर्गसंशुद्धात् त्रिज्यावर्गाच्च यत् पदम् । शङ्कुः
सत्रिभजीवाघ्नः स्वलम्बज्याविभाजितः । छेदः स त्रि-
ज्यायाभ्यस्तः स्वाहोरात्रार्द्धभाजितः । उन्नतज्या
तया हीना स्वान्त्या शेषस्य कार्मुकम् । उत्क्रमज्या-
भिरेवं स्युः प्राक्पश्चार्धनतासवः” । सू० सि०
“अभीष्टकालिकच्छायया गुणिता त्रिज्या गृहीतच्छा-
यायाश्छायाकर्णेन भक्ता फलं दृग्ज्या दृग्ज्याया वर्गेण
हीनात् त्रिज्यावर्गाद्यत्सङ्ख्यामितं मूलम् । चकारोयत्त-
दोर्नित्यसम्बन्धात् तच्छब्दपरः । अभीष्टशङ्कुः । स
इष्टशङ्कुस्त्रिज्यया गुणितः स्वदेशीयलम्बज्यया भक्तः
फल छेदः । स छेदस्त्रिज्यया गुणितो द्युज्यया
भक्त उन्नतकालस्य ज्या विलक्षणा । यद्धनुरुन्नतकालो
न भवति । तयानीतयोन्नतज्यया हीना स्वान्त्या
स्वद्युज्यासम्बद्ध रज्यायावगतान्त्या । अवशेषस्योत्
क्रमज्याभिः “मुनयोरन्ध्रयमलाः” इत्याद्युक्तोत्कमज्या-
पिण्ड्रैर्धनुः । अवशेषस्य त्रिज्याधिकत्वे तु यदधिकं
तस्य क्रमज्यापिण्डैर्धनुश्चतुःपञ्चाशद्युक्तमुत्क्रमधनुर्भवति ।
एव प्रकारेण सिद्ध्वाङ्का दिनस्य पूर्वार्घापरार्धयोर्नतका-
लासवो भवन्ति । अत्रोपपत्तिः । पूर्वोक्तव्यत्यासात्
सुगमा । तत्र छेदस्त्रिज्यापरिणत इष्टान्त्या तस्या
ज्यात्वासम्भवः । अवध्युदयास्तसूत्रस्याहोरात्रवृत्तव्यास-
सूत्रत्वाभावादित्युन्नतज्याकारेण स्वल्पान्तरत्वेन दर्शना-
दुन्नतज्येत्युक्तम् । अत एव भास्कराचार्यैः “इष्टान्त्य-
कमून्नकालमौर्वीतुल्यां प्रकल्प्य” इत्याद्युक्तम् । तद्धनुर-
मूनामुन्नतकालत्वापत्त्या तया होनेत्यादिभागस्य व्यर्थ-
त्वापत्तेरिति दिक्” र० गा० ।
“इति त्रिप्रश्नाधिकारः” स० सि० ।
“दिग्देशकालानां प्रतिपादनमिदं परिपूर्तिमाप्तमित्यर्थः ।
तत्र दिशां साधनं शिलातल इत्यादि नियत, तत्सम्बन्धेन
समकोणयाम्योत्तरशङ्कूनां साधनान्यपि दिगन्तर्गतान्यनि
यतानि । पलभालम्बाक्षादिसाधनं देशनिरूपणं निय
तम् । अग्राचरादिसाधनमनियतम् । कालसाधन
तद्वशाच्छायादिसाधनं च कालनिरूपणमिति विवेकः”
र० ना० ।
एवं शङ्कुच्छायया देशभेदेन सूक्ष्मं कालसाधने स्थिते
वक्ष्यमाणछायापादेन कालज्ञानं स्थूलं किञ्चिद्देशविषय
ञ्चेत्यवधयम् छायाकर्णादिकं प्रसङ्गादत्रोक्तम् । तत्तदर्थे
अतस्तद् विशिष्य नोक्तम् ।

छायाकर त्रि० छायां करोति छत्त्रेण कृ--ट ६ त० । छत्त्रधरे हेमच० ।

छायाङ्क पु० छाया सूर्य्यप्रतिविम्बः अङ्कोऽस्य । चन्द्रे

हेमच० । तस्य सूर्य्यकिरणप्रतिबिम्बेनैव प्रकाशः इन्दु-
शब्दे ९३१ पृ० वृ० स० उक्तदिशा दर्शितः “छाया
मृगाङ्क छायाभृदादयोऽपि चन्द्रे ।

छायातनय पु० ६ त० । शनैश्चरे हला० । छायाशब्दे तस्य

तत् पुत्रकथा दृश्या । छायासुतादयोऽप्यत्र । “सूर्य्यपुत्रं
महावाहुं छायागर्भसमुद्भवम्” शनिप्रणाममन्त्रः ।

छायातरु पु० छायाप्रधानस्तरुः शा० त० । “पूर्व्वाह्णे च

पराह्णे च तलं यस्य न मुञ्चति । अत्यन्तशीतला छाया
स च्छायातरुरुच्यते” इत्युक्ते छायाप्रधाने वृक्षे ।
“स्निग्धच्छायातरुषु वसतिं रामगिर्य्याश्रमेषु” मेघः ।
छायावृक्षोऽप्यत्र स च नमेरुवृक्षे शब्दार्थचि० ।

छायापथ छायायुक्तः पन्थाः । आकाशस्थे ज्योतिश्चक्रमध्य

वर्त्तिनि दक्षिणोत्तरायते तिरश्रीने आकाशस्थानभेदे
“छायापथेनेव शरत्प्रसन्नम्” रघुः ।

छायापाद पु० छायायाः शङ्कुच्छायाया पाद इव

द्वादशाङ्कलशङ्कोच्छायापादमाने । मासभेदे मध्याह्ने त
संख्याभेदः तेन च दिनमानज्ञानं चाह” ज्यो० त०
“अर्काङ्गुला तु सूच्यग्र्या काष्ठी द्व्यङ्गुलमूलिका । शव
संज्ञा मवच्चैव तच्छायां परिकल्पयेत् । मध्याह्नही
रादित्ययुक्तैश्छायाङ्गुलैर्हरेत् । षटपूरितदिवादर
लब्धं दण्डादिकं भवेत् । पूर्व्वाह्णच्छाययातीतं प
ह्णच्छाययैध्यकम् । शून्यैकरामवाणेभदिशोरुद्राः
३ । ५ । ८ । १० । ११ । क्रमोत्क्रमैः । आषाढ़ादिषु म
छाया माध्याह्निकी भता । न्मयनांशजमासान्ते व्यु
पृष्ठ २९९७
क्रमेणादितो बुधैः । संख्योक्तान्यदिने भागहारे वृद्धी-
तरे तथा” । प्रकारान्तरन्तु, “पञ्चाव्धिरामयुग्मैक
शून्यैकयुग्मवह्नय । चतुःपञ्चर्त्तवो) ५, ४, ३, २, १, ० । १,
२, ३, ४, ५, ६, माघात् छायापादा दिनार्द्धके । अयनां-
शजमासान्ते विपादगणनक्रमात् । दिने दिने
भागहारो मध्यच्छायापदे मतः । अङ्घ्रेः षष्टांशको व्यङ्घ्रि
रङ्गुलेर्व्यङ्गुलिस्तथा । मद्यूनं द्विशतं हीनं मध्य-
पादैश्च षडगुणैः । छायापादैश्च मध्योनैः षड़्युतैर्द्वि-
गणैर्हरेत् । ग्राह्यमादिपदार्द्ध तु लब्धा दण्डा गतैष्यकाः ।
प्राक् पश्चिमदिनार्द्धात्तु शेषात् षष्टिगुणात्पलम्” । इदञ्च
देशभेदविषयं स्थूलं च सूक्ष्मन्तु सू० सि० उक्त तच्च
छायाशब्दे दृश्यम् ।

छायापुरुष पु० छायायां दृश्यः पुरुषः पुरुषाकृतिः । आकाशे

द्रष्टव्ये निजच्छायानुरूपे पुरुषाकृतियुक्ते पदार्थे ।
तद्दर्शनोपायमाह योगप्रदीपिकायाम् ५ पटले
“शिव उवाच । निरभ्रं गगनं देवि! यदा भवति निर्म्म-
लम् । तदा छायामुखो भूत्वा निश्चलः प्रयतो धिया ।
स्वच्छायाकल्पमालोक्य स्वगुरूक्तक्रमेण वै । सम्मुखं
गगनं पश्येन्निर्निमेषस्तथैकधीः । शुद्धस्फटिकसङ्काशः
पुरुषस्तत्र दृश्यते । न दृश्यत यदा तत्र पुनस्तद्वत्
परीक्षयेत् । बहुधा दर्शनेनैव साक्षात्कारो भवेत् ध्रुवम् ।
कस्यचित् भाग्यतो दृश्यो यदि विम्बोऽक्षिगोचरः ।
भवत्येव न सन्देहो गुरुविश्वासतः शिवे! । गरुं सम्यक्
पूजयित्वा पश्येच्छायां समाहितः । तथा षण्मासप-
र्य्यन्तं मृत्युस्तस्य न विद्यते । शिरोहीनं यद्रा पश्येत्
षण्मासाभ्यन्तरे मृतिः । यदा पादौ न दृश्येते भार्य्या-
हानिर्न संशयः । न दृश्येते यदा पाणी भ्रातुर्हानिर्न
संशयः । एतज् ज्ञात्वा सुधीः सम्यक् गङ्गातीरं
समाश्रयेत् । योगाभ्यासेन सततं प्राणायामेन संस्कृतः ।
यथा वा सत्समीपस्थो लक्षं मृत्युञ्जयं जपेत् । योह्य
भुक्तो हविष्याशी यतवाग्यतमानसः । मृत्युञ्जयेन्न
सन्देहो अन्यथा मृत्युमृच्छति । यदा तु मलिनं पश्येत्
ज्वरपीडा भवेत्तदा । तस्य शान्तिं प्रकुर्व्वीत शिवसेवां
समाहितः । रक्तवर्णं यदा पश्येदैश्वर्थ्यं भवति ध्रुवम् ।
मध्यच्छिद्रं यदा पश्येत शत्रुघातो भवेत्तदा । एवं
सन्दशनं दवि! ज्ञानवान् भवति ध्रुवम । नारदाय
पुरा प्रोक्तं मया पुरुषदर्शनम । तत्प्रसादान्महा-
योगी भूत्वा लोकांश्चरत्यसौ । स्वच्छायादर्शन देवि ।
कलौ पुरुषलक्षणम् । दीर्घायुः समवाप्नोति ज्ञानञ्चापि
सुनिर्मलम्” ।

छायायन्त्र न० छायया कालज्ञानसाधकं यन्त्रम् ।

कालज्ञानसाधकेषु शङ्कुयष्टिचक्रप्रभृतिषु यन्त्रभेदे । “शङ्कु-
यष्टिधनुश्चक्रैश्छायायन्त्रैरनेकधा । गुरूपदेशाद्विज्ञेयं
कालज्ञानमतन्द्रितैः” सू० सि० ।

छायामान पु० छायया सूर्य्यप्रतिविम्बेन मीयते मा--कर्म्मणि

ल्युट् । १ चन्द्रे हेमच० ६ त० । २ छायायाः प्रमाणे न० ।

छायामित्र न० छायाया मित्रमिव । आतपत्रे शब्दरत्न० ।

छायामृगधर पु० छायारूपं मृगं धरति धृ--अच् । चन्दे-

त्रिका० । छायाशशधरादयोऽप्यत्र ।

छायाविप्रतिपत्ति स्त्री छायानां देहकान्तीना तत्प्रभृतीनां

विप्रतिपत्तिर्विरुद्धा प्रतिपत्तिः । सुश्रुतोक्ते नॄणां
मरणसूचके देहकान्त्यादीनामन्यथाभावे यथाह सुश्रुतः ।
“अथातश्छायाविप्रतिपत्तिमध्यायं व्याख्यास्यामः । श्यावा
लोहितिका नीला पीतिका वापि मानवम् ।
अभिद्रवति यं छाया स परासुरसंशयम् । ह्रीश्रियौ
नश्यतो यस्य तेज ओजः स्मृतिः प्रभा । अकस्माद्यं भजन्ते
नो स परासुरमंशयम् । यस्याधरौष्ठः पतितः क्षिप्त-
श्चोर्द्धं तथोत्तरः । उभौ वा जाम्बवाभासौ दुर्लभं
तस्य जीवितम् । आरक्ता दशना यस्य श्यावा वा स्युः
पतन्ति च । खञ्जनप्रतिमा वापि तं गतायुषमादि
शेत् । कृष्णा स्तब्धावलिप्ता वा जिह्वा शूना च यस्य
वै । कर्कशा वा भवेद्यस्य सोऽचिराद्विजहात्यसून् ।
कुटिला स्फुटिता वापि शुष्का वा यस्य नासिका ।
अवस्फूर्जति मग्ना वा न स जीवति मानवः । सङ्क्षिप्ते
विषमे स्तब्धे रक्ते श्रस्ते च लोचने । स्यातां वा
प्रस्रुते यस्य स गतायुर्नरो ध्रुवम् । केशाः सीमन्तिनो
यस्य संक्षिप्ते विनते भ्रुवौ । लुनन्ति चाक्षिपक्ष्माणि
सोऽचिराद्याति मृत्यवे । नाहरत्यन्नमास्यस्थं न
धारयति यः शिरः । एकाग्रदृष्टिर्मूढ़ात्मा सद्यः प्राणान्
जहाति सः । बलवान् दुर्बलो वापि सम्मोहं योऽधि
गच्छति । उत्थाप्यमानो बहुशस्त धीरः परिवर्जयेत्
उत्तानः सर्व्वदा शेते पादौ विकुरुते च या । विप्र-
सारणशीलो वा न स जीवति मानवः! शीतपादकरो-
च्छ्वासश्छिन्नश्वासश्च यो भवेत् । काकोच्छ्वासश्च यो
मर्त्यस्तं धीरः परिवर्जयेत् । निद्रा न च्छिद्यते यस्य यो
वा जागर्त्ति सर्व्वदा । मुह्येद्वा वक्तुकामस्तु प्रत्याख्येयः
पृष्ठ २९९८
स जानता । उत्तरौष्ठञ्च यो लिह्यादुद्गारांश्च करोति
यः । प्रेतैर्व्वा भाषते सार्द्धं प्रेतरूपं तमादिशेत् ।
खेभ्यः सरोमकूपेभ्यो यस्य रक्तं प्रवर्त्तते । पुरुषस्या
विषार्त्तस्य सद्यो जह्यात्स जीवितम् । वाताष्ठीला
तु हृदये यस्योर्द्धमनुयायिनी । रुजान्नविद्वेषकरी स
परासुरसंशयम् । अनन्योपद्रवकृतः शोफः पादसमु-
त्थितः । पुरुषं हन्ति नारीन्तु मुखजो गुह्यजो द्वयम् ।
अतिसारो ज्वरो हिक्का छर्दिः शूनाण्डमेढ्रता । श्वा-
सिनः कासिनो वापि यस्य तं परिवर्जयेत् । स्वेदो
दाहश्च बलवान् हिक्का श्वासश्च मानवम् । बलवन्त-
मपि प्राणैर्व्वियुञ्जन्ति न संशयः । श्यावा जिह्वा भवे
द्यस्य सव्यं चाक्षि निमज्जति । भुखञ्च जायते पूति
यस्य तं परिवर्जयेत् । वक्त्रमापूर्य्यतेऽश्रूणां स्विद्यतश्चर-
णावुभौ । चक्षुश्चाकुलतां याति यमराष्ट्रं गमिष्यतः ।
अतिमात्रं लघूनि स्युर्गात्राणि गुरुकाणि च । यस्या-
कस्मात्स विज्ञेयो गन्ता वैवस्वतालयम् । पङ्क्यमत्स्य-
वसातैलघृतगन्धांश्च ये नराः । मृष्टगन्धांश्च ये वान्ति
गन्तारस्ते यमालयम् । यका ललाटमायान्ति वलिं
नाश्नन्ति वायसाः । येषां वापि रतिर्नास्ति यातारस्ते
यमालयम् । ज्वरातिसारशोफाः स्युर्यस्यान्योन्याव-
सादिनः । प्रक्षीणबलमांसस्य नासौ शक्यश्चिकित्सितुम् ।
क्षीणस्य यस्य क्षुत्तृष्णे हृद्यैर्मिष्टैर्हितैस्तथा । न शाम्यतो
ऽन्नपानैश्च तस्य मृत्युरुपस्थितः । पवाहिका शिरः-
शूलं कोष्ठशूलञ्च दारुणामा । पिपासा बलहानिश्च
तस्य मृत्युरुपस्थितः । विषमेणोपचारेण कर्म्मभिश्च
पुराकृतैः । अनित्यत्वाच्च जन्तूनां जीवितं निधवं
व्रजेत् । प्रेतभूतपिशाचाश्च रक्षांसि विविधानि च ।
मरणाभिभुखं नित्यमुपसर्पन्ति मानवम् । तानि भेषज-
वीर्य्याणि प्रतिघ्नन्ति जिघांसया । तस्मान्मोघाः क्रियाः
सर्व्वा भवन्त्येव गतायुषः” ।

छाल पु० न० छा० वा० अलच् अर्द्धार्चा० । वल्कल ।

छालिक्य पु० छलिके रूपकभेदे भवः ष्यञ् । गानभेदे । तच्च

गानं देवलोके स्थितं वासुदेवेन तत आनीय नरलोके
प्रचारितं यथाह हरिवं० १४८ अ० ।
“छालिक्यगानं बहु संविधानं यद्देवगान्धर्वमुदाहरन्ति ।
जग्राह वीणामथ नारदस्तु षड्ग्रामरागादिसमाधियु-
क्ताम् । हल्लीषकन्तु स्वयमेव कृष्णः सुवंशघोषं नरपप्रियार्थम् ।
मृदङ्गवाद्यानपरांश्च वाद्यान् वराप्सरास्ता जगृहुः
प्रतीताः । आसारितान्ते च ततः प्रतीता रम्भोत्थिता
स्वाभिनयाय तज्ज्ञा । तयाभिनीते वरगात्रयष्ट्या
तुतोष रामश्च जनार्द्दनश्च । अथोर्वशो चारु विशालनेत्रा
हेमा च राजन्नथ मिश्रकेशी । तिलोत्तमा चाप्यथ
मेनका च एतास्तथाऽन्याश्च हरिप्रियार्थम् । जगु
स्तथैवाभिनयञ्च चक्रुरिष्टैश्च कामैर्म्मनसोऽनुकूलैः
ता वासुदेवेऽप्यनुरक्तचित्तः संनृत्यगीताभिनयैरुदारैः ।
नरेन्द्रसूनो! परितोषितेन ताम्बूलयोगेन वराप्सरोभिः ।
तदागताभिर्नृवराहृतास्तु कष्णेप्सया मानमयास्तथैव ।
फलानि गन्धोत्तमवन्ति वीराश्छालिक्यगान्धर्वमथा
हृतञ्च । कृष्णेच्छया च त्रिदिवान्नृदेव! अनुग्रहार्थ
भुवि मानुषाणाम् । स्थितञ्च रम्यं हरितेजसैव प्रर्य
जयामास स रौक्मिणेयः । छालिक्यगान्धर्वमुदारवु
स्तेनैव ताम्बूलमथ प्रयुक्तम् । प्रयोजितं पञ्चभिरिन्द्र
तुल्यैश्छालिक्यमिष्टं सततं नराणाम् । शुभावहं
वृद्धिकरं प्रशस्तं मङ्गल्यमेवाथ तथा यशस्यम् । पुण्यञ्च
पुष्ट्यभ्युदयावहञ्च नारायणस्येष्टमुदारकीर्त्ति ।
जयावहं धर्मधुरावहञ्च दुःस्वप्ननाशं परिकीर्त्त्यमानम् ।
करोति पापञ्च तथा विहन्ति शृण्वन् सुरावासगतो
नरेन्द्रः । छालिक्यगन्धर्वमुदारकीर्त्तिर्मेने किलैकं
दिवसं सहस्रम् । चतुर्युगानां नृपरेवतोऽथ ततः
प्रवृत्ता सुकुमारजातिः । गान्धर्वजातिश्च तथा
पराणि दीपाद्यथा दीपशतानि रजन्! । विवेद
कृष्णश्च सनारदश्च प्रद्युम्नमुख्यैर्नृपभैममुख्यैः । विज्ञात
मेतद्धि परं यथावदद्देशमात्राणि जनैस्तु लोके ।
जानन्ति छालिक्यगुणोदयानां तोयं नदीनामथ वा
समुद्रे । ज्ञातुं हि शक्यं हिमवान् गिरिर्व्वा पलाग्र-
तो वा गुणतोऽथ वापि । शक्यं न च्छालिक्यमृते
तपोमिस्ताने विधानान्यथ मूर्छनासु । षड्ग्रामरागेषु च
तत्र कार्य्यं तस्यैकदेशावयवेन राजन्! । लेशामिधानं
सुकुमारजातिं निष्ठा सुदुःखेन नराः प्रयान्ति ।
छालक्यगान्धर्वगुणोदयेषु ये देवगन्धर्वमहर्षिसघाः । निष्ठां
प्रयान्तीत्यवगच्छ बुद्ध्या छालिक्यमेवं मधुसूदनेन ।
भैमोत्तमानां नरदेव! दत्तं लोकस्य चानुग्रहकाम्ययैव” ।

छि स्त्री छो--वा० कि । गहायाम एकाक्षरकोषः ।

छिक्कनी स्त्री छिक् इत्यव्यक्तं नासिकाशब्द कनात शब्दा

यते कन--अच् गौरा० ङीष् । (नाक्छिकनी, वृक्षमः
“चिक्कनी कटुका रुच्या तीक्ष्णोष्णा पह्निपित्तकृत् । वात
रक्तहरी कुष्ठकृमिवातकफापहा” भावप्र० तद्गुणीक्तिः ।
पृष्ठ २९९९

छिक्कर पु० छिक् इत्यव्यक्तं शब्दं करोति कृ--ट । वृ०

स० ८६ अ० उक्ते छिक्कारे मृगभेदे “कुक्कुटेभपिरील्यश्च
शिखिकञ्जनछिक्वराः” “स्त्रीसंज्ञा भाषभषककपिश्रीकर्ण-
छिक्कराः” “छिक्करः कटपूरी च पिरीली चाह्नि
दक्षिणाः” ।

छिक्का स्त्री छिक् इत्यव्यक्तं शब्दं करोति कृ--ड । क्षुते । शन्दरत्ना० ।

छिक्कार पु० छिगित्यव्यक्तं शब्दं करोति कृ--अण् । मृगभेदे ।

“छिक्कारो मृगजातिः कृकवाकः कुक्कुटः प्रोक्तः” वृ०
स० ८६ अ० ।

छिक्किका स्त्री छिक्का क्षुतं साध्यत्वेनास्त्यस्याः बा० ठन् ।

छिक्कन्यां (नाकछिकनी) भावप्र० । छात तत्रार्थे ।

छित त्रि० छा--क्त वा इत् । छिन्ने अमरः इडभावपक्षे

छित्ति स्त्री छिद--क्तिन् । १ छेदने कर्त्तरि क्तिच् । २ करञ्जवृक्षे

शब्दर० ।

छित्त्वर त्रि० छिद--ष्वरप् पृ० दस्य तः । १ वैरिणि, २ धूर्त्ते

३ छेदके च उणादिको । षित्त्वात् स्त्रियां ङीष् ।

छिद द्वैधीकरणे रुधा० उभ० सक० अनिट् । छिनत्ति छिन्ते

इरित् । अच्छिदत्, अच्छेत्सीत् अच्छित्त । “न छिन्द्या-
न्नखलोमानि” “न च्छिन्द्यात् करजैर्नखम्” मनुः
“अच्छिन्दन्नुत्तमाङ्गानि” भा० व० १२ । ६३ अ० । भिदा-
दित्वात् अङ् छिदा । “कर्म्मस्थः पचतेर्भावः कर्म्मस्थाश्च
भिदादयः” इत्युक्तेः ततः कर्म्मकर्त्तरि प्रत्ययः छिद्यते
कटःस्वयमेव । छिदुरः स्वयंछिन्नः ।
  • अप + अपकृष्य छेदने “एतस्यै वा एषापच्छिद्यैषैव पुनर्भवत्यपि”
शत० व्रा० ५ । ३ । ४ । ९ ।
  • अव + विभागमेदे । स च दैशिकः कालिकश्च अवच्छेदशब्दे ४२० पृ० दृश्यम् ।
वि + अव + व्यावर्त्तने निरासने व्यवच्छेदः ।
  • आ + आकृष्य हरणे । (काड़ियालओया) अपहरणे
“आछिन्द्युरितरासु च” नारदः । “मिषतामाच्छिन्नत्ति
नः” कुमा० । सम्यक्छेदे च । “आच्छेत्स्याम्यहमेतस्य
धनुर्ज्यामपि चाहवे” भा० व० १९६ श्लो० ।
  • उद् + समूलनाशने । “किं वा रिपूंस्तव गुरु स्वयमुच्छिनत्ति”
रधुः “उच्छेत्तु प्रभवति यन्न सप्तसप्तिः” शकु० ।
  • परि + इयत्तया विभागे परिच्छेदः । “यशःपरिच्छेत्तुमि-
यत्तयालम्” रघु० । “परिच्छिन्नप्रभावर्द्धिर्न मया न च
विष्णुना” कुमा० ।
  • वि + विभागे भेदे च “विच्छिद्य तौ शरैर्वारौ” हरिवं०
८५३० श्लो० । “यदर्द्धेविच्छिन्नं भवति कृतसन्धानमिव
तत्” शकु० ।

छिद् त्रि० छिद--क्विप् । छेदनकर्त्तरि । “रामस्य हृदयच्छिदः” रामा० सु० ३७ । १०

छिदक न० छिद--क्वुन् । वज्रे उणादिको० ।

छिदा स्त्री छिद--भावे भिदा० अङ । छेदने ।

छिदि स्त्री छिद्--इन् किच्च । १ परशौ २ वज्रे उज्वल० । ३ छेत्तयि

त्रि० ।

छिदिर पु० छिद--किरच् । १ कुठारे २ पावके, ३ रज्जुभेदे, ४ करवाले च मेदि० ५ असौ उज्वल० ।

छिदुर त्रि० छिद--कुरच् । १ वैरिणि, २ धूर्त्ते ३ छेदके, ४

छेदनद्रव्ये च मेदि० । कर्म्मकर्त्तरि कुरच् । ५ स्वयंछिन्ने
त्रि० । “संलक्ष्यते न च्छिदुरोऽपि हारः” रघुः ।

छिद्र भेदने अद० चुरा० उभ० सल० सेट् । छिद्रयति ते

अचिच्छिद्रत् त । छिद्रितः छिद्रम् ।

छिद्र न० छिद--रक् छिद्र--अच् वा । १ दूषणे, २ गर्त्ते, ३

अवकाशे ४ ज्योतिषोक्ते लग्नतोऽष्टमस्थाने । “छिद्राख्यमष्टमं
स्थानम्” ज्यो० त० । “छिद्र निवारयेत् सर्वं श्वशूकर-
मुखानुगम्” मनुः । “छिद्रेष्वनर्था बहुलीभवन्ति” शकु०
“नास्यच्छिद्रं परोविद्यात् विद्याच्छिद्रं परस्य तु” मनुः ।
देहे छिद्रसंख्यामाह याज्ञ० मिताक्षरयोः
“रोम्णां कोट्यस्तु पञ्चाशच्चतस्रः कोट्य एव च । सप्त-
षष्टिस्तथा लक्षाः सार्द्धाः स्वेदायनैः सह । वायवीयै-
र्विगण्यन्ते विभक्ताः परमाणवः” याज्ञ० । “पूर्वोदित-
सिराकेशादिसहितानां रोम्णाम्परमाणवः सूक्ष्मसूक्ष्म-
तररूपा भागाः स्वेदस्रवणशुषिरैः सह चतुःपञ्चा-
शत्कोट्यः तथा सप्तोत्तरषष्टिलक्षाः सार्द्धाः पञ्चाशत्सहस्र-
सहिताः वायवोयैर्विभक्ताः पवनपरमाणुभिः पृथक्
कृता विगण्यन्ते” मिता० । एता सूक्ष्मच्छिद्रसंख्याः
स्थूलच्छिद्रसंख्या तु नब मुखनेत्रवर्णना साद्वयपायूपस्थ
स्थानभेदात् तत्संख्याः तुल्यत्वेन ५ नव संख्यायां च

छिद्रकर्ण त्रि० छिद्रयुक्तः कर्णोऽस्य । दुर्लक्षणरूपच्छिद्रयुक्त

कर्णविशिष्टे छिन्नकर्णशब्दे दृश्यम् ।

छिद्रदर्शिन् त्रि० छिद्रं पश्यति दृश--णिनि । १ रन्ध्रान्वे-

षिणि रिपौ । कण्डरीकशब्द १६३१ पृ० दर्शिते
योगभ्रष्टे बाभ्रव्यपुत्रे २ विप्रभेदे च “छिद्रदर्शीं सुनेत्रश्च
तथा बाभ्रव्यवत्सयोः । जातौ श्रोत्रियदायादौ वेद
वेदाङ्गपारगौ” हरिवं० २३ अ० ।

छिद्रवैदेही स्त्री छिद्रप्रधाना वैदेही । गजपिप्पल्याम् राजनि०

छिद्रान्तर पु० छिद्रमन्तर्मध्ये यस्य । नले । राजनि० ।

पृष्ठ ३०००

छिद्राफल न० छिद्रं दूषणमाफलति आ + फल--अच् ।

कपटहेतौ मायारूपे फले राजनि० ।

छिद्रित त्रि० छिद्र--कर्म्मणि क्त । १ कृतवेधे विद्धे हेमच० ।

छिद्र + तारका० इतच् । २ जातच्छिद्रे ।

छिद्वर त्रि० छिद--ष्वरच् वा दस्य न तः । छित्वरशब्दार्थे विश्वः ।

छिन्न त्रि० छिद--क्त । १ कृतच्छेदने लूने अमरः । “सच्छि-

न्नधन्वा विरथः” देवीमा० । २ विभक्ते च “छिन्ना-
भ्रमिव नश्यति” गीता । ३ मन्त्रभेदे कुमारशब्दे २१६०
पृ० दृश्यम् । ततः “अनत्यन्तगतौ क्तात्” पा० कन् ।
छिन्नक ईषच्छिन्ने । “अनत्यन्तगतिः साकल्येन
सम्बन्धाभावः प्रकृतिवाच्यया छिदाक्रियया क्तार्थस्य
कर्म्मण एकदेशप्रतीत्या साकल्येन सम्बन्धाभावो गम्यते”
सि० कौ० । आगन्तुषु षट्सु व्रणेषु ३ वृणभेदे ।
“अनेकाकृतिरागन्तुः स भिषग्भि पुरातनेः । समासतो
लक्षणतः षड्विधः परिकीर्त्तितः । छिन्नं भिन्नं तथा
विद्धं क्षतं पिच्चितमेव च । घृष्टमाहुस्तथा षष्ठं तेषां
वक्ष्यामि लक्षणम् । तिरश्चीन ऋजुर्वापि यो व्रणश्चायतो
भवेत् । गात्रस्य पातनं चापि छिन्नमित्युपदिश्यते” ।

छिन्नकर्ण त्रि० छिन्नः कर्णोऽस्य “कर्णे लक्षणस्य” पा० पूर्वस्य

दीर्घे प्राप्ते विष्टादित्वात् न दीर्घः । छिन्नकर्णरूप
दुर्लक्षणयुक्ते । छिन्नकर्णकर्म्मविपाकस्तु भृगुमारते
९ अ० दृश्यः ।

छिन्नग्रन्थिनी छिन्ना ग्रन्थिनी संज्ञायां कन् । त्रिपर्णिकालतायाम् । राजनि० ।

छिन्नद्वैध त्रि० छिन्नं द्वधं संशयोऽस्य । वेदान्तदिश्रवण

परिपाकेण निवृत्तमंशये । छिन्नसंशयादयोऽप्यत्र

छिन्ननास त्रि० छिन्ना नासाऽस्य । द्विधा भूतनासिके तस्य रोगस्य

कर्म्मविपाको भृपुभारते ८ अ० दृश्यः ।

छिन्नपत्री स्त्री छिन्नं पत्रं यस्याः ङीष् । अम्बष्ठायाम् । (आकनादी) राजनि० ।

छिन्नमस्ता स्त्री छिन्नं मस्तं यस्याः । दशमहाविद्यान्तर्गते

देवीभेदे । “भैरवी छिन्नमस्ता च विद्या धूमावती तथा”
तन्त्रसारः ।

छिन्नरुह पु० छिन्नः सन् रोहति रुह--क । १ तिलकवृक्षे

राजनि० २ गुडूच्याम् स्त्री अमरः ३ स्वर्णकेतक्यां ४ शल्ल-
क्याञ्च स्त्री राजनि० ।

छिन्नवेशिका स्त्री छिन्नो वेशो यस्याः संज्ञायां कन्--टापि

अतैत्त्वम् । पाठायाम् (आकनादी) शब्दच० ।

छिन्नश्वास पु० कर्म्म० । क्षुद्रश्वासशब्दे २३८३ पृष्ठे दर्शित

सुश्वतवाक्योक्ते श्वासभेदे ।

छिन्ना स्त्री छिद--क्त । १ गुड़ूच्यां २ पुंश्चल्याञ्च विश्वः ।

छिन्नीद्भवा स्त्री छिन्नाप्युद्भभवति उद् + भू--अच् । प्रडूज्या

राजनि० ।

छिलिहिण्ड पु० पातालगरुडवृक्षे छिलिहिण्डः परो

वृष्यः कफघ्नः पवनापहः” भावप्र० तद्गुणोक्तिः

छुछुका स्त्री छुछु इत्यव्यक्तशब्दं कायति कै--क पृषो०

छुछुन्दर्य्याम् (छुँछो) शब्दार्थचि०

छुछुन्दर पुंस्त्री छछु इत्यव्यक्तः शब्दोर्दार्य्यतेऽस्मात् द्वृ-

पादाने अप् पृषो० । (छुँछो) इति ख्याते मूषिकरं
उन्दुरशब्दे ११८८ पृ० सुश्रुतवाक्ये दृश्यम् । “छुछुन्दरेण
विड़्भङ्गो ग्रीवास्तम्भीविजम्भृणम्” सुश्रु० । स्त्रियां
जातित्वात् ङीष् । पृषो० छुछुन्दरिरप्यत्र “मत्स्यछुछु
न्दरिमत्कुणगन्धो यथा” सुश्रुतः । “छुच्छुन्दरिः शुभान्
गन्धान (हृत्वा) पत्रशाकन्तु बर्हिण” मनुः । “पत्रशाकं
शिर्खा हृत्वा गन्धांश्छुछुन्दरिः शुभान्” याज्ञ० ।

छुच्छु स्त्री छुछुकायाम् “शिवा श्यामा रला छुच्छु

पिङ्गला गृहगोधिका शूकरा परपुष्टा च पुन्नामानश्च
वामतः” वृ० स० ८६ अ० यात्रायां तस्या वामतः
शुभदत्वमुक्तम् ।

छुट छेदने वा चुरा० उभ० पक्षे तु० कुटा० पर० सक० सेट् ।

छोटयति ते छुटति । अचुच्छुतत् त अच्छुटीत् ।

छुड छादने तु० कु० पर० सक० सेट् । छुडति अच्छुडीत्

चुच्छोड

छुड पिधाने भ्वा० प० सक० सेट् । छोडति अच्छोडीत् चु च्छोड ।

छुद्र न० छद--रक् पृषो० । १ प्रतीकारे २ रश्मौ च उणादिको०।

छुप स्पर्शे तु० पर० सक० अनिट् । छुपति अच्छापसीत् चुच्छोप ।

छुप पु० छुप--कर्त्तरि क, घञर्थे क वा । क्षुपे ह्रस्वशास्वे

वृक्षे २ स्पर्शने मेदि० । ३ चपले त्रि० आधारे क ।
४ युद्धे पु० विश्वः ।

छुबुक न० चुबुक + पृषो० । चुबुके ओष्ठाधरप्रदेशे । “कर्ण्णा-

भ्यां छुबुकादधि” ऋ० १० । १६३ । १ । “छुबुकं व्यपदिशन्नुव
चैष वै प्रतिष्ठा वैश्वानरः” शत० व्रा० १० । ६ । १ । ११ ।

छुर छेदे भ्वा० पर० सक० मेट् । छोरति अच्छोरीत् । चुच्छोर

छुर लेपने तु० कु० पर० सक० सेट् । छरति अच्छुरीत् ।

चुच्छोर छुरितः । “छुरितमिव वियद्घनैर्विचित्रैः” वृ०
स० २४० अ० । “कुसुमलवच्छुरितपर्य्यन्ते पर्य्यङ्कतले”
दशकु० । “मनःशिलाविच्छुरिता तिषेदुः” कमा०
पृष्ठ ३००१

छुरा स्त्री छुर--क । सौधलेपनद्रव्ये सुधायां चर्ण्णे (कलि

चुन्) हारा० ।

छुरिका स्त्री छुर--छेदे क स्वाथं क टापि अत इत्त्वम्

छुर--बा० क्वुन् वा । स्वनामख्याते अस्त्रभेदे ।

छुरिकापत्री स्त्री छुरिकेव पत्रमम्याः ङीष । श्रेतालता-

याम् राजनि० ।

छुरित त्रि० छुर--क्त । २ खचिते जटाधरः । २ लिप्ते ३ छिन्ने

च त्रि० “परस्परेण च्छुरितामलच्छवी” माघः ।

छुरी स्त्री छुर--क गौरा० ङीष् । छुरिकायाम अमिधेनौ

भरतः ।

छूरिका स्त्री छुरिका + पृषो० । १ छुरिकार्थ २ बन्धघ्रायां गवि

“गोषु व्राह्मणसस्थासु छूरिकायाश्च भेदने” छूरिकाया
बन्ध्याया गोर्वाहनार्थं नासाभ दने” कुल्लू०

छूरी स्त्री छुरी--पृषो० । छुरिकायां हेम० ।

छृद सन्दीपने वा चु० उभ० पक्षे भ्वा० पर० सक० सेट् ।

छर्दयति ते छर्दति अचिच्छृदत्--त अचच्छर्दत् त
अच्छदीत् ।

छृद देवने दौप्तौ च अक० वसने सक० रुधा० उभ० सेट् ।

छणत्ति छृन्ते इरित् । अच्छृदत् अच्छर्दीत् । अच्छ-
र्द्दिष्ट छर्द्दिष्यति--छर्त्स्यति उदित् छर्दित्वा छृत्त्वा छृन्नः

छृप याचने द्विक० शब्दे अक० वा चुरा० उभ० पक्षे भ्वा०

पर० सेट् । छर्पयति ते छर्पति । अचिच्छृपत् त--अच
च्छर्पत् त । अच्छर्पीत्

छेक पु० छो--वा० डेकन । १ गृहासक्ते मृगपक्ष्यादौ २ नागरे

विदग्धे त्रि० मेदि० । विदग्धप्रिये शब्दालङ्काररूपे
३ अनुप्रासभेदे अनुप्रासशब्दे १७८ पृ० दृश्यम् । ४ मत्तायां
स्त्रियां स्त्री शब्दार्थचि० ।

छेकापह्नुति स्त्री अर्थालङ्कारभेदे । अलङ्कारशब्दे पृ० ३९८ दृश्यम्

छेद छेदने अद० चु० उभ० सक० सेट् । छेदयति ते

अचिच्छेदत् त

छेद पु० छिद--भावे घञ् अच वा । २ छेदने “अभि-

ज्ञाश्छेदपातानां क्रियन्ते नन्दनद्रुमाः” कुमा० ।
कर्त्तरि अच् । २ छेदके, भाजके “छेदंगुणं गुणं
छेदमिति” लीलावती । कर्म्मणि घञ् । ३ खण्डे, त्रि०
“वलाहकच्छेदविभक्तरागाम्” कुमा० । “विसकिसलय-
च्छेदपान्येयवन्तः” मेघः । खण्डार्थस्य तु त्रिलिङ्गत्वेन
स्त्रियां गौरा० ङीष् । ततोनित्यमर्हति ठञ् । छैदिक
नित्यच्छेदार्हे वेतसा

छेदन न० छिद--भावे ल्युट् । १ द्विधाकरणे “करपाददतो-

भङ्गे छदने कर्णनासयोः” याज्ञ० । करणे ल्युट् । २
छेदनसाधने “तद्वै शस्त्रं शस्त्रविदां न शस्त्रं छेदनं स्मृतम्”
भा० स० ५४ अ० । कर्त्तरि ल्यु । ३ छेदके त्रि०

छेदनीय पु० छेदनाय जलकालुष्यभेदनाय हित--छ । १

कतकवृक्षे राजनि० । छिद--कर्म्मणि अनीयर् । २ छेद्ये त्रि०

छेदादि पु० नित्यमर्हतीत्यर्थे ठञ्प्रत्ययनिमित्ते शब्दगणे

स च गणः “छेद भेद द्रोह दोह नर्त्त कर्ष तीर्थ
संप्रयोग विप्रयोग प्रयोग विप्रकर्ष प्रेषण संप्रश्न विप्रश्न
विकर्ष प्रकर्ष (विराग विरङ्ग च)” पा० ग० सू० । छैदिकः

छेदि पु० छिद--इन् । १ वज्रे उज्ज्व० । २ छेत्तरि त्रि० ।

३ वर्द्धकौ पु० धरणिः ।

छेदित त्रि० छेदो जातोऽस्य तारका० इतच् । द्विधाकृते हेमच० ।

छेद्य त्रि० छेत्तुं योग्यः कर्म्मणि योग्यार्थे ण्यत् । भेत्तुं

योग्ये “शीर्षच्छेद्यमतोऽहं त्वाम्” भट्टिः ।
छेद्याक्षिरोगप्रतिषेधोपायाः सुश्रुतोक्ता यथा “अथात-
श्छेद्यरोगप्रतिषेधं व्याख्यास्यामः । स्निग्धं भुक्तवतो ह्यन्न
मुपविष्टस्य यत्नतः । संरोषयेत्तु नयनं भिषक्चूर्णैस्तु
लावणैः । ततः संरोषितं तूर्णं सुस्विन्नं परिघट्टितम् ।
अर्म्म यत्र बलीजातं तत्रैतल्लगयेद्धिषक् । अपाङ्गं प्रे-
क्षमाणस्य वडिशेन समाहितः । मुचुण्ड्यागृह्य
मेधावी सूचीसूत्रेण वा पुनः । नचोत्तापयता क्षिपं
कार्य्यमभ्युन्नतं तु तत् । शस्त्रपातभयाच्चास्य वर्त्मनी ग्रा-
हयेद्दृदम् । ततः प्रशिथिलीभूतं त्रिभिरेव विलम्बितम् ।
उल्लिखन्मण्डलाग्रेण तीक्ष्णेन परिशोधयेत् । विमुक्तं
सर्वतश्चापि कृष्णाच्छुक्लाच्च मण्डलात् । नीत्वा कनीन
कीपान्तं छिन्द्यान्नातिकनीनकम् । चतुर्भागस्थिते मांसे
नाक्षि व्यापत्तिमर्क्षति । कनीनकबधादस्रं नाडी चाप्यु-
पजायते । हीनच्छेदात्पुनर्वृद्धिं शीघ्रमेबाधिगच्छति ।
अर्म यज्जालवद्व्यापि तदप्युन्मार्ज्य लम्बितम् ।
छिन्द्याद्वक्रेण शस्त्रेण वर्त्मशुक्लान्तमाश्रितम् । प्रतिसा-
रणमक्ष्णोस्तु ततः कार्य्यमनन्तरम् । यवनालस्य चूर्णेन
त्रिकटोर्ल्लवणस्य च । स्वेदयित्वा ततः पश्चाद्बध्नीयात्
कशलो भिषक् । देशर्त्तुबलकालज्ञः स्नेहं दत्त्वा
यथाहितम् । व्रणवत् संविधानन्तु तस्य कुर्य्यादतःपरम् ।
त्र्यहान्मुक्त्वा करम्वेदं दत्त्वा शोधनमाचरेत् । करञ्ज-
वीजामलकमधुकैः साधितं पयः । हितमाश्च्योतनं
शूले द्विरह्नः क्षौद्रसंयुतम् । मधुकोत्पलकिञ्जल्कदूर्वा
पृष्ठ ३००२
कल्कैश्च मूर्द्धनि । प्रलेपः सघृतः शीतः क्षीरपिष्टः
प्रशस्यते । लैख्याञ्जनैरपहरेदर्म्मशेषं भवेद्यदि । अर्म्म
चाल्यन्दधिनिभन्नीलं रक्तमथापि वा । धूसरन्तनु यच्चापि
शुक्रवत्तदुपाचरेत् । चर्म्माभम्बहलं यत्तु स्नायुमांसघना-
वृतम् । छेद्यमेव तदर्म्म स्यात्कृष्णमण्डलगञ्च यत् । विशुद्ध-
वर्णमक्लिष्ट क्रियास्वक्षिगतक्लमम् । छिन्नेऽर्म्मणि
भवेत्सम्यग्यथास्वमनुपद्रवम् । सिराजाले सिरायास्तु
कठिनास्ताश्च बुद्धिमान् । उल्लिखेन्मण्डलाग्रेण वडिशे-
नावलम्बिताः । सिरासु पिडका जाता या न सिध्यन्ति
भेषजैः । अर्म्मवन्मण्डलाग्रेण तासाञ्छेदनमिष्यते ।
रोगयोश्चैतयोः कार्य्यमर्म्मोक्तं प्रतिसारणम् । विधि-
श्चापि यथादोषं लेखनद्रव्यसम्भृतः । सन्धौ संस्वेद्य
शस्त्रेण पर्वणीकां विचक्षणः । उत्तरे च त्रिभागे च
वडिशेनावलम्बिताम् । छिन्द्यात्ततोऽर्द्धमग्रे स्यादश्रुनाडी
ह्यतोऽन्यथा । प्रतिसारणमत्रापि सैन्धवक्षौद्रमिष्यते ।
लेखनीयानि चूर्णानि व्याधिशेषस्य मेषजम् । शङ्खं
समुद्रफेनञ्च मण्डूकीञ्च समुद्रजाम् । स्फटिकं कुरु-
विन्दञ्च प्रबालाश्मन्तकन्तथा । वैदूर्य्योपलकं मुक्तामय-
स्ताम्ररजांसि च । समभागानि सम्पिष्य सार्द्ध्वं श्चोतो-
ऽञ्जनेन तु । चूर्णाञ्जनं कारयित्वा भाजने मेष
शृङ्गजे । संस्थाप्योभयतः कालमञ्जयेत्सततं बुधः ।
अर्म्माणि पिडकां हन्यात्सिराजालानि तेन वै
अर्शस्तथा यच्च नाम्ना शुष्कार्शोऽर्बुदमेव च । अभ्यन्तरं
वर्त्मशया विधानं तेषु वक्ष्यते । वर्त्मोपस्वेद्य निर्भुज्य
सूच्योत्क्षिप्य प्रयत्नतः । मण्डलाग्रेण तीक्ष्णेन मूले
छिन्द्याद्भिषग्वरः । ततः सैन्धवकासीसकृष्णाभिः प्रति-
सारयेत् । स्थिते च रुधिरे वर्त्म दहेत्सम्यक्शलाकया ।
क्षारेणावलिखेच्चापि व्याधिशेषो भवेद्यदि । तीक्ष्णैरुभ-
यतो भागैस्ततो दोषमधिक्षिपेत् । वितरेच्च यथादोष-
माभष्यन्दक्रियाविधिम् । शस्त्रकर्म्मण्युपरते मासञ्च
स्यात्सुयान्त्रतः” ।

छेमण्ड पु० छमण्ड + पृषो० अत एत्त्वम् । मातृपितृहीने

बालके (छ्ॐड) उज्ज्वलदत्तः ।

छेलक पुंस्त्री छो--कर्म्मणि बा० डेलकन् । १ छागे २ छाग्यां

स्त्री टाप् । नावप्र० छागशब्दे दृश्यम् ।

छेलु पु० छो--बा० डेलु । सोमराज्याम् शब्दच०

छैदिक त्रि० छेदं नित्यमर्हति ठञ् । नित्यछेदार्हे वेतसे पु०

छो छेदने दि० पर० सक० अनिट् । छ्यति अच्छात् अच्छा-

सीत् । चच्छौ । छातः--छितः ।

छोटिका स्त्री छुट--ण्वुल् । तर्ज्जन्यङ्ग ष्ठध्वनौ (तुडी देओया)

छोटिन् पु० छुट--णिनि । कैवर्त्ते त्रिका० ।

छोरण न० छुर--भावे ल्युट् । १ परित्यागे त्रिका० ।

छोलङ्ग पु० छुर--वा० अङ्गच् रस्य लः । मातुलुङ्गे (टावा-

लेवु) शब्दरत्ना० ।

छोहारा स्त्री द्वीपान्तरखर्जूरिकायाम् । “खर्जूरी गोस्त-

नाकारा परद्वीपादिहागता । जायते पश्चिमे देशे सा
छोहारेति कीर्त्त्यते” भावप्र० खर्जूरशब्दे २४६८ पृ
तद्गुणा दृश्याः ।

छ्यु गतौ भ्वा० आत्म० सक० अनिट् । छ्यवते अच्छ्योष्ट

णेश्चङि अचि(चु)च्छ्यवत् त । णेः सनि चु(चि)
च्छ्यावयिषति ते ।
इति वाचस्पत्ये छकारादिशब्दार्थनिरूपणम् ।
"https://sa.wikisource.org/w/index.php?title=वाचस्पत्यम्/छ&oldid=85298" इत्यस्माद् प्रतिप्राप्तम्