वाचस्पत्यम्/ज

विकिस्रोतः तः
← वाचस्पत्यम्/छ वाचस्पत्यम्/ज
तारानाथ भट्टाचार्य
वाचस्पत्यम्/झ-ण →
पृष्ठ ३००३

जकारो व्यञ्जनवर्णभेदः स्पर्शसंज्ञस्तस्योच्चारणस्थानं

तालु, आभ्यन्तरप्रयत्नः जिह्वामव्यभागेन तालुस्पर्शः
वाह्यप्रयत्नाश्च घोषसंवारनादाः अल्पप्राणश्च । मातृ-
कान्यासेऽस्य वाममणिबन्धे न्यासः । तन्त्रोक्ता अस्य
वाचकशब्दा यथा “जश्चतुराननः शूली भोगी च
विजया स्थिरा । बलदेवो जयो जेता धातकी
सुमुखी विभुः । लम्बोदरी स्मृतिः शाखा सुपभा
कर्त्तृकाधरा । दीर्घबाहूरुचिर्हंसो नन्दी तेजाः सुरा-
धिपः । जवनो वेगितो वाममणिवन्धपदात्मकः । हृन्मा-
रुतेश्वगो वेशी चामोदी मदविह्वलः” वर्ण्णोद्धारतन्त्रम् ।
अस्य ध्येयरूपं यथा “जकारं परमेशानि! या स्वयं
मध्यकुण्डली । शरच्चन्द्रप्रतीकाशं सदा त्रिगुणसंयु-
तम् । पञ्चदेवमयं वर्णं पञ्चप्राणमयं सदा । त्रिशक्ति
सहितं वर्णम् त्रिविन्दुसहितं प्रिये!” कामधेनुतन्त्रम् ।
काव्येऽस्य प्रथमविन्यासफलं वृत्त० र० टी० उक्तं
“जोमित्रलाभमित्यादि” ।

पु० जि--जन--जु--वा ड । १ मृत्युञ्जये २ जन्मनि ३ पितरि

४ जनार्द्दने त्रि० मेदि० ५ विषे ६ भुक्तौ ७ तेजसि ८ पिशाचे
च । शब्दरत्ना० । ९ वेगे एकाक्षरकोषः “जो गुरुमध्यगतः”
इत्युक्ते गुरुमध्ये प्रान्तयोर्लघुद्वययुक्ते छन्दःशास्त्रप्रसिद्धे
(।ऽ।) त्रिवर्णे १० गणे तस्य काव्यप्रथमविन्यासे । “भुजगो-
रुज ज” इत्युक्तेः रोगःफलम् सर्पोऽस्य देवः” ११ जाते त्रि०
“प्रावृट् शरत्कालदिवां जे” पा० अलुक् स० । प्रावृषिजः
शरदिजः कालेजः दिविजः । “विभाषा वर्षखरशरे-
त्यादि” पा० । वर्षेज वर्षज इत्यादि । “तत्पुरु कृति
बहुलम्” पा० । मनसिजः मनोजः सरसिजं सरोजमि-
त्यादि । जरायजः अण्डजः स्वेदजः उद्भिज्जः” ।
१२ वेगिते १३ जेतरि त्रि० शब्दरत्ना० ।

जकुट पु० जं जातं कुटति कुट--क । १ मलयाचले २ वार्त्ताकृपुष्पे न० मेदि०!

जक्ष भक्षे मक० हासे अक० जक्षा० स्वपादि० प० सेट् ।

स्वपादिश्च रुदाद्यन्तर्गणस्तेन झलादेः सार्वधातुकस्य इट् ।
जक्षिति जक्षितः अभ्यस्तसंज्ञः तेन जक्षति ।
अजक्षीत् “उतेव स्त्रीभिः सह मोदमानो जक्षदुते
वापि भयानि पश्यन्” शत० व्रा० १४ । ७ । १ । १४ । “अश्नत्यां
कश्चिदश्नाति जक्षत्यां सह जक्षिति” भाग० ४ । २५ । ५७ ।
“हविर्जक्षिति निःशङ्कोमखेषु मघवानसौ” जक्षिमो-
ऽनपराधेऽपि” भट्टिः । अस्यान्तःस्थादितां केचित्
मन्यन्ते । “यक्ष्यतामिति येऽप्युक्तास्ते वै यक्षास्व
यक्षणात्” विष्णुपु० यक्षनामनिरुक्तौ तथादर्शनात् ।

जक्ष दाने भ्वा० इदित् आ० सक० सेट् । इदित्करणसामथ्यास

अनुपधस्यापि नुम् । जङ्क्षते अजङ्क्षिष्ट । मित् । अजङ्क्षि
अजाङ्क्षि (जा) जङ्क्षम् । इदित्करणात् जङ्क्षयते ।

जक्षण न० जक्ष--भावे ल्यट । भक्षणे हेमच० ।

जगच्चक्षुस् पु० जगतां चक्षुरिव प्रकाशकत्वात् । सूर्य्ये हेमच०

जक्षादि पु० “जक्ष जागृ दरिद्रा च चकास्तिः शास्तिरेव

च । दीधी वेवी च विज्ञेयो जक्षादिः पञ्चकोगणा”
इत्युक्ते अभ्यस्तसंज्ञे धातुपञ्चके “नाभ्यस्ताच्छतुः” पा
जक्षत् जाग्रत् इत्यादि ।

जगत् पु० गम--क्विप् नि० द्वित्वम् तुक् च । १ वायौ २ जङ्गमे त्रि०

मेदि० । ३ विश्वे न० अमरः । ४ लोके सचराचरे प्रपञ्च-
भूते भोगोपयोगिपरिकरसहिते मायामये संसारचक्रे
यथोक्तमभियुक्तैः “न निरूपयितुं शक्या विस्पष्टं
भासते च या । सा मायेतीन्द्रजालादौ लोकाः संप्रति-
पेदिरे । स्पष्टं यथा जगच्चेदमशक्यं तन्निरूपणम् ।
मायामयं जगत् भाति वीक्षस्वापक्षपाततः” । “जगद्योनि-
रयोनिस्त्वं जगदन्तोनिरन्तकः । जगदादिरनादिस्त्वं
जगदीशोनिरीश्वरः” कुमा० । “जगतः पितरौ वन्दे पार्व्व-
तीपरमेश्वरौ” रघुः । “यदा स देवो जागर्त्ति तदेद
चेष्टते जगत्” मनुः । लोके “जगत्यपर्य्याप्तसहह्रभानुना”
“युगान्तकालप्रतिसंहृतात्मनोजगन्ति यस्यां सविकाशमा-
सत” माघः । जङ्गमे “जगतां तस्थुषश्च” सन्ध्यामन्त्रः ।
क्विबन्तत्वात् जगत् जगतौ इत्यादिरूपम् “पृषन्महज्ज-
गच्छतृवच्च” पा० निपातनपक्षे जगत् जगन्तौ इत्या-
दिरूपमिति केचिदाहुस्तच्चिन्त्यम् तस्य शतृतुल्यत्वेऽपि
“नाभ्यस्ताच्छतुरिति” पा० निषेधात् न नुम् ।
शतृतुल्यत्वप्रयोजनं तु स्त्रियां ङीप् जगती

जगत्कर्त्तृ पु० ६ त० । १ ईश्वरे तदभेदात् २ चतुर्मुखादौ हेमच० ।

जगच्छन्द पु० जगती च्छन्दोऽस्य वेदे नि० बुंवद्भावः ।

जगत्या छन्दसा स्तुत्ये । “खरोऽसि गयोऽमि
जगच्छन्दाः” ता० व्रा० १ । ५ । १५ ।

जगत्पति पु० ६ त० । १ परमेश्वरे तद्भेदात् २ हरिहरादौ

“यदा च तस्याधिगत्रे ञगतपतेः” कुमा० जगदीशा-
दयोऽप्यत्र । “जगदीशो निरीधरः” कुमा०
पृष्ठ ३००४

जगत्प्राण पु० जगत् प्राणित्यस्मात् प्र + अन्--अपादाने घञ्

६ त० । वायौ अमरः “जगत्प्राण! प्राणानपहरसि
किन्ते व्यवसितम्” सा० द० ।

जगत्साक्षिन् पु० ६ त० । १ईश्वरे २ सूर्य्ये च हेमच० ।

जगत्सेतु पु० जगतः सेतुरिव सर्वमर्य्यादाकारकत्वात् ।

परमेश्वरे जगतां सन्तारणहेतुत्वादसंभेदकरत्वाच्च
वर्णाश्रमादीनां, “एष सेतर्विधरणो लोकानामसंभेदाय”
श्रुतेस्तस्य तथात्वम् । अलुक् समा० । जगतः सेतुरप्यत्र”
“औषधं जगतः सेतुः” विष्णुस० ।

जगती स्त्री गम--क्विप् “पृषन्महज्जगच्छतृवत्” पा०

शतृतुल्यत्वात् ङीप् । १ भुवने । २ पृथिव्यां “आर्य्यभट्टमते
भमेश्चलत्वात् गतिमत्त्वेन तथात्वम् । अन्यमते जगदा-
घारत्वात् तस्यास्तयात्वमिति भेदः । ३ द्वादशाक्षरपादके
छन्दोभेदे छन्दःशब्दे दृश्यम् । ४ जम्बुक्षेत्रे हेमच० ।
ततोभवादौ उत्सा० अञ् । जागत जगतीभवादौ । स्त्रियां
टाप् । छन्दःशब्दे उदा० ।

जगदम्बा स्त्री ६ त० । दुर्गायां स्वार्थे क । जगदम्बिका-

प्यत्र । “सृष्टिस्थितिविनाशानां बिधात्री जगदम्बिका”
देवीगीता । जगद्धात्रीशब्दे उदा०

जगदादि पु० ६ त० । १ परमेश्वरे । २ तदभेदाच्चतुराननादौ

“जगदादिरनादिस्त्वम्” कुमा०

जगदादिज पु० हिरण्यगर्मरूपेण जगतामादौ जायते

जन--ड । परमेश्वरे । “भ्राजिष्णुर्भोजनं भोक्ता सहि०
ष्णुर्जगदादिजः” विष्णुस० ।

जगदाधारः पु० ६ त० । १ वायौ शब्दच० । २ जगदाश्रये काले

च “कालोहि जगदाधारः” ति० त० । जगदाश्चया-
दयोऽप्यत्र “जन्यानां जनकः कालो जगतामाश्रयोमतः”
भाषा० ।

जगदायु(युस्) पु० जगतामायुःसाधनत्वात् आयुः पृषो०

वा सलोपः । वायौ । “अहं केशरिणः क्षेत्रे वायुना
जगदायुना” भा० व० १४७ अ० । “चायुना द्विपदां श्रेष्ठः
कथितो जगदायुषा” भा० शा० ३४० अ० ।

जगद्गुरु पु० ६ त० । १ परमेश्वरे । “सहि पर्व्वेषामपि गुरुः

कालेनानवच्छेदात्” पात० सू० तस्य सर्वगुरुत्वमुक्तम्
तदभेदात् २ शिवादौ “अथ ते मुनयः सर्वे मानयित्वा
जगद्गुरुम्” (शिवम्) कुमा० । “मेने परार्द्ध्यमात्मानं गुरु-
त्वेन जगद्गुरोः” रघुः । ३ जगतामुपदेष्टरि नारदादौ ।
“नारदस्तु जगतोगुरुरुच्चैर्विस्मयाय गगनं विललङ्घे”
नैष० जगद्भ्योगुरुः पञ्चमीत० । ४ जगद्भ्यो गुरुद्रव्येच ।

जगद्गौरी स्त्री जगत्सु मध्ये गौरी । ममसादेव्यां शब्दर० ।

जगद्दीप पु० जगतोदीपैव प्रकाशकत्वात् । परमेश्वरे “तस्य

भासा सर्वमिदं विभाति” श्रुतिः तदभेदात् २ शिवादौ
“जगद्योनिं जगद्दीपं जयिनं जगतोगतिम्” भा० द्रो०
२०३ शिवस्तवः ।

जगद्धातृ पु० ६ त० । १ परमेश्वरे । दुर्गामूर्त्तिभेदे स्त्री

ङीप् । तस्याः पूजाकालव्यवस्था ।
निगमकल्पसारे ज्ञानसारस्वते ग्रन्थे च दुर्गाकल्पे
“श्रीशिव उवाच । प्रसीद जगतां मातर्ज्जगन्निस्तारका-
रिणि! । अतएव महेशानि! तवाहं शरणागतः ।
त्वया यत् कथितं पूर्वं तत्सर्वञ्च श्रुतं मया ।
जगद्धात्री महादुर्गा चतुर्वर्गफलप्रदा । तम्याः पूजाविधि-
दिनं कालस्तन्न प्रकाशितम् । तदेव कथयेशानि ।
श्रेतुमिच्छामि साम्प्रतम् । श्रीदेव्युवाच । कथयामि
महेशान! सावधानावधारय । तस्याः पूजाविधि-
दिनं समयं भावभेदतः । कार्त्तिके शुक्लपक्षे च या
दुर्गानवमी तिथिः । सा प्रशस्ता महादेव! महादुर्गा-
प्रपूजने । प्रातश्च सात्विकी पूजा मध्याह्ने राजसी
मता । सायाह्ने तामसी पूजा त्रिविधा परिकीर्त्तिता ।
जपयज्ञादिभिर्देव! इति त्रैकालिकी मता । अथान्यत
मंप्रवक्ष्यामि शृणुष्व परमेश्वर! । सप्तम्यादि नवम्यान्तं
पूजाकाल इतीरितः । त्रिदिने त्रिविधा पूजा दशम्याञ्च
विसर्ज्जयेत् । पूजा परेऽह्नि देवेश! तत्राप्यत्र विसर्जनम् ।
वेधितायाः प्रकारेण तत्र पूजा प्रकीर्त्तिता । शिव
उवाच, त्रिसन्ध्याऽव्यापिनी सा तु यदि स्यान्नवसी तिथिः ।
त्रिकाले त्रिविधा पूजा कथं देव्या जगन्मयि! । कथयस्व
महेशानि! इति मे संशयोहृदि । श्रीदेव्युवाच । सा प्रात
र्व्यापिनी यत्र वासरे नवमी तिथिः । त्रिसन्ध्यं पूजये-
त्तत्र वासरे जरदम्बिकाम् । मुहूर्त्तव्यापिनी चापि
तत्र ग्राह्या महेश्वर! । एककाले त्रिधा पूजां साधकोनैव
कारयेत्” ।
तत्पूजायां दशम्या बलिदाननिषेधः तन्त्रान्तरे “श्री
पार्वत्युवाच । दशम्यां वलिदानन्तु निषिद्धं जगदी-
श्वर! । कथं त्रिकालं पूजा सा सम्भवत् परमेश्वर! ।
शिव उवाच “नवमीतिथिमाश्रित्य यत्र पूजाविथि-
र्भवेत् । निषिद्धं बलिदानन्तुं दशम्यां तत्र सुन्दरि! ।
नवमीदिनमाश्रित्य पूजाबिधिरिहोदितः । दशम्यां
पृष्ठ ३००५
बलिदानन्तु निषिद्धं नात्र पार्वति” । ज्ञानामृतसारे
पूर्वं प्रकारमुक्त्वा “मुहूर्त्तव्यापिनी चापि प्रातश्चेन्नवमी
तिथिः । तद्दिने पूजनं कार्य्यं त्रिसन्ध्यं वरवर्णिनि! ।
त्रिकालं पूजयेत्तत्र नैककाले कदाचन” । कात्यायनीतन्त्रे
७ पदले । “कुम्भराशिगते चन्द्रे नवम्यां कार्त्ति-
कस्य च । उषस्यर्द्धोदितो भानुर्दुर्गामाराध्य यत्न-
वात् । पुत्रारोग्यं बलं लेभे लोकसाक्षित्वमेव च ।
तां तिथिं प्राप्य मनुजः शनिभौमदिने यदि । प्रपूज-
येन्महादुर्गां धर्म्मकामार्थमोक्षदाम्” । शक्तिसङ्ग-
मतन्त्रे “कार्त्तिकस्य सिते पक्षे नबम्यां जगदीश्वरीम् ।
त्रिकालमेककालं वा वर्षे वर्षे प्रपूजयेत् । मृण्मयीं प्रतिमां
शक्त्या जयद्धात्र्या विधानतः । पूजयित्वा परदिने प्रतिमां
तां विसर्ज्जयेत् । पुत्रपौत्रधनैश्वर्य्य संयुताऽस्य भवेत् पुरी” ।
तन्त्रान्तरे । “कुजवारे युगाद्यायां नवम्यान्तु जगत्प्रसूः ।
प्रादुर्भूता महेशानी तत्र तां परिपूजयेत्” तन्त्रान्तरे । “त्रि-
कालं पूजयेद्दुर्गां मूलेनैकाक्षरेण च(दूँ) । नानारत्नविधा-
नेन गीतवाद्यपुरःसरम् । कार्त्तिकस्य सिते पक्षे नवम्याञ्च
विशेषतः । कृत्वैवं साधकश्रेष्ठो लभेद्राज्यमकण्टकम्” ।
योगिनीरन्त्रे “कार्त्तिकेऽमलपक्षे तु नवम्याञ्च विशे-
षतः । उद्बुद्धान्तु जगद्धात्रीं पूजयेद्दीपमालया” आगम
तत्त्वसारे “कार्त्तिकेऽमलपक्षे तु नवम्याः भौमवासरे ।
धाविर्भूता जगद्धात्री युगादौ दैत्यनाशिनी” । उत्तरकामा-
ख्यातन्त्रे “कार्त्तिके शुक्लपक्षे तु त्रेयायां प्रथमेऽ-
हनि । त्रिसन्ध्यं पूजयेद्देवीं दुर्गां मम्पत्प्रवृद्धये” ।
कुब्जिकातन्त्रे “कार्त्तिके शुक्लपक्षे तु नवम्यां
जगदम्बिकाम् । दुर्गां प्रपूजयेद्भक्त्या धर्म्मकामार्थसिद्धये ।
दुर्गाकल्पे विद्योत्पत्तौ “कार्त्तिके शुक्लपक्षेऽह्नि
भौमवारे जगत्प्रसूः । सर्वदेवहितार्थाय दुर्वृत्तशमनाय च ।
आविरासीत् जगच्छान्त्यै युगादौ परमेश्वरी” । व्रतकाल-
विवेकधृतवचनम् “कार्त्तिकेऽमलपक्षस्य त्रेतायां नवमेऽ-
हनि । पूजयेत्तां जगद्धात्रीं सिंहपृष्ठे निषेदुषीम्” । स्मृतिः ।
“युगाद्या वर्षवृद्धिश्च सप्तमी पार्वतीप्रिया । रवेरुदयमी-
क्षले न तत्र तिथियुग्मता” । कृत्यतत्त्वार्णवे “कार्त्तिके-
ऽमलपक्षे तु युगाद्या नवमी स्मृता । पूर्वाह्णसमये तत्र
पूजाविधिरिहोदितः” । कृत्यतत्त्वार्णवे भविष्यपुराणम्
“कार्त्तिके शुक्लपक्षे तु युगाद्या नवमी स्मृता । पूर्वाह्ण
समये काष्ठाव्यिका परदिने यदि । तत्प्व पूजादिकं कुर्य्यात्
पिण्डनिर्वपणादृते” । स्मृतिसागरे “कार्त्तिकस्य युगा-
द्यायामृद्धिकामोऽर्च्चयेदुमाम्” । ततश्च उक्तवचनेषु
तत्तिथेर्युगादित्वेन कीर्त्तनात् तत्पूजायाश्च युगाद्यदिन-
कर्त्तव्यत्वेन विधानात् पूर्वापरदिनयोस्तस्याः सम्बन्धे
परदिन एव कर्त्तुव्यता न तु युग्मशास्त्रेण अष्टमी
विद्धाया ग्राह्यता युगाद्या वर्षवृद्धिश्चेत्यादि वचनात्
यत्तु “श्रावणी दौर्गनवमी दूर्वा चैव हुताशिनी ।
पूर्बविद्धैव कर्त्तव्येत्यादि” वचनं तत् एतद्भिन्न
नवमीकर्त्तव्यदुगन्नितपरम् तच्च व्रतं व्रतशब्दे वक्ष्यमाणं
दृश्यम् । जगद्धात्रीविद्योत्पत्तिमाह कात्यापनीतन्त्रे
७६ पृ० । “पार्वत्युवाच । भगवन्! प्राणनाथेश! सर्व
तत्त्वविशारद! । श्रुता कात्यायनीविद्यासमुत्पत्तिस्त्रि-
लोचन! । महादुर्गाजगद्धात्रीविद्योत्पत्तिर्भवेद्यतः ।
तत् सर्वं ब्रूहि मगवन्! कृपया परमेश्वर! । इति देवी
प्रश्ने “श्रीशिव उवाच । शृणु पार्वति! वक्ष्यामि
रहस्यं परमाद्भुतम् । यत् श्रुत्वा लभते देवि!
सौमाग्यसुखमुत्तमम् । पुरा पुरन्दरमुखाः स्वेश्वरत्वाभि-
मानिनः । पाहुः किमीश्वरोऽस्त्यस्मानतिरिच्य सुरा-
निति । अप्य दुर्गा जगन्माता नित्या चैतन्यरूपिणो ।
एतेषां धर्मसेतूनामिन्द्रादीनां नियन्त्रणम् । करिष्या-
मीति निस्सिव्य ज्योतीरूपं दधावलम् । तेषामाविर
भूद्दुर्गा जगद्धात्री जगन्मयी । कोटिसूर्य्यप्रतीकाशं
चन्द्रकोटिसमप्रभाम् । ज्वलन्तं पर्वतमिव सर्वलोक
भयङ्करम् । तद्ददृशुः सुराः सर्वे भयमापुर्महौजसः ।
किमेतन्न विनिश्चेतुं शक्तास्ते ह्यभवन् सुराः । वायु
माहुः समाहूय किमेतत् परमाद्भुतम् । विजानीहि
मरुद्वीर मातरिश्वन्! दिशां पते! । ततो वायुर्द्रुतं तत्र गत
स्तेजोऽन्तिकं ततः । तमन्तिकमुपायातं प्राह तेजो
मयी ततः । बलवन्! कस्त्वमायातो वीर्य्यं किञ्चास्ति
वा त्वयि । आदातुं शक्यते सर्वं पृथिवीतलसम्भवम् ।
इति प्रत्युक्तवान् वायुः क्षणं तत्रैव तिष्ठति । आदत्स्वैतत्
तृणमिति निदधौ वायवे तृणम् । वायुः सर्वप्रयत्नेन
नादातुं तत्क्षमोऽभवत् । ततो देवाः प्राहुरग्निं भीता
उद्दिग्नमानसाः । अग्ने! एतद्विजानीहि किमेतत् कर्म
चाद्भुतम् । इत्युक्तो देवतावृन्दैरग्निस्तेजोऽन्तिकं गतः ।
अमरो जातवेदा वा तेजोवागित्युवाच तम् । स प्रोक्तवा-
नग्निरस्मि सर्वदाहकशक्तिकः । दहैतत् तृणमत्यल्प
मिति तस्मै तृणं ददौ । अग्निः सर्वप्रयत्नेन दग्धुं
नैततत्क्षमोऽभवत् । ततो निववृते वह्निर्भूत्वा सोऽपत्र-
पृष्ठ ३००६
पान्वितः । एकत्रस्थाः सुराः सर्वे मन्त्रयामासुरुत्तमम् ।
इयमेवेश्वरी नूनं स्तोष्यामोनेश्वरावयम् । इति निश्चित्य
सुधियस्तुष्टुवुः परमेश्वरीम् । प्राहुर्द्देवगणाः सर्वे
त्वमीशा नेश्वरा वयम् । ईश्वरत्वाभिमानेन यदस्माकं सुदु-
ष्कृतम् । क्षन्तुमर्हसि तत् सर्वं कृपया जगदम्बिके ।
तवरूपं सुगोप्यं यन्मङ्गल्यं सर्वमङ्गलम् । तद्द्रष्टुं
वयमिच्छामो देहि दर्शनमुत्तमम् । इत्युक्तानां सुबुद्धीनामा-
विरासीच्छिवाम्बरे । तेजस्यन्तर्हिते तस्मिन् चमत्कारि
कलेवरे । मृगेन्द्रोपरि सुस्मेरा सर्वालङ्कारभूषिता ।
चतुर्भुजा महादेवी रक्ताम्बरधरा शुभा । वालार्क
सदृशी देहे नागयज्ञोपवीतिनी । त्रिनेत्रा कोटिचन्द्रा-
भा देवर्षिगणसेविता । दर्शयामास देवानामेबं रूपं
जगन्मयी । ततस्तां तुष्टुवुर्देवा जगद्धात्रीं महेश्वरीम् ।
वरं प्रापुः सुरगणायथेष्टं त्रिदशालये । तत्रैवान्तर्हिता
देवी महादुर्गा जगन्मयी” । इयमेव कथा प्रायशः
केनोपनिषदि स्थिता तद्वाक्यञ्च इन्द्रशब्दे ९४२ पृ०
दर्शितम् । इयांस्तु विशेषः तत्र इन्द्रादिप्रबोधनाय
प्रादुर्भूतया ब्रह्मशक्त्या हैमवत्या ब्रह्महात्म्येनैव
इन्द्रादीनामसुरजयशक्तिरुक्ता अत्र तु शक्तिशक्तिम-
तोरभेदेन जगद्धात्रीरूपेणाविर्भूताया देव्या माहा-
त्म्योक्तिरिति ।

जगद्बल पु० जगतां बलमस्मात् । वायौ त्रिका० । तस्यैव

व्यानरूपस्ववृत्तिभेदात् सर्वबलजक्रियाहेतुत्वस्य भङ्ग्या
छान्दोश्ये उक्तत्वात् तस्य तथात्वम् यथा “अथोयान्यन्या-
नि वीर्य्यवन्ति कर्म्माणि यथाग्नेर्मन्थनमाजेः सरणं
दृतस्य धनुष आयमनमप्राणन्ननपानंस्तानि करोत्येतस्य
हेतोर्व्यानमेवोद्गीथमुपासीत” । बलस्य च सर्वक्रिया
हेतुत्वं छान्दोग्ये भूमविद्यायामुक्त यथा “बलं वाव
विज्ञानाद्भूयोऽपि ह शतं विज्ञानवताभको वलवानाकम्प-
यते स यदा बली भवत्यथोत्थाता भवत्युत्तिष्ठन् परिच-
रिता भवति परिचरन्नुपसत्ता भवत्युपसीदन्द्रष्टा भवति
श्रीता भवति मन्ता भवति बोद्धा भवति कर्त्ता भवति
विज्ञाता भवति बलेन वै पृथिवी तिष्ठति बलेनान्तरिक्षं
बलेन द्यौर्वलेन पर्वता बलेन देवमनुष्या बलेन पशवश्च-
वयांसि च तृणवनस्पतयः श्वापदान्याकीटपतङ्गपिपी-
लकं बलेन लोकस्तिष्ठति बलसुपास्स्वेति” । सर्वक्रियाणां
वायुकार्य्यत्वं च सुश्रुते दर्शितं यथा “वायव्याः स्पर्शः
स्पर्शेन्द्रियं सर्वचेष्टादयः सर्वशरीरस्पन्दनं लघुता च”
तेन सर्ववष्टान्तां वायुकार्य्यत्वोक्त्या बलस्य च तत्र हेतु-
त्वोक्त्या च वायोरेव बलहेतुत्वमवसीयते ।

जगद्योनि स्त्री जगता योर्वारिवोत्पत्तिस्थानत्वात् । १ परमे-

श्वरे तस्य जन्मादिहेतत्वात् तथात्वम् । २ शिवे ३ विष्णौ
४ चतुर्मुखे तु नद्वभेदोपचारात् “जगद्योनिरयोनि-
स्त्वम्” कुमा० ब्रह्मस्तवे । “जगद्योनिं जगद्दीपं जयिनं
जगतोगमिम” भा० भी० २० अ० शिवस्तवे । “नारायणं
जगद्योनिं पुराणं पुरुषं ध्रुवम्” हरिव० १०७ अ० ।
विष्णुस्तवे । ५ पृथिव्यां शब्दच० तस्याः भूतचतुष्टयोत्-
पत्तिस्थानत्वात् तथात्वम् ।

जगद्वहा स्त्री जगन्ति वहति धारयति वह--अच् । सर्व-

धरायां मेदिन्याम् त्रिका० ।

जगद्विनाश पु० जगतोऽखिलकर्म्मवतो विनाशोऽत्र ।

कल्पान्ते प्रलयकाले । प्रलये च सर्व्वक्रियाशून्यत्वं
यथाह मनुः । “यदा स्वपिति शान्तात्मा तदा सर्वं निमी
लति । तस्मिन् स्वपिति तु स्वस्थे कर्मात्मानः शरीरिणः ।
स्वकर्म्मभ्योनिवर्त्तन्ते मनश्च ग्नानिमृच्छति । युगपत्
प्रलीयन्ते यदा तस्मिन् महात्मनि । तदाये सर्वभूतात्म
सुखं स्वपिति निर्वृतः । तमीऽयन्तु समाश्रित्य
चिरन्तिष्ठति सेन्द्रियः । न च स्वं कुरुते कर्म्म तदोत्-
क्रामति मूर्त्तितः” ।

जगनु(न्नु) पु० जगता नम्यते नम--बा० कर्म्मणि डुवा

पृषो० तनोपः । १ जन्तौ वैश्वानरे २ वह्नौ च मेदि० । विश्वे
जगन्नु रिति पाठस्तत्रार्थे । तत्र जन्तोश्चेतनत्वेन
जगतां नम्यमानत्वात् वह्नेस्तु सर्वैर्नम्यमानत्वात् तथात्वम्

जगन्नाथ पु० ६ त० । १ परमेश्वरे “एष सर्वेश्वरः” इत्यादिश्रुतेस्तस्य

सर्वेश्वरत्वात् तथात्वम् । तदभेदात् २ विष्णौ । अर्श० अच् ।
३ तदीयक्षबभेदे न० तत्क्षेत्रस्य तन्नामताकारणं स्कन्दपु०
उत्कलखण्डे यथा “एतत्क्षेत्रवरं चास्य वपुर्भूतं
महात्मनः । स्वयम् वपुष्मान् यत्रास्ते स्वनाम्ना ख्यापितं
हि तत्” । तत्स्थानसीमातीर्थभेदादि पुरुषोत्तमतत्त्वे
उक्त यथा
ब्रह्मपुराण “पृथिव्यां मारतं वर्षं कर्म्मभूमिरुदाहृता ।
न खल्वन्यत्र मर्व्यानां भूमौ कर्म्म विधीयते । तत्रास्ते
भारते सर्वे दक्षिणोदधिसंस्थितः । ओड्रदेश इति
ख्यातः स्वर्गमीक्षप्रदायकः । समुद्रादुत्तरे तीरे
यावद्विरजमण्डलम्” । तीर्थकाण्डकल्पतरौ वामनपुराणम्
“उपोष्य रजनीमकां विरजां स नदीं ययौ । स्नात्वा
पृष्ठ ३००७
वैरजसे तीर्थे दत्त्वा पिण्डं पितुस्तथा । दर्शनार्थं
ययौ धीमानजितं पुरुषोत्तमम् । तं दृष्ट्वा पुण्डरीकाक्षम-
क्षरं परमं शुचिः । उपोष्य स तिलान् दत्त्वा महेन्द्र ।
दक्षिणं ययौ” । उपोष्य स्थित्वा । तथा “आदौ यद्दारु
प्लवते सिन्धोः प्रारे अपूरुषम् । तदालभस्वदुर्दूनो!
तेन याहि परं स्थलम्” तैत्ति० श्रुतिः । अस्य व्याख्या
सांख्यायनभाष्ये “आदौ विप्रकृष्टे देशे वर्त्तमानं यद्दारु
दारुमयं पुरुषोत्तमाख्यदेवताशरीरं प्लवते जलस्योपरि
वर्त्तते अपूरुषं निर्म्मातृरहितत्वेन अपूरुषं तत्
आलभस्व दुर्दूनो! हे! होतः, तेन दारुमयेन देवेन उपास्य-
मानेन परं स्थलं वैष्णवं लोकं गच्छेत्यर्थः । अथर्ववेदेऽपि
“आदौ यद्दारु प्लवते सिन्धोर्म्मध्ये अपूरुषम् । तदा
लभस्व दुर्दूनो तेन याहि परं स्थलम्” । अत्रापि
तथैवार्थः मध्ये तीरे । स्कन्दपुराणम् “इन्द्रद्युम्न!
प्रसन्नस्ते भक्त्या निष्कामकर्मभिः । उत्सृज्य वित्त-
कोटीस्तु यन्ममायतनं कृतम् । भङ्गेऽप्येतस्य राजेन्द्र!
स्थानं न त्यज्यते मया” । ब्रह्मपुराणे “विरजे विरजा
नाम ब्रह्मणा संप्रतिष्ठिता । तस्याः सन्दर्शने मर्त्यः
पुनात्यासप्तमं कुलम् । स्नात्वा दृष्ट्वा तु तां देवीं भक्त्याऽऽ
पूज्य प्रणम्य च । नरः स्ववंशमुद्धत्य मम लोकं स
गच्छति । आस्ते वैतरणी नाम सर्वपापहरा नदी ।
तस्यां स्नात्वा नरश्रेष्ठ । सर्वपापैः प्रमुच्यते” । वैतरणी
मधिकृत्य महाभारते “आयातभागं सर्वेभ्योभागेभ्यो
भागमुत्तमम् । देवाः सङ्कल्पयामासुर्भयाद्रुद्रस्य शाश्व-
तीम् । इमां गाथां समुद्धृत्य मम लोकं स गच्छति ।
देवायनं तस्य पन्थाः शक्रस्यैव विराजते” । ब्रह्मपुराणे
“आस्ते स्वयम्भूस्तत्रैव क्रोड़रूपी हरिः स्वयम् ।
दृष्ट्वा प्रणम्य तं भक्त्या मरोविष्णुपुरं व्रजेत्” । तथा
“विरजायां मम क्षेत्रे पिण्डदानं करोति यः । स
करोत्यक्षयां तृप्तिं पितॄणां नात्र संशयः । मम क्षेत्रे
मुनिश्रेष्ठ! विरजे ये कलेवरम् । परित्यज्यन्ति पुरुषास्ते
मोक्षं प्राप्नुवन्ति वै । नदी तत्र महापुण्या विन्ध्य-
पादविनिर्गता । चित्रोत्पलेति विख्याता सर्वपाप
हरा शुभा” । चित्रोत्पला महानदी । तथा “सत्यं
सत्यं पुनः सव्यं क्षेत्रं तत् परमं महत् । पुरुषाख्यं
सकृद्दृष्ट्वा सागराम्मःसकृन्मृतः । ब्रह्मविद्यां
सकृज्जत्वा गर्भवासो न विद्यते” । पुरुषोत्तमक्षेत्रदर्शनसागर-
मरणब्रह्मविद्याजपानां प्रत्येकं गर्मवासाजनकत्वम् ।
कूर्म्मपुराणे “तीर्थं नारायणस्यास्य स्नात्वा तु पुरुषो-
त्तमम् । अत्र नारायणः श्रीमानास्ते परमपूरुषः ।
पूजयित्वा परं विष्णुं तत्र स्नात्वा द्विजोत्तमाः! । ब्राह्म-
णान् भोजयित्वा तु विष्णुलोकमवाप्नुयात्” । श्राद्ध-
कल्पतरौ वायुपुराणे “धूतपापं तथा तीर्थं सुभद्रा-
दक्षिणस्तथा । गोकर्णोगजकर्णश्च तथा च पुरुषोत्तमः ।
एतेषु पितृतीर्थेषु श्राद्धमानन्त्यमश्नुते” । व्रह्मपुराणे
“चक्रं दृष्ट्वा हरेर्दूरात् प्रासादोपरिसस्थितम् ।
सहसा मुच्यते पापात् सर्वस्मादिति मे मतिः” । तथा
“मार्कण्डेयह्रदे गत्वा स्नात्वा चोदङ्मुखः शुचिः ।
निमज्जेत्त्रींश्च वारांश्च इमं मन्त्रमुदीरयन्” । “मार्क-
ण्डेयह्नदे त्वेवं स्नात्वा दृष्ट्वा तु शङ्करम् । दशानामश्व-
मेधानां फलं प्राप्नोति मानवः । पापैः सर्वैर्बिनिर्मुक्त्वः
शिवलोकं स गच्छति । तत्र भुक्त्वा वरान् भोगान्
यावदाहूतसंपलवम् । इह लोकं सामासाद्य ततो
मोक्षमवाप्नुयात् । कल्पवृक्षं ततो गत्वा कृत्वा तं त्रिः-
प्रदक्षिणम् । पूजयेत् परया भक्त्या मन्त्रेणानेन तं
वटम्” । “भक्त्या प्रदक्षिणं कृत्वा महाकल्पवटं
नरः । सहसा मुच्यते पापात् जीर्णत्वच इवोरगः ।
छायां तस्य समासाद्य कल्पवृक्षस्य भो द्विजाः! ।
ब्रह्महत्यां नरो दह्यात् पापेष्वन्येपु का कथा । दृष्ट्वा
कृष्णाङ्गसम्भूतं ब्रह्मतेजोमयं वटम् । न्यग्रोधाकृतिनं
विष्णुं प्रणिपत्य च भोद्विजाः! । राजसूयाश्वमेधाभ्यां
फलं प्राप्नोति चाधिकम् । तथा स्ववशमुद्वृत्य विष्णु-
लोकं स गच्छति । वैनतेयं नमस्कृत्य कृष्णस्य पुरतः
स्थितम् । सर्वपापविनिर्मुक्तस्ततोविष्णुपुरं व्रजेत् ।
दृष्ट्वा वटं वैनतेयं यः पश्येत् पुरुषोत्तमम् । सङ्कर्षणं
सुभद्राञ्च स याति परमां गतिम् । प्रविश्यायतनं विष्णोः
कृत्वा तं त्रिःप्रदक्षिणम् । सङ्कर्षणं स्वसन्त्रेण भक्त्व्याऽऽ
पूज्य प्रसादयेत्” । एवं प्रसाद्य चानन्तमजेयं त्रि-
दशार्च्चितम् । कैलाशशिखराकारं चन्द्रात् कान्ततराननम् ।
नीलवस्त्रधरं देवं फणाविकलमस्तकम् । महावलं हलधरं
कुण्डलैकविभूषणम्! रौहिणेयं नरोभक्त्या लभेताभि-
मतं फलम् । सर्व्वपापविनिर्म्मुक्तोविष्णुलोकं
स गच्छति । आहूतसंप्लवं यावत् भुक्त्वा तत्र सुखं नरः ।
पुण्यक्षयादिहागत्य पवरे योगितां कुले । ब्राह्मणप्रव-
रोभूत्वा सर्व्वशास्त्रार्थपारगः । ज्ञानं तत्र समासाद्य
मुक्तिं प्राप्नोति दुर्लभान् । एवगभ्यर्च्च्य हलिनं ततः
पृष्ठ ३००८
कृष्णं विचक्षणः । द्वादशाक्षरमन्त्रेण पूजयेत् सुममा-
हितः” । आहूतसंप्लवं यावत् भूतसंप्लवं यावत् आप्रलय
कालम् इति यावत् छान्दसोभकारस्य हकारः । द्वाद-
शाक्षरमन्त्रेण ॐ नमोभगवते वासुदेवाय इत्यनेन ।
“द्विषट्कवर्णमन्त्रेण भक्त्या ये पुरुषोत्तमम् । पूजयन्ति
सदा धीरास्ते मोक्षं प्राप्नुवन्ति वै । तस्मात्तेनैव मन्त्रेण
भक्त्या कृष्णं जगद्गुरुम् । संपज्य गन्धमाल्याद्यैः
प्रणिपत्य प्रसादयेत्” एवं प्रसाद्य देवेशं वरदं भक्तवत्स-
लम् । सर्वपणहरं देवं सर्वकामफलप्रदम् । ज्ञानदं द्वि-
भुजं देवं पद्मपत्रायतेक्षणम् । महोरसं महाबाहुं
पीतवस्त्रं शुभाननम् । शङ्खचक्रगदापाणिं मुकुटाङ्गद-
भूषणम् । सर्वलक्षणसंयुक्तं वनमालाविभूषितम् । दृष्ट्वा
नरोऽञ्जलिं बद्ध्वा दण्डवत् प्रणिपत्य च । अश्वमेध-
सहस्राणां फलं प्राप्नोति भोद्विजाः! । यत् फलं सर्व-
तीर्थेषु स्नानदाने प्रकीर्त्तितम् । नरस्तत् फलमाप्नोति
दृष्ट्वा कृष्णं प्रणम्य च” । अत्र यद्यपि दृष्ट्वा प्रणम्योति
श्रवणात् समुच्चितएव फलान्वयोऽन्यथा वाक्यभेदः स्यात्
तथापि शेषे दर्शनमात्र एव फलोपसंहारात् प्रत्येकं
फलान्वयैति वदन्ति । ब्रह्मपुराणे “ततः पूज्य स्वम-
न्त्रेण सुभद्रां भक्तवत्सलाम् । प्रसादयेत्ततोविप्राः! प्रणि
पत्य कृताञ्जलिः” । स्वमन्त्रेण प्रणवादिनमोन्तेन
नाम्ना । यथा गारुड़े “प्रणवादिनमोऽन्तेन चतुर्थ्यन्तञ्च
सत्तमाः! । देवतायाः स्वकं नाम मूलमन्त्रः प्रकीर्त्तितः” ।
“एवं प्रमादा तां देवीं जगद्धात्रीं जगद्धिताम् । बलदेवस्य
भगिनीं सुभद्रां वरदां शिवाम् । कामगेन विमानेन
नरोविष्णुपुरं व्रजेत् । निष्क्रम्य देवतागारात्
कृतकृत्योभवेन्नरः । प्रणम्यायतनं पश्चात् वजेत्तत्र च
भोद्विजाः! । भक्त्या दृष्ट्वा च तं देवं प्रणम्य नरकेशरिम् ।
मुच्यते पातकैर्म्मर्त्यः समस्तैर्नात्र संशयः” । नरकेशरिं
नरकेशरिणम् । तथा ‘अनन्ताख्यं वासुदेवं दृष्ट्वा
भक्त्या प्रणम्य च । सर्वपापविनिर्मुक्तोनरोयाति
परंपदम्’ । तथा “श्वेतगङ्गां नरः स्नात्वा यः पश्येत्
श्वेतमाधवम्” । तथा “कुशाग्रेणापि राजेन्द्र! श्वेत-
गाङ्गेयमम्वु च । स्पृष्ट्वा स्वर्गं गमिष्यन्ति मद्भक्ता ये
समाहिताः । यस्त्विमां प्रतिमां लोके माधवाख्यां
शशिप्रभाम् । विहाय सर्वलोकान् वै मम लोके मही
यते” । तथा “श्वेतमाधवमालोक्य समीपे मत्स्य-
माधवम् । एकार्णवजले मग्नं रोहितं रूपमास्थितम् ।
वेदानां तारणार्थाय रसातलतले स्थितम्” । तथा
“आद्यावतारणं रूपं माधवं मत्स्यरूपिणम् । प्रणम्य
प्रयतोभूत्वा सर्व्वदुःखाद्विमुच्यते” । तथा “पूर्व्वोक्तेन
तु मन्त्रेण नमस्कृत्य तु तं वटम् । दक्षिणाभिमुखो-
गच्छेत् धन्वन्तरशतत्रयम्” । धनुश्चतुर्हस्त्वम् । तथा “उग्र
सेनं पुरा दृष्ट्वा स्वर्गद्वारेण सागरम् । गत्वाचम्य शुचि-
स्तत्र ध्यात्वा नारायणं परम् । न्यसेदष्टाक्षरं मन्त्रं
पश्चाद्धस्तशरीरयोः” । “समुद्रोदकेन नाचामेत्” तस्या-
पेयत्वस्य तैत्तिरीयश्रुतावुक्तत्वात् । “यैः कृतः सर्वभक्षो-
ऽग्निस्त्वपेयश्च महोदधिः । क्षयी चाप्यायितश्चन्द्रः
कोन नश्येत् प्रकोप्य तान्” इति मनुनाभिहित-
त्वाच्च” तस्यास्मृश्यत्वेऽपि विधिभेदेनैव तस्य स्पृश्यता
यथाह ब्रह्मपुराणम्
“एवमुच्चार्य्य विधिवत्ततःस्नानं समाचरेत् । अन्यथा
भोद्विजश्रेष्ठाः! स्नानं तत्र न शस्यते” । वनपर्वणि
“अग्निश्च तेजो वड़वा च देहोरेतोधाविष्णोरमृतस्य
नाभिः । एवं ब्रुवन् पाण्डव! सत्यवाक्यमतोऽवगाहेत
अप्तिं नदीनाम् । अन्यथा हि कुरुश्रेष्ठ! स्प्रष्टव्योन
महौदधिः । कुशाग्रेणापि कौन्तेय! देवयोनिरपां-
पतिः । देवान् पितॄंस्तथा चान्यान् सन्तर्प्याचम्य
वाग्यतः” (अन्यान् ऋषीत्) ब्रह्मपु० । “कृत्वा त्वाब्दैवतै
र्मन्त्रैरभिषेकञ्च मार्ज्जनम् । अन्तर्जले जपेत् पश्चात्
त्रिरावृत्त्यघमर्षणम्” । अव्दैवतैः “आपोहिष्ठा” इत्या-
दिभिः । अघमर्षणम ऋतञ्च सत्यञ्चेत्यादि । “हस्तमात्रं
चतुःकोणं चतुर्द्वारं सुशोभनम् । पुरं विलिख्य भो
विप्रास्तीरे तग्य महोदधेः । एवं मण्डलमालिख्य पूजये
त्तत्रभोद्विजाः! । अष्टाक्षरविधानेन नारायणमजं
विभुम् । ॐनमो नारायणाय” इत्यष्टाक्षरमन्त्रः ।
ब्रह्मपुराणे “तीर्थे चाभ्यर्च्च्य विधिवत् नारायणमना-
मयम् । रामं कृष्णं सुभद्राञ्च प्रणिपत्य च सागरम् ।
दशानामश्वमेधानां फलं प्राप्नोति मानवः । सर्वपाप-
विनिर्मुक्तः सर्वदुःखविवर्जितः । कुलैकविंशमुद्धृत्य विष्णु-
लोकञ्च गच्छति । पितॄणां ये प्रयच्छन्ति पिण्डं तत्र
विधानतः । अक्षयां पितरस्तेषां तृप्तिं संप्राप्नुवन्ति
वै” । तथा “कोट्यो नव नवत्यश्च तत्र तीर्थानि सन्ति वै ।
तस्मात् स्नानञ्च दानञ्च होमं जपसुरार्च्चनम् । यत्
किञ्चित् क्रियते तत्र चाक्षयं भवति द्विजाः! ।
ततोगच्छेतद्विजश्रेष्ठाः! तीर्थं यज्ञाङसम्भवम् ।
पृष्ठ ३००९
इन्द्रद्युम्नसरोनाम यत्रास्ते पावनं शुभम् । गत्वा
तत्र शुचिः श्रीमानाचम्य मनसा हरिम् । ध्यान्वो-
पस्थाय च जपन्निदं मन्त्रमुदीरयेत्” । “एवमुच्चार्य्य
विधिवत् स्नात्वा देवानृषीन् पितॄन् । तिलोदकेन
चान्यांश्च सन्तर्प्याचम्य वाग्यतः । दत्त्वा पितॄणां
पिण्डांश्च संपूज्य पुरुषोत्तमम् । दशाश्वमेधिकं सम्यक्
फलं प्राप्नोति मानवः” । तथा “नाना नद्यः समुद्राश्च
सप्ताहं पुरुषोत्तमे । ज्येष्ठशुक्लदशम्यादि प्रत्यक्षं यान्ति
सर्वदा । स्नानदानादिकं तस्मात् देवताप्रेक्षणादिकम् ।
यत् किञ्चित् क्रियते तात! तस्मिन् । कालेऽक्षयं भवेत् ।
एवं कृत्वा पञ्चतीर्थमेकादश्यामुपोषितः” । “ज्यैष्ठे शुक्ल
दशम्यान्तु पश्येत् श्रीपुरुषोत्तमम् । स पूर्वोक्तं फलं
प्राप्य क्रीड़ित्वा चाच्युतालये । प्रयाति परमं स्थानं
यस्मान्न विनिवर्त्तते” । तीर्थभेदेन स्नानान्तरावृत्तिमाह
निगमः । “नावर्त्तयेत् पुनः कर्म्म तर्पणादिकम-
न्वहम् । काम्यनैमित्तिके हित्वा एकं ह्येकत्र वासरे ।
व्यपोह्य चाष्टमं भागमुदयाद्यत्र कुत्रचित् । तिथ्यो-
र्युग्मेऽप्ययुग्मे वा यद्यदाह्निकमाचरेत्” । ब्रह्मपु०
“मार्कण्डेयाबटः कृष्णोरौहिणेयोमहोदधिः । इन्द्र-
द्युम्नसरश्चैव पञ्चतीर्थी विधिः स्मृतः” । मार्कण्डेया-
वटोमार्कण्डेयह्रदः । कष्णोऽक्षयवटः “न्यग्रोधाकृतिनं
विष्णुमिति” पूर्वोक्तात् । वराहपुराणे “यस्तिष्ठेदेक-
पादेन कुरुक्षेत्रे नराधिप! । वर्षाणामयुतं सप्त वायु-
भक्षोजितेन्द्रियः । ज्यैष्ठे मासि सिते पक्षे द्वादश्यान्तु
विशेषतः । पुरुषोत्तममासाद्य ततोऽधिकफलं लभेत् ।
अग्निपुराणे “वैशाखस्य सिते पक्षे तृतीयाक्षयसंज्ञिता ।
तत्र मां लेपयेद्गन्धलेपनैरतिशोभनम्” । तथा “ज्यै-
ष्ठ्यामहञ्चावतीर्णस्तत् पुण्यं जन्मवासरम् । तस्यां मे
स्नपनं कुर्य्यात् महास्नानविधानतः । ज्यैष्ठे प्रातस्तने
काले ब्रह्मणा सहितञ्च माम् । रामं सुभद्रां संस्नाप्य
मम लोकमवाप्नुयात्” । तथा “आषाढम्य सिते पक्षे
द्वितीया पुष्यसंयुता । तस्यां रथे समारोप्य रामं मां
भद्रया सह । यात्रोत्सवं प्रवर्त्त्याथ प्रीणयेच्च द्विजान्
बहून्” । तथा “पुष्याभावात्तथा कार्य्या सदा सा
प्रीतये मम” । स्कन्दपुराणे “फाल्गुन्यां क्रीड़नं
कुर्य्यात् दोलायां मम भूमिप!” । ब्रह्मपुराणे “उत्तरे
दक्षिणे विप्रास्त्वयने पुरुषोतमे । दृष्ट्वा रामं सुभद्राञ्च विष्णु
लोकं व्रजेन्नरः । नरोदोलागतं दृष्ट्वा गोविन्दं पुरु-
षोत्तमम् । फाल्गुन्यां संयतोभूत्वा गोविन्दस्य पुरं
व्रजेत् । विषुवद्दिवसे प्राप्ते पञ्चतीर्थीविधानतः ।
कृत्वा मञ्चगतं कृष्णं दृष्ट्वा तत्राथ भोद्विजाः । नरः
समस्तयज्ञानां फलं प्राप्नोति दुर्लभम् । विमुक्तः सर्व-
पापेभ्योविष्णुलोकञ्च गच्छति । यः पश्यति तृती-
यायां कृष्णं चन्दनरूषितम् । वैशाखस्य सिते पक्षे स
यात्यच्युतमन्दिरम्” । तथा “मासि ज्यैष्ठे तु संप्राप्ते
नक्षत्रे शक्रदैवते । पौर्णमास्यां तथा स्नानं सर्वकालं
हरेर्द्विजाः । तस्मिन् काले तु ये मर्त्याः पश्यन्ति पुरु-
षोत्तमम् । बलभद्रं सुभद्राञ्च ते यान्ति पदमव्ययम् ।
तथा “स्नातः पश्यति यः कृष्णं व्रजन्तं दक्षिणामुखम् ।
गुण्डिकामण्डपं यान्तं ये पश्यन्ति तथास्थितम् । कृष्ण
वलं भुभद्राञ्च ते यान्ति भवनं हरेः । ये पश्यन्ति तदा
कृष्णं सप्ताहं मण्डपे स्थितम् । हरिं रामं सुभताञ्च
विष्णुलोकं व्रजन्ति ते” । तथा, सम्बत्सरमुपोषित्वा
मासत्रयमथापि वा । तेन जप्तं हुतं तेन तेन तप्तं तपोम-
हत् । स याति परमं स्थानं यत्र योगेश्वरोहरिः” ।
तथा “दृष्ट्वा रामं महाज्यैष्ठ्यां कृष्णं सह सुभद्रया ।
विष्णुलोकं नरो याति समुद्धृत्य शतं कुलम्” । तथा “वार्षि
कांश्चतुरोमासान् यावत् स पुरुषोत्तमे । काशीवासयुगा-
न्यष्टौ दिनेनैकेन लभ्यते” । मत्स्यपुराणे “कोटिजन्मकृतं
पापं पुरुषोत्तमसन्निधौ । कृत्वा सूर्य्यग्रहे स्नानं विमु-
ञ्चति महोदधौ’ । ब्रह्मपुराणे “पथि श्मशाने गृहम-
ण्डपे वा रथ्याप्रदेशेऽपि च यत्र तत्र । इच्छन्ननिच्छन्न-
पि यत्र तत्र संत्यज्य देहं लभते च मोक्षम् । देहं
त्यजन्ति पुरुषाः ये तत्र पुरुषोत्तमे । कल्पवृक्षं समासाद्य
मुक्तास्तेनात्र संशयः । वटसागरयोर्मध्ये ये त्यजन्ति
कलेवरम् । ते दुर्लभं परं मोक्षमाप्नुवन्ति न संशयः” ।
तत्रैव “तथा चैवोत्कले देशे कीर्त्तिवासा महेश्वरः । सर्व-
पापहरं तस्य क्षेत्रं परमदुर्लभम् । लिङ्गकोटिसमायुक्तं
वाराणस्या समं शुभम् । एकाम्रकेति विख्यातं तीर्था
ष्टकसमस्थितम् । तीर्थं विन्दुसरोनाम तस्मिन् क्षेत्रे द्विजो
त्तमाः! । देवानृषीन् मनुष्यांश्च पितॄन् सन्तर्पयेत्ततः ।
तिलोदकेन विधिना नामगोत्रविधानवित् । स्नात्वैवं
विधिवत्तत्र सोऽश्वमेधफलं लभेत् । पिण्डं ये संप्रयच्छन्ति
पितृभ्यः सरसस्तटे । पितॄणामक्षयां तृप्तिं ते कुर्व्वन्ति
न संशयः । ततः शम्भोर्गृहं गच्छेद्वाग्य तः संयते-
न्द्रियः । प्रविश्य पूजयेत् पूर्वं कृत्वा तत्र प्रदक्षिणम् ।
पृष्ठ ३०१०
ग्रगमोक्तेन मन्त्रेण वेदोक्तेन च शङ्करम् । अदीक्षितश्च
वा देवान् म्लमन्त्रेण चाच्चयेत्” । तथा सर्वपापविनि-
र्मुक्तोरूपयोवनगर्वितः । कुलैकविंशमुद्धृत्य शिवलोकं स
गच्छति’ । पश्येद्देवं विरूपाक्षं देवीञ्च शारदां शिवाम् ।
गणचण्डं कार्त्तिकेयं गणेशं वृषमं तथा । कल्पद्रुमञ्च
सावित्रीं शिवलोकं स गच्छति । एतन्मया मुनिश्रेष्ठाः ।
क्षेत्रं प्रोक्तं सुदुर्लभम् । कोलार्कस्योदधेस्तीरं भक्तिमुक्ति
फलप्रदम् । स्नात्वैव सागरे दत्त्वा सूर्य्यायार्घं प्रणम्य
च । नरोवा यदि वा नारी सर्वकामफलं लभेत् । ततः
सूर्य्यालयं गच्छेत् पुष्पमादाय वाग्यतः । प्रविश्य
पूजयद्भानुं कुर्य्यात्त त्रिःप्रदक्षिणम् । दशानामश्वमेधानां
फलं प्राप्नोति भानवः” स्कन्दपु० उत्कलखण्डे ।
“तथा चानदिनं देव्याः सिद्धाः ब्रह्मर्षयस्तथा । समर्च्चि
तुमिहायान्ति देवेशं न तथान्यतः । अहो तत्परमं
क्षत्रं विस्तृतं दशयोजनैः । तीर्थराजस्य सलिलादुत्थितं
वाल्काचितम् । नीलाचलन महता मध्यस्थेन विराजि-
तम् । एक स्तनमिव पृथ्व्याः सुदूरात् परिभावितम्” ।
ब्रह्माणं प्रति विष्णुवाक्यम् । “सागरस्योत्तरे तीरे महा
नद्यास्तु दक्षिणे । स प्रदेशः पृथिव्यां हिं सर्व्वतीर्थ
फलप्रदम एकाम्रकाननाद् यावद् दक्षिणोदधितीरभूः ।
पदात् पदात् श्रेष्ठतमः क्रमेण परिकीर्त्तितः! सिन्धु
तीरे च यो ब्रह्मन् गजते नीलपर्व्वतः । पृथिव्यां
गोपितं स्थानं तव चापि सुदुर्लभम् । सुरासुराणां दुर्ज्ञेयं
माययाच्छादित मम । सर्व्वसङ्गपरित्यक्त स्तत्र तिष्ठामि
देहभृत् । सृष्ठ्या लयेन नाक्रान्तं क्षेत्रं मे पुरुषोत्तमम् ।
नीलाद्रेरन्तरभुवि कल्पन्यग्रोधमूलतः । वारुण्यां दिशि-
यत् कुण्डं रोहिणं नाम विश्रुतम् । तत्तीरे निवसन्तो
मां पश्यलश्चर्मचक्षुषा । तदम्भसा क्षीणपापा मम
सायुज्यमाप्नुयुः । व्रतेषु तीर्येषु च यज्ञदानयोः पुण्यं
यदुक्त विमलात्मनां हि । अहर्निवासाल्लभते च सर्वं
निमेबवासात् खलु चाश्वमेधिकम्” “जैमिनिरुवाच ।
उदकार्तः समागत्य कुतश्चिद्वायसोत्तमः । कारणोदक
संपूर्णे तस्मिन्कुण्डे निमज्जितः । विलोक्य माधवं
नीलरत्नकान्तिं कृपानिधिम् । काकदेहं समुत्सृज्य
लुठमानं मुहुः क्षितौ । शङ्खचक्रगदापाणिस्तस्य पार्श्वे
व्यवस्थितः” । यमं प्रति लक्ष्मी वाक्यम् । “पञ्चक्रोशमिदं
क्षेत्र समुद्रान्तर्व्यवस्थितम् । त्रिकोश तीर्थराजस्य तट
भूमौ सुनिर्म्मलम् । सुवर्णवालुकाकीर्णं नीलपर्ब्बत
शोभितम् । योऽसौ विश्वेश्वरो देवः साक्षान्नारायणात्म-
कः । संयम्य विषयग्रामं समुद्रतटमास्थितः ।
उपासितुं जगन्नाथं चतुःषष्ट्युत्तमः प्रभुः । यमेश्वर इतिख्या-
तो यमसंयमनाशनः । यं दृष्ट्रा पूजयित्वा तु कोटि
लिङ्गफलं लभेत् । सीमा प्रतीचि क्षेत्रस्य शङ्खाकारस्य
मूर्द्धनि । शङ्खाग्रे नीलकण्ठः स्यादेतत् क्रोशं सुदुर्लभम् ।
परमं पावनं क्षेत्रं साक्षान्नारायणस्य वै । शङ्खस्योत्तर-
भागस्तु समुद्रोदकसंप्लुतः । यत्सम्पर्कात् समुद्रोऽत्र
तीर्थराजत्वमागतः । यथाऽयं भगवान् मुक्तिप्रदोदृष्टि
पथं गतः । तथेदं मरणात् क्षेत्र सिन्धुस्नानाद्विमुक्ति-
दम् । चिच्छेद ब्रह्मणः पूर्व्वं रुद्रः क्रोधात्तु पञ्चमम् ।
तच्छिरो दुस्त्यजं ब्रह्मन् । व्रह्माण्डं परिवभ्रमे । तत्रागतो
यदा ब्रह्म कपालं परिमुक्तवान् । कपालमोचनं तीर्थं
द्वितीयावर्त्तसंस्थितम् । तस्य दक्षिणपार्श्वे तु मरणं
भवमोचनम् । तृतीयावर्त्तसीमायां शक्तिं मे
विमलाह्वयाम् । जानीहि धर्मराज! त्वं भुक्तिमुक्तिफल
प्रदाम् । नाभिदेशे स्थितं ह्येतत् त्रयं कुण्डं वटो विभुः
कपालमोचनं यावदर्द्धाशनी प्रतिष्ठिता । मध्यं शङ्ख-
स्य जानीयात् सुगुप्तं चक्रपाणिना । तां दृष्ट्वा प्रणमे-
द् यस्तु भोगान् सोऽश्नाति शाश्वतान् । सिन्धुराजस्य
सलिलात् यावन्मूलं वटस्य वै । कीटपक्षिमनुष्याणां
मरणात् मुक्तिदो मतः । अन्तर्वेदीतीयं पुण्या वाञ्छ्यते
त्रिदशैरपि । अत्रस्थितान् हि पश्यन्ति सर्व्वांश्चक्राब्ज-
धारिणः । कामाख्या क्षेत्रपालश्च विमलां चान्तरा स्थि-
ता । साक्षाद्ब्रह्म स्वरूपोऽसौ नृसिंहो दक्षिणे विभोः ।
अन्तर्वेद्या रक्षणार्थं शक्तयोऽष्टौ प्रकल्पिताः । उग्रेण
तपसा पूर्वमहं सर्वेण भाविता । पत्न्यर्थं सा मया सृष्ट्वा
गौरी तप्त्वाथ भाविनी । सर्वसौन्दर्य्यवसतिर्वपुषोमे
विनिर्गता । तदा दृष्टा मया भद्रे वचनं मे प्रियं कुरु ।
अन्तर्वेदीं रक्ष मम परितस्त्वं स्वमूर्त्तिभिः । साऽत्र तिष्ठति
मत्प्रीत्या अष्टधा दिक्षु संस्थिता । मङ्गला वटमूले तु
पश्चिमे विमला तथा । शङ्खस्य पूर्वभागे तु सस्थिता सर्व
मङ्गला । अर्द्धाशनी तथा लम्बा कुवेरदिशि संस्थिता ।
कालरात्रिर्दक्षिणस्यां पूर्व्वस्यान्तु मरीचिका । कालरा-
त्व्यास्तथा पश्चात् चण्डरूपा व्यवस्थिता । रुद्राण्या
श्चाष्टधा भेदं दृष्ट्वा रुद्रोऽपि शङ्करः । आत्मानमष्टधा
भित्त्वा उपास्ते परमेश्वरम् । कपालमोचनं नाम
क्षेत्रपालं यमश्वरम् । मार्कण्डेयं तथेशानं विश्वेशं
पृष्ठ ३०११
नीलकण्ठकम् । वटमूले वटेशञ्च लिङ्गान्यष्टौ महेशितुः ।
यानि दृष्ट्वा तथा स्पृष्ट्वा पूजयित्वा विमुच्यते” ।
तन्नैवेद्यान्नस्य चण्डालादिस्पर्शे स्थानभेदे भोज्यता ।
कैश्चिदपि निबन्धृभिः तन्नैवेद्यान्नस्य चण्डालादिना
स्पर्शे भोज्यताया अनुक्तेः तन्मूलीभूतवचनानाम
मूलकत्वं निबन्धृभिरधृतत्वात् समूलकत्वे तत्क्षेत्र-
मध्ये एव भक्ष्यता तथाहि “प्रविशन्तस्तु तत्क्षेत्रं
सर्वेः स्युर्विष्णुमूर्त्तयः । यत्रान्नपाचिका लक्ष्मर्भोक्ता
यत्र जनार्दनः । चण्डालेनापि संस्पृष्टं ग्राह्यं तत्रा-
न्नमग्रजैः” ब्रह्मवैवर्त्तपुराणवचनस्य समूलत्वे
तत्क्षत्रप्रवेशमात्रेण सर्वेषाम् विष्णुमूर्त्तित्वनिर्देशेन तत्क्षेत्र-
स्थे एवान्त्यजादिस्पर्शे न दुष्टत्वं नान्यत्री । “विष्ण्वालय-
गतं तद्धि निर्माल्यं पतितादयः । स्पृशन्ति चेन्न दुष्टं हि
यथा विष्णुस्तथैव ते” इति उत्कलखण्डीयवाक्यस्य
समूलत्वे विष्ण्वालयगतमिति विशेषणात् तत्रैव तस्य स्पर्शदो-
षराहित्यं नेतरत्र । यत्तु “चिरस्थमपि संशुष्कं नीतं
वाऽदूरदेशतः । यथा तयोपयुक्तं तु सर्वपापापनोदनम्”
तत्रत्यवाक्यान्तरम् तत्र नीतं वाऽदूरदेशत इत्यकार
प्रश्नेषः वोध्यः वा एवार्थे अदूरत एव निकटेस्थितमेव
नीतं केनापि दुष्टतामिति व्याख्येयम् पूर्व्वोक्तवचनद्वयैक-
वाक्यत्वात् । वैष्णवास्तु तन्न मन्यन्ते । ते हि सर्वत्र तदन्न-
स्योपयोगं कुर्वन्ति । वङ्गदेशीयानां स्मार्त्तानां तु अन्य-
स्थानगतस्य पावनत्वेऽपि न भक्षणाचरणम् । “शाल्ग्रामो
हरेर्मूर्त्तिर्जगन्नाथस्य भारत! । कलेर्दशसहस्रान्ते त्यक्त्वा
यायात् हरेः पदम्” ब्रह्मवै० पु० । “कलेर्दश सहस्राणि
विष्णुस्तिष्ठतिमेदिनीम् । तदर्द्धं जाह्नवीतोयं तदर्द्धं
ग्राम्यदेवता” इति च पठन्ति । “विमला तत्र देवः स्यात्
जगन्नाथस्तु भैरवः” इति तन्त्रोक्ते तत्क्षेत्रस्थे पीठरक्षके
३ भैरवभेदे पु० । भामिनीविलासरसगङ्गाधरादिग्रन्थकारके
४ विद्वद्भेदे । “जगन्नाथस्यायं सुरधुनि! समुद्धारसमयः”
तत्कृतगङ्गालहरी

जगन्निवास पु० ६ त० । १ परमेश्वरे तदभेदात् २ विष्णौ च

“जगन्निवासो वसुदेवसद्मनि” माघः । ईश्वरस्य प्रलये
सर्वभूताधारत्वात् तथात्वम् ।

जगन्मङ्गल न० जगतां मङ्गलं यस्मात् । कालीकवचभेदे

“श्रीजग न्मङ्गलं नाम कवचं पूर्वसूचितम्” भैरवीत० ।

जगन्मोहिनी स्त्वी जगन्ति मोहयति मुह--णिच्--णिनि

६ त० । १ महामायायां २ तदभिमानिन्यां दुर्गायां च ।

जगर पु० जागर्त्तियुद्धे ऽनेन जागृ--अच् पृषो० ।

कवचे हेम० ।

जगल पु० जन--ड गल--अच् कर्म्मधा० । १ सुराकल्के

(मेओया) अमरः २ मदनवृक्षे ३ पिष्टमद्ये ४ धूर्त्ते त्रि०
मेदि० कवचे न० हेम० । गोमये न० रत्नमाला । तत्र
सुराकल्कगुणाः भावप्र० उक्ता यथा “ग्राह्युष्णोऽजगलः
पक्ता रूक्षतृट्कफ शोफहृत्” ।

जग्ध त्रि० अद--कर्म्मणि क्त । १ भुक्ते अमरः मावे क्त ।

२ भोजने न० ।

जग्धि स्त्री अद--क्तिन् । १ भोजने, २ सहभोजने च अमरः । “गर्हितान्नाद्ययोर्जग्धिः” स्मृतिः ।

जग्मि पु० गम--किन् द्वित्वम् १ वायौ तस्य सततगतित्वात्

तथात्वम् । २ गन्तरित्रि० स्त्रियां वा ङीप् ।

जगुरि त्रि० गॄ--निगरणे किन् द्वित्वं वेदे उत्त्वम् ।

उद्गूर्ण्णे । “दूरे ह्यध्वा जगुरिः पराचैः” ऋ० १० ।
१०८ । १ । २ जङ्गमे च “इमामृचमधिकृत्य जगुरिः जङ्ग-
म्यतेः” ११ । २५ । निरुक्ते उक्तेस्तथात्वम्

जघन न० वक्रं हन्ति हन--यङ् अच् पृषो० । स्त्रीणां

१ श्रीणिपुरोभागे, २ श्रोणौ च । “चीनांशुकमिव
पीनस्तनजघनायाः कुलीनायाः” उद्भटः । “जघनेन
घनेन सा” भट्टिः । “गङ्गायमुनयोर्मध्ये पृथि-
व्या जघनं स्मृतम् । प्रयागं जघनस्थानम्” भा०
व० ८५ अ० ।

जघनकूपक पु० द्वि० ब० जघनस्य कूप इव कायतः कै--क । कुकुन्दरयोः हला० ।

जघनचपला स्त्री “प्राक्प्रतिपादितमर्द्धे प्रथमे प्रथमेतरे तु

चपलायाः । लक्ष्माश्रयेत सोक्ता विशुद्धधीभिर्जघनच-
पला” वृ० र० उक्ते मात्रावृत्तभेदे ।

जघनेफला स्त्री० जघने इव मध्यभागे फलमस्याः अलुक्स० ।

काकोडुम्वरिकायाम् अमरः ।

जघन्य त्रि० जघनमिव शाखा० यत् जघने भवः दिगा० यत्

वा । १ चरमे २ गर्हिते “धर्म्मार्थकामाः सममेव सेव्या-
योह्येकसक्तः स जनोजघन्यः” ३ लक्षणयुक्ते नरे ४ अल्पे
५ शूद्रे च शब्दर० । “जघन्यं सेवमानान्तु संयतां
वासयेद्गृहे । उत्तमां सेवमानस्तु जघन्योबधमर्हति” मनुः
वर्ग्यादि० अकर्मधारये तत्पुरुषे अस्मात् उत्तरपद-
स्याद्युदात्तता । ६ राजानुचरभेदे तल्लक्षणादि वृ० स० ६९ अ०
उक्तं यथा “पञ्चापरे वामनको जघन्यः” इत्यादिना ।
विभज्य “मालव्यसेवी तु जघन्यनाद्या खण्डेन्दुतुल्यश्रवणः
सुगन्धिः । शुक्रैणसारः पितुनः कबिश्च रूक्षच्छविः
पृष्ठ ३०१२
स्थूलकराङ्गुलीकः । क्रूरो धनी स्थूलमतिः प्रतीतस्ता-
म्रच्छविः स्यात् परिहासशीलः, उरोऽङ्घ्रिहस्तेष्वसि-
शक्तिपाशपरश्वधाङ्कश्च जघन्यनामा” । “जघन्यगुण-
वृत्तस्था अधो गच्छन्ति तामसाः” गीता ।

जघन्यज पु० जघन्ये चरमे जायते जन--ड । १ शूद्रे, २ कनिष्ठे

त्रि० मेदि० । “ततोविष्णुरजघन्यो जघन्यजः” हरिव०
९ अ० । “जघन्यजस्तक्षकश्च श्रुतसेनेति यः सुतः” भा०
आ० ३ अ० जघन्यप्रभवादयोऽप्यत्र । “जिह्वायाः प्राप्नु-
याच्छेदं जघन्यप्रभवो हि सः” मनुः ।

जघन्यभ न० कर्म्म० । “आर्द्राश्लेषा तथा स्वातिर्ज्येष्ठा च

भरणी तथा । शततारा जघन्यानि तारासु कथितानि
वै” ज्यो० उक्तेषु षट्सु नक्षत्रेषु ।

जघ्नि पु० हन--किन् द्वित्वञ्च । हननसाधनास्त्रादौ ।

जघ्नु त्रि० हन--कु द्वित्वञ्च । घातके उणा० ।

जघ्रि त्रि० घ्रा--किन् द्वित्वम् । घ्राणकर्त्तरि “भ्राजन्त्यभि

विक्त जघ्रिः” ऋ० १ । १६२ १५ ।

जङ्गम त्रि० गम--यड्--अच् । सततगतियुते । “शरीरिणां

स्थावरजङ्गमानाम” कुमा० “गुल्मैः स्थावरजङ्गमैः” मनुः

जङ्गमकुटी त्री जङ्गमा कुटीव । छत्त्रे त्रिका० ।

जङ्गमगुल्म पु० कर्म्म० । रक्षके पदातिसमूहे “एवंविधान्नृपो-

देशान् गुल्मैः स्थावरजङ्गमैः । तस्करप्रतिषेधार्थं चारै-
श्चाप्यनुचारयेत्” मनुः ।

जङ्गमविष न० सुश्रुतोक्ते विषभेदे तत्स्थानादि तत्रोक्तं यथा

“अथाऽतो जङ्गमविषविज्ञानीयमध्यायं व्याख्यास्यामः ।
जङ्गमस्य विषस्योक्तान्यधिष्ठानानि षोड़श । समासेन
मया यानि विस्तरस्तेषु वक्ष्यते । तत्र दृष्टिनिःश्वास-
दंष्ट्रानखमूत्रपुरीषशुक्रलालार्त्तवमुखसन्दंशविशर्द्धितगुदा-
स्थिपित्तशूकशवानीति । तत्र दृष्टिनिःश्वासविषास्तु
दिव्याः सर्पाः । भौमास्तु दंष्ट्राविषाः । मार्जारश्ववा-
नरमण्डूकपाकमत्स्यगोधाशम्बूकप्रचलाक (सौम्यकीटभेदः)
गृहगोधिका कृकलासचतुष्पादकीटास्तथान्ये दंष्ट्रान-
खविषाः । चिपिटपिच्चटककषायवासिकसर्षपवासिक
तोटकवर्च्चःकीटकौण्डिल्यकाःशकृन्मूत्रविषाः । मूषिकाः
शुक्रविषाः । लूताश्च लालामूत्रपुरीषमुखसन्दंशनखशुक्रा-
र्त्तवविषाः । वृश्चिकविश्वम्भरराजीवमतस्योच्चिटिङ्गाः
समुद्रवृश्चिकाश्चालविषाः (अनःपुच्छाग्रवर्त्तिकण्ठकः)
(हुल) इति । चित्रशिरःसरावकुर्दिशतदारुकारिमेदक-
शारिकामुखामुखसन्दंशविशर्द्धितमूत्रपुरीषविषाः । मक्षि-
काकणभजलायुका मुखसन्दंशविषाः । विषहतास्थिसर्पक-
ण्टकवरटीमत्स्यास्थिकेत्यस्थिविषाणि । शकुलीमत्स्यरक्त-
राजीवरकमत्स्याश्च पित्तविषाः । सूक्ष्मतुण्डोच्चिटिङ्ग-
वरटाशतपदीशूकवलभिकाशृङ्गीभ्रमराः शूकतुण्डविषाः ।
कीटसर्पदेहा गतासवः शवविषाः शेषास्त्वनुक्ता मुखस-
न्दंशविषेष्वेव गणयितव्याः । राज्ञोऽरिदेशे रिपवस्तृ-
णाम्बुमार्गान्नधूमश्वसनान् विषेण । संदूषयन्त्यभिरति-
प्रदुष्टान् विज्ञाय लिङ्गैरभिशोधयेच्च । दुष्टं जलं पिच्छि-
लमुग्रगन्धि फेनान्वितं राजिभिरावृतञ्च । मण्डूकम-
त्स्यं म्रियते विहङ्गा मत्ताश्च सानूपचरा भ्रमन्ति ।
मज्जन्ति ये चात्र नराश्वनागास्तेच्छर्द्दिमोहज्वरदाहशो-
फान् । गच्छन्ति तेषामपहृत्य दोषान् दुष्टं जलं
शोधयितुं यतेत” ।

जङ्गल न० गल--यङ्--अच् पृषो० । १ यने, २ रहसि शब्दा-

र्थचि० ३ मांसे स्त्री मेदि० ४ निर्वारिदेशे शब्दर० ।

जङ्गाल पु० गम--यङ् लुक् बा० ड जङ्गं कुटिलगतिम्

अलति वारयति अल--अण् । जलगतिवारणार्थे सेतौ
(जाङ्गाल) जटाधरः ।

जङ्गिड पु० राक्षसादिभयनिवारके मणिभेदे । “मणिं विष्क-

न्धदूषणं जङ्गिडं बिभृमो वयम्” “अयं नोविश्वभेषजं
जङ्गिडः पात्वंहसः” “देवैर्दत्तेन मणिना जङ्गिडेन-
मयोभुवा” अथ० २ । ४ । १ । ३ । ४ ।

जङ्गुल न० गम--यङ् लुक् वा० डुल । विषे त्रिका० ।

जङ्घा स्त्री जंघन्यते कुटिलं गच्छति गत्यर्थकस्य हन्तेः

कौटिल्ये यङ् लुकि अच् पृषो० । गुल्फजान्वोरन्तराले
अवयवे अमरः । “पादजङ्घयोः सन्धाने गुल्फः”
“जङ्घयोः सन्धाने जानु नाम” सुश्रु० । “चत्वार्य्य-
रत्निकास्थीनि जङ्घयोस्तावदेव च” याज्ञ० ।

जङ्घाकर त्रि० जङ्घां तत्साध्यगतिं करोति कृ--“दिवावि-

भेत्यादिना” पाट० । जङ्घाकरिके धावके जङ्घाकर +
स्वार्थे क । तत्रार्थे

जङ्घाकरिक त्रि० कॄ--अप् करः विक्षेपः ६ त० ततः अस्त्यर्थे

ठन् । जङ्घाचालनेनाजीविनि धावके (धाउडे) अमरः ।

जङ्घात्राण न० त्रायतेऽनेन त्रै--करणे ल्युट् ६ त० । जङ्घा-

सन्नाहे त्रिका० ।

जङ्घाप्रहत त्रि० जङ्घा तद्गतिः प्रहतास्य निष्ठान्तत्वात्

परनि जङ्घागतिशून्ये मन्दगतिके । ततः अक्षद्यूता०
निर्वृत्तेऽर्थे ठञ् । जाङ्घाप्रहतिक तन्निर्वृत्ते त्रि० ।
पृष्ठ ३०१३

जङ्घाप्रहृत त्रि० जङ्घा प्रहृताऽस्य । प्रहृतजङ्घाव्यापारे ।

ततः अक्षद्यूता० निर्वृत्तेऽर्थे । जाङ्घाप्रहृतिक
तन्निर्वृत्ते त्रि० ।

जङ्घाबन्धु पु० ऋषिभेदे । “जङ्घाबन्धुश्च रैभ्यश्च कोपवेगस्तथा भृगुः” भा० स० ४ अ० ।

जङ्घारथ पु० जङ्घा रथ इव यस्य । ऋषिभेदे । तस्य

गोत्रापत्यम् इञ् । जाङ्घारथि तद्गोत्रापत्ये बहुत्वे
तु यस्का० गोत्रप्रत्ययस्य लुक् । जङ्घारथास्तद्गोत्रापत्येषु

जङ्घारि पु० विश्वामित्रभेदे । “मार्गमर्षिर्हिरण्याक्षो जङ्घारि

र्बाभ्रवायणिः” भा० आनु० ४ अ० । विश्वामित्रपुत्रोक्तौ ।

जङ्घाल त्रि० जङ्घा वेगवती अस्त्यस्य लच् । धावके जङ्घाजी

विनि । “हरिणैणकुरङ्गर्ष्यपृषतन्यङ्कुशम्बराः ।
राजीवश्च, तथा मुण्डी जङ्घालाः परिकीर्त्तिता” भावप्र०
उक्तेषु मृगेषु पु० स्त्री । “जङ्घालाः प्रायशः सर्व्वे पित्तश्ले-
ष्महराः स्मृताः । किञ्चिद्वातकराश्चापि लघवो
बलवर्द्धनाः भावप्र० तन्मांसगुणोक्तिः ।

जङ्घाशूल न० जङ्घायाः शूलमिव । जङ्घायां व्यथाकारके

शूलरोगभेदे । “जङ्घाशूलमुरुस्तम्भं सप्तरात्रेष
नाशयेत्” गरुडपु० ।

जङ्घिल त्रि० अतिशयवेगवती जङ्घास्त्यस्य पिच्छा० इलच् ।

वेगवज्जङ्घाविशिष्टे धावके ।

जज युद्धे भ्वा० पर० अक० सेट् । जजति अजाजीत्--अजजीत् जजाज जेजतुः

जज युद्धे भ्वा० प० अक सेट् इदित् । जञ्जति अजञ्जीत्

जजञ्ज “पृथुजयी असूर्य्येव जञ्जती” ऋ० १ । १६८ । ७ ।
कर्म्मणि जञ्ज्यते

जज्झ शब्दकरणे भ्वा० अक० सेट् निरु० । जज्झति

अजज्झीत्” “भरुतो जज्झतीरिव” ऋ० ५ । ५२ । ६ ।
“जज्झतीः शब्दकारिण्यः “जज्झतीरापो भवन्ति
शब्दकारिण्यः” निरु० ६ । १६ ।

जज्ञि त्रि० ज्ञा--जन--वा किन् द्वित्वञ्च । ज्ञातरि २ जाते च ।

जञ्ज त्रि० जजि--अच् । १ योद्धरि भावे घञ् । २ योधने ।

उञ्छादि० घञन्तत्वेन अन्तोदात्तता ।

जञ्जन त्रि० जन--घङ् लुक्--अच् । पृषो० पुनः १ पुनर्जन्मवति

ततोऽभूततद्भावे च्वि भूवोऽनुप्रयोग पृषो० शत्वदी जञ्जणा
भूतद्भाबे “जिह्वाभिरहनन्नमदर्चिसा जञ्जणाभवन्”
ऋ० ८ । ४३ । ८ । २ ज्वलति निरु० ।

जञ्जपूक त्रि० जप + यड्--ऊक । अतिशय जपशीले ।

जञ्जभ्यमान त्रि० जभ--यङ्--शानच् । गात्रविनामेन

विदारितमुखे पूर्ब्बमीमांसा ।

जट संहतौ भ्वा० पर० अक० सेट् । जटति अजाटीत्-

अजटीत् । जजाट जटतुः जटा ।

जटा स्त्री जट--अच् जन--उणा० टन् अन्त्यलोपश्च । १ केश

विकारे अन्योन्यसंलग्नकेशे २ व्रतिनः ३ शिखायां ४
शठायाम् अमरः । ५ मूले ६ शाखायां मेदि० । ७ कपिकच्छ्वम्
राजनि० । ८ जटामांस्यां ९ रुद्रजटायां १० शतावर्य्यां
रत्नमाला० ११ वेदपाठवेदे ऋग्वेदशब्दे १४११ । १२ पृ० दृश्यम्

जटाचीर पु० जटासहितं चीरं वसनमस्य । शिवे त्रिका० ।

जटाजूट पु० जटानां जूटोबन्धः । जटासमूहे । (झुँटि)

“जटाजूट समायुक्तामर्द्धेन्दुकृतशेखराम्” दुर्गाध्यानम्
“शम्भोर्जटाजूटतटादिवापः” माघः ।

जटाज्वाल पु० जटेव ज्वालाम्य । प्रदीपे हारा० ।

जटाटङ्क पु० जटा टङ्कैवास्य । शिवे महादेवे त्रिका० ।

जटातीर पु० जटामटति अट--ईरन् । महादेवे त्रिका०

जटाधर पु० ६ त० । शिवे १ महादेवे शब्दर० । २ बुद्धभेदे

त्रिका० । ३ दाक्षिणात्ये देशभेदे स च देशः “क्रौञ्चद्वी-
पजटाधर कावेर्य्योरिष्यमूकश्च” वृ० स० १४ अ० दक्षिणस्या
मुक्तः ४ कोषकारभेदे च ५ जटाधारके त्रि० ।

जटामांसी स्त्री जटां मन्यते मन--स दीर्घश्च । स्वनामख्याते

गन्धद्रव्यभेदे । “जटामांसी भूतजटा जटिला च
तपस्विनी । मांसी तिक्ता कषाया च मेध्या कान्तिबलप्रदा ।
स्वाद्वी हिमा त्रिदोषास्रदाहवीसर्पकुष्ठनुत्” भावप्र० ।

जटायु(स्) पु० जटां याति या--कु जटा + ऊर्णा०

युच् वा जट--संहतौ अच् जटं संहतमायुरस्य
वा । १ स्वनामख्याते खगभेदे, २ गुग्गुलौ च मेदि०
“द्वौ पुत्रौ विनतयास्तु गरुडोऽरुण एव च ।
तस्मात् जातोऽहमरुणात् संपातिश्च ममाग्रजः । जटायुरिति
मां विद्धि श्येनीपुत्रमरिन्दम! । सोऽहं राम । सहायस्त
भविष्यामि यदीच्छसि । सीतां च तात रक्षिष्ये त्वयि यात
सलक्ष्मणे “जटायुषं तु प्रतिपूज्य राघवो मुदा परिष्व-
ज्य च सन्नतोऽभवत् । पितुर्हि शुश्राव सखित्वमात्मवान्
जटायुषा संकथित पुनः पुनः” रामा० आर० १४ अ०
“सखा दशरथस्यासीज्जटायुररुणात्मजः । गृध्रराजो
महावीरः सम्पातिर्यस्य सीदरः । स ददर्श तदा सीतां
रावणाङ्कगतां स्नुषाम् । सक्रोधोऽभ्यद्रवत् पक्षी रावणं
राक्षसेश्वरम् । अथैनमव्रवीद्गृध्रो मुञ्च मुञ्चस्व मैथि-
लीम् । ध्रियमाणे मयि कथ हरिष्यसि विशाचर! ।
न हि मे मीक्ष्यसे जीबन् यदि नोत्सृजसे वधूम्
पृष्ठ ३०१४
उक्त्वैवं राक्षसेन्द्रं तं चकर्त्त नखरैर्भृशम् । पक्षतुण्ड
प्रहारैश्च बहुशो जर्जरीकृतम् । चक्षार रुधिरं
भूरि गिरिप्रस्रवणैरिव । स बध्यमानोगृध्रेण रामप्रिय
हितेषिणा । खड्गमादाय चिच्छेद भुजौ तस्य
पतत्रिणः । निहत्य गृध्रराजं स भिन्नाभ्रशिखरोपमम् ।
ऊर्द्धमाचक्रमे सीतां गृहीत्वाङ्केन राक्षसः” भा० व०
२७८ अ० तत्कथा दृश्या ।

जटाल पु० जटा--अस्त्यर्थे सिध्मा० लच । १ वटवृक्षे २ कच्चुरे

३नुष्कके ४ गुग्गुलौ च राजनि० ५ जटायुक्ते त्रि०
“चीरिणः शिखिनश्चास्य जटालोर्द्धशिरोरुहाः”
हरिवं० १८३ अ० । ६ जटामांस्यां स्त्री राजनि० ।

जटावत् त्रि० जटा--अस्त्यर्थे मतुप् मस्य वः । १ जटायुक्ते

स्त्रियां ङीप् सा च २ जटामांस्यां राजनि० ।

जटावल्ली स्त्री जटेव वल्ली । रुद्रजटायाम् राजनि० ।

जटासुर पु० जटायुक्तोऽसुरः । १ असुरभेदे । स च ब्राह्मण-

रूपञ्चद्मना वनगतयुधिष्ठिरावासे स्थित्वा भीमे वनान्तरं-
गते युधिष्ठिरादित्रय सहितां द्रौपदीं जहार ततोयदृच्छा
प्राप्तेन भीमेन हतः । तत्कथा वनपर्वणि जटासुरबध
पर्वणि दृश्या । २ तदधिष्ठाने देशभेदे स च देशः वृ० स०
१४ अ० कूर्मविभागे ऐशान्यामुक्तः । “भल्लापलोलजटासुर
कुनटखषघोषकुचिकाख्याः” ।

जटासुरबध पु० जटासुरस्य बधमधिकृत्य कृतो ग्रन्थः अण्

आख्यायिकायां लुप् लपि व्यक्तिवचनत्वात् पुंस्त्वम् ।
भारततनपर्वात्तर्गतेऽवान्तरपर्वभेदे । “जटासुरबधः पर्व
यक्षयुद्धमतः परम्” भा० आ० अ० वनपर्वणि अवान्त-
रपर्वोक्तौ ।

जटि(टी) पु० जट--इन् । १ वटवृक्षे, शब्दरत्ना० २ जटायां

३ समूहे उणादिको० ४ जटामांस्यां स्त्री वा ङीप् अमरः ।
ङीबत्तः ५ पर्कटीवृक्षे शब्दर० ।

जटिन् गु० जटा अस्त्यस्य इनि । १ प्लक्षे (पाकुड़) अश्वत्यतुल्य-

पत्रयुक्ते वृक्षभेदे । २ जटावति त्रि० । “सुरापानापनु-
त्त्यर्थं चीरबासा जटी ध्वजी” मनुः ।

जटिल पुं स्त्री जटा--अस्त्यर्थे पिच्छा० इलच् । १ सिंहे

शब्दच० स्त्रियां जातित्वात् ङीष् । २ जटायुक्ते त्रि० ।
“विवेश कश्चिज्जटिलस्तपोवनम्” कुमा० “मुण्डी वा
जटिलो वा स्यात् अथ वा स्यात् शिखाजटः” मनुः ।
३ ब्रह्मचारिणि च । “जटिलञ्चानधीयानं दुर्बलं कितवं
तथा” मनुः । स्त्रियां टाप् ४ जटावत्यां स्त्रियां ।
५ जटामांस्यां अमरः ६ पिप्पल्यां मेदि० । ७ वचायाम्
८ उच्चटायां रत्नमाला ९ दमनकवृक्षे राजनि० ।

जटु(डु)ल पु० जट--उलच् पृषो० टस्य डो वा । देहस्थे

कृष्णचिह्नभेदे पिप्लौ (जडुल) अमरः ।

जठर पुंन० जायते जन्तुर्गर्भो वास्मिन् जन--अर--ठान्तादेशः ।

१ कुक्षौ । २ बद्धे, ३ कठिने च त्रि० मेदि० । ४ देशभेदे
“अतऊर्द्धं जनपदान्” इत्युपक्रमे “जठराः कुकुराश्चैव
सदर्शार्णाश्च भारत!” भा० भी० ९ अ० । “आस्तेऽस्याः
जठरे वीर्य्यमविषह्यम् सुरद्विषाम्” भाग० ७ । ७ । ९ ।
“वायुवेगसमौ वीरौ जठरौ तुरगोत्तमौ” रासा०
अयो० १०७ । १३ । “यः कदाचित् सम्यक् पचति
कदाचिदाध्मानशूलोदावर्तातिसारजठरगौरवान्त्रकूजनप्रवाह-
णानि कृत्वा स विषमः” सुश्रु० । जठरयन्त्रणा
जठरव्यथा जठरामयः ।

जठरनुद् पु० जठरं नुदति रेचनाय नुद--क्विप् ६ त०

आरग्बधे (साँदाल) शब्दच० तस्य सेवने हि
उदरभङ्गातस्य तथात्वम् ।

जठराग्नि पु० जठरस्थितोऽग्निः । कौक्षेये अन्नादिपाचके

वह्नौ “अन्नरसोजठराग्निना पच्यमानोरक्ततां प्रतिपद्यते”
मिताक्षरा जठरानलादयोऽप्यत्र “जठराग्निर्हि वायुना
संधुक्ष्यमाणोऽन्नं पचति तत्पकारो योगार्णवे उक्तो यथा
“आयुष्यं भुक्तमाहारं स वायुः कुरुते द्विधा । संप्र-
विश्यान्नमध्यं तु पृथक् किट्टं पृथक् मलम् । अग्नेरूर्द्धं
जलं स्थाप्य तदन्नञ्च जलोपरि । जलस्याधः स्वयं प्राणः
स्थित्वाग्निं धमते शनैः । वायुनाध्मायमानोऽग्निरत्यु-
ष्णं कुरुते जलम् । अन्नं तदुष्णतोयेन समन्तात् पच्यते
पुनः । द्विधा भवति तत् पक्कं पृथक किट्टं पृथग् रसम् ।
रसेन तेन ता नाड्यः संपूर्य्यन्ते क्रनण च । प्रतर्पयन्ति
सम्पूर्णास्ताश्च देहं समन्ततः” ।

जठरामय पु० ६ त० । उदररोगे राजनि० अतिसारशब्दे

१०६ पृ० दृश्यम् । जठरगदादयोऽव्यत्र । “भवति धरणि
जे चतुर्थगे ज्वरजठरगदासृगुडुव” वृ० स० १०४ अ०

जठल न० जठरं सादृश्येनास्त्यस्य अर्श० अच् रस्य लः ।

जठरवदुदकाधारे “चतस्रो नाष्ठो जठलस्य जुष्टाः” ऋ०
१ । १८२ । ६ । जठलस्य जठरवदुदकाधारस्य” भा० ।

जड त्रि० जलति घनीभवति जल--अच् डस्य लः । इष्टं

वानिष्टं वा न वेत्ति योमोहात् । परवशग भवेदिह
नाम्ना जडसंज्ञकः पुरुषः” क्तलक्षणे १ मन्दबुद्धौ २ मूर्खे
पृष्ठ ३०१५
३ वेदग्रहणासमर्थे “अनंगौ क्लीवपतितौ जात्यन्धबधिरौ
तथा । उन्मत्तजदुमूकाश्च ये च केचिन्निरिन्द्रियाः” मनुः
“वेदाग्रहणसमर्थो जडः” इति दायभागः ४ हिमग्रस्ते
हिमेन मन्दक्रिये ५ मूके ६ अपज्ञे च मेदि० । ७ जले न०
रायमुकुटः । ८ सीसके न० राजनि० । ९ चेतनभिन्ने अज्ञानादि
समूहे वेदान्तः । तन्मते हि पदार्थोद्विधा जडोऽजडश्च
तत्र जडीऽज्ञानतत्कार्य्यसंथः । अजडश्चेतनः इति
भेदः । “अज्ञानाटिसकलजडसमूहोऽवस्तु” वेदान्तसा०
“वेदामस्ते कि वा जननि! वयमुच्चैर्जडधियः” कालीस्तवः
“नापृष्टः कस्यचिद् ब्रूयात् नचान्यायेन पृच्छतः ।
जानन्नपि हि मेधावी जडवत् लोक आचरेत्”
मनुः । तस्य भावः ष्यञ जाड्य न० तल् जडता स्त्री त्व

जड़त्व न० इमनिच् जडिमन् पु० जडभावे ।

जड़क्रिय त्रि० जड़स्य हिमक्लिष्टस्येव क्रियास्य । चिरक्रिये । हलायुधः

जड़ता स्त्री जड़ + भावे तल् । अपाटवे शीतलत्वे “उदञ्च

द्रोमाञ्चं व्रजति जड़तामङ्गमखिलम्” सा० द० “भुज-
लता जड़तामबलाजनः” रघुः । “अप्रतिपत्तिर्जडता
स्यादिष्टानिष्टदर्शनश्रुतिभिः । अनिमिषनयननिरी-
क्षणतुष्णीम्भावादयस्तत्र” सा० द० उक्ते व्यभिचारिगण-
भेदे । ष्यञ् जाड्य त्व जड़त्व तत्रार्थे न० ।

जड़भरत पु० जडोमूक इव भरतः । आङ्गिरसप्रवरसुते योगि-

भेदे सहि पूर्व्वतरजन्मनि भरतनामा नृपतिरासीत् स च
वानप्रस्थाश्रमे हरिणशिशुपालनेन तत्स्नेहवशात्
मृत्युकाले तमनुस्मरन् मृगत्वमाप्त्वा कर्म्मक्षयात् तद्देहं
त्यक्त्वा पुनः आङ्गिरसपवरस्य पुत्रतामासाद्य स्नेहदोषेण
पुनस्तिर्य्यग्योनिप्राप्तिशङ्कया ज्ञानवानपि जडत्वमिव
व्यञ्जयन्नासीत् । तत्कथा च भाग० ५ स्क० स्थिता
दिङमात्रमत्र प्रदर्श्यते ।
“अथ कस्यचिद्द्विजवरस्याङ्गिरःप्रवरस्य शमदमतपः-
स्वाध्यायाध्ययनत्यागसन्तोषतितिक्षाप्रश्रयविद्यानसूयात्म-
ज्ञानानन्दयुक्तस्यात्मसदृशश्रुतशीलाचाररूपौदार्य्यगुणा नव
सोदार्य्या अङ्गजा बभूवुः । मिथुनञ्च यवीयस्यां
भार्य्यायाम् । यस्त तत्र पुमांस्तं परमभागवतं राजर्षि-
प्रवरभरतमुत्सृष्टमृगशरीरम् चरमशरीरेण विप्रत्वं-
गतमाहुः । तत्रापि स्वजनसङ्गाच्च भगवतः कर्म्म-
बन्धविध्वंसनश्रवणस्मरणगुणविवरणचरणारविन्दयुगलं
मनसा विदधदात्मनः प्रतीवातमाशङ्कमानो भगवदनु-
ग्रहेणानुस्मृतखपूर्वजन्माबलिरात्मानमुन्मत्तजडान्धबधिर-
स्वरूपेण दर्शयामास लोकस्य । तस्यापि ह वा आत्म
जस्य स विप्रः पुत्रस्नेहानुबद्धमना आसमावर्त्तनात्
संस्कारान् यथोपदेशं विदधान उपनीतस्य च पुनः
शौचाचमनादीन् कर्म्मनियमाननभिप्रेतानपि
समशिक्षयत् । अनुशिष्टेन हि भाव्यं पितुः पुत्रेणेति ।
स चापि तदुह पितृसन्निधावेवासध्रीचीनमिव स्म
करोति । छन्दांस्यध्यापयिष्यन् सह व्याहृतिभिः
सप्रणवशिरस्त्रिपदां सावित्रीं ग्रैष्मवासन्तिकान्मासान-
धीयानमप्यसमवेतरूपं ग्राहयामास । एवं स्वतनुज
आत्मन्यनुरागावेशितचित्तः शौचाध्ययनव्रतनियम-
गुर्वनलशुश्रूषणाद्यौपकुर्वाणकर्म्माण्यनभियुक्तान्यपि
स्वयमनुशिष्टेन भाव्यमित्यसदाग्रहः पुत्रमनुशास्य स्वयं
तावदनधिगतमनोरथः कालेनाप्रमत्तेन स्वयं ग्रह एव
प्रमत्तौपसंहृतः । अथ यवीयसी द्विजसती स्वगर्भजातं
मिथुनं सपत्न्या उपन्यस्य स्वयमनुसस्थया पतिलोक
मगात् । पितर्य्युपरते भ्रातर एनमतत्प्रभावविदस्त्रय्यां
विद्यायामेव पर्य्यवसितमतयोन परविद्यायां जडमति-
रिति भ्रातुरनुशासननिर्बन्धान्न्यवृत्सन् ।
स च प्राकृतैर्द्विपदपशुभिरुन्मत्तजड़बधिरमूकेत्यभिभाष्य-
माणो यदा तदनुरूपाणि प्रभाषते कर्म्माणि च कार्य्य-
माणः परेच्छया करोति । विष्टितो वेतनतोवा याच्ञया
यदृच्छया वोपसादितमल्पं बहुमिष्टं कदन्नं वाभ्यवहरति
परं नेन्द्रियप्रीतिनिमित्तम् । नित्यनिवृत्तनिमित्त
स्वसिद्धविशुद्धानुभवानन्दस्वात्मलाभाधिगमः सुखदुःख-
यीर्द्वन्द्वनिमित्तयोरसम्भावितदेहाभिमानः । शीतोष्ण
वातवर्षेषु वृषैवापावृताङ्गः पीनसंहननाङ्गः
स्थण्डिलसंवेशनानुमर्द्दनामज्जनरजसा महामणिरिवान-
भिव्यक्तव्रह्मवर्च्चसः कुपटावृतकटिरुपवीतेनोरुमषिणा-
द्विजातिरिति ब्रह्मबन्धुरिति संज्ञयाऽतज्ज्ञजनावमतो
विचचार । यदा तु परत आहारङ्कर्म्म वेतनतईह-
मानः स्वभ्रातृभिरपि केदारकर्म्मणि निरूपितस्तदपि
करोति । किन्तु न समं विषमं न्यूनमधिकमिति वेद ।
कणपिण्याकफलीकरणकुलमाषस्थालीपुरीषादीनप्यमृत-
वदभ्यवहरति । अथ कदाचित् कश्चिद्वृषलपतिर्भद्र-
काल्यै पुरुषपशुमालभतापत्यकामः । तस्य ह दैववि-
मुक्तस्य पशोः पदवीन्तदनुचराः परिधावन्तो निशि
निशीथसमये तमसा पावृतायामनधिगतपशव आकस्मिकेन
विधिना केदारान् वीरासनेन मृगवराहादिभ्यः संरक्ष
पृष्ठ ३०१६
माणमङ्गिरःप्रवरसुतमपश्यन् । अथ तएनमनवद्य-
लक्षणमवमृष्य भर्त्तृकर्म्मनिष्पत्तिं मन्यमानाबद्ध्वा
रशमया चण्डिकागृहमुपनिन्युर्मुदा बिकसितवदनाः ।
अथ पणयस्तं स्वबिधिनाभिपिच्याहतेन वाससाच्छाद्य-
भूषणानुलेपस्रक्ताम्बूलादितिलकादिभिरुपस्कृतं भुक्तवन्तं
धूपदीपमाल्यलाजकिसलयाङ्कुरफलोपहारोपेतया
वैशससंस्थया महता गीतस्तुतिमृदङ्गपणवघोषेण च
पुरुषपशुं भद्रकाल्याः पुरत उपवेशयामासुः । अथ
वृषलराजपतिः पुरुषपशोरसृगासवेन देवीं भद्रकालीं यक्ष्य-
माणस्तदभिमन्त्रितमसिमतिकरालनिशितमुपाददे । इति
तेषां वृषलानां रजस्तमःप्रकृतीनां धनमदरजौत्
सिक्तमनसां भगवत्कलाधीरकुलं कदर्थीकृत्योत्पथेन स्वैरं
विहरतां हिंसाविहाराणां कर्म्मातिदारुणं यद्
व्रह्मभूतस्य साक्षाद्ब्रह्मर्षिसुतस्य निर्व्वैरस्य सर्वभूतसु-
हृदः सूनायामप्यननुमतमालभनं तदुपलभ्य व्रह्मतेजसा-
ऽतिदुर्विपहेण दन्दह्यमानेन वपुषा सहसोच्चचाट सैव
देवी भद्रकाली । भृशममर्षरोषावेशरभसविलसि-
तभृकुटिविटपकुटिलदंष्ट्रारुणेक्षणाटोपातिभयानकवदना
हन्तुकामैवेदं महाट्टहासमतिसंरम्भेण विमुञ्चन्ती
तत उत्पत्य पापीयसां दुष्टानां तेनैवासिना विवृकण-
शीर्ष्णां गलात् स्रवन्तमसृगासवमत्युष्णं सह गणेन
निपीयातिपानमदविह्वलोच्चैस्तरां स्वपार्षदैः सह जगौ
ननर्त्त च विजहार च शिरःकन्दुकलीलया । एवमेव
खलु महदभिचारातिक्रमः कार्त्स्न्येनात्मने फलति ।
न वा एतद्विष्णुदत्त! महदद्भुतं यदसंभ्रमः स्वशिरश्छेदे
आपतितेऽपि विमुक्तदेहाद्यात्मभावसुदृढ़हृदयग्रन्थीनां सर्व-
सत्वसुहृदात्मनां निर्वैराणां साक्षाद्भगवताऽनिमिषाऽरि-
वरायुधेनाप्रमत्तेन तैस्तैर्भावैरभिरक्ष्यमाणानां तत्पदमूल-
मकुतश्चिद्भयमुपसृतानां भागवतपरमहंसानाम्” । ९ अ०
“अथ सिन्धुसौवीरपतेरहूगणस्य व्रजतैक्षुमत्यास्तटे
तत्कुलपतिना शिविकावाहपुरुषान्वेषणसमये दैवेनोप-
सादितः स द्विजवरौपलब्धः । एष पीवानसंहननाङ्गो-
गोखरवद्धुरं वोढुमलमिति पूर्वविष्टिगृहीतैः सह
गृहीतः प्रसभमतदर्हौवाह शिविकां स महानुभावः!
यदा हि द्विजवरस्येषुमात्रावलोकानुगतेर्न समाहिता
पुरुषगतिस्तदा विषमगतां स्वशिविकां रहूगण उपधार्य्य
पुरुषानधिवहत आह । हे वाढ़ारः माध्वतिक्रा-
मत किमिति विषममुह्यते यानमिति? । अथ त ईश्वर-
वचः सौपालम्भमुपाकर्ण्य उपायात्तुरीयाच्छङ्कित-
मनसस्तं विज्ञापयां बभूवुः । न वयं नरदेव! प्रमत्ता
भवन्नियमानुपथाः साध्वेव वहामः । अयमधुनैव नि
युक्तोऽपि न द्रुतं व्रजति नानेन सह वोढु मुह वयं पारया-
मैति । सांसर्गिकोदोष एव नूनमेकस्यापि सर्वेषां
संसर्गिणां भवितुमर्हतीति निश्चित्य निशम्य कृपणवचो
राजा रहूगण उपासितवृद्धोऽपि निसर्गेण बलात्कृत
ईषदुत्थितमन्युरविस्पष्टब्रह्मतेजसं जातवेदसमिव रजसा-
वृतमतिराह अहो कष्टं भ्रातर्व्यक्तमुरुपरिश्रान्तो दीर्घ-
मध्वानमेक ऊहिवान् सुचिरं नातिपीवानसंहननाङ्गो
रजसा चोपद्रुतो भवान् सखे! नो वा परएते संघट्टिन
इति बहुविप्रलब्धोऽप्यविद्यया विहितद्रव्यगुणकर्म्माशये
स्वचरमकलेवरेऽवस्तुनि संस्थानविशेषे अहं ममेत्यनध्या-
रोपितमिथ्याप्रत्ययो ब्रह्मभूतस्तूष्णी शिविकां पूर्ववदु-
वाह । अथ पुनः स्वशिविकायां विषममतायां
प्रकुपित उवाच रहूगणः । किमिदमरे त्वं जीवन्मृतोमां
कदर्थीकृत्य भर्तृशासनमतिचरसि । प्रमत्तस्य च ते
करोमि चिकित्सां दण्डपाणिरिव जनतायाः यथा
प्रकृतिं स्वां भजिष्यसीति । एवं बह्वबद्धमभिभाषमाणं
नरदेवाभिमानं रजसा तमसानुविद्धेन मदेन तिरस्कृता
शेषभगवत्प्रियनिकेतं पण्डितमानिनं स भगवान्
ब्राह्मणो ब्रह्मभूतः सर्वभूतसुहृदात्मा योगेश्वरचर्य्यायां
मातिव्युत्पन्नमतिं स्मयमान इव विगतस्मय इदमाह ।
श्रीब्राह्मण उवाच । त्वयोदितं व्यक्तमविप्रलब्धं भर्तुः
स मे स्याद्यदि वीर! भावः । गन्तुर्यदि स्यादधिगम्यमध्वा
पीवेति राशौ न विदां प्रवादः । स्थौल्यं कार्श्य
व्याधयश्चाधयश्च क्षुत्तुड्भयं कन्तिरिच्छा जरा च । निद्रा-
रतिर्मन्युरहं मदः शुचो देहेन जातस्य हि मे न सन्ति ।
जीवन्मृतत्वं नियमेन राजन्नाद्यन्तवद् यद्विकृतस्य
दृष्टम् । खस्वाम्यभाबो ध्रुवईड्य! यत्र तर्ह्युच्यतेऽसौ-
विधिकृत्ययोगः । विशेषबुद्धेर्बिवरं मनाक् च पश्यामि
यन्न व्यवहारतोऽन्यत् । क ईश्वरस्तत्र किमीशितव्य
मथापि राजन्! करवाम किन्ते । उन्मत्तमत्तजडवत्
स्वसंस्थां गतस्य मे वीर! चिकित्सितेन । अर्थः कियान्
भवता शिक्षितेन स्तब्धप्रमत्तस्य च पिष्टपेषः । श्रीशुक
उवाच । एतावदनुवादपरिभाषया प्रत्युदीर्य्य स
मुनिवर उपशमशील उपरतानात्मानिमित्त उपभोगेन
कर्म्मारब्धं त्यपस्यन् राजयानमपि तथैवोवाह । स
पृष्ठ ३०१७
चापि पाण्डवेय! सिन्धुसौवीरपतिस्तत्त्वजिज्ञासायां
सम्यक्श्रद्वयाधिकृताधिकारस्तद्धृदयग्रन्थिविमोचनं द्विज-
वच आश्रुत्य बहुयोगग्रन्थसम्मतं त्वरयाऽवरुह्य
शिरसा तत्पादमूलमुपसृतः क्षमापयन् विगतनृपदेव
स्मय उवाच । कस्त्वं निगूढश्चरसि द्विजानां बिभर्षि-
सूत्रं कतमोऽवधूतः । कस्यासि कुत्रत्य इहापि कस्मात्
क्षेमाय नश्चेदसि नोत शुक्लः । नाहं विशङ्के सुरराजवज्रा
न्न त्र्यक्षशूलान्न यमस्य दण्डात् । नाग्न्यर्कसोमानिलवि-
त्तपास्त्राच्छङ्के भृशं ब्रह्मकुलावमानात् । तद् ब्रूह्यसङ्गो
जड़वन्निगूढ़विज्ञानवीर्य्योविचरस्यपारः । वचांसि योग
ग्रथितानि साधो! न नः क्षमन्ते मनसापि भेत्तुम् ।
अहञ्च योगेश्वरमात्मतत्त्वविदां मुनीनां प्रवरं गुरुवै!
प्रष्टुं प्रवृत्तः किमिहारणं यत्साक्षाद्धरिं ज्ञानकलावतीर्णम् ।
स वै भवान् लोकनिरीक्षणार्थमव्यक्तलिङ्गोविचरत्यपि
स्वित् । योगेश्वराणां गतिमन्दबुद्धिः कथं विवचक्षीत
गृहानुबद्धः” १० अ० ।
ततः तेन रहूगणनृपाय योगमुक्त्वा प्रारब्धाव-
माने मुक्तो बभूवेति कथा तदुत्तराध्यायादौ स्थिता ।

जडा स्त्री जड़ं करोति जड + णिच्--अच्--टाप् । १ शूक

शिम्ब्याम् अमरः २ भूम्यामलक्याम् रत्नमा० ।

जड़िमन् पु० जड़स्य भावः दृढ़ा इमनिच । जाड्ये । “जनित

जड़िम व्याकुलं व्याहरन्तो” “इष्टानिष्टापरिज्ञानं
यत्र प्रश्नेष्वनुत्तरम् । दर्शनश्रवणाभावो जड़िमा
सोऽभिधीयते” इत्युज्ज्वलभण्युक्ते अवस्थाभेदे ।

जतविल त्रि० जतुना निर्वृत्तादि काशा० इल । जतुद्रव्य

निर्वृत्तादौ १ कल्कद्रव्ये २ वह्नेरुद्दीपने द्रव्यभेदे ।

जतु न० जन--ड तोऽन्तादेशः । १ अलक्ते, २ लाक्षायाञ्च ।

स्वार्थे क । तत्रार्थे मेदि० । “शणं तैलं घृतञ्चैव
जतुदारूनि चैव हि” भा० आ० १४४ अ० । “अप्राज्ञमधिकं
पापं श्लिष्यते जतुकाष्ठवत्” भा० शा० ३०० अ० । ३ चर्म्म-
चटिकायां स्त्री “सन्धिभ्यो जतूः” यजु० २४ । २५ ।
“जतूः पत्राख्याः पक्षिणीः” मेदि० । तस्य विकारः
“त्रपुजतुनोः सुक् च” पा० अण् सुक् च । जातुष तद्वि-
कारे (कड़ चुडि) प्रभृतौ आभरणे ।

जतुक न० जतु इव कायति कै--क । १ हिङ्गौ मेदि० ।

२ जनीनाम गन्धद्रव्ये स्त्री भरतः । ३ चर्म्मचटिकायां स्त्री
(चामचिका) शब्दरत्ना० । ४ पर्पट्यां मालवदेशप्रसिद्ध-
लतायां स्त्रीभावप्र० “पर्पटी रञ्जना कृष्णा जतुका जननी
जनी । जतुकृष्णाग्निसंस्पर्शा जतूका चक्रवर्त्तिनी । पर्पटी
तुवरा तिक्ता शिशिरा वर्णकृल्लघुः । विषव्रणहरी
कण्डूकफपित्तास्र कुष्ठनुत्” भावप्र० तद्गुणोक्तिः ।

जतुकारी स्त्री जतुकवत् संश्लेषमृच्छति ऋ + अण् उप० स०

गौरा० ङीष् । जतुकालतायां राजनि० ।

जतुकृत् स्त्री जतुवत्संश्लेषं करीति कृ--क्विप् ६ त० ।

जतुकालतायाम् अमरः ।

जतुकृष्णा स्त्री जत्विव कृष्णा । जतुकालतायाम् भावप्र० ।

जतुनी स्त्री० जतु संश्लेषेण तद्रूपं नयति स्वसंश्लिष्टद्रव्यम्

नी--क्विप् ६ त० । चर्म्मचटिकायां त्रिका० तस्य संश्लेषात्
द्रव्यस्य जतुवद्रूपापत्तिर्लोकसिद्धा ।

जतुपुत्रक पु० जतुनिर्म्मितः पुत्र इवा (पुत्तली) । पाशकगु-

टीयां तस्य जतुनिर्म्मितत्वेन तथात्वम् । काष्ठादि
रचितस्य तु उपचारात् तन्नामता ।

जतुमणि पु० “सममुत्सन्नमरुजं मण्डलं कफरक्तजम् ।

सहजं लक्ष्म चैकेषां लक्ष्योजतुमणिश्च सः” इति माधव-
करोक्ते रोगभेदे ।

जतुमुख पु० जतुनेव संश्लिष्टं मुखमस्य शा० त० । व्रीहिभेदे

“कृष्णव्रीहिशालामुखजतुमुखनन्दीमुखनाराचकत्वरित-
ककुक्कुटान्तकपारावतकपाटलप्रभृतयो व्रीहयः” सुश्रु० ।

जतुरसः पु० ६ त० । अलक्तके राजनि० ।

जतू स्त्री जतुः चर्म्मचटिका प्राणिजातित्वेऽपि वेदे नि०

ऊड् । पक्षिभेदस्त्रियाम् “ऋक्षो जतूः मुषीलका ते
त्रय इतरजनानाम्” यजु० २४ । ३६ । जतूः मुषीलका
एतौ पक्षिविशेषौ” वेददी० ।

जतूकर्ण्ण पु० ऋपिभेदे । तस्य गोत्रापत्यम् गर्गा० यञ् ।

जातूकर्ण्य तद्गोत्रापत्ये तस्य छात्त्रः कण्वा० अण्
यलोपश्च । जातूकर्ण तच्छात्रे । जातूकर्ण्यश्च उपस्मृतिकर्त्ता
यथाह हेमा० दा० अङ्गिराः “जावालिर्नाचिकेतश्च
स्कन्दोलौगाक्षिकश्यपौ । व्यासः सनत्कुमारश्च शतद्रुर्ज-
नकस्तथा । व्याघ्रः कात्यायनश्चैव जातूकर्ण्यः
कपिञ्जलः । बौधायनः कणादश्च विश्वामित्रस्तथैव च ।
उपस्मृतिकृतएतान् प्रवदन्ति मनीषिणः” । जातुकर्ण्य इत्यत्र
जातूकर्ण इति पाठः लिपिकरपमादात् तच्छात्त्रस्य
उपस्मृति कर्त्तृत्वमभिप्रेत्य वा तथा पाठ इत्यन्ये ।

जतूका स्त्री जन--उलूका० नि० । १ चर्म्मचटिकायां अमरः ।

२ जनीनामगन्धद्रव्ये शब्दर० ।
पृष्ठ ३०१८

जत्रु न० जन--रु तोऽन्तादेशः । स्कन्धवक्ष सन्धौ “ग्रीवा पञ्च-

दशास्थि स्यात् जत्र्वेकैकं तथा हनु” याज्ञ० वक्षोऽंस-
योः सन्धिः जत्रुः” मिता० “ऊर्द्धजत्रुगतान् करोति
च विशेषतः” सुश्रु० “जत्रुदेशे भृगं वीरो व्यवासीदद्रथे
तदा” भा० व० १७ अ० । स्वार्थे--क तत्रार्थे शब्दरत्ना० ।

जत्वश्मक न० जतुरूपमश्मकम् । शिलाजतुनि राजनि० ।

जन जनने जुहो० पर० अक० सेट् घटा० । जजन्ति ।

अजनीत् अजानीत् घटा० । जनयति जनितः
वि--अति परस्परजनने आत्म० । व्यतिजजन्ते । सार्वधातु-
कसधोरिट् व्यतिजज्ञिपे व्यतिजज्ञिध्वे

जन जनने दि० आ० अक० सेट् जायते अजनि अजनिष्ट ।

जजान जज्ञतुः ईदित् । जातः । घटा० । जनयति ।
उभयोरपि उपसर्गात् परयोस्तत्तदुपसर्गद्योत्यार्थयुक्त-
जनने तत्र ।
  • अति--अतिक्रम्य जनने सक० ।
  • अधि + आधिक्येन जनने । आधिपत्येन जनने च “तेजस
एव तदध्यापोजायन्ते । “व्राह्मणोजायमानोऽपि पृथि-
व्यामधिजायते” मनुः ।
  • अनु + पश्चाज्जनने अक० । “पुत्रिकायां कृतायां च यदि
पुत्रोऽनुजायते” मनुः । पश्चादुत्पत्त्या सादृश्य करणे
सक० । “असौ कुमारस्तमतोऽनुजातस्त्रिविष्टपस्येव
पतिं जयन्तः” रघु० ।
  • सम् + अनु + सम्यगनुजनमे सक० “पितॄन् समनुजायन्ते
नरा मातरमङ्गनाः” रामा० अयो० ३५ । २६ ।
  • अभि + अभिलक्ष्यीकृत्य जनने सक० “भवन्ति सम्पदं दैवीमभि-
जातस्य भारत!” । “अज्ञानञ्चाभिजातस्य पार्थ! सम्पद
मासुरीम्” गीता । सम्यग्जनने आभिमुख्येन
जनने अक० “शुचीनां श्रीमतां गेहे योगभ्रष्टोऽसि
जायते” “कामात् क्रोधोऽभिजायते” गीता ।
  • प्रति + प्रतिरूपजनने अक० । “प्रजापतिश्चरसि गर्भे त्वमेव
प्रतिजायसे प्रश्नो० ।
  • वि + विशेषेण जनने विरुद्धजनने विकारे च “पतिना
रहिता तस्मात् पुत्रं देवी व्यजायत” रामा० आदि०
७० अ० । गर्भमोचने सक० “यूनां मत्ता प्रथमं विजज्ञतुः”
ऋ० ९ । ६८ । ५ । “पशुस्तिष्ठन् गर्भं धृत्वानुप विश्य
विजायते” शत० ब्रा० ७ । ४ । १ । १ । “काममाविज-
नितीः सम्भवेम” तै० स० ३ । ५ । १ । ५ “तस्मात् व्यजायत”
रामा० बा० १ । ७० । “यक्षी पुत्रं व्यजायत” बा २७ । ८ ।

जन पु० जन--अच् । १ लोके “जनस्तुषाराञ्जनपर्वताविव”

मावः २ महर्लोकादूर्द्धलोके ३ असुरभेदे च जनार्द्दनः ।
तल्लोकप्राप्तिहेतुकथनं भूमेरुच्चतोक्तिश्च “इत्थं कथां
कथयतोर्भगवद्गणयोः प्रिये! । क्षणार्द्धेन विमानं तज्जन-
लोक निनाय तान् । निवसन्त्यमलायत्र मानसाः ब्रह्मणः
सुताः । सनन्दनाद्या योगीन्द्रा सर्वे तेह्यूर्द्धरेतसः । अन्ये
तु योगिनोये वै ह्यस्खलद्ब्रह्मचारिणः । सर्व्वद्वन्द्व-
विनिर्मुक्तास्ते वसन्त्यत्र निर्मलाः । महर्लोकः क्षितेरूर्द्ध-
मेककोटिप्रमाणतः । कोटिद्वये तु संख्यातो जनो मूलो-
कतोजनैः” काशी० ख० ।

जनक पु० जन--णिच्--ण्वुल् । १ पितरि अमरः “शुध्येत्तु-

जनकस्त्रिभिः” शु० त० । २ उत्पादके त्रि० “जन्यानां
जनकः कालो जगतामाश्रयोमत्र भाषा० “३ उपस्मृति-
कारके ३ऋषिभेदे जतूकर्णशब्दे दृश्यम् निमिवंशजाते
४ विदेहनृपभेदे । इक्ष्वाकुवंश्यनिमिवसिष्ठयोरन्योन्य-
शापात् विदेहताप्राप्तौ वसिष्ठस्य देहप्राप्तिमुक्त्वा रामा०
उत्त० ५६ अ० । निमेर्जनकोत्पत्तिकथोक्ता यथा
“दृष्ट्वा विदेहं राजानमृषयः सर्व एव ते । तञ्च ते याजया-
मासुर्यज्ञदीक्षां मनीषिणः । तञ्च देहं नरेन्द्रस्य रक्षन्ति-
स्म द्विजोत्तमाः । गन्धैर्माल्यैश्च वस्त्रैश्च पौरभृत्यसम-
न्विताः । ततो यज्ञे समाप्ते तु भृगुस्तत्रेदमब्रवीत् ।
आनयिष्यामिते चेतस्तुष्टोऽस्मि तव पार्थिव! । सुप्रीताश्च
सुखः सर्वे निमेश्चेतस्तदाऽब्रुवन् । वरं वरय राजर्पे क्व ते
चेतोनिरूप्यताम् । एवमुक्तः सुरैः सर्वैर्निमेश्चेतस्तदाऽव्र-
वीत् । नेत्रेषु सर्वभतानां वसेयं सुरसत्तमाः! । वाढ़मि-
न्येव विबुधानिमेश्चेतस्तदाब्रुवन् । नेत्रेषु सर्वभूतानां
वायुभतश्चरिष्यसि । त्वत्कृते निमिषिष्यन्ति चक्षूंषि
पृथिवीपते! । वायुभूतेन चरता विश्रामार्थं मुहुर्मुहुः ।
एवमुक्त्वा तु विबुधाः सर्वे जग्सुर्यथागतम् । ऋषयो-
ऽपि महात्मानो निमेर्देहं समाहरन् । अरणिन्तत्र
निक्षिप्य मथनञ्चक्रुरोजसा । मन्त्रहोमैर्महात्मानः पुत्र-
हेतोर्निमेस्तदा । अरण्यां मथ्यमानायां प्रादुर्भूतो
महातपाः । मथनान्मिथिरित्यादुर्जननाज्जनकोऽभवत् ।
यस्माद्विदेहात्संम्भूतोवैदेहस्तु ततः स्मृतः । एवं विदेह-
राजश्च जनकः पूर्वकाऽभवत् । मिथिर्नाम महातेजा
स्तेनायं मैथिलोऽभवत् । इति सर्वमशेषतो मया
कथितं संभवकारणन्तु सौम्य । नृपपुङ्गवः शापजं द्विजस्य
द्विजशापाच्च यदद्भुतं नृपस्य” ।
५ शम्बरासुरपुत्रभेदे । “सेनस्कन्धोऽतिसेनश्च शनको जन-
पृष्ठ ३०१९
कस्ततः” हरिव० १६३ अ० । “तद्धैतज्जनको वैदेहो
याज्ञवल्क्यं प्रपच्छ” शत० व्रा० ११ । ३ । १ । २ ।
“सहस्नमेतस्यां वाचि दद्मो जनको जनक इति वै जना
धावन्तीति” १४ । ५ । १ । १ ।

जनकतनया स्त्री जनकस्य तनयेव तत्पाल्यत्वात् । रामकलत्रे

जनकयज्ञे वेद्यां हलाकर्षणजातायां सीतायां सा हि
सत्ययुगे वृहस्पतिसुतकुशध्वजकन्या वेदवती नामासीत्
त्रेतायां सीताजातत्वात् सीतानामा बभूव रामा० उत्त०
१७ अ० तत्कथा यथा ।
“कुशध्वजो नाम पिता ब्रह्मर्षिरमितप्रभः ।
वृहस्पतिसुतः श्रीमान् बुद्ध्या तुल्यो वृहस्पतेः । तस्याहं
कुर्वती नित्यं वेदाभ्यासं महात्मनः । सम्भूता वाङ्-
मयी कन्या नाम्ना वेदवती स्मृता । ततो देवाः स
गन्धर्वायक्षराक्षसपन्नगाः । ते चापि गत्वा पितरं
वरणं रोचयन्ति मे । न च मां स पिता तेभ्यो दत्त-
वान् राक्षसेश्वर! । कारणं तद्वदिष्यामि निशामय
महाभुज! । पितुस्तु मम जामाता विष्णुः किल सुरेश्वरः ।
अभिप्रेतस्त्रिलोकेशस्तस्मान्नान्यस्य मे पिता । दातु-
मिच्छति तस्मै तु तच्छ्रुत्वा बलदर्पितः । शम्भुर्नाम
ततो राजा दैत्यानां कुपितोऽभवत् । तेन रात्रौ शयानो
मे पिता पापेन हिंसितः । ततो मे जननी दीना तच्छ-
रीरं पितुर्मम । परिष्वज्य महाभागा प्रविष्टा हव्य-
वाहनम् । ततो मनोरथं सत्यं पितुर्नारायणं प्रति ।
करोमीति तमेवाहं हृदयेन समुद्वहे । इति प्रतिज्ञा-
मारुह्य चरामि विपुलं तपः । एतत्ते सर्वमाख्यातं
मया राक्षसपुङ्गव! । नारायणो मम पतिर्न त्वन्यः
पुरुषोत्तमात् । आश्रये नियमं घोरं नारायणपरी-
पसया । विज्ञातस्त्वं हि मे राजन्! गच्छ पौलस्त्य-
नन्दन! । जानामि तपसा सर्वं त्रैलोक्ये यद्धि वर्तते ।”
ततस्तां कामयमानेन रावणेन सा धर्षिता तस्मै शापं
दत्त्वा ममार तत्कथा
“एवमुक्तस्तया तत्र वेदवत्या निशाचरः । मूर्धजेषु तदा
कन्यां कराग्रेण परामृशत् । ततो वेदवती क्रुद्धा
केशान् हस्तेन साऽच्छिनत् । असिर्भूत्वा करस्तस्याः
केशांश्छिन्नांस्तदाऽकरोत् । सा ज्वलन्तीव रोषेण
दहन्तीव निशाचरम् । उवाचाग्निं समाधाय मरणाय
कृतत्वरा । धर्षितायास्त्वयाऽनार्य! न मे जीवितमिष्यते ।
रक्षस्तस्मात् प्रवेक्ष्यामि पश्यतस्ते हुताशनम् । यस्मात्तु
धर्षिता चाहं त्वया पापात्मना वने । तस्मात्तव बधार्थं
हि समुत्पत्स्याम्यहं पुनः । न हि शक्यः स्त्रिया हन्तुं
पुरुषः पापनिश्चय! । शापे त्वयि मयोत्सृष्टे तपसश्च
व्ययो भवेत् । यदि त्वस्ति मया किञ्चित्कृतं दत्तं हुतं
तथा । तस्मात् त्वयोनिजा साध्वी भवेयं धर्मिणः सुता ।
एवमुक्त्वा प्रविष्टा सा ज्वलितं जातवेदसम् । पपात
च दिवो दिव्या पुष्पवृष्टिः समन्ततः । सैषा जनकरा-
जस्य प्रसूता तनया प्रभो! । तव भार्या महाबाहो!
विष्णुस्त्वं हि सनातनः । पूर्वं क्रोधहतः शत्रुर्ययासौ
निहतस्तथा । उपाश्रयित्वा शैलाभस्तव वीर्यममानुषम् ।
एवमेषा महाभागा मर्त्येषूत्पत्स्यते पुनः । क्षेत्रे
हलमुखोत्कृष्टवेद्यामग्निशिखोपमा । एषा वेदवती नाम
पूर्वमासीत् कृते युगे । त्रेतायुगमनुप्राप्य बधार्थं
तस्य रक्षसः । उत्पन्ना मैथिलकुले जनकस्य
महात्मनः” । कालिकापु० ३७ अ० तस्याः पृथिव्या उत्पत्ति-
रुक्ता । कल्पभेदादविरोधः । जनकात्मजाजनकतनया-
दयोऽप्यत्र ।

जनकराजकूप पु० तीर्थभेदे ।

जनकसप्तरात्र पु० सप्तभिः रात्रिभिःसाध्यः अण् तस्य लुक्

अच् समा० जनकेन दृष्टः सप्तरात्रः । जनकदृष्टे सप्त-
रात्रसाध्ये यागभेदे । “जनकसप्तरात्रमृद्धिकामः
अभिप्लव चतुरही विश्वजिन्महाव्रतं ज्योतिष्टोमः” आश्व०
श्रौ० १० । ३ । १४ । “जनकसप्तरात्रस्याहःक्ल प्तिरुच्यते ।
अभिप्लव चतुरहो विश्वजिन्महाव्रतं ज्योतिष्टोम इति”
नारा० “जनक सप्तरात्रः चतुर्म्यो विश्वजिन्महाव्रतम्” ।
कात्या० श्रौ० २३ । ५ । ९ “चतुर्भ्यः पार्ष्टिकेभ्यः परो विश्व-
जिन्महाव्रतं च” ।

जनकारिन पु० जनैः कीय्य ते कॄ--बा० कर्म्मणि णिनि ।

अलक्तके राजनि० ।

जनकेश्वर पु० जनकेन स्थापितः ईश्वरः । जनकस्थापिते शिवलिङ्गरूपे तीर्थभेदे शिवपु० ।

जनङ्कम पुंस्त्री जनेभ्योगच्छति वहिः गम--खच् मुम् च ।

चण्डाले स्त्रियां जातित्वात् ङीष् । “अवधीत् ।
जनङ्गम इवैष यदि हतवृषो वृषन्ननु । स्पर्शमशुचिवपुरर्हति
प्रतिमाननान्तु नितरां नृपोचिताम्” माघः ।

जनचक्षुस् न० जनस्य चक्षुरिव । लोकचक्षुर्वत्प्रकाशके सूर्य्ये

“मुहूर्त्ताभ्युदिते सूर्य्ये जनचक्षुषि निर्म्मले” हरिवं
१४३ । लोकश्चक्षुःप्रभृतयोऽप्यत्र । “लोकचक्षुर्दिवाकरः”
आदित्यहृयम् ।
पृष्ठ ३०२०

जनजन्मादि पु० जनस्य जनिमतो जन्मन आदिः । पर

मेश्वरे । “जननो जनजन्मादिः” विष्णुस० ।

जनत् पु० जन--भावे अति । जनने जनद्वच्छब्दे दृश्यम् ।

जनता स्त्री जनानां समूहः तल् । जनसमूहे अमरः ।

“आगामिनीं गृहिरे जनतास्तरूणाम्” । “विहिता-
ञ्जलिर्जनतया दधती” माथः ।

जनत्रा स्त्री जनान् त्रायते त्रै--क । जङ्गमकुट्याम्” हारा० ।

जनदेव पु० जनोदेव इव उपमितस० । नरदेवे नरश्रेष्ठे

राजनि “जनको जनदेवस्तु मिथिलायां जनाधिपः”
भा० शा० २१८ अ० ।

जनद्वत् पु० जनत् जननमस्त्यस्य मतुप् मस्य वः । जनन

गुणयोगिनि वह्नौ “अग्नये तपस्वते जनद्वते पावकवते
स्वाहा” ऐत० व्रा० ७ । ८ ।

जनधा पु० जनं दधाति धा--क्विप् । जनपोषके वह्नौ स हि

जनानां जठरस्थित्यान्नादेः पाचनेन रसवीर्य्यसम्पादन-
द्वारा पोषकः इति तस्य तथात्वम्” तैत्ति० व्रा०
४१ । १ । १ । १ । १ । उदा० ।

जनन न० जन--भावे ल्युट् । १ उद्भवे २ जन्मनि (स्वादृष्टो

पनिबद्धशरीरग्रहणे) ३ आविर्भावे च “यदैव पूर्वं जनने
शरीरम्” कुमार० । दीक्षितस्य यज्ञादिषु ४ दीक्षादि-
संस्कारभेदे दीक्षितस्य दीक्षारूपजन्मवत्त्वात् तथात्वम्
“पुनर्वा एतमृत्विजो गर्भं कुर्वन्ति ये दीक्षयन्तीत्यादि”
श्रुतेः । “मातुरग्रे ऽधिजननं द्वितीयं मौञ्जिबन्धने ।
तृतीयं यज्ञदीक्षायां द्विजस्य श्रुतिचोदनादिति” मनुः ।
आधारे ल्युट् । ५ वंशे । जन--णिच्--भावे ल्युट् ।
६ उतपादने । “अन्योऽन्यशोभाजननाद् वभूव”
कुमार० । कर्त्तरि ल्यु । ७ उत्पादके त्रि० “सोमापूषणा
जनना रयीणां जनना दिवो जनना पृथिव्याः”
ऋ० २ । ४ । १ । ८ परमेश्वरे पु० “जननो जनजन्मादिः”
विष्णुस० ।

जननाशौच न० जनननिभित्तमशौचम् । प्रसवनिमित्ता-

शौचे अशौचशब्दे ४८६ पृ० दृश्यम् ।

जननि स्त्री--जन अनि । जनीनामगन्धद्रव्ये शब्दरत्ना० ।

जननी स्त्री जनयति जन--णिच्--अनि जन--अपादाने

अनि वा, ङीप् । १ मातरि “जनन्यां संस्थितायान्तु समं सर्वे
सहोदराः । भजेरन् मातृकं रिक्थं भगिन्यश्च सनाभयः”
मनुः । २ दयायां भेदि० ३ जनीनामगन्धद्रव्ये ४ चर्मचटिकायां
शब्दर० ५ बूथिकायां शब्दच० ६ कटुकायां ७ मञ्जिष्ठायाम्
८ अलक्तके च राजनि० । ९ उत्पादकस्त्रीमात्रे “वदा
मस्ते किं वा जननि! बयमुच्चैर्जडधियः” कालीस्तवः
“वीजप्ररोहजननीं ज्वलनः करोति” रघुः । “मासेन
स्त्रीजननी” विष्णुसू० । १० जटामांस्यां राजनि० ।

जनपद पु० जनाः पद्यन्ते गच्छन्ति यत्र पद--आधारे घ ।

देशे । अमरः । “कुलानि जातीः श्रेणीश्च गणान्
जनपदानपि” याज्ञव० । जनपदभेदाश्च भा० भी० ९ अ०
दर्शिता यथा
“अतऊर्द्धं जनपदान्निबोध गदतो मम । तत्रेमे कुरु-
पाञ्चालाः शाल्वा माद्रेयजाङ्गलाः । शूरसेनाः पुलि-
न्दाश्च बोधा मालास्तथैव च । मत्स्याः कुशट्टाः
कौशल्याः कुन्तयः काशिकोशलाः । चेदिमत्स्यकरूषाश्च
भोजाः सिन्धुपुलिन्दकाः । उत्तमार्णा दशार्णाश्च
मेकलाश्चोत्कलैः सह । पाञ्चालाः कोशलाश्चैव नैकपृष्ठा
युगन्धराः । बोधा मद्राः कलिङ्गाश्च काशयोऽपरका-
शयः । जठराः कुकुराश्चैव सदशार्णाश्च भारत” ।
कुन्तयोऽवन्तयश्चैव तथैवापरकुन्तयः । गोमन्ता मल्लकाः
पाण्ड्याः विदर्भानूपवाहिकाः । अश्वकाः पांशुराष्ट्राश्च
गोपराष्ट्राः करीतयः । अधिराज्यं कुशट्टाश्च मल्लराष्ट्र-
ञ्च केरलाः । वारवाश्यापवाहाश्च वक्रा वक्रातयः
शकाः । विदेहा मगधाः कक्ष्या मलया विजयास्तथा ।
अङ्गा वङ्गाः कलिङ्गाश्च यकृल्लोमान एव च । मल्लाः
सुदेष्णाः प्रह्रादा माहिषाः शशकास्तथा । वाह्लीका
वाटधानाश्च आभीराः कालतोयकाः । अपरान्ताः
परान्ताश्च पक्वणाश्चर्म्मचण्डकाः । अटवीशिखराश्चैव
मेरुभूताश्च मारिष! । उपावृत्तानुपावृत्ताश्च सुराष्टाः
केकयास्तथा । कुट्टाः परान्ता माहेयाः कक्षाः सामुद्रनि-
ष्कुटाः । अन्ध्राश्च बहवो राजन्नन्तगिर्य्यास्तथैव च ।
बहिर्गिर्य्याङ्गमलदा मागधा मालवाझटाः । मह्युत्तराः
प्रावृषेया भार्गवाश्च जनाधिप! । पुण्ड्रा भागाः
किराताश्च सुदेष्णा यामुनास्तथा । शका निषादनिष-
धास्तथैवानर्त्तनैरृताः । दुर्गलाः पूतिमत्स्याश्च कुन्त-
लाः कुशलास्तथा । तीरग्रहाः शूरसेना ईजिकाः
कन्यकागणाः । तिलभारा मसीराश्च मधुमत्ताः
सुकन्दुकाः । काश्मीराः सिन्धुसौवीरा गान्धारा दर्शका-
स्तथा । अभीसारा उलूताश्च शैवाला वाह्लिकास्तथा ।
दर्व्वीचरा नवादर्ब्बा वातजामरथोरगाः । बहुवट्टा-
ण कौरव्य! सदामानः सुमल्लिकाः । उद्ध्रा करीषका-
पृष्ठ ३०२१
श्चापि कुलिन्दोपत्यकास्तथा । वानायवो दशाः पार्श्वा
रोमाणः कुशविन्दवः । कच्छा गोपालकच्छाश्च जाङ्ग
लाः कुरुवर्णकाः । किराता वर्व्वराः सिद्धा वैदेहास्ताम्र-
लिप्तकाः । ओड्रा म्लेच्छाः ससैरिन्ध्राः पार्व्वतीयाश्च
मारिष! । अथापरे जनपदा दक्षिणा भरतर्षभ! ।
द्रविड़ाः केरलाः प्राच्या मूषिका वनवासिकाः । कर्णा-
टका माहिषका विकल्पा मूषकास्तथा । झिल्लिकाः
कुन्तलाश्चैव सौहृदा नलकाननाः । कोकुट्टकास्तथा
चोलाः कोङ्कणा मालवा नराः । समङ्गाः कनकाश्चैव
कुकुराङ्गारमारिषाः । ध्वजिन्युत्सवसंकेतास्त्रिगर्त्ताः
शाल्वसेनयः । व्यूढ़काः कोरकाः प्रोष्ठा समवेगवशास्तथा ।
तथैव विन्ध्यपुलिकाः पुलिन्दा वल्कलैः सह । मालवा
वल्लवाश्चैव तथैवापरवर्त्तकाः । कुलिन्दाः कालदाश्चैव
दण्डकाः करटास्तथा । मूषकास्तनबालाश्च मनीमा
घटसृञ्जयाः । अलिदायाः शिवाटाश्च स्तनपाः
सुनयास्तथा । ऋषिका विदर्भाः काकास्तङ्गनाः
परतङ्गनाः । उत्तराश्चापरे म्लेच्छा जना भरतसत्तम! ।
यवनाश्च सकाम्बोजा दारुणा म्लेच्छजातयः । सकृद्व-
हाः कुलत्थाश्च हूणाः पारसिकैः सह । तथैव रम
णाश्चीनास्तथा च दशमालिकाः । क्षत्रियोपनिवेशश्च
वैश्यशूद्रकुलानि च । शूद्राभीराश्च दरदाः कश्मीराः
पशुभिः सह । खाशीकाश्चान्तचाराश्च पह्नवा गिरि-
गह्वराः । आत्रेयाः सभरद्वाजास्तथैव स्तनपोषकाः ।
द्रोषकाश्च कलिङ्गाश्च किरातानाञ्च जातयः । तोमरा
हन्यमानाश्च तथैव करभञ्जकाः । एते चान्ये
जनपदाः प्राच्योदीच्यास्तथैव च” ।
वृ० स० १४ अ० कूर्मविभागे तु तेषां मध्ये केषाञ्चित्
दिग्भेदेन स्थितिर्दर्शिता ते च कूर्म्मविभागशब्दे पृ०
उक्ता देशानां सीमादि तत्तच्छब्दे उक्तं वक्ष्यमाणञ्च
केचिद्भेदास्तु पु० मध्यादिदेशभेदेन उक्ता यथा
“तैमे कुरुपाञ्चालाः शाल्वाश्चैव सजाङ्गलाः ।
शूरसेना मुद्रकारा बोधकाः सपटच्चराः । मत्स्याः किराताः
कुल्याश्च कुन्तयः कुन्तिकोशलाः । आवन्ताश्च कुलिङ्गाश्च
कोलाश्चैवान्ध्रकैः सह । मध्वदेश्या जनपदाः प्रायशः
परिकीर्त्तिताः । वाह्लिका वाटधानाश्च आभीराः
कालतोयकाः । परन्ध्राश्चैव शूद्राश्च पह्नवाश्रात्मखण्ड़िकाः ।
गान्धारा यवनाश्चैव सिन्धुसौवीरमद्रकाः । शका द्रुह्याः
पुलिन्दाश्च पारदा हारमूर्त्तिकाः । रामठाः कण्ठकाराश्च
केकयादेशमानिकाः । क्षत्रियोपनिवेशाश्च वैश्यशूद्र-
कुलानि च । आत्रेयोऽथ भरद्वाजः व्रस्थलाः सदशेरकाः ।
लम्बकास्तनपानाश्च सैनिकाः सह साङ्गजैः । एते देशा
उदीच्यास्तु प्राच्यान्देशान्निबोधत । अङ्गावङ्गामद्गुरका
अन्तर्गिरिबहिर्गिराः । ततः प्रवङ्गा मातङ्गा मलया
मलवर्त्तकाः । सूक्ष्मोत्तराः प्रविजया भार्गवाङ्गेय-
मालवाः । प्राग्ज्योतिषाश्च पुण्ड्राश्च विदेहास्ताम्र-
लिप्तकाः । शाल्वमागधगोनर्द्दाः प्राच्या जनपदाः स्मृताः ।
तथाऽपरे जनपदा दक्षिणापथवासिनः । पाण्ड्याश्च
केरलाश्चैव चोलाः कुल्यास्तथैव च । सेतुकामुख्यका-
श्चैव कुपथाचारवासिकाः । नवराष्ट्राः माहिषकाः
कलिङ्गाश्चैव सर्वशः । कावेराश्च सहैषीकैराटव्याः
शवरास्तथा । पुलिङ्गाविन्ध्यमूषीका वैदर्भा दण्डकैः सह ।
कुलीयाश्च शिरालाश्च रूपसास्तामसैःसह । तथा तैत्ति
रकाश्चैव सर्वे कारस्करास्तथा । नासिकाद्याश्च ये
चान्ये ये चैवान्तरनर्मदाः । भानुकच्छाः समाहेयाः
सह सारस्वतैस्तथा । काच्छीयाश्च सुराष्ट्राश्च आनर्त्ताश्चा-
र्बुदैः सह । इत्येते अपरान्ताश्च शृणु ये विन्ध्यवासिनः ।
मालवाश्च कुरूषाश्च मेकलाश्चोत्कलैःसह । उत्तमाशाः
दशार्णाश्च भोजाः किस्किन्धिकैः सह । तोषलाःकोश-
लाश्चैव त्रैपुरा वैदिकास्तथा । तुसुरास्तूम्बुराश्चैव
पटुमान्निषधैः सह । अनूपास्तुण्डिकेराप पीतिहोत्रा
अवन्तयः । एते जनपदाः ख्याता विन्ध्यपृष्ठनिबा-
सिनः । अतो देशान् प्रवक्ष्यामि पवताश्रायणश्च ये ।
निर्दारा हंसवर्णाश्च कुपथा अपथाः खथाः ।
कुथप्रावरणाश्चैव उर्णादर्भाः समुद्रकाः । त्रिगर्त्ता मण्ड-
लाश्चैव किराताश्चामरैः सह” । शक्तिसङ्गमतन्त्रे
देशभेदसीभाद्युक्त यथा “देशव्यबस्था देवेशि! कथ्यते
शृणु तत्परा । वैदानाथं समारभ्य भुवनेशान्तगं शिवे! ।
तावदङ्गाभिधो देशो यात्रायां नहि दुष्यति । रत्नाकरं
समारभ्य ब्रह्मपुत्रान्तगं शिवे! । वङ्गदेशो मया प्रोक्तः
सर्वसिद्धिप्रदर्शकः । जगन्नाथात् पूर्वभागात् कृष्णा-
तीरान्तगं शिवे! । कलिङ्गदेशः संप्रोक्तोवाममार्गप-
रायणः । कलिङ्गदेशमारभ्य पञ्चाष्टयोजनं शिवे! ।
दक्षिणस्यां महेशानि! कालिङ्गः परिकीर्त्तितः । सुब्रा-
ह्मण्यं समारभ्य यावद्देवो जनार्द्दनः । तावत् केरल-
देशः स्यात् तन्मध्ये सिद्धकेरलः । रार्थश्वरात् व्यङ्कटेशात्
हंसकेरलनामकः । अनन्तशैलभार भावत्मादिव्यपं
पृष्ठ ३०२२
परे । तावत् सर्वेशनामा तु केरलः परिकीर्त्तितः ।
शारदामठमारभ्य कुङ्कुमाद्रितटान्तकम् । तावत्काश्मीर
देशः स्यात् पञ्चाशद्योजनान्तकः । कालेश्वरं श्वेत-
गिरिं त्रैपुरं नीलपर्वतम् । कामरूपाभिधो देशो गणेश
गिरिमूर्द्धनि । त्रिपञ्चकं समारभ्य मध्ये चोज्जयिनी
शिवे । मार्ज्जारतीर्थं राजेन्द्र! कोलापुरनिवासिनी ।
तावद्देशो महाराष्ट्रः कर्णाटस्वामिगोचरः । जगन्ना-
थादूर्द्धभागादर्वाक् श्रीभ्रमरान्तिकात् । तावदन्ध्राभिधो
देशः सौराष्ट्रं शृणु सादरम् । कोङ्कणात् पश्चिमं तीर्थं
समुद्रप्रान्तगोचरम् । हिङ्गलाटान्तको देवि! दशयोजन-
देशतः । सौराष्ट्रदेशो देवेशि! तस्मात्तु गुर्ज्जराभिधः ।
श्रीशैलन्तु समारभ्य चोलेशान्मध्यभागतः । तैलङ्ग-
देशो देवेशि! ध्यानाध्ययनतत्परः । सुराम्बिकां समारभ्य
मलयाद्र्यन्तगं शिवे! । मलयालाभिधोदेशो मन्त्रसिद्धि
प्रवर्त्तकः । रामनाथं समारभ्य श्रीरङ्गान्तं किलेश्वरि! ।
कर्णाटदेशो देवेशि! साम्राज्यभोगदायकः । ताम्रपर्णीं
समारम्य शैलार्द्धशिखरोर्द्धतः । अवन्तीसंज्ञको देशः
कालिका तत्र तिष्ठति । भद्रकाली महापूर्वे रामदुर्गाच्च
पश्चिमे । श्रीविदर्भाभिधो देशो वैदर्भी तत्र तिष्ठति ।
गुर्ज्जरात् पूर्वभागे तु द्वारकातो हि दक्षिणे । मरुदेशो
महेशानि! उष्ट्रोत्पत्तिपरायणः । श्रीकोङ्कणादधोभागे
तापीतः पश्चिमे परे । आभीरदेशो देवेशि! विन्ध्य-
शैले व्यवस्थितः । अवन्तीतः पूर्वभागे गोदावर्य्यास्तथो
त्तरे । मालवाख्यो महादेशो! धनधान्यपरायणः ।
द्रविड़तैलङ्गमध्ये चोलदेशः प्रकीर्त्तितः । लम्ब-
कर्णाश्च ते प्रोक्तास्तद्भेदोवान्तरे भवेत् । कुरुक्षेत्रात्
पश्चिमे तु तथा चोत्तरभागतः । इन्द्रप्रस्थान्महेशानि!
दशयोजनकद्वये । पाञ्चालदेशो देवेशि! सौन्दर्य्यगर्व-
भूषितः । पाञ्चालदेशमारभ्य म्लेच्छाद्दक्षिणपूर्वतः ।
काम्बोजदेशी देवेशि! वाजिराजिपरायणः । वैदर्भ-
देशादूर्द्धञ्च इन्द्रप्रस्थाच्च दक्षिणे । मरुदेशात् पूर्वभागे
वैराटः परिकीर्त्तितः । काम्बोजाद्दक्षभागे तु इन्द्र-
प्रस्थाचु पश्चिमे । पाण्ड्यदेशो महेशानि! महाशूरत्व
कारकः । गण्डकीतीरमारभ्य चम्पारण्यान्तकं शिवे! ।
विदेहभूः समख्याता तैरभुक्ताभिधः स तु काम्बोज
देशमारभ्य महाम्लेच्छात्तु पूर्व्वके । वाह्लीकदेशो-
देवेशि! अश्वोत्पपत्तिपरायणः । तप्तकुण्डं समारभ्य
रामक्षेत्रान्तकं शिवे! । किरातदेशोदेवेशि! विन्ध्यशैलेऽव-
तिष्ठति । करतोयां समारभ्य हिङ्गलाटान्तगः शिवे ।
मुलतानदेशोदेवेशि! महाम्लेच्छपरायणः । हिङ्गु-
पीठं समारभ्य मक्केशान्तं महेश्वरि! । खुरसानाभिधो-
देशो म्लेच्छमार्गपरायणः । तन्मध्ये चोत्तरे देवि! ऐराकः
परिकीर्त्तितः । काश्मीरन्तु समारभ्य कामरूपात्तु पश्चिमे ।
भोटान्तदेशो देवशि! मानसेशाच्च दक्षिणे । मानसेशा-
द्दक्षपूर्वे चीनदेशः प्रकीर्त्तितः । कैलानीरं समारभ्य
सरयूं परितः परे । आमरगान् महेशानि! महाचीना-
भिधो भवेत् । जटेश्वरं समारभ्य योगिन्यन्तं महेश्वरि ।
नेपालदेशोदेवेशि! शिलहट्टं शृणु प्रिये । गणेश्वरं
समारभ्य महोदध्यन्तगं शिवे! । शिलहट्टाभिधो देशः पर्वते-
तिष्ठति प्रिये! । वङ्गदेशं समारभ्य भुवनेशान्तगं शिवे ।
गौड़देशः समाख्यातः सर्वविद्याविशारदः । गोकर्णे-
शात् पूर्व्वभागे आर्य्यावर्त्तात्तु चोत्तरे । तैरभुक्तात् पश्चिमे
तु महापुर्य्याश्च सर्व्वतः । महाकोशलदेशश्च सूर्य्यवंश
परायणः । व्यासेश्वरं समारभ्य तप्तकुण्डान्तकं शिवे! ।
मगधाख्यो महादेशो यात्रायां न हि दुष्यति । दक्षोत्तर
क्रमेणैव क्रमात् कीकटमागधौ । चरणाद्रिं समारभ्य
गृध्रकूटान्तकः शिवे! । तावत् कीकटदेशः स्यात्तदन्तर्मा-
गधो भवेत् । जगन्नाथप्रान्तदेशश्चोत्कलः परिकीर्त्तितः ।
कामगिरिं समारभ्य द्वारकान्तं महेश्वरि! । स्त्रीकुन्त-
लाभिधो देशोहूणं शृणु महेश्वरि! । कामगिरेर्द्दक्ष-
भागे मरुदेशात्तथोत्तरे । हूणदेशः समाख्यातः शूरास्तत्र
रमन्ति च । अथाप्यङ्गं समारभ्य कोटिदेशस्य मध्यगे ।
समुद्रप्रान्तदेशो हि कोङ्कणः परिकीर्त्तितः । ब्रह्म-
पुत्रात् कामरूपात् मध्यभागे तु कैकयः । मागधाद्दक्ष
भागे तु विन्ध्यात् पश्चिमतः शिवे! । शौरसेनाभिधो-
देशः सूर्य्यवंशप्रकाशकः । हस्तिनापुरमारभ्य कुरुक्षेत्रा
च्च दक्षिणे । पाञ्चालपूर्व्वभागे तु कुरुदेशः प्रकौर्त्तितः ।
कुरुदेशात् पूर्वभागे कामाद्रेर्दक्षिणे शिवे! । सिंहलाख्यो
महादेशः सर्वदेशोत्तमोत्तमः । शिलहट्टात् पूर्व्वभागे
कामरूपात्तथोत्तरे । पुलिन्ददेशोदेवेशि! नरनारायणः
परः । गणेश्वरात् पूर्व्वभागे समुद्रादुत्तरे शिवे! । कच्छ
देशः समाख्यातः सुदेवं शृणु सादरम् । पुलिन्दादुत्तरे-
भागे कच्छाच्च पश्चिमे शिवे! । मत्स्यदेशः समाख्यातो
मत्स्यबाहुल्यकारकः । वैराटपाण्ड्ययोर्मध्ये पूर्वदक्ष-
क्रमेण तु । मद्रदेशः समाख्यातो माद्रीह तत्र तिष्ठति ।
शूरसेनात् पूर्ब्बभागे गण्डक्याः पश्चिमे! शिवे! ।
पृष्ठ ३०२३
सौवीरदेशो देवेशि! सर्व्वदेशाधमाधमः । अवन्तीतः
पश्चिमे तु वैदर्भाद्दक्षिणोत्तरे । लाटदेशः समाख्यातो
वर्वरं शृणृ पार्वति! । मायापुरं समारभ्य सप्तशृङ्गा-
त्तथोत्तरे । वर्वराख्यो महादेशः सैन्धवं शृणु सादरम् ।
लङ्काप्रदेशमारभ्य मक्वान्तं परमेश्वरि! । सैन्धवाख्यो
महादेशः पर्वते तिष्ठति प्रिये! । एते षट् पञ्चाशद्देशा
मया प्रोक्ता महेश्वरि! । एतन्मध्ये ऽपि देवेशि! देशभेदा
ह्यनेकशः । कोटिशः सन्ति देवेशि! एते मुख्याः प्रकी-
र्त्तिताः । रहस्यातिरहस्यञ्च गोप्तव्यं पशुसङ्कटे । इति
संक्षेपतः प्रोक्तं किमन्यत् श्रोतुमिच्छसि” ।
तत्र भवः उत्सा० अञ् । जनप्रदादागत अण् तस्येदम्
अण्वा । जानपद तत्र भवे तत आगते तत्सम्बन्धिनि
च । “नीवारपाकादिकडङ्गरीयैरामृष्यते जानपदैर्नकच्चित् ।
“देयं चौरहृतं द्रव्यं राज्ञाजानपदाय तु” याज्ञ०
स्त्रियां तु वृत्तौ जानपदेत्यादि पा० ङीष् । वृत्तावेव
ङीषो नियमात् अन्यत्र जानपदा अञन्तस्य ङीपि
जानपदी तत्रभवस्त्रियां पित्त्वात् आद्युदात्तता । “त्यजेदेकं
कुलस्यार्थे ग्रामस्यार्थे कुलं त्यजेत् । ग्रामं जनपदस्याथे
आत्मार्थे पृथिवीं त्यजेत्” नीतिसारः ।

जनपदिन् त्रि० जनपदाः सन्त्यस्य स्वत्वेन इति । जनपद-

स्वामिनि । “जनपदिनां जनपदेन समानशब्दानाम्”
पा० “जनपदिनां जनपदस्वामिनाम्” सि० कौ० ।
स्त्रियां ङीप् ।

जनप्रवाद पु० जनेषु प्रवादः ७ त० । जनापवादे वचनीय तायां हेमच० ।

जनप्रिय पु० ६ त० । १ शोभाङ्कनवृक्षे २ धन्याके च राजनि० ।

३ लोकप्रियमात्रे त्रि० ।

जनभक्ष पु० जनानां भक्षः भज--बा० कर्म्मणि स । २

यजमानानां कामदानेन भजनीये । “सत्रासाही जनभक्षो
जनं सहः” ऋ० २ । २ । १ । ३ । २ जनानां भक्षणे च ।

जनमेजय पु० जनमेजयति एज--णिच्--खश् । १ परीक्षितो

नृपतेः पुत्रे २ कुरुनामभूपपुत्रभेदे च । “ततः संवरणात्सौरी
तपती सुषुवे कुरुम् । राजन्नेतं प्रजाः सर्व्वा धर्म्मज्ञ
इति वव्रिरे । तस्य नाम्नाऽभिविख्यातं पृथिव्यां कुरु-
जाङ्खलम् । कुरुक्षेत्रं स तपसा पुण्यं चक्रे महातपाः ।
अविक्षितमभिष्यन्तं तथा चैत्ररथं मुनिम् । जनमेजय
ञ्च विख्यातं पुत्रांश्चास्यानुशुश्रमः । पञ्चैतान् वाहिनी
पुत्रान् व्यजायत मनस्विनी । जनमेजयस्य तनया
भुवि ख्याता महाबलाः” भा० आ० ९४ अ० । ३ पुरुनृपपुत्रे
च “पुरोः पुत्रो महावीर्य्यो राजासीज्जनमेजयः” हरिव०
३१ अ० । तत्र परीक्षितःपुत्रो जनमेजयः सर्पसत्त्रे भारत
श्रुतवान् तत्कथा भा० आ० ५० अ० ।
“मन्त्रिणाञ्च वचः श्रुत्वा स राजा जनमेजयः । पर्म्यत-
प्यत दुःखार्त्तः प्रत्यपिंषत् करं करे । निःश्वासमुष्णम-
सकृद्दीर्घं राजीवलोचनः । मुमोचाश्रूणि च तदा
नेत्राभ्यां प्ररुदन्नृपः । दुर्धरं वास्पमुत्सृज्य स्पृष्ट्वा
चापो यथाविधि । मुहूर्त्तमिव च ध्यात्वा निश्चित्य
मनसा नृपः । अमर्षी मन्त्रिणः सर्व्वानिदं वचनमब्रवीत् ।
जनमेजय उवाच । श्रुत्वैतद्भवतां वाक्यं पितुर्मे स्वर्गतिं
प्रति । निश्चितेयं मम मतिर्या च तां मे निबोधत ।
अनन्तरञ्च मम्येऽहं तक्षकाय दुरात्मने । प्रतिकर्त्तव्यमि
त्येवं येन मे हिंसितः पिता । ऋषेर्हि शृङ्गिणोवाक्यं
कृत्वा दग्ध्वा च पार्थिवम् । इयं दुरात्मता तस्य काश्यपं
यो न्यवर्त्तयत् । यद्यागच्छेत् स वै विप्रो ननु जीवेत्
पिता मम । परिहीयेत किं तस्य यदि जीवेत् स पार्थिवः!
काश्यपस्य प्रसादेन मन्त्रिणां विनयेन च । स तु वारि-
तवान्मोहात् काश्यपं द्विजसत्तमम् । सञ्जिवीवयिषु
प्राप्तं राजानमपराजितम् । महानतिक्रमो ह्येष तक्ष-
कस्य दुरात्मनः । द्विजस्य योऽददद्द्रव्यं मा नृपं जीक
येदिति । उतङ्कस्य प्रियं कर्त्तुमात्मनश्च महत् प्रियम् ।
भवताञ्चैव सर्वेषां गच्छाम्यपचितिं पितुः” ।
“सौतिरुवाच । एवमुक्त्वा ततः श्रीमान्मन्त्रिमिश्चानुमो-
दितः । आरुरोह प्रतिज्ञां स सर्पसत्राय पार्थिवः ।
ब्रह्मन्! भरतशार्दूलो राजा पारीक्षितस्तदा । पुरोहित-
मथाहूय ऋत्विजो वसुधाधिपः । अब्रवीद्वाक्यसम्पन्नः
कार्य्यसम्पत्करं वचः । यो मे हिंसितवांस्तातं तक्षकः
स दुरात्मबान् । प्रतिकुर्य्यां तथा तस्य तद्भवन्तो ब्रुवन्तु मे ।
अपि तत्कर्म्म विदितं भवतां येन पन्नगम् । तक्षकं सं
प्रदीप्तेऽग्नौ प्रक्षिपेयं सबान्धवम् । यथा तेन पिता सह्यं
पूर्वं दग्धो विषाग्निना । तथाहमपि तं पापं दग्धु-
मिच्छामि पन्नगम् । ऋत्विज ऊचुः । अस्ति
राजन्महत् सत्रं त्वदर्थं देवनिर्मितम् । सर्पसत्रमिति ख्यातं
पुराणे परिपठ्यते । आहर्त्ता तस्य सत्रस्य त्वन्नान्योऽस्ति
नराधिप! । इति पौराणिकाः प्राहुरस्माकं चास्ति
स क्रतुः । सौतिरुवाच । एवमुक्तः स राजर्षिर्म्मेने-
दग्धं हि तक्षकम् । हुताशनमुखे दीप्ते प्रविष्टमिति
सत्तम! । ततोऽब्रवीन्मन्त्रविदस्तान्राजा ब्राह्मणास्तदा-
पृष्ठ ३०२४
आहरिष्यामि तत् सत्रं सम्भाराः सम्भ्रियन्तु मे” ५९ अ० ।
“श्रुत्वा ते सर्पसत्राय दीक्षितं जनमेजयम् । अभ्या-
गच्छदृषिर्विद्वान् कृष्णद्वैपायनस्तदा” । इत्युपक्रमे “इदं
प्रश्चाद्द्विजयेष्ठं पर्य्यपृच्छप् कृ तञ्जलिः । जनमेजय
उवाच । कुरूणां पाण्डपानाञ्च भवान् प्रत्यक्षदर्शिवान् ।
तेषां चरितमिच्छामि कथ्यमानं त्वया द्विज! । कथं
समभवद्भेदस्तेषामक्लिष्टकर्म्मणाम् । तच्च युद्धं कथं वृत्तं
भूतान्तकरणं महत् । पितामहानां सर्वेषां दैवेनाविष्ट-
चेतसाम् । कार्त्स्न्येनैतन्ममाचक्ष्व यथावृत्तं द्विजोत्तम! ।
सौतिरुवाव । तस्य तद्वचनं श्रुत्वा कृष्णद्वैपायनस्तदा ।
शशास शिष्यमासीनं वैशम्पायनमन्तिके । व्यास उवाच ।
कुरूणा पाण्डवानाञ्च यथा भेदीऽभवत्पुरा । तदस्मै
सर्वमाचक्ष्व यन्मत्तः श्रुतवानसि । गुरोर्वचनमाज्ञाय स
तु बिप्रर्षभस्तदा । आचचक्षे ततः सर्वमितिहासं पुरा-
तनम् । राज्ञे तस्मै सदस्येभ्यः पार्थिवेभ्यश्च सर्वशः ।
भेदं सर्वविनाशञ्च कुरुपाण्डवयोस्तदा” । ६० अ०
“वैशम्पायन उवाच । गुरवे प्राङ्नमस्कृत्य मनोबुद्धि-
समाधिभिः । संपूज्य च द्विजान् सर्वांस्तथाऽन्यान्
विदुषो जनान् । महर्षेर्विश्रुतस्येह सर्वलोकेषु
घीमतः । प्रवक्ष्यामि मतं कृत्स्नं व्यासस्यास्य महात्मनः ।
श्रोतुं पात्रञ्च राज्रंस्त्वं प्राप्येमां मारतीं कथाम् ।
गुरोर्वक्त्रपरिष्यन्दो मनः प्रोत्साहतीव मे । शृणु राजन्!
यथा भेदः कुरुपाण्डवयोरभूत् । राज्यार्थे द्यूतसम्भू-
तो वनवासस्तथैव च” । ६१ अ० ।
“स कदाचिम्मृगयां गतः पारीक्षितो जनमेजयः
कस्मिंश्चित् स्वविषये आश्रममपश्यत्” भा० आ० ३ अ० ।
“परीक्षितस्तु दायादो धार्मिकोजनमेजयः । जनमेजयस्य
दायदास्त्रय एव महारथाः । श्रुतसेनोग्रसेनौ च
भीमसेनश्च नामतः” । “द्वावृक्षौ तव वंशेऽस्मिन् द्वावेय च
परीक्षितौ । मीमसेनास्त्रयो राजन् द्वौ चापि जनमेजयौ” ।
“ऋक्षस्य च द्वितीयस्य भीमसेनोऽभवत् सुतः ।” “अभि-
मन्योः परीक्षित्तु पिता तव जनेश्वर!” मा० आ० ३२ अ० ।
४ पुरञ्जयनृपपुत्रे “जनमेजयो महाराज! पुरञ्जयसुती-
ऽभवत् । जनमेजयस्य राजर्षेर्महाशालोऽभवत्सुतः”
हरिव० ३१ अ० ।

जनयति स्त्री जन--णिच्--वा० भावे अति वेदे नि० णि०

लोपामावः । उत्पादने “जनयत्यै त्वा संयौमि”
अक्षु० । १ । २२ ।

जनयितृ पु० जन--णिच्--तृच् । १ पितरि २ उत्पादके त्रि०

३मातरि स्त्री ङीप् ।

जनरव पु० ६ त० । लोकापवादे । “परीवादस्तथ्यो भवति

वितथोवाऽपि महतां तथाप्युञ्चैर्धाम्नी हरति
महिमानं जनरवः” उद्भटः ।

जनराज पु० जनेषु राजते राज--क्विप् ७ त० । जनाधप

“जनराडसि रक्षोहा” यजु० ५ । २४ । जनराजादयो-
ऽप्यत्र ।

जनवल्लभ पु० ६ त० । १ श्वेतरोहितवृक्षे राजनि० २ लोकप्रिये त्रि० ।

जनवाद पु० ७ त० । लोकापवादे । “द्यूतं च जनवादञ्च

परीवादं तथानृतम्” मनुः । तत्र साघु कथा० ठक् ।
जानवादिक जनप्रवादसाधौ त्रि० । अलुक्स० । जने
वादोऽप्यत्र ततः साध्वर्थे कथादि० ठक् । जानेबादिक
तत्साधौ त्रि० ।

जनश्रुत त्रि० जने श्रुतः विख्यातः । १ लोकविख्याते २ राजभेदे

पु० तस्यापत्यम् इञ् । जानश्रुति तदपत्ये पौत्रायणे “जान-
श्रुतिर्ह पौत्रायणः श्रद्धादेयो बहुदायी आस” छा० उ० ।

जनश्रुति स्त्री जनेभ्यः श्रूयते श्रु--क्तिन् । सत्यासत्य-

साधारणलोकप्रसिद्धायां किंवदन्त्याम् अमर० ।

जनस् स्त्री हि० व० । जनयतः जन--णिच्--असुन् । सर्वभूत-

जनयित्र्योःद्यावापृथिव्योः । “पायुं जमसी उभे अनु”
ऋ० २ । २ । ४ । २ २ जनलोके न० “जनस्तपःसत्यनिवासिनो
जनाः भाग० ३ । १३ । २५ ।

जनस्थान न० १ दण्डकारण्ये जटाधरः । २ तत्रत्यस्थानभेदे

तच्च स्थानं पूर्वम् इक्ष्वाकुराजपुत्रदण्डस्य राजधानी
आसीत् दण्डेन च शुक्राचार्य्यकम्या बलात्कारेणा-
क्राम्याघर्षिता तेन कुपितेन वसिष्ठेन शप्तोदण्ड-
स्तत्कथा रामा० । उत्त० यथा “सप्तरात्रेण राजासौ
सभृत्यबलवाहनः । पापकर्म्मसमाचारो बधं प्राप्-
स्यति वुर्मतिः । सर्वसत्वानि यानीह जङ्गमानि स्थिरा-
णि च । सर्वेषां पांशुवर्षेण क्षयः क्षिप्रं भबिष्यति ।
दण्डस्य विषयो यावत् तावत् स वनमाश्रमम् । पांशुभूत
मिवाकस्मात् सप्तरात्रात् भविष्यति । इत्युक्त्वा क्रोधस-
स्तप्तस्तदाश्रमनिवासिनम् । जनं जनपदस्यान्ते स्थीयता-
मित्यवोचत । सप्ताहात् भस्मसाद्भूतः स चापि ब्रह्म-
तेजसा । तस्य दण्डस्य विषयोविन्ध्यशैलस्य सानुषु ।
तपस्विनः स्थिता यत्र तज्जनस्थानमुच्यते” “प्राप्य चाशु
जनस्थानं स्वरादिभ्यस्तथाविधम्” “अमी जनस्थानमपोद
पृष्ठ ३०२५
विघ्नम्” रघुः । “जनस्थाने शिरश्छिन्नं राक्षसस्य
दुरात्मनः । भा० श० ४० अ० “खरेणासीन् महद्वैरं
जनस्थाननिवासिना” भा० आ० २७६ अ० । ३ जनानां
स्थाने च “जनस्थाने भ्रान्तं कनकमृगतृष्णान्धितधिया”
सा० द० ।

जना स्त्री जन--वा० अङ् । उत्पत्तौ ।

जनातिग त्रि जनमतीत्य गच्छति अति + गम--ड । लोकातीते ।

जनाधिनाथ पु० ६ त० । लोकाधिपे राजनि० । “जनाधि-

नाथो न ययौ वितृष्णमाम्” माघः जनाधिपादयोऽप्यत्र

जनान्त पु० ६ त० । १ जनसमीपे २ जनमर्य्यादायाञ्च । (जेला)

ख्याते ३ सीमाभेदान्विते देशभेदे धनञ्जयः ।

जनान्तिक न० “त्रिपताककरेणान्यानपवार्य्यान्तरा कथा ।

अन्योन्यामन्त्रणं यत् स्याज्जनान्ते तज्जनान्तिकम्”
सा० द० उक्ते १ अप्रकाशकथने नाटकेऽस्य भूरि-
प्रयोगः । ६ त० । २ जनसमीपे च ।

जनार्द्दन पु० जनैरर्द्द्यते याच्यते पुरुषार्थलाभाय अर्द्द-

याचने कर्म्मणि ल्युट् । जनं जननमर्द्दति हिनस्ति
ताड़यति जनान् समुद्रवासिनोऽसुरभेदान् अर्द्दयति
वा कर्त्तरि ल्यु । “१ विष्णौ परमेश्वरे “सर्वगः सर्व-
विद्भानुर्विष्वक्सेनो जनार्द्दनः” विष्णु स० २ जनपीडके
त्रि० । “जनावनायोद्यमिनं जनार्द्दनम् क्षये जगज्जीनपिवं
वदन् शिवम्” मैष० गयातीर्थस्थे ३ विष्णुमूर्त्तिभेदे तद्धस्ते
जीवत्पुरुषेण स्वपिण्डस्य दानविधिः वायु पु०
गयामाहात्म्ये यथा
“जनार्द्दनो भस्मकूटे तस्य हस्ते तु पिण्डदः । आत्मनो-
ऽप्यथ वान्येषां सव्येनापि तिलैर्विना । जीवता दधिसं-
मिश्रं सर्वे ते विष्णुलोकगाः । यस्तु पिण्डो मया दत्त
स्तव हस्ते जनार्द्दन! । मामुद्दिश्य त्वया देव! तस्मिन्पिण्डे
मृते प्रभो! । एष पिण्डो मया दत्तस्तव हस्ते जनार्द्दन!
अन्तकाले गते महा त्वया देयो गयाशिरे । जनार्द्दन!
नमस्तुभ्यं ममस्ते पितृमोक्षद! । पितृमात्रे ममस्तुभ्यं
नमस्ते पितृरूपिणे । गयायां पितृरूपेण स्वयमेव
जनार्द्दनः । त्वां दृष्ट्वा पुण्डरीकाक्षं मुच्यते च
ऋणत्रयात्” । ४ शालग्रामभेदे शालग्रामशब्दे दृश्यम् ।
तन्नाम्ना भोजनकालै हरेः स्मरणीयता “भोजने च
जनार्द्दनम्” इत्युक्तेः “आसत्तिमासाद्य जनार्द्दनस्य” माघः

जनाशनै पु० जनानश्नाति अश--भोजने ल्यु । १ वृके राजनि० ।

२लोकभोजिनि त्रि० । भावे ल्युट् ६ त० । ३ लोकभक्षणे न० ।

जनाश्रय पु० जनानां लोकानामाश्रयः । मण्डपे अमरः ।

जनासाह् पु० जनान् सहते सह--ण्वि पूर्वदीर्घः ।

लोकसहिष्णौ “क्षत्रं जनाषाडिन्द्र! तव्यम्” ऋ० १ । ५४ । ११ ।
“सहेः साड़ः” पा० अत्र षत्वम् ।

जनि(नी) स्त्री जनं--भावे इन् वा ङीप् । १ उत्पत्तौ “जनिः

कर्त्तुः प्रकृतिः” पा० २ अभूतप्रादुर्भावे । जायते स्वयं गर्भो
वाऽस्याम्, आधारे इ । २ नार्य्याम् । ३ मातरि ४ स्नुषायां च
अमरः ५ जायायाम् । जायते आरोग्यमनया । ६ ओषधि-
भेदे ७ जतुकायाञ्च शब्दरत्ना० । ८ जनीनामगन्धद्रव्ये
रायमुकुटः । “उदीर्य्य धुर्य्यं कपटाज्जनीं जनः” नैष० ।

जनिका स्त्री जनि(नी) + स्वार्थे क । १ जनिशब्दार्थे ।

जनयति जन--णिच्--ण्वुल् कापि अत इत्त्वम् । २ उत्पादि-
कायां स्त्रियां स्त्री ।

जनित त्रि० जन--णिच्--क्त । उत्पादिते “सेनाचरीभवदि

भाननदानवारिवासेन यस्य जनिता सुरभीरणश्रीः”
नैष० । “ज्ञातिजनजनितनामपदाम्” माघः ।

जनितृ पु० जन--अन्तर्भूतण्यर्थे तृच् । १ पितरि शब्दरत्ना० ।

२ मातरि स्त्री ङीप् शब्दच० ।

जनित्व पु० जन--णिच्--इत्वन् । १ पितरि २ मातरि स्त्री

उज्जल० । जन--भविष्यति इत्वन् । ३ जनिष्यमाणे “अदिति-
र्जातमदितिर्जनित्वम्” यजु० २५ । २३ । “जनित्वं जनिष्य-
माणम्” वेददी० ।

जनित्वन न० जन--भावे वा० इत्वन । जनमे । “जनित्रनाय

मीमहे” ऋ० ८ । २ । ४२ । “जनित्वनाय जननाय” भा० ।

जनिनीलिका स्त्री जन्या नीलिका । १ महानीलीवृक्षे राजरि

जनिमत् त्रि० जनिर्जन्मास्त्यस्य मतुप् । जन्मयुक्ते स्त्रियां

ङीप् वेदे मस्य वः । जायायुक्ते “अम्यदस्त्यमेनांश्चिज्ज-
निवतश्चकर्थ” ऋ० ५ । ३१ । २ जनिवतोजायावतः” भा० ।

जनिमन् पु० जन--मावे मनिन् । जन्मनि उज्व० ।

जनिष्य त्रि० जन--बा० भविष्यति--स्य । जनिष्य-

माणे “कुतएव जनिष्यांस्तु मृषावादपरायणः” मा०
शा० १९९ अ० । “जातो वापि जनिष्यो वा” रामा०
आर० ६६ । १४ ।

जनेष्ट पु० ६ त० । १ मुद्गरवृक्षे राजनि० २ जतुकायां ३ वृद्धि-

नामौषधौ ४ हरिद्रायां ५ जातीपुष्पवृक्षे स्त्री राजनि०
६ जनाभिमते त्रि० ।

जनोदाहरण स० जनैरुदाह्रियते उद् + आ + हृ--कर्म्मणि

ल्युट् । यशसि धनञ्जयः ।
पृष्ठ ३०२६

जनौ त्रि० जनानवति अव--क्विप् ऊठि वृद्धिः । जनरक्षके ।

जन्तु पु० जन--तुन् । १ जननशीले प्राणिनि अमरः अविद्या-

दोषात् देहात्माभिमानिनि २ जीवे । “एतेषामेव जन्तूनां
भार्य्यात्वमुपयान्ति ताः” मनुः । “ज्ञानमस्ति समस्तस्य
जन्तोर्विषयगोचरे” देवीमा० “स्वेदजाः कृमयः प्रोक्ता
जन्तवश्च यथाक्रमम्” भा० आश्व० ११३६ श्लो० । सोमकस्य
नृपस्य भार्य्याशते जायमाने पुत्रभेदे “युधिष्ठिरासीन्
नृपतिः सोमको नाम धार्म्मिकः” इत्युपक्रमे “कदाचित्तस्य
वृद्धस्य घटमानस्य यत्नतः! जन्तुर्नाम सुतस्तस्मिन् स्त्रीशते
समजायन” इत्युक्त्वा “तस्य राज्ञ एकपुत्रत्वदुःखनिवार-
णाय लोमशेन वह्नौ जन्तुवपाया हवने कृते जन्तुपूर्वकं
पुत्रशतं स्त्रीशते तस्याजायत इत्युक्तम् भा० व० १२७ ।
२२८ अ० । जन्तूपाख्याने दृश्यम् । ४ मनुष्ये ब० व०”
निघण्टुः ।

जन्तुक पु० जन्तु + स्वार्थे क । जन्तुशब्दार्थे जन्तुनृपस्य

गोत्रापत्यम् इञ् । जान्तुकि तद्गोत्रापत्ये उपका० बहुत्वे
तस्य इञो लुक्द्वन्द्वे अद्वन्द्वे च । जन्तुक २ तद्गोत्रापत्येषु
ब० व० ।

जन्तुकम्बु पु० जन्तुरूपः कम्बु । कृमिशङ्खे राजनि० ।

जन्तुका स्त्री जन्तुभिः कायति प्रकाशते कै--क । १ लाक्षायां,

तस्याहि कीटैः प्रकाशः । २ नाभीहिङ्गुनि च राजनि० ।

जन्तुघ्न पु० जन्तून् कृमीन् हन्ति हन--क । १ वीजपूरे ।

राजनि० २ प्राणिघातके त्रि० । ३ विड़ङ्गे, ४ हिङ्गुनि च न० ।
शब्दमा० ५ विड़ङ्गे स्त्री ङीप् राजनि० ।

जन्तुनाशन न० जन्तून् नाशयति नश--णिच्--ल्यु । हिङ्गुनि राजनि० ।

जन्तुपादप पु० जन्तुप्रधानः पादपः । कोषाम्रवृक्षे राजनि० ।

जन्तुफल पु० जन्तवः फलेऽस्य । उदुम्बरे अमरः ।

जन्तुमती स्त्री जन्तवः सन्त्यस्यां वाहुल्येन मतुप् ङीप् । क्षितौ ।

जन्तुमारी स्त्री जन्तून् कृमीन् मारयति मृ--णिच्--अण्

उप० गौ० ङीष् । निम्बूके (निमकी) । राजनि० ।

जन्तुला स्त्री जन्तून् कीटान् लाति ला--क । काशतृणे त्रिका० ।

जन्तुहन्त्री स्त्री जन्तून् हन्ति हन--तृच् ङीप् । १ विड़ङ्गे

राजनि० २ जन्तुनाशके त्रि० ।

जन्त्व त्रि० जन--कृत्यार्थे त्वन् । जनितव्ये “यज्जातं यच्च

जन्त्वम्” ऋ० ८ । ८९ । ६ । “जन्त्वम् जनितव्यम्” भा०

जन्म न० जन--बा० मन् । जन्मनि भरतः ।

जन्मकील न० जन्मनः कील इव रौधकत्वात् । विष्णौ त्रिका०

जन्मतिथि पु० स्त्री जन्मनस्तिथिः । जन्मकालिकतिथिसजा-

तीयतिथौ स्त्रीत्वे वा ङीप् तत्र कृत्यानां गौणचान्द्रे-
णैव कर्त्तव्यता । तद्विधानादि ति० त० दर्शितं यथा
“तच्च मलमासे न कर्त्तव्यं चान्द्रमासीयत्वेन
सावकाशत्वात् । नच तस्य सौरमासीयत्वं तथात्वे तन्मासे
तत्तिथेः कदाचिदप्राप्तौ तद्वर्षे तत्कृत्यलोपापत्तेः नचेष्टा-
पत्तिः प्रतिसंवत्सरन्तद्विधानात् यथा ब्रह्मपुराणं गर्गश्च
“सर्वैश्च जन्मदिवसे स्नातैर्मङ्गलपाणिभिः । गुरुदेवाग्नि-
विप्राश्च पूजनीयाः प्रयत्नतः । स्वनक्षत्रञ्च पितरौ तथा
देवः प्रजापतिः । प्रतिसंवत्सरञ्चैव कर्त्तव्यश्च महोत्-
सवः” । स्नातैस्तिलस्नातैः तथाच तत्तिथिमधिकृत्य
‘तिलोद्वर्त्तीतिलस्नायी तिलहोमी तिलप्रदः । तिलभुक्
तिलवापी च षट्तिली नावसीदति ।’ प्रजापतिर्ब्रह्मा ।
मङ्गलपाणिभिः अभिप्रेतार्थसिद्धिर्मङ्गलं तद्धेतुतया
गोरोचनादिकमपि मङ्गलं तेन गुग्गुल्यादिपाणिभि-
रित्यर्थः । तथाच कृत्यचिन्तामणौ ‘गुड़दुग्धतिलानद्या-
ज्जन्मग्रन्थेश्च बन्धनम् । गुग्गुलुं निम्बसिद्धार्थं दूर्वागो-
रोचनायुतम् । संपूज्य भानुविघ्नेशौ महर्षिं प्रार्थयेदिदम् ।
चिरजीवी यथा त्वं भोभविष्यामि तथा मुने! । रूपवान्
वित्तवांश्चैव श्रियायुक्तश्च सर्वदा । मार्कण्डेय! महाभाग!
सप्तकल्पान्तजीवन! । आयुरिष्टार्थसिद्ध्यर्थमस्माकं वरदो-
भव” । स्वनक्षत्रमिति स्वनक्षत्रं अश्विन्याद्यन्तर्गतजन्मका-
लीननक्षत्रं नामकरणे तथादर्शनात् वक्ष्यमाणब्रह्मपुरा-
णोक्तप्रणवादिनमोऽन्तेन नाम्नैव पूजाविधानाच्च
तदज्ञाने स्वनक्षत्राय नम इत्युल्लेख्यम् । पूजायामर्घ्या-
नन्तरं पाद्यमाह मत्स्यपुराणम् “अर्घ्यपाद्यादिकन्तत्र
मधुपर्कं प्रयोजयेत् ।’ पाद्यानन्तरमर्घ्यमाह नरसिंह-
पुराणम् । ‘पाद्यं चैव तृतीयया चतुर्थ्यार्घ्यं प्रदा-
पयेत् ।’ तृतीयया पुरुषसूक्तीयतृतीयया ऋचा
उभयक्रमदर्शनादिच्छाविकल्पः इति श्रीदत्तः । श्रीपतिव्यव-
हारनिर्णये ‘नवाम्बरधरो भूत्वा पूजयेच्च चिरायुषम् ।’
तथा ‘द्विभुजं जटिलं सौम्यं सुवृद्धं चिरजीविनम् ।
मार्कण्डेयं नरो फक्त्या पूजयेत् प्रयतस्तथा । ततो दीर्घा
युषं व्यासं रामं द्रौणिं कृपं वलिम् । प्रह्रादञ्च हनूमन्त
विभीषणमथार्च्चयेत् ।’ रामोऽत्र परशुरामः चिरजीवि
साहचर्य्यात् द्रौणिरश्वत्थामा । तथा ‘स्वनक्षत्रं जन्मतिथिं
प्राप्य सम्पूजयेन्नरः । षष्ठीञ्च दधिभक्तेन वर्षे वर्षे पुन
पुनः’ । ‘एकैकां देवतां राम! समुद्दिश्य यथाविधि । चतु
र्थ्यन्तेन घर्मज्ञ! नाम्ना च प्रणवादिना । होमद्रव्यमथैकैव
पृष्ठ ३०२७
शतसंख्यन्तु होमयेत्” इति विष्णुधर्मोतरदर्शनात् । एवं
होमे स्वाहान्तता च मन्त्रस्य “स्वाहावसाने जुहुयात्
ध्यायन् वै मन्त्रदेवताम्” इति स्मृतेः । अशक्तौ तु देवीपु-
राणम् “होमग्रहादिपूजायां शतमष्टोत्तरं भवेत् ।
अष्टाविंशतिरष्टौ वा यथाशक्ति विधीयते” । स्कान्दे
“खण्डनं नखकेशानां मैथुनाध्वानमेव च । आमिषं
कलहं हिंसां वर्षवृद्धौ विवर्जयेत्” । अध्वानम् अघ्वगमनं
कलहमित्यत्र सङ्गरमिति क्वचित् पाठः सङ्गरं युद्धम् ।
वर्षवृद्धौ जन्मदिने । वृद्धमनुः “मृते जन्मनि संक्रान्तौ
श्राद्धे जन्मदिने तथा । अस्पृश्यस्पर्शने चैव न स्नाया-
दुष्णवारिणा” । जन्मनि पुत्रजन्मनि । ज्योतिषे “स्नात्वा
जन्मदिने स्त्रियं परिहरन् प्राप्नोत्यर्भाष्टां श्रियम्
मत्स्यान्मोचयतो द्विजाय ददतोऽप्यायुश्चिरं वर्द्धते । सक्तून्
खादति यस्तु तस्य रिपवोनाशं प्रयान्ति ध्रुवं भुङ्क्ते
यस्तु निरामिषं स हि भवेत् जन्मान्तरे पण्डितः” । दीपि-
कायाम् “जन्मर्क्षयुक्ता यदि जन्ममासे यस्य ध्रुवं जन्म-
तिथिर्मवेच्च । भवन्ति तद्वत्सरमेव यावन्नैरुज्यसम्मान-
सुखानि तस्य । कृतान्तकुजयोर्वारे यस्य जन्मदिनं
भवेत् । अमृक्षयोगसंप्राप्तौ विघ्नस्तस्य पदे पदे” । कृता-
न्तकुजयोः शनिमङ्गलयोः । “तस्य सर्वौषधिस्नानं ग्रह-
विप्रसुरार्च्चनम् । ग्रहानुद्दिश्य होमोवा ग्रहाणां प्रीति-
मिच्छता । सौरारयोर्दिने मुक्ता देयानृक्षे तु काञ्चनम् ।
मुरा मांसी वचा कुष्ठं शैलेयं रजनीद्वयम् । शठीचम्प-
कमुस्तञ्च सर्वौषधिगणः स्मृतः” ॥ सौरारयोः
शनिभौमयोः । रजनीद्वयं हरिद्रादारुहरिद्रे । एषां पत्रादी-
नामपि ग्रहणम् । कषायावयवग्रहणमाह मत्स्यपुराणम्
‘एषां पत्राणि साराणि मूलानि कुसुमानि च । एवमा-
दीनि चान्यानि कषायाख्योगणः स्मृतः” । तत्र क्रमः ।
तिलोद्वर्त्तनं तिलयुक्तजलेन स्नानं नववस्त्रपरिधानं
गुग्गुलुनिम्बश्वेतसर्षपदूर्वागोरोचनात्मकजन्मग्रन्थिं दक्षि-
णपाणौ बध्नीयात् । गुरुदेवाग्निविप्राः पूजनीयाः
स्वनक्षत्रमपि पूजनीयम् । अत्र च “हस्तास्वाती श्रवणा
अक्लीवे मृगशिरीनपुंसि स्यात् । पुंसि पुनर्वसुपुष्यौ मूलं
पुंस्त्री स्त्रियः शेषाः” इत्यनेन लिङ्गनिर्णयः । जन्मन-
क्षत्रादीनां गोपनमाह विष्णुधर्म्मोत्तरे “गोपयेज्ज-
न्मनक्षत्र धनसारं गृहे मलम् । प्रभोरप्यपमानञ्च
तस्य दुश्चरितञ्च यत” । धनसारं धनश्रेष्ठं मलं छिद्रम् ।
पितरौ प्रजापतिः सूर्य्यो गणपतिर्मार्कण्डेयच्च पूजनीयः ।
‘सतिलं गुड़संयुक्तमञ्जल्यर्द्धमितं पयः । मार्क-
ण्डेयवरं लब्धा पिबाम्यायुष्यहेतवे” इति गुड़तिलदुग्ध-
पानमन्त्रः । ततः प्रार्थनामन्त्रौ । ‘चिरजीवी यथा
त्वं भो भविष्यामि तथा मुने! । रूपवान् वित्तवांश्चैव
श्रिया युक्तश्च सर्वदा । मार्कण्डेय! महामाग! सप्तकल्पान्त
जीवन! । आयुरिष्टार्थसिद्ध्यर्थमस्माकं वरदोभव” ।
ततीव्यासपरशुरामाश्वत्थामकृपवलिप्रह्लादहनूमद्विभीषणाः
पूजनीयाः । षष्ठ्यपि । “त्रैलोक्ये यानि भूतानि स्थाव-
राणि चराणि च । व्रह्मविष्णुशिवैः सार्द्धं रक्षां कुर्वन्तु
तानि मे” । इति मत्स्यपुराणीयं पठेत् । पितृमातृ-
पादग्रहणक्रमस्तु विष्णुपुराणादुन्नेयः यथा “कृष्णोऽपि
वसुदेवस्य पादौ जग्राह सत्वरः । देवक्याश्च
महाबाहुर्बलदेवसहायवान्” । एवञ्च “सहस्रन्तु पितु-
र्माता गौरवेणा वरिच्यते” इति मनुवचने सहस्रं पितॄ-
नपेक्ष्य यद्गौरवमुक्तं तत्पोषणरक्षार्थम् । अतएव मनुः
“मृते भर्त्तरि पुत्रस्तु वाच्यो मातुररक्षिता” । वाच्यो-
गर्हणीयः । अत्र वैदिकेतरमन्त्रपाठे शूद्रादेरप्यधिकारः
“वेदमन्त्रवर्जम् शूद्रस्य” इति छन्दोगाह्निकाचारचिन्तामणि-
धृतस्मृतौ वेदेति विशेषणात् । एवञ्च पुराणमधिकृत्य “अध्ये
तव्यं न चान्येन ब्राह्मणं क्षत्रियं विना । श्रोतव्यमिह
शूद्रेण नाध्येतव्यं कदाचन” इति भविष्यपुराणवचनं
पुराणमन्त्रेतरपरम् । पञ्चयज्ञस्नानश्राद्धेषु पौराणिक-
मन्त्रोऽपि निषिद्धः । शूद्रमधिकृत्य “नमस्कारेण मन्त्रेण
पञ्चयज्ञान्न हापयेत्” इति याज्ञवल्क्येन “ब्रह्मक्षत्रविशा-
मेव मन्त्रवत् स्नानमिष्यते । तुष्णीमेव हि शूद्रस्य स
नमस्कारकं मतम्” इति योगियाज्ञवल्क्येन श्राद्धमधिकृत्य
“अयमेव विधिः प्रोक्तः शूद्राणां मन्त्रवर्जितः । अमन्त्रस्य
तु शूद्रस्य विप्रो मन्त्रेणं गृह्यते” इति वराहपुराणेन
च नमस्कारेणेति तुष्णीमिति मन्त्रवर्जित इति चाभि-
धानादेतत्परं वैदिकपरञ्च शूद्राधिकारे गौतमवचन
“अनुमतोऽस्य नमस्कारो मन्त्रः” इति । अनुपनीतस्यापि
शूद्रसमत्वेन श्राद्धातिरिक्तवेदपाठनिषेधमाह मनुः
“नाभिव्याहारयेद्व्रह्म स्वधानिनयनादृते । शूद्रेण हि
समस्तावत् यावद्वेदे न जायते” । स्त्रीणामपि वैदिक-
मन्त्रनिषेधमाह नृसिंहतापनीयम् “सावित्री
प्रणवं यजुर्लक्ष्मीं स्त्रीशूद्रयोर्नेच्छन्ति सावित्रीं प्रणवं
यजुर्लक्ष्मीं स्त्री शूद्रोयदि जानीयात्स मृतोऽधोगच्छति”
इति मेच्छन्तीतिपर्य्यन्तं पराशरभाष्येऽपि लिंखतम् ।
पृष्ठ ३०२८
जन्मतिथेः प्रागुक्तब्रह्मपुराणीयत्वात् पौर्णमास्यन्तमासा-
दरः । गृह्यपरिशिष्टम् “उपाकर्म्म तथोत्सर्गः
प्रसवाहोऽष्टकादयः । मानवृद्धौ पराः कार्य्या वर्जयित्वा तु
पैतृकम्” । अत्राष्टकासाहचर्य्याज्जन्माष्टम्यां तथा
दर्शनाच्च प्रसवाहो जन्मदिनम् । “द्बादश मासाः संवत्सरः
क्वचित्त्रयोदश मासाः संवत्सरः” इति श्रुत्या वर्षे मासवृद्धि-
रूपा मानवृद्धिरुक्ता सैबात्र ग्राह्या न तु सौरे मासि
तिथिद्वयलाभान्मानवृद्धिर्जीमूतवाहनोक्ता ग्राह्या
तिथिद्वयलाभस्य मानवृद्धित्वे प्रमाणाभावात् ।
मानवृद्धावित्यत्र मासवृद्धाविति हेमाद्रिणा धृतम् । पैतृकं
मपिण्डीकरणं मलमासमृतस्य प्रत्याव्दिकञ्च तयोर्मल-
मासेऽपि विधानात् । ज्योतिः पराशरोऽपि “उपाकर्म्म
तथोत्सर्गः प्रसवाहोऽष्टकादयः । मासवृद्धौ पराः कार्य्या-
वर्जयित्वा तु पैतृकम्” । जन्मतिथेरुभयदिनलाभे तु
देवीपुराणम् “युगाद्या वर्षवृद्धिश्च सप्तमी पार्वती-
प्रिया । रवेरुदयमीक्षन्ते न तत्र तिथियुग्मता ।
घस्रद्वये जन्मतिथिर्यदि स्यात् पूज्या तदा जन्मभसंयु-
तैव । असङ्गता भेन दिनद्वयेऽपि पूज्या परा या
भवतीह यत्रात्” । भं नक्षत्रं परवचनं वृहद्राजमार्त्त-
ण्डेऽपि । पूर्व्वाह्णे तिथिनक्षत्रलाभ एवेदं लक्ष्यते
“नक्षत्रे खण्डिते येन प्राप्तः कालस्तु कर्म्मणः । नक्षत्र
कर्म्माण्यत्रैव तिथिकर्म तथैव च” इति वृहस्पविवचनात् ।
खण्डिते खण्डद्वययुक्ते येन नक्षत्रखण्डेन विहितकालः
प्राप्तः । नक्षत्रद्वैघे तु बौधायनमार्कण्डेयौ “तन्नक्षत्रम-
होरात्रं यस्मिन्नस्तं गतोरविः । यस्मिन्नुदेति सविता
तन्नक्षत्रं दिनं स्मृतम्” । पूर्व्वार्द्धमहोरात्रसाध्योपवासन
क्तैकभक्तेषु “तत्रैवोपवसेदृक्षे यन्निशीथादधोभवेत् ।
उपवासे यद्वक्षं स्यात् तद्धि नक्तैकभक्तयोः” इति स्कन्द-
पुराणात् निशीथादधैत्यनेन अर्द्धरात्रपूर्व्वकालत्वेन
सूर्य्यास्तमयकालस्यापि लाभात् । “उपोषितव्यं नक्षत्रं
येनास्तं याति भास्करः । यत्र वा युज्यते राम!
निशीथे शशिना सह” इति विष्णुधर्म्मोत्तराच्च । उपवास-
वन्नक्तव्रतादीनामहोरात्रसाध्यता अहोरात्रसाध्यभो-
जनद्वथस्यैकतरपरित्यागसहितकालविशेषनियामकत्वात् ।
यस्मिन्नुदेतीति तु दिवसकर्त्तव्यस्नानदानादाविति बोध्यम् ।
पितृकार्य्येऽपि शुक्लकृष्णपक्षाभ्यां व्यवस्थामाह बौधायनः
“सा तिथिस्तच्च नक्षत्रं यस्मिन्नभ्युदितोरविः । वर्द्धमानस्य
पक्षस्य हीने त्वस्तमयं प्रति” । हीने चन्द्रस्य हीनत्वात्
कृष्णपक्षे, वर्द्धमानस्य चन्द्रस्य वर्द्धमानत्वेन शुक्लपक्षस्य ।
कालमाधवीयोऽप्येवम् । भोजराजः “योजन्ममासे क्षुर-
कर्मयात्रां कर्णस्य वेधं कुरुते च मोहात् । मूनं स रोगं
धनपुत्रनाशं प्राप्नोति मूढ़ोबधबन्धनानि । जातं दिनं
दूषयते वशिष्ठश्चाष्टौ च गर्गोयवनोदशाहम् । जन्मा-
ख्यमासं किल भागुरिश्च चूडे विवाहे क्षुरकर्णवेधे” ।
एतद्विषयभेदस्तु राजमार्त्तण्डे “उक्तानि प्रतिषिद्धानि
पुनः सम्भावितानि च । सापेक्षनिरपेक्षाणि श्रुति-
वाक्यानि कोविदैः” । सापेक्षनिरपेक्षाणि समर्था-
समर्थविषयकाणि । क्षुरेति क्षुरिकर्म्म । राजमार्त्तण्डे
“देवकार्य्ये पितृश्राद्धे रवेरंशपरिक्षये क्षुरिकर्म्म
न कुर्व्वीत जन्ममासेऽथ जन्मभे” । एवञ्च चूड़ इति
चूड़ाकरणे अधिकदोषाय । नार्य्यास्तु जन्ममासे विवाह-
माह श्रीपतिव्यवहारसमुच्चये “स्नानं दानं
तपोविद्या सर्वमङ्गल्यवर्द्धनम् । उद्वाहश्च कुमारीणां
जन्ममासे प्रशस्यते” । एवं “जन्मोदये जन्मसु तारकासु
मासेऽथ वा जन्मनि जन्मभे वा । व्रतेन विप्रो
नबहुश्रुतोऽपि विद्याविशेषैः प्रथितः पृथिव्याम्” इति व्यास-
वचनेन जन्ममासे उपनयनविधानात्तदङ्गसशिखवषनेऽपि
न दोषः । उदये लग्ने भे राशौ नवहुश्रुतोऽपि स्वल्प-
विद्योऽपि । अत्र जन्ममासकृत्याकृत्ये सौरादरो यात्रा-
दिसाहचर्य्यात् व्यवहारोऽपि तथा । प्रतिमासे जन्म-
नक्षत्रकृत्यमाह विष्णुधर्म्मोत्तरम् “जन्मनक्षत्रगे सोमे
शिरःस्नानेन यत्नतः । पूजा सोमस्य कर्त्तव्या नक्ष-
त्रस्य तथात्मनः । श्राद्धं कुर्य्यात् प्रयत्नेन वह्निब्राह्मण
पूजने । वाहनायुधरत्नाद्यं पूजर्नायं प्रयत्नतः ।
सुराणामर्च्चनं कार्य्यं केशवस्य विशेषतः” ।

जन्मद पु० जन्म ददाति दा--क । पितरि शब्दच० ।

जन्मदिन न० जन्मनोदिनम् । जन्मदिवसे तच्च तिथिरूपं

जन्मतिथिशब्दे उदा० ।

जन्मन् न० जन--भावे मनिन् । १ उत्पथौ २ आद्यक्षणसम्बन्धे,

३ गर्भवासतोयोनिद्वारानिःसरणे ४ न्यायाद्युक्ते अपूर्व-
देहग्रहणे, अपूर्वदेहादिभिरात्मनः सम्यन्धे ज्योति-
षोक्ते ५ जन्मनक्षत्रे, तदवधिके ६ दशमे ७ जनविंशे च
नक्षत्रे । तत्र मनुष्याणां जन्मप्रकारस्तु गर्मशब्दे २५४८
पृ० उक्तप्रायोऽपि अत्र विशेषः कश्चित् प्रदर्श्यते ।
“ऋतौ विकाशा भवति योनिः कमलवत् सदा । गर्भाशय
स्ततः शुक्रं धत्ते रक्तसमन्वितम् । अन्यत्र काले मुकुला
पृष्ठ ३०२९
योनिर्भवति योषिताम् । सृष्टं शुक्रमतो योनौ
नैति गर्भाशयं शनैः । ऋतावपि तु योनिश्चेद्वातपित्त-
कफावृता । भवेत्तदा विकाशत्वं नैव तस्यां प्रजायते ।
ऋतुकाले यदा शुक्रं निर्दोषं योनिसंस्थितम् । तदा
ततायुना स्पृष्टं स्त्रीरक्तेनैकतां व्रजेत् । निषेकं
मानवं स्त्रीणां वीजं प्राप्तं रजस्यथ । युक्तमात्रोऽपि
नरकात् स्वर्गाद्वापि प्रपद्यते । विसर्गकाले शुक्रस्य
जीवः कारणसंवृतः । धृत्या प्रविशते योनिं कर्म्मभिः
स्वैर्नियोजितः । तच्छुक्ररक्तमेकस्थमेकाहात् पललं
भवेत् । पञ्चरात्रेण कललं बुद्बुदाकारतां व्रजेत् ।
बुद्बुदः सप्तरात्रेण मांसपेषी भवेत्ततः । द्विसप्ताहा-
द्भवेत् पेषी रक्तमांसाचिता दृढ़ा । वीजस्यैवाङ्कुराः
पेष्यः पञ्चविंशतिरात्रतः । भवन्ति मासमात्रेण
पञ्चधा जायते पुनः । ग्रीवा शिरश्च कण्ठश्च पृष्ठवंश
स्तथोदरम्! पाणिपादं तथा पार्श्वं कटिमात्रं
तथैव च । मासद्वयेन सर्व्वाणि क्रमशः सम्भवन्ति हि ।
त्रिभिर्मासैः प्रजायन्ते सर्वाङ्गाङ्कुरसन्मयः । मासैश्च-
तुर्भिरङ्गुल्यः प्रजायन्ते यथाक्रमम् । स्थैर्यं चतुर्थे
चाङ्गानां पञ्चमे शोणितोद्भवः । षष्ठे बलस्य वर्णस्य
नखलोम्नाञ्चसम्भवः । दन्तपङ्क्तिस्तथा गुह्यं जायन्ते च नखाः
पुनः । कर्णयोश्च भवेच्छिद्रं षण्मासाभ्यन्तरेण च ।
पायुर्मेढ्रमुपस्थञ्च नाभिश्चैवोपजायते । सन्धयो ये च
गात्रेषु जायन्ते मासि सप्तमे । मनस्तु चेतनायुक्त्वं
नाभीस्नायुसिरास्ततः । सप्तमे चाष्टमे चैव त्वङ्मांस
स्मृतिमानपि । अङ्गप्रत्यङ्गसम्पूर्णः शिरःकेशसम-
न्वितः । विभक्तावयवः स्पष्टः पुनमांसाष्टमेन च ।
नवमे दशमे मासि प्रबलैः सूतिमारुतैः ।
निःसार्य्यते वाणैव जन्तुश्छिद्रेण सज्वरः । मनसश्च-
ञ्चलत्वेन यदा गर्भस्थिति र्भवेत् । तदा विकृतिरूपेण
पापात्मा हि प्रजायते । पुटद्वयं समासाद्य यदा
वहनि मारुतः । तदा प्रसूते पापिष्ठान् षण्डान्
कर्म्मबहिष्कृतान् । मातृरक्तोत्तरा नारी पितुः शुक्रो-
त्तरो नरः । उभयोर्वीजसामान्ये जायते वै नपुं-
सकम् । विषमायां तिथौ क्षिप्तं कुर्य्याद् वीजन्तु
कन्यकाम् । समायां पुरुषं नूनं केचिदाहु-
र्मनीषिणः । वामाङ्गेन भवेन्नारी दक्षिणेन पुमान्
भवेत् । रक्ताधिक्ये मातृरूपं शुक्राधक्ये तु पैतृकम् ।
शुक्रशोणितसंघाते वायुना च द्विधा कृते । यमौ
स्यातां त्रिधा चेति चतुर्धा बहुधापि वा । ततो
हीनाधिकव्यङ्गकुब्जवामनकादयः । जायन्ते सर्प-
कुण्डाण्डा विकृतान्याश्च योनयः” । “गर्भात् कोटिगुणं
दुःखं योनियन्त्रनिपीड़ने । संमूर्च्छा तस्य जठरा-
ज्जायमानस्य देहिनः । जायमानः पुरीषासृङ्मूत्र
शुक्राविलाननः । प्राजापत्येन वातेन पीड्यमानास्थि-
बन्धनः । अधोमुखो वै क्रियते प्रबलैः सूतिमारुतैः ।
क्लेशात् निष्क्रान्तिमायाति जठरान्मातुरातुरः । ततस्तं
वैष्णवी माया समास्कन्दति मोहिनी । तया विमोहिता-
त्मासौ ज्ञानभ्रंशमवाप्नुयात् । सृष्टमात्रस्य घोरश्च ज्वरः
समुपजायते । तेन ज्वरेण महता महामोहः प्रजा-
यते । कण्टकैरिव च्छिन्नाङ्गः क्रकचैरिव दारितः ।
पूतिव्रणान्निपतितो धरण्यां क्रिमिकी यथा । तृड्बु-
भुक्षापरीताङ्गः क्वचित्तिष्ठति वा रटन् । विण्मूत्रभक्ष-
णाद्यञ्च गतज्ञानः समाचरेत् । कण्डूयनेऽपि चाशक्तः
परिवर्त्तेऽप्यनीश्वरः । स्नानपानादिकाहारमवाप्नोति
परेच्छया । अशुचौ संस्तरे सूक्ष्मकीटदंशादिभिस्तथा ।
भक्ष्यमाणोऽपि नैवैषां समर्थो विनिवारणे । केन बन्धेन
बद्धोऽहं कारणं किमकारणम् । किं कार्य्यं किमकार्य्यं
वा किं वाच्यं किञ्च नोच्यते । कोऽधर्म्मः कश्च वै धर्म्मं
कस्मित् वा वर्त्तते कथम् । किं कर्त्तव्यमकर्त्तव्यं किं
वा किं गुणदोषवत् । संमूढस्य स्मृतिभ्रंशः शीघ्रं संजा-
यते पुनः । मतिः संजायते तूर्णं जन्तोस्तत्रैव जन्मनि ।
रक्तो मूढ़श्च लोकोयमकार्य्ये सम्प्रवर्त्तते । देही देह”
परित्यज्य नेन्द्रस्थानमपीच्छति । तस्मात् कीटोऽपि
जन्तूनां सुमूढ़ो जायते भृशम् । न चात्मानं विजानाति
न परं न च दैवतम् । न शृणोति परं श्रेयः सति चक्षुषि
नेक्षते । बुद्धौ सत्यां न जानाति बोध्यमानो बुधैरपि ।
संसारे क्लिश्यते तेन रागलोभवशानुगः” सुखबोधः ।
जन्म च “जायतेऽस्ति वर्द्धते विपरिणमते अपक्षीयतें
नश्यति” यास्कोक्तेषु षटषु भावविकारेषु आद्यो
भावविकारः । “जातस्य हि घ्रुवो मृत्युर्ध्रुवं जन्म मृतस्य
च” गीता । “जन्मसम्पद्विपत्क्षेमं प्रत्यरिः साधको बधः ।
मित्रं परममित्रञ्च त्रिरावृत्त्या पुनः पुनः” ज्यो० त० ।
“शाकं दद्यात् त्रिजन्मनि” । “जन्मर्क्षे गिधनेऽपि च”
ज्यो० त० । कर्त्तरि मनिन् ८ जने निरु० । आधारे
मनिन् । ९ जन्मलग्ने १० जनमराशौ च “जन्मनीत्थं
विचिन्त्यवान्” “जन्मनीचितयुक् शुभैः” नी० क० ता० ।
पृष्ठ ३०३०

जन्मप पु० जन्म जन्मलग्नं पाति पा--क । १ जन्मलग्नपतौ

२ जन्मराशिपतौ च जन्मपत्यादयोऽप्यत्र । “जन्मपः क्रूरि-
तोऽशुभैः” नी० ता० ।

जन्मभ न० ६ त० । १ जन्मनक्षत्रे २ जन्मलग्ने ३ जन्मराशौ च

४ जन्मनक्षत्रादिसजातीये नक्षत्रादौ जन्मर्क्षादयोऽप्यत्र ।
“जन्मर्क्षे निधनेऽपि च” ज्यो० त० ।

जन्मभूमि स्त्री ६ त० । जन्मस्थाने । “जननी जन्मभूमिश्च

स्वर्गादपि गरीयसी” उद्भटः ।
“वर्द्धनीया वयं नूनं त्वया यादवनन्दन! । अथ वा
प्राणिनस्तात! रमन्ते जन्मभूमिषु” हरिवं० १०३ अ० ।

जन्ममास पु० ६ त० । १ जन्माधारमासे २ तत्सजातीये मासे च

“न जन्ममासे न च चैत्रपौषे क्षौरं विवाहो न च कर्ण-
वेधः” ज्यो० त० “जन्मर्क्षे जन्ममासे वा तारायामथ जन्मनि ।
जन्मलग्ने भवेदूढ़ा धनाढ्या जन्मभोदये” चण्डेश्वरः ।
जन्ममासश्च यस्मिन् चान्द्रे मासे जन्म स मासः इत्येके
जन्मतिथिमारभ्य त्रिंशत्तिथ्यात्मको मासो जन्ममास
इति पक्षान्तरं यथाह मु० चि० व्याख्यायां पी० धा०
“जन्मर्क्षमासतिथयो व्यतिपातभद्रावैधृत्यमापितृदिनानि
तिथिक्षयर्द्धी । न्यूनाधिमासकुलिकप्रहरार्धपातविष्कम्भ-
वज्रघटिकात्रयमेव वर्ज्यम्” मु० चि० । जन्मर्क्षमास
तिथिप्रभृतयः पदार्थाः सर्वेषु कर्मसु वर्ज्या इति द्वितीय
श्लोकेनान्वयः तान् पदार्थानाह जन्मर्क्षेति यस्मिन्नक्षत्रे
जन्म भवेत् तज्जन्मर्क्षं यस्मिन् मासे जन्म भवेत् स
जन्ममासः यस्यां तिथौ जन्म भवेत् स । जन्मतिथिः
एते वर्ज्याः यदाह वसिष्ठः “स्वजन्ममासर्क्षतिथिक्षणेषु
वैनाशकाद्यृक्षगणेषु भेषु । नोद्वाहयात्राभ्युदया-
भिलाषी नैवाद्यगर्भद्वितयं कदाचित्” । अयं च जन्म-
नक्षत्रमासतिथिनिषेधः आद्यगर्भस्यैव यदाह नारदः
“जन्ममासे न जन्मर्क्षे न जन्मदिवसेऽपि वा । आद्य-
गर्भसुतस्यापि दुहितुर्वा करग्रहः” इति अनेनाद्यगर्भ-
व्यतिरिक्तकन्यायास्तादृशवरस्य जन्र्क्षमासतिथिषु
शुभफलत्वमुक्तं भवति अतएवाह च्यवनः “जन्मर्क्षे
जन्ममासे वा तारायामथ जन्मनि । जन्मलग्ने भवेदूढ़ा
पुत्राढ्या पतिवछभा” । अथ जन्ममासलक्षणं जगन्मो-
हने वृद्धगर्गः “आरभ्य जनमदिवसं यावत्त्रिंशद्दिनं
भवेत् । स जन्ममासो विज्ञेयो गर्हितः सर्वकर्मसु” इति
अस्यापि विशेषस्तत्रैव “जातं दिनं दूषयते वसिष्ठः
पञ्चैव गर्गस्त्रिदिनं तथात्रिः । तज्जन्मपक्षं किल भागु-
रिश्च व्रते विवाहे गमने क्षुरे चेति” । घस्तुतस्तु यस्मिं
श्चान्द्रमासे चैत्रादौ जन्माभूत् स चान्द्रमासो उत्म-
मासतया त्याज्य इति युक्तमुत्पश्यामः “इन्द्राग्नी यत्र
हूयेते मासादिः स प्रकीर्त्तितः । अग्नीषौमौ स्थितौ
मध्ये समाप्तौ पितृसोमकाविति” हारीतवचनात्
“उपवासव्रतोद्वाहा यात्रा क्षौरोपनायनम् । तिथिवर्षादि-
निखिलं चान्द्रमानेन गृह्यते” इति कश्यपोक्तेश्च । अत्र
चान्द्रमासस्यैव चूड़ादौ निषेध इति स्थितम् ।
जन्ममासस्य जन्मतिथिकृत्ये चान्द्रपरता क्षौरादि
निषेधे सौरपरतेति म० त० रघु० । “विवाहादौ स्मृतः
सौरः” इति तद्धृतवचनात् । आचारभेदात् देशभेदाच्च
व्यवस्था । उपयमशब्दे १२४४ पृ० अधिकं दृश्यम् ।

जन्मराशि पु० ६ त० । जन्मकालिकराशिसजातीये राशौ ।

जन्मवर्त्मन् न० ६ त० । योनौ त्रिका० । “योनेः शरीरम्”

शा० सू० तस्याः शरीरोत्पत्तिस्थानत्वकीर्त्तनात् तथात्वम् ।

जन्मशय्या स्त्री जन्मनिमित्तं शय्या । प्रसवार्थशय्यायाम् ।

“स ददर्शमहात्मानं शरतल्यगतं प्रभो! । जन्मशय्यागतं
वीरं कार्त्तिकेयमिव प्रभुम्” भा० भी० १२५ अ० ।

जन्मान्तर न० अन्यत् अन्म मयू० स० । भवान्तरे परलोके ।

ततः गहा० भवार्थे छ । जन्मान्तरीय परजनमभवे त्रि० ।
“जन्मान्तरीयतत्पापवतः सहमरणेनोद्धारः” शु० त० रघु०

जन्माष्टमी स्त्री कृष्णस्य जन्माधारोऽष्टमो । कृष्णजन्पाष्टम्याम्

कृष्णाष्टमी शब्दे २२२० पृ० विवृतिः । हरिभक्तिविलास-
मते तु तत्रत्यव्रतकालव्यवस्था यथा
“जन्माष्टमी पूर्वविद्धा न कर्त्तव्या कदाचन । पलवेधे
तु विप्रेन्द्र! सप्तम्या चाष्टमीं त्यजेत् । सुराया विन्दुना
स्पृष्टं गङ्गाम्भःकलसं यथा । विना ऋक्षेण कर्त्तव्या
नवमी संयुताष्टमी । सऋक्षापि न कर्त्तव्या सप्तमी
संयुताष्टमी । तस्मात् सर्वप्रयत्नेन त्याज्यमेवाशुभं बुधैः ।
वेधे पुण्यक्षयं याति तमः सूर्य्योदये यथा । यच्च वह्नि-
पुराणादौ प्रोक्तं विद्धाष्टमीव्रतम् । अवैष्णवपरं तच्च
कृतं वा देवमायया” ।

जन्मिन् त्रि० जन्मास्त्यस्य व्रीह्यादि० इनि । प्राणिनि जीवे अमरः ।

जन्मेजय पु० जनमेजय + पृषो० । जन्मेजयनृपे हारा० ।

जन्य त्रि० जन- “भव्यंगयेत्यादि” पा० कर्त्तरि यत् । १ जायमाने ।

जन--णिच्--कर्म्मणि यत् । २ उत्पाद्ये “जन्यानां
जनकालः” भाषा० । कर्त्तरि यत् । ३ जनके च मेदि० । जनीं
वधूं वहति नयति वा यत् । ४ नवोढाज्ञातिमित्रभृत्य-
पृष्ठ ३०३१
स्निग्धेषु त्रि० मेदि० । ५ हट्टे, ६ परीवादे, ७ युद्धे च न०
मेदि० “तत्र जन्यं रधोर्घोरं पार्वतीयजनैरभूत्” रघुः
८ देहे पु० शब्दचि० । भावं यत् । ९ जनने भ० ।
१० भातृवयस्यायां स्त्री मेदि० । जनाय हि तं यत् ।
११ जनहिते त्रि० । “तुष्टाव जम्यं विसृजत् जनार्द्दनम्”
भाग० १ । ९ । ३ जन्यशब्दात् उत्करा० चतुरर्थ्यां छ ।
जन्थीय तन्निर्वृत्ते त्रि० । “याहीति जन्यामवदत् कुमारी”
रघुः । १२ प्रीतौ स्त्री हेम० । जनस्य जल्पः जन + जल्पे
ऽर्थे यत् । १३ जनस्य जल्पे पु० ।

जन्यु पु० जन--युच् बा०--न अनादेशः । १ धातरि २ वह्नौ

३ प्राणिनि च मेदि० । भावे युच् । जनने पु० “अमृताया-
द्वितीयोऽयं जन्युर्हि मम सर्वथा” हरितं० १२५ अ० ।

जप उच्चारणे वाचि च भ्वा० पर० सक० सेट् । जपति

अजापीत्--अजपीत् । जजाप जेपतुः । जप्त्वा ।
“एतदक्षरमेतां च जपन् व्याहृतिपूर्विकाम्” मनुः । “ततः
सप्रणवां सव्याहृतिकां गायत्रीं जपेत्” गोमि० “जपेत्
सप्तशतीं मध्ये” चण्डीशब्दे दृश्यम् ।
  • अभि + आभिमुख्येन जपे “चकार रक्षां कौशल्या मन्त्रैरभि-
जजाप च” रामा० अयो० २५ । ३० । सम्यक्कथने च
  • उप + भेदने । (काणफुसलनि देओया) “क्षत्तारं कुरुराजस्तु
शनैः कर्णमुपाजपत्” भा० वि० २२१६ “उपजप्यानु-
जपेत्” मनुः “उपजापः कृतस्तेन” माघः ।

जप त्रि० जप--कर्त्तरि अच् । १ जपकारके । “कर्णे जपै

राहितराज्यलोभा” मट्टिः । ततस्तु “त्रिशते काले लमते
जपतामपि” भा० आनु० २८ अ० । काण्डपृष्ठशब्दे १८६० पृ०
दृश्यम् । भावे अप् । २ मन्त्रादेरावृत्तौ चण्डीशब्दे दर्शित
सप्तशत्याः ३ पाठे च । तत्प्रकारो यथा तन्त्रसा० “मनः
संहृतृ विषयाम्मन्त्रार्थगतमानसः । न द्रुतं न
विलम्बञ्च जपेन्मौक्तिकपङ्क्तिवत् । जपः स्यादक्षरा-
वृत्तिर्मानसोपांशुवाचिकैः । धिया यदक्षरश्रेणीं
वर्णस्वरपदात्मिकाम् । उच्चरेदर्थमुद्दिश्य मानसः
स जपः स्मृतः । जिह्वोष्ठौ चालयेत् किञ्चिद्देवता
गतमाममः । किञ्चिच्छ्रवणयोग्यः स्यादुपांशुः स
ज पः स्मृतः । मन्त्रमुच्चारपेवाचा वाचिकः स जपः
स्मृतः । उच्चैर्जपाहिशष्टः स्यादुपांशु र्दशभिर्गुणैः ।
जिह्वाजपः शतगुणः साहस्रो मानसः स्मृतः । जिह्वा-
जपः स विज्ञेयः केवलम् जिह्वया वुधैः” । तत्र
वर्ज्यानि “विण्मूत्रोत्सर्गशङ्कादियुक्तः कर्म करोति च ।
जपार्च्चनादिकं सर्वमपवित्र भवेत् प्रिये! । मलिनाम्बर-
केशादिमुखदौर्गन्ध्य संयुतः । यो जपेत्तं दहत्याशु
देवता गुप्तिसंस्थिता । आलस्यं जृम्भणं निद्रां क्षुबं
निष्ठीबनं मयम् । नीचाङ्गस्पर्शनं कोपं जपकाले
विवर्जयेत्” । देवताभेदे करमालाविशेषनियमो यथा
“तर्जनीमध्यमानामा कनिष्ठा चेति ताः क्रमात् ।
तिस्रोऽङ्गुल्यस्त्रिपर्वाणो मध्यमा चैकपर्विवा । पर्वद्वयं
मध्यमाया मेरुत्वेनोपकल्पयेत् । अनामामध्यमारभ्य
कनिष्ठादित एव च । तर्ज्जनीमूलपर्य्यन्तं दश पर्वसु
संजपेत् । अनामामूलमारभ्य कनिष्ठादित एव च ।
तर्जनीमध्यपर्य्यन्तमष्टपर्वसु संजपेत्” । एतद्वचनन्तु
अष्टोत्तरशतादिबिषयम् । शक्तिविषये पुनः । “अना-
मिकात्रयं पर्व कनिष्ठादित्रिपर्विका । मध्यमा-
याश्च त्रितयं तर्जनीमूलपर्वणि! तर्जन्यग्रे तथा
मध्ये यो जपेत् स तु पापकृत् । अनामामूलमारभ्य
प्रादक्षिण्यक्रमेण च । मध्यादिमूलपर्य्यन्तमष्टपर्वसु
संजपेत्” । श्रीविद्याविषये तु । “अनामामध्यमयोश्च
मूलाग्रञ्च द्वयं द्वयम् । कनिष्ठायाञ्च तर्ज्जन्यास्त्रयं पर्व
सुरेश्वरि! । अनामामध्यमयोश्च मेरुः स्यात द्वितय
शुभम् । प्रदक्षिणक्रमाद्देवि! जपेत् त्रिपुरसुन्दरीम् ।
कनिष्ठामूलमारभ्य प्रादक्षिण्यक्रमेण च । तर्जनीमूल-
पर्य्यन्तमष्टपर्वसु संजपेत् । इदमपि अष्टोत्तरशतादि-
विषयम् । “अङ्गुलीर्न वियुञ्जीत किञ्चिदाङ्गुञ्चिते तले ।
अङ्गुलीनां वियोगाच्च छिद्रे च स्रवते जपः । अङ्गु-
ल्यग्रे च यज्जप्तं यज्जप्तं मेरुलङ्घवे । पर्वसन्धिषु
यज्जप्तं तत्सर्वं निष्फ भवेत् । गणनाविधिमुल्लङ्घ्य
योजपेत्तज्जपं यत्नः गृह्णन्ति राक्षसास्तेन गणयेत्
सर्वथा बुधः । हृदये हस्तमारोप्य तिर्य्यक् कृत्वा
कराङ्गुलीः । आच्छाद्य वाससा हस्तौ दक्षिणेन सदा
जपेत्” । जपसंख्यासाघने द्रव्यभेदनिषेधो यथा ।
“नाक्षतैर्हस्तपर्वैर्वा न घान्यैर्न च पुष्पकैः । न चन्दनैर्मृत्ति-
कया जपसंख्याञ्च कारयेत्” । तत्र विहितद्रव्याणि
“लाक्षा कुषीदसिन्दूरं गोमयञ्च करीषकम् । एभिर्नि
र्माय वटिकां जपसंख्यान्तु कारयेत् । वर्णमाला
जपनियमो यथा । “सविन्दुं वर्णमुच्चार्य्य पश्चान्मन्त्रं
जपेह्व धः । अक्वारादिलकारान्त विन्दु युक्तं विभाव्य
च । वर्णमाला समाख्याता अनुलोमविलोमतः ।
पञ्चाशल्लिपिभिर्म्माला विहिता सर्वकर्मसु । अका-
पृष्ठ ३०३२
रादिलकारान्ता वर्णमाला प्रकीर्त्तिता । क्षार्णं मेरु-
मुखं तत्र कल्पयेन्मुनिसत्तम! । अनया सर्वमन्त्राणां
जपः सर्वसमृद्धिदः” । जपफलञ्च “जपनिष्ठो द्विज
श्रेष्ठोऽखिलयज्ञफलं लभेत् । सर्वेषामेव यज्ञानां
जायतेऽसौ महाफलः जपेन देवता नित्यं स्तूय-
माना प्रसीदति । प्रसन्ना विपुलान् भोगान् दद्यान्मुक्तिञ्च
शाश्वतीम् । यक्षरक्षःपिशाचाश्च ग्रहाः सर्पाश्च
भीषणाः । जपन्तं नोपसर्पन्ति भयभीताः समन्ततः ।
यावन्तः कर्मयज्ञाः स्युः प्रदिष्टानि तपांसि च । सर्वे
ते जपयज्ञस्य फलां नार्हन्ति षोड़शीम् । माहात्म्यं
वाचिकस्यैतत् जपयज्ञस्य कीर्त्तितम् । तस्माच्छत
गुणोपांशुः साहस्रो मानसः स्मृतः” तन्त्रसा० ।
“नोच्चैर्जपञ्च संकुर्यात् रहः कुर्य्यादतन्त्रितः । समाहितमना
स्तूष्णीं मनसा वापि चिन्तयेत् । विधियज्ञात् जपयज्ञो
विशिष्टो दशभिर्गुणैः । उपांशुः स्याच्छतशुणः साहस्रो
मानसः स्मृतः । विना दर्भैस्तु यत्स्नानं यच्च दानं विनो-
दकम् । असंख्यातन्तु यज्जप्तं सर्वं तदफलं स्मृतम् ।
मुक्ताफलैर्विद्रुभेण रुद्राक्षैः स्फटिकेन वा । गणना सर्वथा
कार्य्या सम्यगङ्गुलिपर्वभिः । हिरण्यरत्नमणिभिर्जप्त्वा
शतगुणं भवेत् । सहस्रगुणमिन्द्राक्षैः पद्माक्षैरयुतं
भवेत् । नियुतं वापि रुद्राक्षैर्भद्राक्षैस्तु न संशयः ।
पुत्रजीवकजप्यस्य परिसंख्या न विद्यते । दशभिर्जन्म-
जनितं शतेन च पुराकृतम् । नियुतं तु सहस्रेण गायत्र्या
हन्ति दुष्कृतम् । प्राङ्मुखो वर्त्तयेत् मालां सहस्रं
शतमेव वा” अग्निपु० ।
जपाङ्गमन्त्रचैतन्यादिकज्ञानमावश्यकं तत्र मन्त्रचैतन्यं यथा
कुब्जिकातन्त्रे पञ्चकपटले । “श्रीपार्वत्युवाच । भगवन्!
सर्वदेवेश! लोकानां हितकारक । चतुर्वर्गप्रदं देव! चैतन्यं
मे प्रकाशय । शङ्कर उवाच । शृणु देवि! प्रवक्ष्यामि
चैतन्यं परमाद्भुतम् । रहस्यं परमं पुण्यं गोपनीयं
त्वया पुनः । चिच्छक्त्याध्वनितं देवि! परिणामक्रमेण तु ।
वर्णभावं समासज्य निर्मलं विमलात्मकम् । षट्चक्रञ्च
तथा भित्त्वा शब्दरूपं सनातनम् । नादविन्दुसमायुक्तं
चैतन्यं परिकीर्त्तितम् । अथ वान्यप्रकारेण श्रूयतां
पद्मलोचने! । विना येन न सिध्येत्तु जपपूजादिकिञ्चन ।
अनाहतस्य मध्ये तु ग्रथितं वर्णमुत्तमम् । सुषुम्णा-
वर्त्मना देवि! कण्ठदेशाद्विनिर्गतम् । चैतन्यञ्च महेशानि!
योगिनां योगरूपकम् । सहस्रारे वर्णरूपं परिणाम
क्रमेण तु । कर्णिकामध्यसंस्थे तु नादविन्दुसमन्वितम् ।
एवं संचिन्तयेद्देवीं चैतन्यञ्च पुनः पुनः । मन्त्राक्षराणि
चिच्छक्तौ ग्रथितानि महेश्वरि! । तानि सञ्चिन्तयेद्देवि!
सहस्रारदले तथा । चैतन्यमन्त्ररूपा च चैतन्यानन्द-
दायिनी । चैतन्यनादशक्तिश्च चैतन्यवर्णरूपकम् ।
मणिपूरे सदा चिन्त्यं मन्त्राणां प्राणरूपकम् । अथवान्यप्रकारेण
श्रूयतां वरवर्णिनि! । कामवीजं (क्लीं) रमावीजं (श्रीं)
शक्तिवीजं (ह्रीं) सुरेश्वरि! । एतानि पूर्वमुच्चार्य्य मातृकां
तदनन्तरम् । पुटितं मूलमन्त्रञ्च शतमष्टोत्तरं जपेत् ।
कोटिकोटिगुणञ्चैव लभते नात्र संशयः । अथवान्य
प्रकारेण चैतन्यं शृणु पार्वति! । येन विज्ञातमात्रेण
परमं पश्यति ध्रुवम् । सूर्य्यमण्डलमध्यस्थं चिन्तयेन्-
मूलमन्त्रकम् । अष्टोत्तरशतं जप्यं मूलविद्यास्वरूपकम् ।
गुरुं सञ्चिन्तयेत्तत्र शिवरूपं सनातनम् । शक्तिञ्च चिन्तये-
त्तत्र ब्रह्मरूपां सनातनीम् । एवं सञ्चिन्तयेद्यस्तु
जपेद्वा सुरसुन्दरि! । नासाध्यं तस्य लोकेऽस्मिन्मुक्ति-
र्देवि! करे स्थिता” । तथा प्रथमपटले “मन्त्रार्थं मन्त्र-
चैतन्यं योनिमुद्रां न वेत्ति यः । न सिद्ध्यति वरारोहे!
कल्पकोटिशतैरपि । शतकोटिजपेनापि तस्य विद्या
न सिद्ध्यतीति” । सरस्वतीतन्त्रे “कथयामि
महामन्त्रं मन्त्रार्थञ्च महेश्वरि! । येन विज्ञातमात्रेण
सर्वसिद्धीश्वरो भवेत् । केवलं भाववुद्ध्या च मन्त्रार्थं
प्राणवल्लभे! । केवलं ज्ञानयोगेन जीवन्मुक्तो भवेद्-
ध्रुवम् । काली तारा महाविद्या षोडशी भुवनेश्वरी ।
भैरवी छिन्नमस्ता च विद्या धूमावती प्रिये! । वगला
चैव मातङ्गी कमला च प्रकीर्त्तिता । ब्रह्मविष्णुमहे
शाद्यैश्चतुर्वेदैर्नमस्कृता । भोगटा मोक्षदा देवी कोटि
ब्रह्माण्डगोपिता । अस्याग्रहणमात्रेण जीवन्मुक्तस्तु
साधकः” । वरदातन्त्रे षष्ठपटले “शिव उवाच । मन्त्रार्थं
कथयाम्यद्य शृणुष्व परमेश्वरि! । विना येन न
सिध्येत्तु साधनैः कोटिभिः शिवे! । आदौ प्रसादवीजस्य
मन्त्रार्थं शृणु पार्वति! । शिववाची हकारस्तु औकारः
स्यात् सदाशिवः । शून्यं दुःखहरन्तु स्यात् तस्मात्तेन
शिवं यजेत् । हौँ । दं दुर्गावाचकं देवि! ऊकारश्चापि
रक्षणे । विश्वमाता नादरूपा । सर्वार्थो विन्दुरूपकः ।
तस्मात्तेनैव वीजेन दुर्गामाराधयेत् शिवे! । दूँ । “क
काली व्रह्म र प्रोक्तं महामायार्थकश्च ई । विश्वमाता-
र्थकोनादो विन्दुर्दुःखहरार्थमः । तेनैव कालिका
पृष्ठ ३०३३
देवीं पूजयेद्दुःखशान्तये । क्रीम् । हकारः शिववाची-
स्यात् रेफः प्रकृतिरुच्यते । महामायार्थ ईशब्दो नादो-
विश्वप्रसूः स्मृतः । दुःखहरार्थकोविन्दु र्भुवनां तेन
पूजयेत्” ह्रीम् । महालक्ष्म्यर्थकः शः स्याद्धनार्थो
रेफ उच्यते । ई तुष्ट्यर्थोऽपरो नादो विन्दुर्दुःखहरा-
र्थकः । लक्ष्मीदेव्या वीजमेतत्तेन देवीं प्रपजयेत् ।
श्रीँ । सरस्वत्यर्थ ऐशब्दो विन्दुर्दुःखहरार्थकः ।
सरस्वत्यावीजमेतत्तेन वाणीं प्रपूजयेत् । ऐँ । कः
कामदेव उद्दिष्टोऽप्यथवा कृष्ण उच्यते । लैन्द्रई तुष्टिवाची
सुखदुःखप्रदञ्च अम् । कामवीजार्थ उक्तस्ते तव स्नेहान्
महेश्वरि । क्लीँ । हः शिवः कथितो देवि! ऊर्भेरव
इहोच्यते । परार्थो नादशब्दस्तु विन्दुर्दुःखहरार्थकः ।
वर्मवीजमयोह्यत्र कथितस्तव यत्नतः । हूँ । गणेशार्थे
गौक्तस्ते विन्दुर्दुःखहरार्थकः । गंवीजार्थस्तु कथितस्तव
स्नेहान् महेश्वरि! । गँ । ग गणेशो व्यापकार्थो लकारस्ते
ज और्मतः । दुःखहरार्थकोविन्दु र्गणेशं तेन पूजयेत् ।
ग्लौँ । क्षौंनृसिंहो ब्रह्म रश्च ऊर्द्ध्वदन्तार्थकश्च औः । दुःख
हरार्थको विन्दुर्नृसिंहं तेन पूजयेत् । क्ष्रौँ ।
नामादिवर्णः सर्वेषां नामौक्तं स्वयम्भुवा । तेनैवार्थन्तु-
जानीयादर्थलभ्यन्तु चिन्तयेत् । यथायथं विभक्त्यन्तं
मन्त्रार्थो चिन्तयेच्छिवे! । तत्तद्वर्णादियोगेन संक्षेपात्
कथितं त्वयि । दुर्गोत्तारणबाचीस्तारकार्थस्तकारकः ।
मुक्त्यर्थोरेफौक्तोऽत्र महामायार्थकश्च ई । विश्वमातार्थ-
कोनादो विन्दुर्दुःखहरार्थकः । बधूवीजार्थ उक्तो-
ऽत्र तव स्नेहान् महेश्वरि! । स्त्रीँ । यत्र विन्दुद्वयं
मन्त्रे एकं दुःखहरार्थकम् । अन्यत् सुखप्रदं देवि!
ज्ञात्वा चार्थं विचिन्तयेत् । यत्र विन्दुद्वयं मन्त्रे अन्यत्
पूर्णार्थकं मतम् । स्वाहामात्रार्थका देवी परार्था वा प्रकी-
र्त्तिता । शक्रमाता वषट्प्रोक्ता हरिप्रियार्थका गिरा ।
सुरार्था फठयग्रीवे विव्रिं वीजं विनिर्दिशेत् ।
यंवीजं वायुवाचि स्यात् लमैन्द्रं परिकीर्त्तितम् ।
अनेकाक्षरवीजे च स्वस्ववीजं स्वनामकम् । एवं ज्ञात्वा
महेशानि! मन्त्रार्थं परिचिन्तयेत् । एकवीजद्वयं यत्र
पृथगर्थं प्रकल्पयेत् । वीप्सार्थं वा महेशानि ज्ञात्वा
मन्त्रं जपेद्धिया । इति ते कथितो देवि मन्त्रार्थः
परमेश्वरि! ईंवीजेनैव पुटितं मूलमन्त्रं जपेद्यदि ।
तदेव मन्त्रचैतन्यं भवत्येव सुनिश्चितम्” । सरस्वतीतन्त्रे
प्रथमपटले “ईश्वर उवाच । मन्त्रार्थं प्ररमेशानि!
सावधानावधारय । मूलाधारे मूलविद्यां भावयेदिष्ट
देवताम् । शुद्धस्फटिकसङ्काशां भावयेत् परमेश्वरीम् ।
भावयेदक्षरश्रेणीमिष्टविद्यां सनातनीम् । मुहूर्त्तार्द्धं
विभाव्यैतां पश्चाद्ध्यानपरो भवेत् । ध्यानं कृत्वा
महेशानि! मूहूर्त्तार्द्धं ततः परम् । ततोजीवो महेशानि!
भनसा कमलेक्षणे! । स्वाधिष्ठानं ततोगत्वा भावयेदिष्ट
देवताम् । वन्धूकारुणसङ्काशां जवासिन्दूरसन्निभाम् ।
विभाव्य अक्षरश्रीणीं पद्ममध्यगतां पराम् । ततो जीवः
प्रसन्नात्मा पक्षिणा सह सुन्दरि! । मणिपूरं ततो गत्वा
भावयेदिष्टदेवताम् । विभाव्य अक्षरश्रेणीं पद्ममध्यगतां
पराम् । शुद्ध्वस्फटिकसङ्काशां शिरापद्मोपरिस्थिताम् ।
ततोजीवो महेशानि! पक्षिणा सह पार्वति! । हृत्पद्मं
प्रययौ शीघ्रं नीरजायतलोचने! । इष्टविद्यां महेशानि! ।
मावयेत् कमलोपरि । विभाव्य अक्षरश्रेणीं महामरकत-
प्रभाम् । ततोजीवो वरारोहे! विशुद्धं प्रययौ प्रिये! ।
तत्पद्मगहनं गत्वा पक्षिणा सह पार्वति! । इष्टविद्यां
महेशानि! आज्ञांशे परिचिन्तयेत् । पक्षिणा सह देवेशि!
खञ्जनाक्षि! शुचिस्मिते! । इष्टविद्यां महेशानि! साक्षा-
द्ब्रह्मस्वरूपिणीम् । विभाव्य अक्षरश्रेणीं हरिद्वर्णां
वरानने! । आज्ञाचक्रे महेशानि! षट्चक्रे ध्यानमा-
चरेत् । षट्चक्रे परमेशानि! ध्यानं कृत्वा शुचिस्मिते! ।
ध्यानेन परमेशानि! यद्रूपं समुपस्थितम् । तदेव
परमेशानि! मन्त्रार्थं विद्धि पार्वति” अथ कुल्लुकादि ।
सरस्वतीतन्त्रे तृतीयपटले “तारायाः कुल्लूका
देवि! महानीलसरखती । पञ्चाक्षरी कालिकायोः
कुल्लुका परिकीर्त्तिता । कालीकूर्च्चं वधूमाया फट्कारान्ता
महेश्वरि! । च्छिन्नावास्तु महेशानि! कुल्लुकाष्टाक्षरी
भवेत् । वज्रवैरोचनीये च अन्ते वर्म च पूरयेत् । सम्पत्-
प्रदायाः प्रथमं भैरव्याः कुल्लुका भवेत् । श्रीमत्त्रिपुर-
सुन्दर्य्याः कुल्लूका द्वादशाक्षरी । वाग्भवं प्रथमं वीजं
कामवीजमनन्तरम् । लज्जावीजं ततः पश्चात् त्रिपुरेति
ततःपरम् । भगवतीति ततः पश्चादन्ते ठद्वयमुद्धरेत् ।
अथ कामवीजञ्च कुल्लुका परिकीर्त्तिता । प्रासाद-
वीजं शम्भोश्च मञ्जुघोषे षड़क्षरम् । एकार्णा भुवनेश्वर्य्या
विष्णोः स्यादष्टवर्णकम् । नमोनारायणायेति प्रण-
वाद्यञ्च कुल्लुका । मातङ्ग्याः प्रथमं बीजं माया धूमा-
वतीं प्रति । वालायाश्च वधूवीजं लक्ष्म्याश्च निजवीजकम् ।
सरस्वत्या वाग्भवञ्च अन्नदाया अनङ्गक! । अपरेषाञ्च
पृष्ठ ३०३४
देवानां मन्त्रमात्रं प्रकीर्त्तितम् । इयन्ते कथिता देवि!
संक्षेपात् कुल्लुका मया । अज्ञात्वा कुल्लुकामेतां
योजपेदधर्मः प्रिये! । पञ्चत्वमाशु लभते सिद्ध्विहानिस्तु
जायते । तथा जपादिकं सर्वं निष्फलं नात्र संशयः ।
तस्मात् सर्वप्रयत्नेन धारयेन्मूर्द्ध्नि कुल्लुकाम्” । तथा
“विप्राणां प्रणवः सेतुः क्षत्रियाणां तथैव च । वैश्याना-
ञ्चैव फट्कारो माया शूद्रस्य कथ्यते । अजप्त्वा
हृदि देवेशि! यो वै मन्त्रं समुच्चरेत् । सर्वेषामेव मन्त्राणा
मधिकारोन तस्य हि । महासेतुश्च देविशि! सुन्दर्य्या
भुवनेश्वरी । कालिकायाः स्वबीजञ्च तारायाः कूर्च्च-
वीजकम् । अन्यासान्तु वधूवीजं महासेतुर्वरानने! ।
आदौ जप्त्वा महासेतुं जपेन्मन्त्रमनन्यधीः । धने
वनेशतुल्योऽसौ वाप्यावाणीश्वरोपमः । युद्धे कृतान्त
सदृशो नारीणां मदनोपमः । जपकालो भवेत्तस्य सर्वः कालो
न संशयः । अथ वक्ष्यामि निर्वाणं शृणुष्वावहितानघे! ।
प्रणवं पूर्वमुच्चार्य्य मातृकाद्यं समुद्धरेत् । तती मूलं
महेशानि! ततोवाग्भवमुद्धरेत् । मातृकास्तु समस्तास्तु
पुनः प्रणवमुद्धरेत् । एवं पुटितमूलन्तु प्रजपेन्-
मणिपूरके । एवं निर्वाणमिशानि! यो नं जानाति
प्रामरः । कल्पकोटिसहस्रेण तस्य सिद्धिर्न जायते” ।
षथ मुखशोधनम् । पञ्चमपटले “ईश्वर उवाच ।
अपरैकं प्रवक्ष्यामि मुखशोधनमुत्तमम् । यन्न कृत्वा महादेवि!
जपपूजा वृथा मवेत् । अशुद्धजिह्वया देवि! योजपेत्-
स तु पापकृत् । तस्मात्सर्वप्रयत्नेन जिह्वाशोघनमाचरेत् ।
महात्रिपुरसुन्दर्य्या मुखस्य शोधनं शुभे! । श्रीवीजं प्रणवो
लक्ष्मीस्तारः श्रीः प्रणवस्तथा । इमं षड़क्षरं मन्त्रं
सुन्दर्य्या दशधा जपेत् । शृणु सुन्दरि! श्यामाया मुख
शोधनमुत्तमम् । निजवीजत्रयं देवि! प्रणवत्रितयं पुनः ।
कामत्रयं वह्निविन्दुरतिचन्द्रयुतं पृथक् । एषा
नवाक्षरी विद्या मुखशोधनकारिणी । तारायाः शृणु-
चार्वङ्गि! अपूर्वमुखशोधनम् । जीवनं मध्यमं लज्जां
मुवनेशीं ततः प्रिये! । त्र्यक्षरीयं महाविद्या विज्ञेया-
ऽमृतवर्षिणी । दुर्गायां शृणु चार्वङ्गि! मुखशोधन-
मुत्तमम् । द्वादशस्वरमुद्धृत्य विन्दुयुक्तं त्रयं तथा । अपरैकं
प्रवक्ष्यामि वगलामुखशोधनम् । वाग्भवं भुवनेशीञ्च
वाग्वीजसुरवन्दिते! । मातङ्ग्याः शोधनं देवि! अङ्कुशं
वाग्भवन्तथा । वीजञ्चाङ्कुशमेतद्धि विज्ञेयं त्र्यक्षरी-
यकम् । लक्ष्म्याश्च शोधनं देवि! श्रीवीजं कमलानने! ।
दुर्गायाः शोधनं माया वाग् वीजपुटिता भवेत् । दुर्गे-
स्वाहा पुनर्म्माया वाग्वीजञ्च पुनश्च वाक् । प्रणवं
दान्तमुद्धृत्य वामकर्णविभूषितम् । पुनः प्रणवमुद्धृत्य
धनदामुखशोधनम् । एवंमन्त्रं महेशानि! धूमा-
वत्याभवेदपि । प्रणवो विन्दुमान् देवि! पञ्चान्तकोगणे-
शितुः । वेदादिगगनं विह्निमनुयुन्मन्तु चन्द्रवत् ।
द्व्यक्षरः परमेशानि! । विष्णोश्च मुखशोधनम् । अन्यासां
प्रणवं देवि! वालादीनां प्रकीर्त्तितम् । स्त्रीणाञ्च शूद्र-
तुल्यं हि मुखशीधनमीरितम् । मुखशोधनमात्रेण जिह्वा-
ऽमृतमयो भवेत् । अन्यथा मुखविड़्युक्ता जिह्वा भवति
सर्व्वदा । भक्षणैर्दूषिता जिह्वा मिथ्यावाक्येन दूषिता ।
कलहैर्दूषिता जिह्वा तत्कथं प्रजपेन्मनुम् । तच्छोधन-
मनाचर्य्य न जपेत् पामरः क्वचित् । शैवशाक्तवैष्णवादेः
सर्वस्यावश्यमेव वा । अन्यथा प्रजपेन्मन्त्रं मोहेन यदि
भाविनि! । सर्वं तस्य वृथा देवि! मन्त्रसिद्धिर्न जायते ।
अन्ते नरकगामी च भवेत् सोऽपि न चान्यथा । देवो यदि
जपेन् मन्त्रं अकृत्वा मुखशोधनम् । तपनं तस्य देवेशि!
किं पुनर्म्मर्त्यवासिनाम्” । षष्ठपटले “ईश्वर उवाच ।
अथ वक्ष्यामि देवेशि! प्राणयोगं शृणुष्व मे । विना प्राणं
यथा देहः सर्वकर्मसु न क्षमः । विना प्राणं तथा मन्त्रः
पुरश्चर्य्याशतैरपि । मायया पुटितोमन्त्रः सप्तधा जपतः
पुनः । सप्राणो जायते देवि! सर्वत्रायं विधिःस्मृतः ।
तथैव दीपनीं वक्ष्ये सर्वमन्त्रे च भाविनि! । अन्धकारे
गृहे यद्वन्न किञ्चित् प्रतिभामते । दीपनीरहितो मन्त्र
स्तथैव परिकीर्त्तितः । वेदादिपुटितं मन्त्रं सप्तवारं
जपेत्पुनः । दीपनीयं समाख्याता सर्वत्र परमेश्वरि! ।
वेदादिपुटितं कृत्वा प्रयत्नेन सुरेश्वरि! । दशधा प्रज-
पेन्मन्त्रं सूतकद्वयमुक्तये । अथोच्यते जपस्यात्र क्रम-
श्च परमाद्भतः । यं कृत्वा सिद्धिसंघानामधिपोजावते
मरः । नतिर्गुर्वादिनामादौ नमो मन्त्रशिखां भजेत् ।
ततोऽपि मन्त्रचैतन्यं मन्त्रार्थभावना ततः । गुरुध्यानं
शिरःपद्मे हृदीष्टध्यानमाचरेत् । कुल्लुकाञ्च ततः
सेतुं महासेतुमनन्तरम । निर्वाणञ्च ततो देवि! योनि-
मुद्राविभायना । अङ्गन्यासं प्राणायामं जिह्वाशोधन-
मेव च । प्राणयोगं दीपनीञ्च अशौचभङ्गमेव च ।
म्रूमध्ये वा नसोरग्रे दृष्टौ सेतुं जपेत् पुनः । सेतुमशौच
भङ्गञ्च प्राणायाममिति क्रमः” । चतुर्थपटले । “कुल्लुकां
मूर्द्ध्निसंजप्य हृदि सेतुं विचिन्तयेत् । महासेतुं विशुद्धौ
पृष्ठ ३०३५
च कण्ठदेश समुद्धरेत् । मणिपूरे तु निर्वाणं महाकुण्ड-
लिनीमधः । स्वाधिष्ठाने कामवीजं राकिणीमूर्द्ध्नि संस्थि-
तम् । विचिन्त्य विधिवद्देवि! मूलाधारान्तिके शिवे! ।
विशुद्धान्तं स्मोद्देवि! विसतन्तुतनीयसीम् । वेदिस्थानं
हि जीवान्तं मूलमन्त्रावृतं मुहुः” ।

जपत न० जप--भावे ल्युट् । जपे । “सन्न्यास एव वेदान्ते

वर्त्तते जपनं प्रति” भा० शा० १०१६ अ० ।

जपमाला स्त्री० जपस्य जपार्था माला । जपसाधने मालायां

तद्विधानादि अक्षमालाशब्दे ४३ पृ० उक्तप्रायमधिकमत्र
प्रदर्श्यते ।
नित्यातन्त्रे नवमपटले “ईश्वर उवाच । अक्ष-
मालां समाश्रित्य मातृकावर्णरूपिणीम् । अथ मुक्ता-
फलमयी भोगमोक्षप्रदायिनी । राजवश्यकरी सर्व-
सिद्धिदा नात्र संशयः । यथा मुक्ताफलमयी तथा स्फटिक
निर्मिता । रुद्राक्षमाला गिरिजे! मोक्षदा च समृद्धिदा ।
प्रवालघटिता माला वश्यदा कर्मसाधिनी । माणिक्य-
रचिता माला साम्राज्यफलदायिनी । पुत्रजीवक-
माला तु विद्यालक्ष्मीप्रदायिनी । पद्मवीजाक्षमाला
तु महालक्ष्मीप्रदायिनी । रक्तचन्दनवीजाक्षमाला-
वश्यफलप्रदा” । मुण्डमालातन्त्रे द्वितीयपटले
“स्फाटिकैर्मोक्षलाभः स्यात् रुद्राक्षैर्बहुपुत्रदा ।
जीवपुत्रैश्च धनदा पाषाणैर्गोगमोक्षदा । शुद्धस्फटिक-
माला तु महासम्पत्प्रदा प्रिये! । श्मशानधूस्तुरैर्माला
एका धूमावतीविधौ” । तथा । “मणिरत्नप्रबालैश्च
हेमराजतसम्भवा । माला कार्य्या कुशग्रन्थ्या सर्वभोग
फलप्रदा” । समायाचारतन्त्रे द्वितीयपटले “पूर्व्वा-
म्नायादि सर्वेषां मालां शृणु यथाक्रमम् । जप्प्वा
येनाशु लभते फलं देवैश्च दुर्ल्लभम् । अक्षमाला प्रथमतो
मातृकार्णस्वरूपिणी । अथ मुक्तामयी माला रतिमोक्ष
फलदा । सर्वसिद्धिकरी माला सर्वराजवशङ्करी ।
प्रवालमालावश्यार्थं सर्वकार्यफलप्रदा । माणिक्यरचिता
माला साम्राज्यफलदायिनी । पद्माक्षरचिता माला
यशीलक्ष्मीप्रदा सदा । सुवर्णरचिता माला सर्वकाम-
फलप्रदा । रक्तचन्दनमाला च भोगदा मोक्षदा
भवेत् । रुद्राक्षरचिता माला सर्वकामफलप्रदा । सर्व-
मालां प्रपूज्याथ चन्दनेन विलेपिताम् । समाश्रित्य
जपेन्नित्यं यथोक्तफलमाप्नुयात् । एता मालाश्च सुभगे!
पञ्चाम्नायेषु पूजिताः” मुण्डमालातन्त्रे “देव्युवाच
अक्षमाला तु कथिता यत्नतो न प्रकाशिता । अक्षमा-
लेति किं नाम फलं वा किं वदस्व मे । ईश्वर उवाच
अक्षमाला तु देवेशि! काम्यभेदादनेकधा । भवति शृणु
तत् प्राज्ञे! विस्तरादुच्यते मया । अनुलोमविलोमेन
कॢप्तया वर्णमालया । आदिलान्तलादिआन्तक्रमेण परमे-
श्वरि! । क्षकारं मेरुरूपञ्च लङ्घयेन्न कदाचन” । मेरु-
लङ्घनदोषस्तु तत्रैव “मेरुहीना च या माला मेरु-
लङ्घा च या भवेत् । अशुद्धप्रतिकाशा च सा माला
निष्फला भवेत् । चित्रिणी विसतन्त्वाभा ब्रह्मनाड़ीगतान्तरा ।
तया संग्रथिता माला सर्वकामफलप्रदा । अष्टोत्तरशत
जप्त्वा आदिक्लीवं समाचरेत् । ॠऌॡद्वयं यत्तु तद्धि
क्लीवं प्रचक्षते । वर्गाणामष्टभिर्वापि काम्यभेदात् क्रमेण
तु अकचटतपयशा अष्टौ वर्गाः प्रकीर्त्तिताः” । मालया-
जपविशेषस्तु नित्यातन्त्रे “अक्षमालां प्रपूज्याथ चन्द-
नेन सुलचने! । समाश्रिव्य जपेद्विद्वान् लक्षमात्रमन-
न्यधीः । योषितः सकला वश्याः सप्तद्वीपस्य पार्बति! ।
ततो द्वितीयलक्षञ्च प्रजपेद्वीरवन्दिते! । पाताल-
तलनागेन्द्रकन्या वश्या भवन्ति हि । ततो लक्षत्रवं
मद्रे! प्रजपेत् साधकोत्तमः । देवाङ्गना भवन्त्येव
वश्यास्तस्य महेश्वरि! । महापातककोटीक्ष
नाशयेत् कमलेक्षणे! अभिमानेन सौभाग्यं सौख्यं
सौन्दर्य्यमाप्नुयात् । चतुर्लक्षं प्रजप्याथ महायोगीश्वरो
भवेत् । पञ्चलक्षजपादृवि! कुवेरपदवीं व्रजेत् । षड़्लक्षं
तु प्रजप्याथ देवपूज्यो भवेन्नरः । अणिमाद्यष्टसिद्धीनां
नायको नात्र संशयः । राजानोवशगास्तस्य योषितश्च
विशेषतः । नवलक्षं महादेवि! योजपेत् साधकोत्तमः ।
रुद्रमूर्त्तिः स्वयं साक्षात् कर्त्ता हर्त्ता न संशयः” । समया-
चारतन्त्रे “उत्तराम्नाये या माला भूयः शृणु वदामि ते ।
अथ वर्णमयी माला सर्व्वोत्कृष्टा च सा मता । महाशङ्ख-
मयी माला वाञ्छितार्थफलप्रदा । उडुम्बरफलस्याथ
सूक्ष्मस्याथ कृता मता” । योगिनीतन्त्रे पूर्वखण्डे
द्वितीय पटले “ईश्वर उवाच । वर्णमाला शुभा प्रोक्ता
सर्वमन्त्रप्रदीपनी । तस्याः प्रतिनिधिर्देवि! महाशङ्ख-
मयी शुभा । महाशङ्खः करे यस्य तस्य सिद्धिरदूरतः ।
तदभावे वीरवन्द्ये! स्फाटिकी सर्वसिद्धिदा” । मणिभेदेन
फलभेदमाह मुण्डमालातन्त्रे “त्रिंशतैश्वर्य्यफलदा पञ्च-
विंशैस्तु मोक्षदा । चतुर्द्दशमयो मोक्षदायिनी भोगवर्द्धिनी ।
दशपञ्चात्मिका माला मारणोच्चाटने स्थिता । स्तम्मने मोहने
पृष्ठ ३०३६
वश्य रोधने अञ्जने तनोः । पादुकासिद्धिसंघे च शतसख्या
प्रकीर्त्तिता । अष्टोत्तरशतं कुर्य्यादथवा सर्वकामदम्” ।
योगिनी तन्त्रे “मणिसंख्या महादेवि! मालायाः कथ
यामि ते । पञ्चविंशतिभिर्म्मोक्षं पुष्ट्यै तु सप्तबिंशतिः ।
त्रिंशद्भिर्धनसिद्धिः स्यात् पञ्चाशन्मन्त्रसिद्धये । अष्टोत्तरशतैः
सर्वसिद्धिरेव महेश्वरि! । एतत्साधारणं प्रोक्तं विशेषं
कामिनां वदे । शिवौवाच । दन्तमाला जपे कार्य्ये
गले धार्य्या नृणा शुभा । दशनैर्यदि कर्त्तव्यां संख्यादन्तस्य
ते प्रिये! । सर्वसिद्धिप्रदा माला राजदन्तेन मेरुणा ।
अन्यत्रापि महेशानि! मेरुत्वेनैवमादिशेत् । नित्यं जप
करे कुर्य्यान्न काम्यमवरोधनात् । काम्यमपि करे कुर्य्या-
न्मालाऽभावे प्रियंवदे! । अत्राङ्गुल्या जपं कुर्य्यात् अङ्गुष्ठा-
ङ्गुलिभिर्जपेत् । अङ्गुष्ठेन विना कर्म कृतं तन्निष्फलं
भवेत्” । उत्पत्तितन्त्रे प्रथमपटले “नित्यं नैमित्तिकं काम्यं
करे कुर्य्याद्विचक्षणः । करमाला महादेवि! सर्वदोषविव-
र्जिता । छिन्नभिन्नादिदोषोऽपि करे नास्ति कदाचन ।
अक्षयस्तु करोदेवि! माला भवति तादृशी । ग्रन्थिः सा
कुण्डलीशक्तिः पञ्चाशद्वर्णरूपिणी । अतएव महेशानि!
करमाला महाफला” । योगिनीतन्त्रे “तथातथातो
ग्रथनं मालानां तत्र शोधनम् । पूजां विधाय भक्त्या तु
शुचिः पूर्वमुपोषितः । विजने ग्रथयेन्मौनी स्वयं
मालाञ्च साधकः । कृतनित्यक्रियः शुद्धः शुद्धर्क्षेषु
च मन्त्रवित् । यथाकालं यथाकाममक्षाण्यानीय-
यत्नतः । अन्योऽन्यसमरूपाणि नातिस्थूलकृशानि
च । कीटादिभिरदुष्टानि न जीर्णानि नवानि
च । गव्यैस्तु पञ्चभिस्तानि प्रक्षाल्य च पृथक् पृथक् ।
पृथ्वीदेवेन्द्रपुण्यस्त्रीनिर्म्मितं ग्रन्थिवर्जितम् । त्रिगुणं
त्रिगुणीकृत्य पट्टसूत्रमथापि वा । शुक्लं रक्तं तथा कृष्णं
शान्तिवश्याभिचारके । सूत्रं संपातयेद्विद्वान् तत्प्र-
क्षाल्य च पूर्ववत् । मालामेकैकमादाय सूत्रे संपातयेत्
तधीः । मुखे मुखन्तु संयोज्य पुच्छे पुच्छन्तु वाजयेत् ।
तोपुच्छसदृशी कार्य्याथ वा सर्पाकृतिर्भवेत् । तत्सजा-
तीयमेकाक्षं मेरुत्वेनाग्रतोन्यसेत् । एकैकमालामध्ये तु
ब्रह्मग्रन्थिं प्रकल्पयेत्” । उत्पत्तितन्त्रे षाष्टपटले
“क्रमोत्क्रमाच्छतावृत्त्या पञ्चाशद्वर्णमालया । योजपः स
तु विज्ञेय उत्तमः परिकीत्तितः । अकारादि क्षकारान्ता
वर्णमाला प्रपीर्त्तिता” । अधिकं जपशब्दे दृश्यम्
तदग्रथनप्रकारादि तन्त्रसारे दर्शितं यथा
सनत्कुमारीये “कार्पाससम्भवं सूत्रं धर्म्मकामार्थं
मोक्षदम् । तच्च विप्रेन्द्रकन्याभिर्निर्मितञ्च सुशीभनम् ।
शुक्लं रक्तं तथा कृष्णं पट्टसूत्रमथापि वा । शान्ति-
वश्याभिचारेषु मोक्षैश्वर्य्य जयेषु च । शुक्लं रक्तं
तथा पीतं कृष्णं वर्णेषु च क्रमात् । सर्वेषामेक वर्णानां
रक्तं सर्वेप्सितप्रदम् । त्रिगुणं त्रिगुणीकृत्य ग्रथयेत्
शिल्पशास्त्रतः । एकैकं मावृकावर्ण सतारं प्रजपन्-
सुधीः । मणिमादाय सूत्रेण ग्रथयेन्मध्यभा
गतः । ब्रह्मग्रन्थि विधायेत्थं मेरुञ्च ग्रन्विसंयुतम् ।
ग्रथयित्वा पुरोमालां तत्संस्कारं समाचरेत् । कस्वचि-
चिन्मते मूलविद्यया ग्रथयेत् तथा च एकवीराकल्पे
“भातृका बर्णतो ग्रन्थिं विद्यया वाथ कारयेत्” ।
सुवर्णादिगुणैर्वापि ग्रथयेत् साधकोत्तमः । ब्रह्मग्रन्थिं
ततो दद्यात् नागपाशमथापि वा । कवचेनावबध्नीया-
न्मालां ध्यानपरायणः । सर्वशेषे ततोमेरुं सूत्रद्वय-
समन्वितम् । ग्रथयेत्तारयोगेन बध्नीयात् साधको-
त्तमः । एवं निष्पाद्य देवेशि! प्रतिष्ठाञ्च समाचरेत्” ।
गौतमीये “मुखे मुखन्तु संयोज्य पुच्छे पुच्छन्तु योज
येत् । गोपुच्छसदृशी माला यद्वा सर्पाकृतिः शुभा” ।
मुखपुच्छनियमस्तु स्वच्छन्दमाहेश्वरे “रुद्राक्षस्योन्नतं
प्रोक्तं मुखं पुच्छञ्च निम्नगम् । कमलाक्षस्य सूक्ष्मांशै
सविन्दुद्वितयं मुखम् । सविन्दु कस्य स्थूलांशं दृढ़ं
श्लक्ष्णमिति स्थितम् । एवं ज्ञात्वा मुखं पुच्छ रूद्रा-
क्षाम्भोरुहाक्षयोः । तत्सजातीयमेकाक्षं मेरुत्वना
ग्रतोन्यसेत् । एकैकं मणिमादाय ब्रह्मग्रन्थिं प्रकल्प-
येत् । एकैकमातृकावर्णान् ग्रथनादौ तु संजपेत्” ।
ग्रन्थिनियमस्तु स्वच्छन्दमाहेश्वरे “त्रिवृत्तिग्रन्थिनै-
केन तथार्द्धेन विधीयते” । अथ वा “नवभिस्तन्तुभिश्चाथ
रज्वुं कृत्वोपवीतवत् । सार्द्धद्वयावर्त्तनेन ग्रन्थिं कुर्य्या-
द्यथा दृढ़म्” । इत्यताभ्यामिच्छाविकल्पः । तथा “द्वादष्यां
वैष्णवी माला कर्त्तव्या सोपवासतः । समृद्ध्यै विष्णु-
मन्त्रेण दिवाभागे प्रयत्नतः । शक्तीनामपि कर्त्तव्य रात्रि-
न्त्यक्ता यथाविधि । अष्टभ्याञ्च नवम्य ञ्च चतुर्द्दश्यान्तथैव
च । त्रयोदश्यान्तथा कुर्य्याच्छिवस्याथ सुरेश्वरि! शुभे लग्ने
शुभे वारे शुभर्क्षे च शुभे तिथौ । प्रतिष्ठां कारयेन्मन्त्री
स्वयं वा गुरुणापि वा । एवं निर्म्माय मालां वै शोधये-
न्मुनिसत्तम! । कालिकापुराणे ब्रह्मग्रन्थियुतं कुर्य्यात्
प्रतिवीजं यथास्थितम् । अथ वा ग्रन्थिरहितं दृद
पृष्ठ ३०३७
रज्वुसमन्वितम् । अश्वत्थपत्रनवकैः पद्माकारन्तु कल्प-
येत् । तन्मध्ये स्थापयेत्मालां मातृकां मूलमुच्चरन् ।
क्षालयेत् पञ्चगव्यैस्तु सद्योजातेन सज्जलैः” । इत्यादि ।
मालासंस्कारस्य नित्यतामाह रुद्रयामले “अपति-
ष्ठितमालाभिर्मन्त्रं जपति यो नरः । सर्वं तद्वि-
फलं विद्यात् क्रुद्धा भवति देवता” । खच्छन्दमाहे-
श्वरे “मध्यमायां न्यसेत् मालां ज्येष्ठेनावर्त्तयेत सुधीः ।
भुक्तिमुक्तिप्रदा सेयं किञ्चाथ मातृकाक्रमात् ।
कामनाभेदे अङ्गुलीनियमो यथा “तर्ज्जन्यङ्गुष्ठयोगेन
शत्रूणां नाशने जपेत् । अङ्गुष्ठमध्यमायोगात् मन्त्र-
सिद्धिः सुनिश्चिता । अङ्गुष्ठानामिकायोगाच्छत्रोरु-
च्चाटनं मतम् । ज्येष्ठाकनिष्ठायोगेन शत्रूणां शासनं
मतम्” । “वैशम्पायनसंहितायाम् अङ्गुष्ठमध्यमानाञ्च
गणेयं मध्यमागतः । तर्ज्जन्या न स्पृशेदेनां मुक्ति-
दो गणनक्रमःः । जीर्णे सूत्रे पुनः सूत्रं ग्रथयित्वा
शतं जपेत् । प्रमादात् पतिता हस्तात् शतमष्टोत्तरं
जपेत् । जपेन्निषिद्धसंस्पर्शे क्षालयित्वाऽक्षमालिकाम्” ।
छिन्नेऽप्यष्टोत्तरशतजपः कार्य्यः करभ्रष्टच्छिन्नयोस्तु-
ल्यत्वात्” तन्त्रसारः ।

जपयज्ञ पु० जपएव यज्ञः । जपरूपे यज्ञे तद्भेदादिकं हारी-

तेनोक्तं यथा “विविधो जपयज्ञः स्यात्तस्य तत्त्वं निबोधत ।
वाचिकश्च उपांशुश्च मानसश्च त्रिधाकृतिः । त्रयाणा-
मपि यज्ञानां श्रेष्ठः स्यादुत्तरीत्तरः । यदुच्चनीचोच्चरितैः
शब्दैः स्पष्टपदाक्षयैः । मन्त्रमुच्चारयन् वाचा जप
यज्ञः स वाचिकः । शनैरुच्चारयन् मन्त्रं किञ्चिदोष्ठौ
प्रचालयेत् । किञ्चित् श्रवणयोग्यः स्यात् स उपांशु-
र्जपः स्मृतः । धिया पदाक्षरश्रेण्या अवर्णमपदा-
क्षरम । मन्त्रार्थचिन्तनाभ्यान्तु तदुक्तं मानसं स्मृतम् ।
जपेन देवता नित्यं स्तूयमाना प्रसीदति । प्रसन्ने
विपुलान् भोगान् प्राप्नुवन्ति मनीषिणः । राक्षसाश्च
पिशाचाश्च महासर्पाश्च भीषणाः । जपितान्नोपसर्पन्ति
दूरादेव प्रयान्ति ते । छन्दऋष्यादि विज्ञाय जपेन्मन्त्र
मतन्त्रितः” । “विधियज्ञाज्जपयज्ञो विशिष्टो
दशभिर्गुणैः । उपांशुः स्यात् शतगुणः साहस्रो मानस
स्मृतः” । “ये पाकयज्ञाश्चत्वारो विधियज्ञसमन्विताः ।
सर्वे ते जपयज्ञस्यं कलां नार्हन्ति षोडशीम्” मनुः
“जपयज्ञप्रसिद्ध्यर्थं विद्याञ्चाध्यात्मिकीं जपेत्” याज्ञ०
“यज्ञानां लपयज्ञोऽस्मि” गीता ।

जपस्थान न० ६ त० । नानातन्त्रोक्ते जपसाधनस्थानभेदे ।

तानि च नामातन्त्रोक्तानि प्रदर्श्यन्ते ।
“सारदायां द्वितीयपले “पुण्यक्षेत्रं नदीतीरं गुहा
पर्वतमस्तकम् । तीर्थप्रदेशाः सिन्धूनां सङ्गमः पावनं
सरः । उद्यानानि विविक्तानि विल्वमूलं तटं गिरेः ।
देवाद्यायतनं कूलं समुद्रस्य निजं गृहम् । साधनेष् प्रश-
स्यन्ते स्थानान्येतानि मन्त्रिणाम् । नदीतीरं पुण्यनदीतीरं
सामान्यनदीतीरस्य निषिद्धत्वात् । विविक्तानि विज
नानि । राघवभट्टधृतम् “प्रत्यङ्मुखशिवस्थाने वृषभादिवि-
वर्ज्जिते । अश्वत्थविल्वतुलसीवपुष्पान्तरावृते । गवां
गोष्ठेऽश्वत्थमूले पुण्यक्षेत्रेषु शस्यते” । गोष्ठ इत्यनेनैव
गीस्थाने लब्धे गवामिति यदुक्तं तत्तात्कालिकगोसम्बन्ध-
ज्ञापनाय तेन गोसमीपे जपादिकर्म्मप्रशस्तमतएव गवां
समीप इत्युक्तम् । वायवीयसंहितायाम् “सूर्य्य-
स्याग्रे गुरोरिन्दोर्दीपस्य च जलस्य च । विप्राणाञ्च
गवाञ्चैव सन्निधौ शस्यते जपः । अथ वा प्रजपेत्तत्र
यत्र चित्तं प्रसीदति” । मुण्डमालातन्त्रे तृतीयपटले च
“नदीतीरे विल्वमूले श्मशाने शून्यवेश्मनि । एकलिङ्गे
पर्वते वा देवागारे चतुष्पथे । शवस्योपरिमुण्डे वा जले
वाऽऽकण्ठपूरिते । संग्रामभूभौ योनौ वा स्थाने वा विजने
वने । यत्र कुत्र स्थले रम्ये यत्र वा स्यान्मनोलयः”
वृहन्नीलतन्त्रे द्वितीयपटले “एकलिङ्गे श्मशाने वा शून्या-
गारे चतुष्पथे । हर्म्ये वा साधयेद्देवीं सर्वाभीष्टप्रदा-
यिनीम्” “पञ्चक्रोशान्तरे यत्र न लिङ्गान्तरमो-
क्ष्यते । तदेकलिङ्गमाख्यातं तत्र सिद्धिरनुत्तमा” इति
श्यामारहस्यधृतेनैकलिङ्गं ज्ञातव्यम् । तथा “उज्जष्टे
पर्वते वापि निर्जने वा चतुष्पथे । देवागारे देवशून्ये
विल्वमूले नदीतटे । स्वगृहे निर्जनेऽरण्ये तथा चाश्वत्थ-
सन्निधौ” इत्यपि श्यमारहस्ये । नित्यातन्त्रे प्रथमपटले
च “एकलिङ्गे श्मशाने वा शून्यागारे नदीतटे पाताल-
भवने वापि गिरौ वा दीर्थिकातटे । शक्तिक्षेत्रे
महापीठे विल्वमूले शिवालये । धात्रीवृक्षतलेऽश्वत्थमूले चैव
तरोस्तले” । पातालभवने भूमिमध्ये । समयाचार-
तन्त्रे द्वितीयपटलेऽपि “जपस्थानाभि देवेशि! सिद्धपी-
ठानि यानि च । सिद्धपीठे च शय्यायां स्वट्टा शय्या
विशेषतः । चतुष्पथे सिद्धलिङ्गे गुरुदेवालये तथा ।
वटाश्वत्थविल्वमूले रम्भाया विपिने तथा । नदीतीरे
शिवागारे पुहापर्वतमस्तके । जपस्थानानि देवेशि!
पृष्ठ ३०३८
कथितानि नगात्मजे! । शृणु देवि! विशेषेण उत्त-
राम्नायहेतवे! । वेश्याभृहे श्मशाने वा गत्वा मैथुन-
माचरेत् । ततो जपादिकं देवि! कृत्वा च लभते
फलम् । अथ वा स्वगृहे रात्रौ भक्तिमान् सुसमाचरेत् ।
स प्राप्नोति फलं सर्वं चित्तादिभयवर्जितः” पुरश्चरण-
रसोल्लासतन्त्रे चतुर्थपटले “गोष्ठं चतुष्पथञ्चैव त्रिपथञ्च
वरानने! । निर्जतञ्च तथारण्यं शून्यगेहं तथैव च ।
पर्बतञ्च नदीतीरं तथैव दीर्घिकातटम् । अश्वत्थवृक्षमूले च
वटवृक्षतले तथा । धात्रीवृक्षतले देवि! तथैव बकुलस्य
च । यत्र पद्मवनं भद्रे! शुक्लं रक्तं वरानने! । द्रोण-
पुष्पस्य चार्वङ्गि! यदि भाग्येन लभ्यते । अरुणादित्य-
सङ्काशं जपकालं परात् परम्” फलविशेषस्तु राघवभट्टे-
नोक्तो यथा । “गृहे जपः समः प्रोक्तो गोष्ठे शतगुणस्तु
सः । आरामे च तथारण्ये सहस्नगुण उच्यते । अयुतः
पर्वते पुण्ये नद्यां लक्षगुणस्तु सः । कोटिर्देवालये प्राहु-
रनन्तं शिवसन्निधौ” तत्र सिद्धपीठानि कुब्जिकातन्त्रे
७म पटले । “शिव उवाच । श्रूयतां सावधानेन सिद्ध-
पीठं पतिव्रते! । यस्मिन् साधनमात्रेण सर्वसिद्धीश्वरो
भवेत् । मायावती मधुपुरी काशी गोरक्षकारिणी ।
हिङ्गुला च महापीठं तथा जालन्धरं पुनः । ज्वाला-
मुखीमहापीठं पीठं नगरसम्भवम् । रामगिरिर्महा-
पीठं तथा गोदावरी प्रिये! । नेपालं कर्णसूत्रञ्च
महाकर्णं तथा प्रिये! । अयोध्याञ्च कुरुक्षेत्रं सिंहनादं
मनोरमम् । मणिपूरं हृषीकेशं प्रयागञ्च तपोवनम् ।
वदरीञ्च महापीठं अम्बिकामर्द्धनालकम् । त्रिवेणीं
च महापीठं गङ्गासागरसङ्गमम् । नारिकेलञ्च विरजा
उड्डीयानं महेश्वरि! । कमला विमला चैव तथा
माहेष्मती पुरी । वाराही त्रिपुरा चैव वाङ्मती
नीलवाहिनी । गोवर्द्धनं विन्ध्यगिरिः कामरूपं कलौ
युगे । घण्टाकर्णोऽक्षयग्रीवो माधवश्च सुरेश्वरि! ।
क्षीरग्रामं वैद्यनाथं जानीयाद्वामलोचने! । कामरूपं
महापीठं सर्वकामफलप्रदम् । कलौ शीघ्रफलो देवि!
कामरूपे जपः स्मृतः” अन्यत्र जपेऽपि कामाख्यावस्त्र-
योगेन फलमुक्तं तत्रैव “कामाख्यावस्त्रमादाय
जपपूजाः समाचरेत् । पूर्णकामं लभेद्देवि! सत्यं सत्यं न
संशयः” तन्त्रचूड़ामणौ महापीठान्युक्तानि यथा ।
“ईश्वर उवाच । मातः! परात्परे! देवि! सर्वज्ञानमयी-
श्वरि! । कथ्यतां मे सर्वपीठं शक्तीर्मैरवदेवताः” देव्यु-
वाच । “शृणु वत्स! प्रवक्ष्यामि दयालो! भक्तवत्सल! ।
यानिर्विना न सिद्ध्यन्ति जपसाधनतत्क्रियाः । एकपञ्चा-
शतं पीठं शक्तीर्भैरवदेवताः । अङ्गप्रत्यङ्गपातेन विष्णु-
चक्रक्षतेन च । ममास्य वपुषो देव! हिताय त्वयि
कथ्यते । व्रह्मरन्ध्रं १ हिङ्गुलायां भैरवो भीमलोचनः ।
कोट्टरीशा महादेव! त्रिगुणा सा दिगम्बरी । २ करवीरे
त्रिनेत्रं मे देवी महिषमर्द्दिनी । क्रोधीशो भैरवस्तत्र
३ सुगन्धायाञ्च नासिका देवस्त्र्यम्बकनामा च सुनन्दा
तत्र देवता । ४ काश्मीरे कण्टदेशश्च त्रिसन्ध्येश्वरभैरवः ।
महामाया भगवती गुणातीता वरप्रदा । ५ ज्वालामुख्यां
महाजिह्वा देव उन्मत्तभैरवः । अम्बिका सिन्निदानाम्नी
स्त्रनं ६ जालान्धरे मम । भीषणो भैरवस्तत्व देवी
त्रिपुरमालिनी । हृद्यपीठं ७ वैद्यनाथे वैद्यनाथस्तु भैरवः ।
देवता जयदुर्गाख्या । ८ नेपाले जानु मे शिव । कपाली
मैरवः श्रीमान् महामाया च देवता । ९ मालवे दक्षहस्तं
मे देवी दाक्षायणी हर! । अमरो भैरवस्तत्र सर्वसिद्धि
प्रदायकः । १० उत्कले नाभिदेशन्तु विरजाक्षेत्रमुच्यते ।
विमला सा महादेवी जगन्नाथस्तु भैरवः । ११ गण्डक्यां
गण्डपातश्च तत्र सिद्धिर्न संशयः । तत्र सा गण्डकी
चण्डी चक्रपाणिस्तु भैरवः । १२ बहुलायां वामबाहु-
र्बहुलाख्या च देवता । भीरुको भैरवस्तत्र सर्वसिद्धिप्रदा-
यक । १३ उज्जयिन्यां कूर्परञ्च माङ्गल्यः कपिलाम्बरः ।
भैरवः सिद्धिदःसाक्षाद्देवी मङ्गलचण्डिका । १४ चट्टले
दक्षवाहुर्मे भैरबश्चन्द्रशेखरः । व्यक्तरूपा भगवती भवानी
तत्र देवता । विशेषतः कलियुगे वसामि चन्द्रशेखरे ।
१५ त्रिपुरायां दक्षपादी देवी त्रिपुरसुन्दरी । भैरवस्त्रिपुरे-
शश्च सर्वाभीष्टप्रदायकः । १६ तिस्रोतायां वामपादो भ्रामरी
भैरवेश्वरः । योनिपीठं कामगिरौ १७ कामाख्या तत्र
देवता । यत्रास्ते त्रिगुणातीता रक्तपाषाणरूपिणी ।
यत्रास्ते माधवः साक्षादुमानन्दोऽथ भैरवः । सर्वदा
विहरेद्देवी तत्र मुक्तिर्न संशयः । तत्र श्रीभैरवी देवी
तत्र च क्षेत्रदेवता । प्रचण्डचण्डिका तत्र मातङ्गी त्रि-
पुरात्मिका । वगला कमला तत्र भुवनेशी सधूमिनी ।
एतानि नव पीठानि शंसन्ति बरभैरवाः । अङ्गुलीवृन्दं
हस्तस्य १८ प्रयागे ललिता भवः । १९ जयन्त्यां वामजङ्घा च
जयन्ती क्रमदीश्वरः । सर्वत्र बिरला चाहं कामरूपे गृहे
गृहे । २० गौरीशिखरमारुह पुनर्जन्म न विद्यते ।
भूतधात्री महामाया भैरवः क्षीरकण्ठकः । युगाद्या सा म-
पृष्ठ ३०३९
हामाया दक्षाङ्गुष्ठपदो मम । नकुलीशः कालीपीठे
दक्षपादाङ्गुली मम । करतोयां समारभ्य यावद्दिक्कर-
वासिनी । शतयोजनविस्तारं त्रिकोणं सर्वसिद्धिदम् ।
देवा मरणमिच्छन्ति किं पुनर्मानवादयः । भुवनेशी
सिद्धिरूपा किरीटस्था २१ किरीटतः । देवता विमला-
नाम्नी संवर्त्तो मैरवस्तथा । २२ वाराणस्यां विशालाक्षी
देवता कालभैरवः । मणिकर्णीति विख्याता कुण्ड-
लञ्च मम श्रुतेः । २३ काल्याश्रमे च पृष्ठं मेऽनिमेषो
भैरवस्तथा । सर्वाणि देवता तत्र, २४ कुरुक्षेत्रे च
पुल्फतः । स्थाणुनाम्नी च सावित्री अश्वमाथस्तु
प्रैरवः । २५ मणिबन्धे च गायत्री सर्वानन्दस्तु भैरवः ।
२६ श्रीशैले च मम ग्रीवा महालक्ष्मीस्तु देवता । भैरवः
शम्बरानन्दो देशे देशे व्यवस्थितः । २७ काञ्चीदेशे च
कङ्कालो भैरवो रुरुनामकः । देवता देवगर्भाख्या
नितम्बः २८ कालमाधवे । भैरवश्रासिताङ्गश्च देवी काली
सुसिद्धिदा । दृष्ट्वा दृष्ट्वा नमस्कृत्य मन्त्रसिद्धिमवाप्नु-
यात् । २९ शोणाख्ये भद्रमेनस्तु नर्म्मदाख्या
नितम्बके । ३० रामगिरौ तथा नासा शिवानी चण्ड-
भैरवः । ३१ वृन्दावने केशजालमुमानाम्नी च देवता ।
भूतेशो भैरवस्तत्र सर्वसिद्ध्विप्रदायकः । संहाराख्य ऊर्द्ध्व-
दन्ते देवी नारायणी ३२ शुचौ । अधोदन्ते महारुद्रो
वाराही ३३ पञ्चसागरे । ३४ करतोयातटे तल्पं वामे
वामनभैरवः । अपर्णा देवता तत्र व्रह्मरूपाकरोद्भवा ।
३५ श्रीपर्वते दक्षगुल्फं तत्र श्रीसुन्दरी परा । सर्वसिद्धी-
श्वरी सर्व्वा सुनन्दा ऽऽनन्दभैरवः । ३६ कपालिनी
भीमरूपा वामगुल्फविभागके । भैरवश्च महादेवः सर्व्वानन्द-
शुभप्रदः । उदरञ्च ३७ प्रभासे मे चन्द्रभागा यशस्विनी ।
वक्रतुण्डो भैरवश्चोर्द्धौष्ठे मैरवपर्वते । ३८ अवन्त्याञ्च
महादेवी लम्बकर्णस्तु भैरवः । ३९ चित्रके भ्रामरी देवी
किकुभाख्यजले स्थले । भैरवः सर्वसिद्धीशस्तत्र सिद्धि-
रनुत्तमा । ४० गण्डो गोदावरीतीरे विश्वेशी बिश्वमा-
तृका । दण्डपाणिर्भैरवस्तु ४१ वामे गण्डे तु राकिणी ।
भैरवोवत्सनाभस्तु तत्र सिद्धिर्न संशयः । ४२ रत्नावल्यां
दक्षस्कन्धे कुमारी भैरवः शिवः । ४३ मिथिलायां
महादेवी वामस्कन्धे महोदरः । ४४ नलाहाट्यां
नलापातो योगीशो भैरवस्तथा । तत्र सा कालिका देवी
सर्व्वसिद्धिप्रदायिका । ४५ कालीघट्टे मुण्डपातः
क्रोधीशो भैरवस्तथा । देवता जयदुर्गाख्या नानाभोग-
प्रदायिनी । ४६ वक्रेश्वरे मनःपातो वक्रनाथस्तु
भैरवः । नदी पापहरा तत्र देवी महिषमर्द्दिनी ।
४७ यशोरे पाणिपद्मञ्च देवता यशोरेश्वरी । चण्डश्च
भैरवस्तत्र यत्र सिद्धिमवाप्नुयात् । ४८ अट्टहासे चौष्ठपातो
देवी सा फुल्लरा स्मृता । विश्वेशो मैरवस्तत्र सर्व्वाभीष्ट-
प्रदायकः । हारपातो ४९ नन्दिपुरे भैरवो नन्दि-
केश्वरः । नन्दिनी सा महादेवी तत्र सिद्धिर्न सशयः ।
५०लङ्कायां कर्परञ्चैव भैरवो राक्षसेश्वरः । इन्द्राक्षी
देवता तत्र इन्द्रेणोपासिता पुरा । ५१ विराटदेशमध्ये
तु पादाङ्गुलिनिपातनम् । भैरवश्चामृताख्यश्च देवी
तत्राम्बिका स्मृता । एतास्ताः कथिताः पुत्त्र! पीठना-
थाधिदेवताः । क्षेत्राधीश विना देव! पूजयेच्चान्यदेवताम् ।
भैरवैर्ह्रियते सर्व्वं जपपूजादिसाधनम् । अज्ञात्वा भैरवं
पीठं पीठशक्तिञ्च शङ्कर! । प्राणनाथ! न सिध्येत्तु
कल्पकोटिजपादिभिः । न देयं परशिष्येभ्यो निन्दकाय
दुरात्मने । शठाय क्रूरकार्य्याय दत्त्वा मृत्युमवाप्नुयात् ।
दद्यात् शान्ताय शिष्याय मन्त्री मन्त्रार्थसिद्धये” ।
महानीलतन्त्रे पञ्चमपटले “पीठार्च्चनं महादेवि! तत्र सिद्धि-
रनुत्तपा । पीठानां परमं पीठं कामरूपं महाफलम् ।
तत्र या क्रियते पूजा सकृद्वापि महेश्वरि! । विहाय
सर्वपीठानि तस्य देहे वसाम्यहम् । तस्माच्छतगुण प्रोक्तं
कामाख्यायोनिमण्डलम् । तेषां फलं महेशानि!
वक्तुं किं शक्यते मया । तत्र कोटिगुणैः सार्द्धमाद्या
वसति तारिणी । यत् पीठं व्रह्मणा गुप्तं वक्तुं सर्व-
सुखावहम् । यतो देवाश्च वेदाश्च मुनयश्चैव भावजाः ।
सर्वेऽप्याविर्भवन्त्येते तेन गुप्तं सदा कुरु । द्विविधञ्चैव
यत् पीठं गोप्तव्यं तन्महेश्वरि! । गुप्ताद्गुप्तं महापुण्यं
दुरापं साधकाधमैः । व्यक्तं सर्ब्बत्र देवेशि! लभ्यते
कुलसुन्दरि! । पीठप्रसङ्गाद्देवेशि पीठानि शृणु भैरवि! ।
शृणु तानि महाप्राज्ञे! श्रेष्ठस्थानापि यानि च ।
सिद्धिप्रदानि साधूनां महद्भिः सेवितानि च । पुष्करञ्च
गयाक्षेत्रम् अक्षयाख्यवटस्तथा । वराहपर्व्वतश्चैव
तीर्थञ्चामरकण्टकम् । नर्म्मदा यमुना पिङ्गी गङ्गाद्वार
तथा प्रिये । गङ्गासागरसङ्गश्च कुशावर्त्तश्च विल्वकम्
श्रीनीलपर्वतश्चैव कलम्बकुब्जके तथा । भृगुतुङ्गञ्च
केदारं सर्वप्रियमहावनम् । ललिता च सुगन्धा च
शाकम्भरी सुरप्रियम् । कण्वतीर्थं महागङ्गा तण्डुलिका-
श्रमएव च । कुमाराख्यप्रभासौ च तथा धन्या सरस्वती ।
पृष्ठ ३०४०
अगस्त्याश्रममिष्टं मे कण्वाश्रममतःपरम् । कौशिकी-
सरयूःशोणो ज्योतिःसरःपुरःसरम् । कालोदकं प्रियं
श्रीमत् प्रियसुत्तरमानसम् । मतङ्गवापी सप्तार्च्चिर्महा-
विष्णुपदं महत् । वैद्यनाथं महातीर्थं प्रियःकाला-
ञ्जरोगिरिः । रामोच्छेदं गर्गोच्छेदं हरोच्छेदं
महावनम् । भद्रेश्वरं महातीर्थं लक्ष्मणच्छेदमेव च ।
जानीहि प्रियश्रेष्ठा च कावेरी कपिलीदका । सोमेश्वरं
शुक्लतीर्थं कृष्णवेन्नाप्रभेदकम् । पाटला च महावोधि-
र्नगतीर्थं मदन्तिके । पुण्यं रामेश्वरं देवि! तथा मेघवनं
हरेः । ऐलं वनफलञ्चैव गोवर्द्धनमजप्रियम् ।
हरिश्चन्द्रं पुरश्चन्द्रं पृथूदकमपि प्रियम् । इन्द्रनीलं महानादं
तथैव प्रियमैनकम् । पञ्चाप्सरं पञ्चवटी वटीपर्वटिका
तथा । गङ्गाविल्वप्रसङ्गश्च प्रियनादवटं तथा । गङ्गा-
रामाचलञ्चैव तथैव ऋणमोचनम् । गौतमेश्वरतीर्थञ्च
वशिष्ठतीर्थमेव च । हारीतञ्च तथा देवि! ब्रह्मावर्त्तं
शिवप्रियम् । कुशावर्त्तमभिश्रेष्ठं हंसतीर्थं तथैव च ।
पिण्डारकवनं ख्यातं हरिद्वारं तथैव च । तथैव
वदरीतीर्थं रामतीर्थं तथैव च । जयन्ती विजयन्तञ्च
सर्वकल्याणदं प्रिये! । विजया सारदातीर्थं भद्रकालेश्वरं
तथा । अश्वतीथं सुविख्यातं तथा देवशिवप्रियम् ।
ओघवती नदी चैव तीर्थमश्वप्रदं तथा । छागलिङ्गं मातृ-
गणं करवीरपुरं तथा । सप्तगीदावरं तीर्थं लिङ्गाख्यं
सर्व्वमोहनम् । किरीटमुत्तरे तीर्थं दक्षिणे तीर्थमुत्त-
मम् । विशालतीर्थं काल्याश्च वनं वृन्दावनं तथा ।
ज्वालामुखा हिङ्गुला च महातीर्थं गणेश्वरम् । जानीहि
सर्वतीर्थानां हेतुस्थानानि सुन्दरि! । अत्र सन्निहिता
नित्यं सर्वे देवा महर्षयः । पितरो योगिनश्चैव ये ये
सिद्धिपरायणाः । आशु सिद्व्यन्ति कर्म्माणि श्रद्धाभक्ति-
मतां प्रिये! । पुण्यकाले पठेत् यस्तु तत्पुण्यमक्षयं भवेत् ।
श्राद्धकाले पठेत् यस्तु जुहुयाद्वापि भक्तितः । अक्षयं
तद्भवेत् कव्यं पितॄणां परमं सुखम् । तस्मिन् स्थाने
पठेद् यस्तु सिद्धिर्भवति तत्जणात् अथ वक्ष्ये
महेशानि! यत्र या देवता शृचु यत्र ते यानि नामानि
कथयिप्यामि तत् शृणु । रग्नोऽहं परमानन्दे तत्
कथामृतवारिधौ! पुष्करे कमलाक्षी च गयायाञ्च
गयेश्वरी । अक्षया अक्षयवटेऽमरेशोऽमरकण्टके । वराह-
पर्वते च त्वं वाराही धरणीप्रिया । नर्म्मदा नर्म्म-
दायाञ्च कालिन्दी यमुनाजले । शिवामृता च गङ्गायां
अश्वा देहलिकाश्रमे । शारदा सरयूतीरे शोणे च
कनकेश्वरी । अप्रकाशा सदा देवी ज्योतिर्म्मय्यब्धिसङ्गमे ।
श्रीरहं श्रीगिरौ चैव काली कालोदके तथा । महोदरी
महातीर्थे नीला चोत्तरमानसे । मातङ्गिनी मतङ्गे च
गुप्तार्च्चिर्विष्णुपादुके । स्वर्गदा स्वर्गमार्गे च गोदावर्य्यां
गवेश्वरी । विमुक्तिश्चैव गोमत्यां विपाशायां महाबला ।
शतद्र्वां शतरूपा च चन्द्रभागा च तत्र वै । ऐरावत्याञ्च
ईर्नाम सिद्धिदा सिद्धतीरके । दक्षपञ्चनदे चैव दक्षिणाहं
प्रकीर्त्तिता । औजमे वीर्य्यदा च त्वं सङ्गमा तीथसङ्गमे ।
बाहुदायामनन्ताहं कुरुक्षेत्रे रणेक्षणा । तपस्विनी
पुण्यतमा भारती भारताश्रमे । सुकथा नैमिषारण्ये
पाण्डौ च पाण्डुरानना । विशालायां विशालाक्षी
मुण्डपृष्ठे शिवात्मिका । श्रद्धा कनखले तीर्थे शुद्धबुद्धि-
र्मुनीश्वरी । सुवेशा सुमना गौरी मानसे च सरोवरे ।
नन्दापुरे महानन्दा ललिता ललितापुरे । ब्रह्माणी
ब्रह्मशिरसि महापातकनाशिनी । पूर्णिमा चेन्दुमत्याञ्च
सिद्धमतिप्रिया सदा । जाह्नवीसङ्गमे वृत्तिः स्वधा श्च
पितृतुष्टिदा । पुण्याहं बाहुदायाञ्च प्रपायां पापना-
शिनी । शत्रुसंहारिणी चैव घोररूपा महोदरी ।
स्वर्गोच्छेदे महावारिप्रबला च महावने । भद्रा च भद्र-
काली च भद्रेश्वरी शिवप्रिय! । भद्रेश्वरेश्वरमा विष्णु
प्रिया विष्णुपदे तथा । दारुणा नर्म्मदाच्छेदे कावेर्य्यां
कपिलेश्वरी । भेदिनी कृष्णवेन्नायां संभेदे शुभवासिनी ।
श्रद्धा च शुक्रतीर्थे च प्रभासे चेश्वरी तथा । महाबोधौ
महाबुद्धिः पाटले पाटलेश्वरी । सुवला नागतीर्थे च
नागेशी नागनन्दिता । मदन्तौ च मदन्ती च प्रमदा च
मदन्तिका । मेघस्वना मेघवासे विद्युत्सौदामनीच्छदा ।
रामेश्वरे महाबुद्धिर्वीरा चेलापुरे सती । प्रिया च
भार्गवे दुर्गा सुवेशा सुरसुन्दरी । कात्यायनी महादेवी
गोवर्द्धनेऽखिलात्मिका । शुभेश्वरी हरिश्चन्द्रे पुरचन्द्रे
पुरेश्वरी । पृथूदके महावेगा मैनाकेऽखिलबर्द्धिनी । इन्द्र-
नीले महाकान्ता रत्नवेशा सुशोभना । माहेश्वरी
महानादे महातेजा महावने । प्रत्यकसरसि सारङ्गा पञ्च-
वट्यां तपस्विनी । वटीशा वटिकायाञ्च सर्ववर्णा
सुरङ्गिणी । सङ्गमे बिन्ध्यगङ्गायां विन्ध्यं श्रीविन्ध्यवा-
सिनी । महानन्दा नन्दतटे गङ्गारामाचले शिवा ।
आर्य्यावर्त्ते महार्य्या त्वं विमुक्तिरृणमोचने । अट्टहासे च
चामुण्डा तन्त्रे श्रीगौतमेश्वरी । वेदमयी ब्रह्मविद्या
पृष्ठ ३०४१
वाशिष्ठे त्वमरुन्धनी । हरिते हरिणाक्षी च व्रह्मावर्त्ते
व्रजेश्वरी । गायत्री चैव सावित्री कुशावर्त्ते कुशप्रिया ।
हंसेश्वरी महातीर्थे परहंसेश्वरेश्वरी । पिण्डारकवने
धन्या सुरसा सुखदायिनी । नारायणी वैष्णर्वा च
गङ्गाद्वारे विमुक्तिदा । श्रीविद्या वदरीतीर्थे रामतीर्थे
महाधृतिः । जयन्ती च जयन्तेत्वं विजयन्तेऽपराजिता ।
विजया च महाशुद्धिः शारदायाञ्च शारदा । सुभद्रे
भद्रदा भव्या भद्रकालेश्वरे तथा । महाभद्रा महाकाली
हयतीर्थे गवीश्वरी । वेददा वेदमाता च विदेहे
वेदमस्तके । युवत्याञ्च महाविद्या महानद्यां महोदया ।
चण्डा च त्रिपदे चैव छागलिङ्गे बलिप्रिया । मातु-
र्देशे जगन्माता करवीरपुरे सती । नलिनीरङ्गिणी रामा
परमा परमेश्वरी । सप्तगोदावरे तीर्थे देवर्षिरखिलेश्वरी ।
अयोध्यायां भवानी च जयदा जयमङ्गला । माधवी
मथुरायाञ्च देवकी यादवेश्वरी । वृन्दागोपेश्वरी राधा-
रासवृन्दावने रमा । कात्यायनी महामाया भद्रकाली
कलावती । चन्द्रमाला महायोगी महायोगिन्यधीश्वरी
व्रजेश्वरी यशोदेति व्रजे श्रीगोकुलेश्वरी । काञ्च्यां
कनककाञ्ची स्यादवन्त्यामभिपावनी । विद्या विद्यापुरे चैव
विमला नीलपर्वते । रामेश्वरी सेतुबन्धे विमला पुरुषो-
त्तमे । विरजा यागपुर्य्याञ्च भद्रेऽपि भद्रकर्णिका ।
तमोलिप्ते तमोघ्नी च स्वाहा सागरसङ्गमे । कुलश्रीर्वंश-
वृद्धिश्च माधवी माधवप्रिया । मङ्गले! मङ्गले कोटे राढ़े
मङ्गलचण्डिका । ज्वालामुखी शिवापीठे मन्दरे भुवने-
श्वरी । कालीघट्टे गुह्यकाली किरीटे च महेश्वरी ।
किरीटेश्वरी महादेवी लिङ्गाख्ये लिङ्गवाहिनी । साक्षी
सर्वत्र भक्तानामभक्ताना कुतोऽपि न । अथान्यत् सम्प्र-
वक्ष्यामि सिद्धस्थानानि सुन्दरि! । सर्वपापविनाशार्थं
सर्वसिद्धिप्रदं नृणाम् । निर्म्मितानि शिवेनेह सिद्ध-
स्थानानि यानि च । श्रुत्वा मनसि भव्यानि प्रकाश्या-
त्यधिकारिषु । अमरेशमहापीटे कुषतुङ्गारसंज्ञकः ।
तत्र दुर्गाद्वयं नाम चण्डिका च महेश्वरी । प्रभासे
सोमनाथोऽसौ देवी च पुष्करेक्षणा । देवदेवाधिपः
शम्भुर्नैमिषे च महेश्वरः । तत्र प्रज्ञा च देवी च
शिवानी लिङ्गधारिणी । पुष्करे च राजगन्धिः
पुरहूता महेश्वरी । श्रीपर्वते श्रिया नाम शङ्करस्त्रिपुरा-
न्तकः । मायावी शङ्करी तत्रा भक्तानामखिलार्थदा ।
जष्येश्वरे महास्थाने शङ्करी च त्रिशूलिनी । त्रिशूली
शङ्करस्तत्र सर्वपापविमोचकः । आम्रातकेश्वरे सूक्ष्मा-
सूक्ष्माख्या परमेश्वरी । गणक्षेत्रे मङ्गलाख्या शिवोयः
प्रपितामहः । कुरुक्षेत्रे शिवः स्थाणुः शिवा स्थाणुश्रिया
परा । इष्टनाभे स्वयम्भुश्च देवी स्वायम्भुवा मता ।
उग्रः कनखले प्रोक्तः शिवोग्रे शिववल्लभा । विमलेश्वरे
विश्वशम्भु विश्वाविश्वप्रिया सदा । अट्टहासे महानन्दी
महानन्दा महेश्वरी । महान्तको महेन्द्रश्च पार्वती च
महान्तका । भीमेश्वरी भीमपीठे शिवा भीमेश्वरी तथा ।
वस्त्रपादे भवो नाम भवानी भुवनेश्वरी । अद्रिकूटे
महायोगा रुद्राणी परमेश्वरी । अविमुक्ते महादेवो
विशालाक्षी शिवा परा । महामाये हरो रुद्रो
महाभागा शिवा तथा । महाबलश्च गोकर्णे शिवभद्रा च
चण्डिका । भद्रकर्णे महादेवो भद्रा च कर्णिका तथा ।
सुपर्णाख्ये सहस्राख्य उत्पला परमेश्वरी । स्थाणुसंज्ञे
शिवस्था श्रीः खरस्था श्रीघरा शिवा । कमलालये
महास्थाने कमलाख्यो महेश्वरः । कमलाक्षी महेशानी ।
सकलार्थप्रदायिनी । छागला तु कपर्दी च प्रसभा च
महेश्वरी । ऊर्द्ध्वरेतामहारण्ये सन्ध्याख्या परमेश्वरी ।
साकोटास्या महाकोटे शिवा च मुण्डकेश्वरी । मातु-
लेश्वरपीठे च करवीरार्च्यशेखरा । श्रीमद्व्याघ्रपुरे
साक्षाद्धरनामा सभापतिः । शिवः सभापतिर्नाम यत्र
नृत्यति शङ्करः । आत्मानन्दसहानादपूर्णानन्दमहा-
र्णवम् । नृत्यन्तं यत्र देवेशं देवेशी परिपश्यति । यत्र
चाशु महादेवी भक्तानां वरदो भवेत् । नृत्यन्तं यत्र
सर्वेशं वीक्ष्य लोको विमुच्यते । पुण्यस्थानेषु सर्वेषु स्थान-
मेतदनुत्तमम् । यद्यत्कर्म्माणि सर्वाणि अक्षयाणि
भवन्ति वै । तस्मिन् महोत्तमे स्थाने शिवगङ्गाख्यम-
द्भुतम् । तड़ागमस्ति तत्तीरे दक्षिणे नृत्यतीश्वरः ।
तड़ागेऽस्मिन् वसन् स्नात्वा समानाथं समीक्ष्य तु । अष्टो-
त्तरसहस्रं तु जपेच्छुद्धो मुदान्वितः । यानि ते कथिता-
न्यत्र सदा तिष्ठन्ति देवताः । भवन्ति सिद्धगन्धर्वाः
सिद्धयः सर्वसिद्धिदाः । अत्र दत्तं हुतं जप्तम् स्नान-
मक्षयपुण्यदम् । यद् यत् प्रकीर्त्तितं नाम भैरवं
परिपूज्य च । प्रणवादिहृदन्तेन लभतेऽभीष्टमुत्तमम् ।
भोजयेद् ब्राह्मणान् योऽत्र अक्षयं फलमश्नुते । इह
नानासुखं भुक्त्वा हरगौरीपुरं व्रजेत् । शोकदुःख-
विनाशोऽयं करुणानिधिरीश्वरः । निर्म्ममे सर्वसस्पत्त्यै
पुण्यक्षेत्राणि भूतले । अकाले पुण्यशुद्धानामनेकपुण्य-
पृष्ठ ३०४२
साधनैः । आस्तिकानां भवेदत्र निवासः साधनं प्रति ।
तस्माद् यत्नेन कर्त्तव्यमत्र साधनमुत्तमैः । इदानीं शृणु
चार्वङ्गि! पीठं सर्वाङ्गसुन्दरम् । अक्षमालामयं पीठं
ब्रूहि मे परमेश्वरि! । यत्र सिद्ध्यन्ति कार्य्याणि
स्थितिस्ते शङ्करस्य च । विष्णोरगाधबोधस्य तत्प्रियाया
महेश्वरि! । अन्येषाञ्चैव देवानां युष्मत्पदनिवासि-
नाम् । प्रसादो हि भवत्याशु तत्र प्रीतिरनुरुत्तमा” ।

जपा स्त्री जप--अच् टाप् । जवावृक्षे हेमच० । तत्पुष्पे-

ऽपि स्त्री । “ओड्रपुष्पं जपा चाथ त्रिसन्ध्या साऽरुणा-
सिता । जपा संग्राहिणी केश्या त्रिसन्ध्या कफवात-
जित्” भावप्र० तद्गुणोक्तिः । “सान्ध्यं तेजः प्रति-
नवजपापुष्परक्तं दधानः” मेघ०

जप्य त्रि० जप--कर्म्मणि यत् । १ जपनीय अघमर्षणादौ ।

“फलदानान्तु वृक्षाणां छेदने जप्यमृक्शतम्” मनुः । भावे
यत् । २ जपे । “जप्येनैव तु संसिद्ध्येत् ब्राह्मणो नात्र
संशयः” मनुः ।

जप्येश्वर पु० सिद्धस्थानभेदे । “जप्येश्वरे महास्थाने शङ्करी

च त्रिशूलिनी । त्रिशूली शङ्करस्तत्रं सर्व्वपापविमो-
चकः” तन्त्रवाक्यम् । जपस्थानशब्दे दृश्यम् ।

जबारु न० जवमान् (जरमाण)--रोहिन् + पृषो० । १ जबमानरो-

हिणि२ जरमाणरोहिणि च । “पृश्नेरग्रेकप आरूपितं
जबारु” ऋ० ४, ५, ७ । “जबारु जवमानरोहि
जरमाणरोहि वा” भा० । “जबारु जवमानरोहि जरमाण-
रोहि” निरु० । ६ । १७ ।

जबाला स्त्री सत्यकामस्यर्षेः मातरि । जबालायां भवः अण् ।

जाबाल सत्यकामाख्ये ऋषो तत्कथा यथा
“सत्यकामोह जाबालो जबालां मातरमामन्त्र-
याञ्चक्रे ब्रह्मचर्य्यं भवति । विवत्स्यामि किं गोत्रोऽन्व-
हमस्मीति । सा हैनसुवाच नाहमेतद्वेद तात! यद्गोत्र-
स्त्वमसि बह्वहं चरन्ती परिचारिणी यौवने त्वामलभे
साहमेतन्न वेद यद्गोत्रस्त्वमसि जबाला तु नामाहमस्मि
स सत्यकाम एव जाबालो ब्रवीथा इति । स ह हारिद्रु
मतं गौतममेत्यावाच ब्रह्मचर्य्यं भगवति वत्स्याम्युपेयां
भगवन्तिमिति । तं होवाच किं गोत्रोनुसोम्यासीति
स होवाव नाहमेतद्वेद भो यद्गोत्र्योऽपृच्छं मातरं
सा मां प्रत्यब्रवीद्बह्वहं चरन्ती परिचारिणी यौवने
त्वामलभे साहमेतन्न वेद यद्गोत्रस्त्वमसि जबाला तु
नामाऽहमस्मि सत्यकामो नाम त्वमसीति सोऽहं सत्य-
कामो जबालोऽस्मि भोः इति । तं हौवाच नैतदब्रा-
ह्मणो विवक्तुमर्हति समिधं सोम्याहरोपत्वा नेष्ये न
सत्यादगाः” इति ।

जभ मैथुने भ्वा० पर० सक० सेट् । जभति अजम्भीत् ।

जजम्भ जजम्भतुः जजभतुः । जभितः । मैथुनञ्च मैथुनेन
घर्षणम् । ता इमा जभितुं पापा उपक्रामन्ति मां प्रभो!”
भाग० ३ । २० । २७ । “जभितुं मैथुनेन घर्षयितुम्” श्रीधरः ।

जभ मैथुने भ्वा० पर० अक० सेट् इदित् । जम्भति

धातूनामनेकार्थत्वात् भक्षणेऽपि “श्वा न्वस्य जम्भिषदपि”
ऋ० १० । ८६ । ४ । “जम्भिषत् भक्षयतु” भा० ।

जभ जृम्भे चुरा० उभ० सक० इदित् । जम्भयति ते

अजजम्भत् त । “जम्भयतमभितो रायतः शुनी” ऋ० १ । १८२ । ४
“हनु वृकस्य जम्भया” अथ० १९ । ४७ । ९ ।

जभ जृम्भे आ० भ्वा० आत्म० सेट् । जभते अजम्भिष्ट जजम्भे जेभे ।

जम भक्षे भ्वा० पर० पर० सक० सेट् । जमति अजमीत् उदित्

जमित्वा जान्त्वा । अयञ्च धातुः नैगमे २ । १४ गत्यर्थक-
त्वेन । १ । १७ जमदिति ज्वलत्यर्थत्वेन चोक्तः । जामि-
शब्दनिरुक्तौ च ३ । ६ जमतेर्वा स्याद्गतिकर्म्मणो निर्ग-
मनप्राया भवति” जमदग्निशब्दनिरुक्तौ च १ । २४ ।
“जमदग्नयः प्रजमिताग्नयो वा प्रज्वलिताग्नयो वा” इत्युक्तम् ।

जमज त्रि० द्वि० व० यमज + पृषो० । यमजातयोः द्विरूपको० ।

जमदग्नि पु० जमन् प्रज्वलितोऽग्निरिव । भृगुवंश्ये

ऋषिभेदे । तन्निरुक्तिः जमधातौ दर्शिता । भा० आ० ९३ अनु०
अन्या निरुक्तिर्दर्शिता यथा “जाजमद्यजजानेऽहं
जीजाहीह जिजायिषि । जमदग्निरिति ख्यात-
मती मां विद्धि शोभने!” । तदुत्पत्तिकथा “और्व
स्तस्यां समभवदूरुं भित्त्वा महायशाः । महातेजा
महावीर्य्यो बाल एव गुणैर्युतः । ऋचीकस्तस्य पुत्रस्तु
जमदग्निस्ततोऽभवत । जमदग्नेस्तु चत्वार आसन् पुत्रा
महात्मनः । रामस्तेषां जघन्योऽभूदजघन्यैर्गुणैर्युतः”
भा० आ० ६६ अ० अस्योत्पत्तिकथा ऋचीकशब्दे
१४१४ पृ० दर्शिता । स च एतन्मन्वन्तरे सप्तर्षिमध्यगतः
यथा हरिवं० ७ अ० “गौतमश्च भरद्वाजो विश्वामित्र-
स्तथैव च । तथैव पुत्रौ भगवानृक्षीकस्य महात्मनः ।
सप्तमी जमदग्निश्च ऋषयः साम्प्रतं दिवि । साध्या रुद्राष्ट
विश्वे च वसवो मरुतस्तथा” ।
अयञ्च गोत्रकारकः तद्विवृतिः गोत्रशब्दे २७९६ पृ०
दृश्या । जमदग्नेरपत्यम् गर्गा० यञ् । जामदग्न्य
तदपत्ये पु० स्त्री । बहुत्वे अस्त्रियाम् यञो लुक् ।
जमदन्तयः तदपत्येषु स्त्रियां तु न लुक् । जामदग्न्यःस्त्रियः ।
"https://sa.wikisource.org/w/index.php?title=वाचस्पत्यम्/ज&oldid=85300" इत्यस्माद् प्रतिप्राप्तम्