वाचस्पत्यम्/च

विकिस्रोतः तः
Jump to navigation Jump to search
← वाचस्पत्यम्/घ वाचस्पत्यम्/च
तारानाथ भट्टाचार्य
वाचस्पत्यम्/छ →
पृष्ठ २८०५

चकारः व्यञ्जनवर्णभेदः चवर्गस्याद्यः अस्योच्चारणस्थानं

तालु “इचुयशानां तालु” सि० कौ० उक्तेः तस्योच्चारणे-
आभ्यन्तरप्रयत्नः तालनि जिह्वामध्यस्पर्शः श्वासविवारा-
घोषाल्पप्राणा बाह्यप्रयत्नाः । मातृकान्यासे वामबाहुमूले-
ऽस्य न्यस्यता । अस्य वाचकशब्दाः वर्णोद्धारतन्त्रे उक्ता
यथा । “चः पुष्कलो हली वाणी चात्मशक्तिः सुदशेनः ।
चर्म्ममुण्डधरो भौसो महिषाचारलक्षणः । एकरूपो
रुचिः कूर्म्मश्चामुण्डा दीर्घबाहुकः । वामबाहुमूलं
माया चतुर्मूर्त्तिस्वरूपिणी । दयितश्च त्रिणेत्रश्च लक्ष्मी-
स्त्रृतीयलोचनः । चन्दनं चन्द्रमा दैवश्चेतनो
वृश्चिको बुधः । देवी कोटमुखस्त्वात्मा कुमारी पूर्वफा-
ल्गुनी । अनङ्गमेखला वायुर्भोदिनी च सुलावणी” ।
तस्य ध्येयरूपं यथा “चवर्णं शृणु सुश्रोणि! चतुर्वर्ग-
प्रदायकम् । कुण्डलीसहितं देवि! स्वयं परनकु-
ण्डलीम् । सततं कुण्डलीयुक्तं पञ्चप्राणमयं सदा । पञ्च
प्राणमयं वर्णं पञ्चप्राणात्मकं सदा । त्रिशक्तिसहितं
वर्णं त्रिविन्दुएहितं प्रिये!” कामधेनुतन्त्रम् काव्य-
बन्धादौ प्रयोगे सुखदायकता ङशवदे तन्मूलमुक्तम् ।

अव्य० चि--चण--वा भा० ड । १ पादपूरणे २ पक्षान्तरद्योतने

३ अवधारणे मेदि० ४ हेतौ त्रिका० । पादपूरणार्थस्य
निरर्थकतैव । “निरर्थकं चादि पादपूरणैकप्रयोजनम्”
चन्द्रालोकः ५ समुच्चये ६ अन्वाचये ७ इतरेतरयोगे ८
समाहारे च” अमरः । “चार्थे द्वन्द्वः” पा० सि० कौ०
व्याख्यातं यथा
“सघुच्चयान्वाचयेतरेतरयोगसमाहाराश्चार्थाः । परस्पर
(१) निरपेक्षस्वाऽनेकस्य (२) एकस्मिन् (३) अन्वयः
समुच्चयः । अन्वतरस्वानुषङ्गिक (४) त्वेऽन्वाचयः ।
मिलिताना (५) मन्वय इतरेतरयोगः । समूहः
(६) समाहारः । तत्रेश्वरं गुरुञ्च भजस्वेति समुच्चये
भिक्षामट गाञ्चानयेत्यन्वाचये च न समासोऽसामर्थ्यात्
(७) । धवखदिरौ । संज्ञापरिभाषम्” ।
व्याख्यातं चैतदस्माभिः सरलायाम् ।
(१) “षरस्परनिरपेक्षस्येति एकस्य क्रियान्वयोत्तरमप-
रस्यावृत्त्या तदन्वय इति न तयोः परस्पराकाङ्क्षा । (२)
अनेकस्येति तेनैकस्य सापेक्षत्वेऽपि न दोष उभयोस्तथा-
त्वाभावात् । समुच्चये चशब्देन स्वसमभिव्याहृतपदा
र्थोत्तरसापेक्षत्वं बोध्यते तदसमभिव्याहारे तु न ।
अतएवात्रैक एव चशब्दः प्रयुज्यते तेन यच्छब्दोत्तरं
चशब्दस्तस्यैव समभिव्याहृतक्रियादावन्वये इतरसापेक्षत्वं
नत्वन्यस्येति बोध्यम् । (३) एकस्मिन् एकधर्मावच्छिन्ने
इत्यर्थः अन्वय इत्येतस्य यत्रेत्यादिस्तथाच यत्रैवमन्वय-
स्तत्र समुच्चयश्चशब्दार्थैति भावः । न त्वन्वयएव समुच्चय
इति म्रमितव्यम् । अन्वयश्च विशेष्यतया विशेषणतया वा
तत्राद्यं चैत्रो गच्छति पचति चेत्यादौ क्रियासमुच्चये,
अन्त्यम् ईश्वरं गुरुञ्च भजस्वेत्यादौ द्रव्यसमुच्चये ।
(४) आनुषङ्गिकत्वमनुद्देश्यत्वमन्यतरस्य प्राधान्यञ्च तत्स-
म्बन्धिक्रियाया अवश्यकर्त्तव्यत्वरूपं तथाच सममिंव्या-
हृतक्रियादिगतमानुपङ्गिकत्वव्याप्यत्वान्वाचयचकारार्थः ।
(५) मिलितानामिति परस्परापेक्षाणामुद्भूतावयवभेदक-
समूहरूपाणातित्यर्थः । अन्वय इत्यर्स्यैकवर्मावच्छिन्नेना-
न्वयैत्यर्थः । तेन नीधातोः संयोगजनफव्याग्ररजन-
कव्यापारबोधकतया द्विकमकत्वेन अजां ग्रामं नयतीत्यादौ
अजाग्रामयोरुभयोरपि धातूपात्तक्रियायामन्ववेन तत्र
न चकारयोगो नापि समासः तयोरेकस्व संयोगेऽपरस्य
संयोगानुकूलव्यापारेऽन्वयादेकत्रान्वयाभावात् ।
अतएव यत्रातेकचकारप्रयोगः, व्यत्रैवमन्वयश्च तत्रेतरेतर-
योगस्ताद्दशसमूहश्च चार्थे इत्यर्थः । (६) अ{??}न्नूताव-
यवभेदसमूहस्य प्रतीत्या प्रत्येकावयववृत्तिधर्म एव प्रवृ-
पृष्ठ २८०६
त्तिनिमित्तं समाहारे तु द्वित्वत्रित्वादिनेब समूहस्य
भानात् समूढ़त्वमेव प्रवृत्तिनिमितमिति विशेषः । एवञ्च
उभयत्रैव समूहस्य बोधः । (७) असामथ्यादिति
एकार्थीभावाभादित्यर्थः । तथाहि बहुर्ब्राहुघटकपदानां
कर्माद्यन्तर्भावेणैव द्वन्द्वघटकपदानां चार्थान्तर्भावेणैव
एकार्र्थीभाव आवश्यकः “समर्थः पदविधिरिति” प्रा०
परिभाषितत्वात् चार्थे द्वन्द्व इत्युक्तेश्च । नचेतरेतरान्वये
परस्परनिरपेक्षाणामेकार्थीमावः सम्भवति येन
समुञ्चयान्वघयविकार्थीभावेऽनर्भूतौ स्याताम् । ततश्चेतरेत-
रयोगे समाहारे च साहित्यस्य सत्त्वादेकार्थीभावस्त-
यास्तदभावान्न तथेति बोध्यम् । इयांस्तु विशेष इतरेतर-
योगे साहित्यं विशेषणं द्रव्यं विशेष्यं, समाहारे तु
साहित्यं प्रधानं दव्यं विशेषणमिति यथा चानयोर्बोध-
वैलक्षण्यं तथाकरे दृश्यम्” । पक्षन्तरं चात्र पुनरथकम्
यथा “मूर्खोऽपि शोभते तावत् सभायां वस्त्रवेष्टितः ।
तावच्च शोभते मर्खो यावत् किञ्चित् न भाषते”
हितो० । ९ तुल्ययोगित्य १० विनियोगे च शब्दार्थेचि० ।
तत्र तुल्ययोगितालङ्कारस्य चेन द्योतनात्तस्य तदर्थकता
यथा “सङ्कचन्ति सरोजानि स्वैरिणी वदनानि च”
चन्द्रा० । एवं दीपकालङ्कारद्योतकताऽपि ३९९ पृ०
दृश्या । “सती च प्रयोषित् प्रकृतिश्च निश्चला” माघः ।
चकारद्वयप्रयोगे क्वचिदविलम्बयोगितायाः क्वचिततुल्य
प्राधान्यस्य चावबोधनम् यथा इतीरिता पत्ररथेन
तेन ह्राणा च हृष्टा च यभाण भैमी” नै० । “कला च
सा कान्तमता कलाभृतस्त्वमस्य लोकस्य च नेत्र कौमुदी”
कुमा० । लिदनुबन्धः चण यद्यर्थे तस्य प्रयोगे णित्त्वम् ।

पु० चीयते शुक्लपक्ष किरणैः अङ्गं परधनं वा चिनोति

वा चि--ड । १ चन्द्रे २ कच्छपे ३ चौरे ४ चण्डेशे ५ चर्वणे
च मेदि० । ६ निर्वीजे ७ दुर्जने च त्रि० शबदरत्ना० ।

चक भ्रान्तौ सौ० पर० अक० सेट् वदित् । चङ्कति अचङ्कीत् ।

चचङ्क ।

चक प्रतिघाते तृप्तौ च भ्वा० आ० अक० सेट् । चकते

अचकिष्ट चचके । मिते चकयति । प्रतिथातः भयहेतृकोऽ-
निष्टशङ्कया गमनादिप्रतिरोधः । “व्याधानुसारचकिता
हरिणीव यासि” मृच्छ० । “पौलस्त्यचकितेश्वरः” रघुः ।
उद् + अप्रतिघाते । “यं चेकितानमनुचित्तय उच्चकन्ति”
भाग० ६ । १७ । ४६ । उच्चकन्ति अप्रतिहतानि भवन्ति

चकास दीप्तौ अदा० जक्षा० पर० अक० सट् । चकास्ति

अचकासीत् । चकसाम--बभूघ आस चकार । ऋदित् ।
अचचकासत् । “चकासति च मासादास्तथा रन्ध्रषु
जाग्रति” । “चकासां चक्रुरुत्तस्थुः” “शोकादभूषैरपि
भूश्चकासाञ्चकार नागेन्दाथाश्वमिश्रैः” भट्टिः । “चकासत
चारु चमरुचम्मणा” माघः ।

चकित न० चक--भावे क्त । १ भये २ सम्भ्रमे च । “कुतो-

ऽपि दयितस्याग्रे चकितं मयसम्भ्रमः” सा० व० उक्ते
३ स्त्रीणां सात्त्विकालङ्कारभेदे यथा “त्रस्यन्ती चलशफरी-
विघट्टितोसूर्वामोरूरतिशयमाप विभ्रमस्य । क्षभ्रन्ति प्रस-
भमहो विनाऽपि हेतोर्लीलाभिः किमु सति कारणे
तरुण्यः “सचकितसस्मितवक्त्रवारिजश्रीः” ।
भयचकितमाहवे निजम्” माघः । “भः समभनगा यस्या
साष्टच्छिदिह चकिता” वृ० र० उक्ते ३ छन्दोभेदे स्त्री ।
कर्चरि क्त । ४ शङ्किते ५ भीते च त्रि० ।

चकोर पु० चक--त्प्तौ ओरन् । स्वनामख्याते--पक्षिभेदे

“कोकप्रीतिचकोरपारणपटुः” मुरारिः । “इमां किमा-
चामवसे न चक्षुषी चिरं चकोरस्य भवन्भखस्पृशी”
नैष० । “इतश्चकोराक्षि! विलोकयेति” रघः । स्वार्थे
क तत्रर्थे अमरः । “तन्मांस गुणा राजनि० उक्ता यथा
“चाटकं शीतलं रुच्यं वृष्यं कापिञ्जलामिषम् । तद्व-
च्चकोरज मांसं वृष्यञ्च बलपुष्टिदम्” ।

चक्क आर्त्तौ चुरा० उभ० सक० सेट् । चक्कयति ते अचचक्कत् त ।

चक्र पु० क्रियतेऽनेन कृ--घञर्थे क नि० द्वित्वम् । १ चक्रवाके

पक्षिणि, (चका) अमरः २ रथाङ्गे, (चाका) ३ सैन्ये,
४ समुदाये, ५ राष्ट्रे, ६ दम्भभेदे, ७ कुम्भकारोपकरणे,
“कलसे निजहेतुदण्डजः किमु चक्रभ्रमिकारितागुणः”
नैषधम् । ८ अस्त्रभेदे । ९ व्यूहभेदे, १० जंलावर्त्ते,
मेदि० ११ ग्रामजाले, त्रिका० १२ तगरपुष्पे, १३ तैलिक-
यन्त्रे तन्त्रीक्तेषुमूलाधारादिषु स्थितेषु षट्सु १४ पद्मेषु,
१५ सर्वतोभद्रादिषु, १६ देवार्च्चनयन्त्रेषु “श्रीचक्रमेतदु-
दितं परदेवतयाः” तन्त्रम् । मन्त्रदोक्षोपयोगिषु १६
अकडमादिषु, १७ वसैख्यदिचक्रेषु, “प्रवृत्ते भैरवीचक्रे सर्व्वे
वर्णाहिजोत्तमाः इति” तन्त्रम् १८ अलङ्कारोक्ते काव्यबन्ध-
विशेषे च न० । अलङ्कारशब्दे ३९० पृ० दृश्यम् अर्द्धर्चादि-
त्वात् द्विलिङस्वेऽपि लक्ष्यभेदेमैवास्य लिङ्गभेदनियमः ।
तत्र अस्त्यभेदचक्रलक्षणं हेमाद्रौ परि० लक्षणसमुच्चये
“औशनसे धनुर्वेदे जमदग्निं प्रति शुक्र उवाच ।
वत्स यथाप्र सुपदिश्यमानं निबोघ तत्रोत्तममध्यमाधमभेदेन
पृष्ठ २८०७
चक्रंत्रिविधं भवति । चक्रमष्टाभिरारैरुत्तमं, षडारं
मध्यमं चतुर्भिरारैः सम्पन्नमधमं भवति । तत्र श्लोकः ।
अष्टारमुत्तमं चक्रं षडारं मध्यमं भवेत् । जघन्यं चतुरा
रं स्यादिति चक्रं भवेत्त्रिधा । द्वादशपलमुत्तममेकादश-
पलं मध्यमं दशपलमधमं चेति बालानाम् । अबालानां
पञ्चाशत्पलमुत्तमं चत्वारिंशत्पलं मध्यमं त्रिशत्पलं
कनिष्ठमिति । तथाऽष्टाङ्गुलमुत्तमं सप्ताङ्गुलं मध्य-
ममधमं षड़ङ्गुलं भवति बालानाम्, अबालानान्तु षोड़-
शाङ्गलमुत्तमं चतुर्दशाङ्गुलं मध्यममधमं द्वादशा-
ङल भवति । तत्र श्लोकौ । द्वादशैकादशदशपलानि
क्रमशः शिशाः । अबालस्य द्विरष्टौ स्युर्द्विसप्त द्वाद-
शाप्रि च । वालानां त्रिविधं चक्रमष्टसप्तषडङ्गुलम ।
षोडशाङ्गुलमन्येषां द्विहीने मध्यमाधमे । त्रिविधं
चतुर्दशाङ्गलमाद्य द्विद्विहीनं मध्यमं कनिष्ठं वेति । तत्र
त्र्यङ्गुला सैक्यायसमयी प्रथमा नेमिः । सार्द्धद्व्यङ्गुला
मध्यमा नेमिर्द्व्यङ्गला तु कनिष्ठा नेमिःसातु मध्य-
मपरिमण्डला नेमिभिर्विमृताभिःस्यात् मणिरत्नालङ्कृता
स्थूलमूला या नेमिः सा चक्रे पूजिता भवति । तत्र
सैकां शिल्पिभिर्विचित्रमनेकविधसंस्थानमतिमनोहरं
चक्र कर्त्तव्यमब्रणं सुधारवक्त्रं कुर्व्वीत” ।
विष्णुचक्रलक्षणन्तु हरिभ० ४ वि० । “द्वादशारन्तु
षट्कोण वलयत्रयसयुतम् । चक्रं स्याद्दक्षिणावर्त्तः शङ्खश्च
श्रीहरेः स्मृतः”
तन्त्रोक्त भैरवीचक्रं च तत्त्वचकुत्वेन प्रसिद्धम् तत्र च
निष्कामाणामधिकारः रुद्रषामलोक्ते चकपञ्चके तु
सकामानाम् यथाह चक्र पञ्चविध प्रोक्त तन्त्रं
तु रुद्रयामले । विधिना पूजिते चक्रे सौख्यमोक्षफलं
लभेत् । महाचक्रं राजचक्रं दिव्यचक्रं तथाऽपरम् ।
वीरचक्रम् चतुर्थञ्च पशुचक्रञ्च पञ्चभम् । राजचक्रं
राज्यदं स्यान्महाचक्रं तु मोक्षदम् । देवत्वटं देवचक्रं
वीरचक्र तु सिद्धिदम् । पशचकं तु दारिद्र्यशोक-
दुःखामयप्रदम् । कापट्ये दक्षिणाहीने सर्व्वचक्रन्तु
निष्फलम् । सकामाश्चैव निष्कामाद्विविधाभुवि मानवाः ।
क्षुद्राशयाः कामिनो ये तेषामत्राधकारिता । ब्रह्मज्ञानाय
तु प्रोक्तं भैरवीचक्रमुत्तमम् । ब्रह्मज्ञानयुतानां तु तत्त्व-
चकेऽधिकारिता ।” महानिर्व्वाणे च “नात्राघिकारः
सर्वेषां ब्रह्मज्ञान् साधकान् विना । परब्रह्मोपासकाये
ब्रह्मज्ञा ब्रह्मतत्पराः । शुद्धान्तःकरणाः शान्ताः सर्व-
प्राणिहिते रताः । निर्विकारा निर्बिकल्पा दयाशीलादृ-
ढ़व्रताः । सत्यसङ्कल्पका ब्राह्म्यास्तएवात्राधिकारिणः ।
ब्रह्मभावेन तत्त्वज्ञा ये पश्यन्ति चराचरम् । तेषां तत्त्व-
विदां पुंसां तत्त्वचक्रेऽधिकारिता । सर्वव्रह्ममयो
भावश्चक्रेऽस्मित् तत्त्वसंज्ञके । येषामुत्पद्यते देयि! त
एव तत्त्वचक्रिणः” । कत्र सर्वत्र चक्रारेण साधकैरुप
बेशनात् चक्रत्वम् । चक्रानुष्ठानञ्च श्यमारहस्यादौ दृश्य-
म् । योगोपयोगितया देहस्थमूलाधारादिचक्रनिरूपणाय
इडादिनाडीनिवेशनोक्तिपूर्व्विका चक्रभेदोक्तिः तन्त्रसारे
“गौतम उवाच । देवर्षे! योगयुक्तानां योगानुभवद-
र्शक! । सांख्ययोगविशेषज्ञ । कर्म्मयोगनिषेधक! विना
योगं न सिध्येत्तु कुण्डलीचङ्क्रमः प्रभो! । मूलपद्मे
कुण्डलिनी यावेन्निद्रायिता प्रभो! । तावत् किञ्चिन्न सिध्येत
मन्त्रयन्त्रार्च्चनादिकम् । जागर्त्ति यदि सा देवी बहुभिः
पुण्यसञ्चयैः । तदा प्रसादमायान्ति मन्त्रयन्त्रार्च्चनादयः ।
शिवबद्विहरेल्लोके षडैश्वर्य्यसमन्वितः । योगयोगाद्भवेन्मु-
क्तिर्म्मन्त्रसिद्विरनुत्तमा । सिद्धे मन्त्रे परावाप्तिरिति-
शास्त्रेषु निर्णयः । तस्मात् कार्य्यं परं योगं कथयस्व
मुनीश्वर! । मुक्तात्मा येन विहरेत् स्वर्गे मर्त्येरसातले ।
जीवन्मुक्तश्च देहान्ते निर्व्वाणपदमाप्नुयात् । नारद
उवाच । कथयामि तव स्नेहाद्योगयोग्योऽसि गौतम! ।
संसारोत्तरणे युक्तिर्योगशब्देन कय्यते । ऐक्यं जीवा-
त्मनोराहुर्योगं योगविशारदाः । तव स्नेहात् समाख्यास्ये
योगविघ्नकरास्त्विमे । कामक्रोधलोभमोहमदमा-
त्सर्य्यसंज्ञकाः । योगाङ्गैरेभिर्निर्ज्जित्य योगिनोयो-
गमाप्नुयुः । यमनियमावासनप्राणायामौ ततः परम् ।
प्रत्याहारं धारणाख्यं ध्यानं सार्द्धं समाघिना ।
योगाङ्गान्याहुरेतानि योगिनां योगसाधने” । “यमाद-
यस्तु । “अहिंसा सत्यमस्तेयं ब्रह्मचर्य्यं दयाऽऽर्जवम् ।
क्षमा धृतिर्म्मिताहारः शौचञ्चेति यमा दश । तपः
सन्तोषमास्तिक्यं दानं देवस्य पूजनम् । सिद्धान्तश्रवणञ्चैत
ह्रोर्मतिश्च जपोहुतम् । दशैते नियमाः प्रोक्ता योगशास्त्र-
विशारदैः” आसनानि प्रोक्तानि । “इडयाकर्षयेद्वायुं
बाह्य षोडशमात्रया । धारयेत् पूरितं योगी चतुःषष्ट्या
त मात्रया । सुषुम्णा मध्यग सम्यग्द्वात्रिंशन्मात्रया
शनः । बाड्या पिङ्गलया चैव रेचंयेद्योगबित्तमः ।
प्राणायाममिमस्प्राहुर्योगशास्त्रविशारदाः । भूयो भूयः-
क्रमात्तस्य व्यत्यासेन क्रमाच्चरेत् । मात्रावृत्तिक्रमेणैवं
पृष्ठ २८०८
सम्यगद्वादश षोडश । जपध्यानादिभिर्युक्तं सगर्भं तं
विदुर्युधाः । तदपेतं निगर्भञ्च प्राणायामम्परं विदुः ।
क्रमादभ्यस्यतः पुंसो देहस्वेदोद्गमोऽधमः । मध्यमः कम्प-
संवुक्तो भूमित्यागः परोमतः । उत्तमस्य गुणावाप्तिर्य्यावच्छी-
लनममिप्यते । इन्द्रियाणां विचरतां विषयेषु निवर्हणम् ।
बलादाहरणं तेभ्यः प्रत्याहारोऽभिधीयते । अङ्गुष्ठगुल्फ
जानूरुसोमनीलिङ्गनाभिषु । हृद्ग्रीवाकण्ठदेशेतु लम्बि-
कायां तथा नसि । भ्रूमध्ये मस्तके मूर्द्ध्नि द्वादशान्ते
यथाविधि । धारणं प्राणमरुतो धारणति निगद्यते ।
समाहितेन मनसा चैतन्यान्तरवर्चिना । आत्मन्यभीष्ट-
देवानां ध्यानं ध्यानमिहोच्यते । समत्वभावनां नित्यं
जोवात्मपरमात्ममोः । समाधिमाहुमुनेयः प्रोक्तमष्टा-
ङ्गलक्षणम् । इत्यादि कथितं विप्र! कामादिपट्कना-
शनम् । इदानीं कथयिष्येऽहं मन्त्रयोगमनुत्तमम् ।
विश्वं शरीरमित्युक्तं पञ्चभूतात्मकं मुने! । चन्द्रसूर्य्याग्नि
तेजोभिर्जीवबह्मैक्यरूपकम् । तिस्रः कोट्यस्तदर्द्धेन
शरीरे नाड़योमताः । तासु मुख्या दश प्रोक्तास्तासु
तिस्रोऽध्यवस्यिताः । प्रधाना मेरुदण्डेऽत्र सूर्य्याग्नि
चन्द्ररूपिणो । शक्तिरूपा सा च नाड़ी साक्षादमृत-
विग्रहा । दक्षिणे पिङ्गलाख्या तु पुंरूपा सूर्य्यवि-
ग्रहा । दाडिमोकुसुमप्रख्या विसाभा मुनिभिः स्मृता ।
मेरुमध्यस्थिता या तु मूलस्था व्रह्मविग्रहा । सर्वतेजो
मयी सा तु सुषुम्णाबहुरूपिणी । तस्यामध्ये विचित्रांख्वा
अमृतस्राविणी शुभा । सर्वदेवमयी सा तु योगिनां हृदय-
ङ्गमा । बिसर्गाद्विन्दुपर्प्यन्तं व्याप्य तिष्ठति तत्त्वतः । मूला-
धारे त्रिकोणाख्ये इच्छाज्ञानक्रियात्मके । मध्ये खयम्भू
लिङ्गन्तु कोटिसूर्यसमप्रभम् । तदूर्ध्वे कामवीजन्तु कर्ण-
शान्तीन्दुनादकम् । तदूर्द्धेतु शिखाकारा कुण्ड़न्ती ब्रह्म-
विग्रहा । तद्बाह्ये हेमवर्णाभं शसयर्णं चतुर्द्दलम् । द्रुत
हेमममप्रख्यं पद्मं तत्र विभावयेत् । तदूर्द्घ्वेऽग्निसमप्रख्यं
षड़ुदलं हीरकग्रभम् । बादिलान्तषड़र्ण्णेन युक्ताधिष्ठा-
नमंज्ञकम् । लूलमाधारषट्कागां मूलाधारं ततो विदुः ।
स्वशव्देन परं लिङ्गं खाधिष्ठागं ततो विदुः । तदूर्द्ध्वे
नाभिदेशेंतु मणिपूरं महाप्रभम् । मेघाभं विद्युदाभञ्च
बहुतेजोमयन्ततः । मणिवाद्भन्नं तत् पद्मं मणिपूरं
तथोच्यते । दशभिश्च दलैर्युक्तं डादिफान्ताक्षरान्वितम् ।
शिवेनाधिष्ठितं पद्मं विश्वलोकककारणम् । तदूर्द्ध्वेऽना-
हतंपद्ममुद्यदादित्यसन्निगमृ । कादिठान्ताक्षरेरर्फ १२ पत्रैश्च
समधिष्ठितम । तन्मध्ये वाणलिङ्गन्तु सूर्य्यायुतसुमप्रभम ।
शवदब्रह्ममयं शव्दोऽनाहतस्तत्र लक्ष्यते । तेनाह ताख्यं
पद्मं तन्मुनिभिः पारकोर्त्तितम । आनन्दसदनं तत्त पुरु-
षाधिष्ठित परम् । तदूर्द्ध्वन्तु विशुद्धाख्यं षोड़शदल
पङ्कजम् । स्वरैः षोडशभिर्युक्तं धूम्रवर्णं महाप्रभम् ।
विशुद्धिं तनुते यस्माज्जीवस्या हंसलोकनात् । विशुद्धं
पद्ममाख्यातमाकाशाख्यं महाप्रभम् । आज्ञाचक्रन्त-
दूर्द्ध्वे तु आत्मनाधिष्ठितं परम् । आज्ञासंक्रमणन्तत्र गुरो-
राज्ञेति कीर्त्तितम् । द्विदलं हलसंयुक्तं बोधनन्तु
तदूर्द्ध्वतः । एवञ्च शिवचक्राणि प्रोक्तानि तव सुव्रत! ।
सहस्राराम्बुजं विन्दुस्थानं तदूर्द्धमीरितम् । इत्येतत्
कथितं सर्व्वं योगमार्गमनुत्तमम्” ।
दीक्षणीयतन्त्रोक्तमन्त्राणां साधकस्य शुभाशुभदायकता
विचाराङ्गचक्राणि तन्त्रसारे दर्शितानि यथा
  • “अनूकुलं मन्त्रं गृह्णीयात्तथाच “स्वतारराशिकोष्ठानामनु-
कूलान् भजेन्मनून्” । वाराहीतन्त्रे “ताराचक्रं राशि-
चक्रं नामचक्रं तथेव च । तत्र चेत् सगुणो मन्त्रो नान्य
चक्रं विचारयेत्” । इति तु प्रधानतया बोद्धव्यम् ।
“अरिमन्त्रं न गृह्णीयादकुलञ्च तथैव च” । इत्या-
दिदर्शनात् ततश्च चक्रविचारस्यावश्यकत्वात् प्रथमं
तन्निरूप्यते । तत्र सिद्धिसारस्वते “नृसिंहार्कवराहाणां
प्रसादप्रणवस्य च । सपिण्डाक्षरमन्त्राणां सिद्धादीन्नैव
शोधयेत् । स्वप्नलब्धे स्त्रिया दत्ते मालामन्त्रे च त्र्यक्षरे ।
बैदिकेषु च सर्ब्बेषु सिद्धादीन्नैव शोधयेत् । एकाक्षरस्य
मन्त्रस्य मालामन्त्रस्य पार्व्वति! । वैदिकस्य च मन्त्रस्य
सिद्धादीन्नेव शोधयेत्” । मालामन्त्रो यथा वाराहीतन्त्रे
“विंशत्यर्लाधिका मन्त्रा मालामन्त्राः प्रकीर्त्तिताः । नपुं-
सकस्य मन्त्र?स्य सिद्धादीन्नैव शोधयेत् । हंसस्याष्टाक्षर-
स्यापि तथा पञ्चाक्षरस्य च । एकद्वित्र्यादिवीजस्य सिद्धा-
दीन्नैव शोधयेत्” चामुण्डातन्त्रे “काली तारा
महाविद्या षोड़शी भुवनेश्वरी । भैरवी छिन्नमस्ता च विद्या
धूमवती तथा । वगला सिद्धविद्या च मतिङ्गी कमलात्मि-
का । एता दश महाविद्याः सिद्धा विद्याः प्रकीर्त्तिताः ।
नात्र सिद्वाद्यपेक्षास्ति नक्षत्रादिविचारणा । कालादि
शोधनं नास्ति न चामित्रादिदूषणम् । सिद्धविद्या तथा
नात्र युगसेवापरिश्रमः । नास्ति किञ्चिन्महादेवि! दुःख
साध्यं कथञ्चन” । मालिनीविजये “काली तारा महा
विद्या त्वरिता छिन्नभस्तका । वाग्वादिनी चान्नपूर्णा
पृष्ठ २८०९
तथा प्रत्यङ्गिरा मता । कामाख्यावासिनी बाला मातङ्गी
शैलवासिनी । इत्याद्याः सकला विद्याः कलौ पूर्णफल-
प्रदाः । सिद्धविद्यास्तथा नात्र यगसेवापरिश्रमः ।
तथा चैता महाविद्याः कलिदोषैर्न बाधिताः” इत्यादि
वचनादेषु विचारो नास्ति । वस्तुतस्तु इदन्तु पशंसापरम्
सर्व्वत्रविचारस्यावश्यकत्वम् । दुरदृष्टवशात् कदाचिद्वैरि
मन्त्रस्य स्वप्नादौ प्राप्त्या तत्तद्दोषस्य दृष्टत्वादिति तु
माम्प्रदायिकाः । तत्रादौ
  • कलाकुलचक्रम् तच्च तच्छब्दे २१३४ पृ० दर्शितम् ।
  • राशिचक्रम आगमकल्पद्रुमे “रेखाद्वयं पूर्ब्बषरेण
कुर्य्यात्तन्मध्यतो याम्यकुवेरभेदात् । एकैकमीशाननिशा-
चरे तु हुताशवाय्वोर्विलिखेततोऽर्णान् । वेदाग्निवह्नि-
युगलश्रवणाक्षिसंख्यान् पञ्चेषुवाणशरपञ्चचतुष्टयार्णान् ।
मेषादितः पविलिखत् सकलांस्तु वर्णान् कन्यागतान्
प्रविलिखेदथ शादिबर्णाब्” । सङ्केतान्तरं शारदायाम्
“बालं गौरं खरं शोणं शमी शोभेति राशिषु ।
क्रमशोभेदिता वर्णाः कन्यायां शादयः स्मृताः” । अ आ
इ ई मेषः । उ ऊ ऋ वृषः । ऋ ऌ ॡ मिथुनम् ।
ए ऐ कर्कटः । ओ औ सिहः । अं अः शष सह
लक्षाः कन्यका । कवर्गस्तुला । चबर्गो वृश्चिकः ।
ष्टवर्गो धनुः । तवर्गोमकरः । षबर्गः कुम्भः । यवर्गो
मीनः । स्वराशीतामनुकूलं मन्त्रं भजेत् “स्वतार-
राशिकोष्ठानामतुकूलान् भजेन्मनून्” इति वचनात् ।
“राशीनां शुभता ज्ञेया त्यजेच्छत्रुं मृतिं व्ययम् । स्वरा-
शेर्म्मन्त्रराश्यन्त” गणनीयं विचक्षणैः” । यदा तु स्वरा-
शेरज्ञानम तदा साधकनामाक्षरसम्बन्धिनं राशिं
गृहीत्वा गणयेत् । “साध्याद्यक्षरराश्यन्तं गणयेत्
साधकाक्षरादिति” रामार्च्चनचन्द्रिकाधृतवचनात् ।
नारायणीये च “अज्ञाते राशिनक्षत्रे नामाद्यक्षर
राशितः” इति । रामार्च्चनचन्द्रिकायाम्” “एकपञ्चनव-
बान्धवाः स्मृताः द्वौ च षट् च दशमास्तु सेवकाः । वह्नि-
रुद्रमुनयस्तु प्रोषकाः द्वादशाष्टचतुरस्तु घातकाः” ।
चतुरस्तु घातका इति विष्णुविषयं रामार्च्चनचन्द्रिका-
घृतत्वात् । शक्त्यादौ तु षष्ठं बर्जनीयम् “षष्ठाष्टमद्वादशानि
वर्जनोयानि यत्नतः” इति वचनात् । तन्त्रान्तरे “लग्नं
धनं भ्रातृबन्धू पुत्रामित्रकलत्रकम् । मरणं धर्म्मक-
र्म्मायव्यया द्वादश राधयः । लग्नोऽतिक्लेशजनकोधनंदञ्च
धनम्भवेत् । भ्राता रक्षाकरा बन्धुरर्षकृत् सुखदः सुतः ।
शत्रुर्नाशाय, सम्पत्त्यै कलत्रं भवति ध्रुवम् । मरण
मरणार्थाय, धर्म्मोधर्म्माय कल्पते । कर्म्मणि स्वल्पसिद्धिः
स्यादायोऽतिशीघ्रदस्तथा । लाभालाभौ व्ययः कुर्य्यादेषा-
क्रमविचारणा । नामानुरूपमेतेषां शुभाशुभफलं
दिशेत् । वैष्णवे तु शत्रुस्थाने बन्धुरिति पाठः । तथाच
तन्त्रराजे “तेन मन्त्रादिवर्णेन नाम्नश्चाद्याक्षरेण च ।
गणयेद्यदि षष्ठं वाप्यष्टमं द्वादशन्तु वा । रिपुर्मन्त्राद्य-
वर्णः स्यात्तेन तस्याहितं भवेत् ।”
  • अष्टवर्गचक्रम्--अष्टवर्गशब्दे ५२२ पृ० तच्चोक्तम् ।
  • नक्षत्रचक्रम्--भैरवीतन्त्रे “ऊर्द्ध्वगा दश रेखास्युस्तिर्य्यग्रे
खाश्चतसृकाः । सप्तविंशतिकोष्ठानि भेषु वर्णाल्लिँखद्यथा ।
गणाक्षरनिर्णयः । अ आ अश्विनी देवगणः । इ भरणी
मानुषः । ईउऊकृत्तिका राक्षसः । ॠ ऌॡ रोहिणी
मानुषः । ए मृगशिरोदेवः । ऐ आर्द्रा मानुषः ।
ओ औ पुनर्वसू देवः । कः पुष्योदेवः । खगद्यश्लेषा
राक्षसः । घङ मघा राक्षसः । च पूर्वफल्गुनी मानुषः ।
छज उत्तरफाल्गुनी ग्रानुषः । झञ हस्ता देवः । टठ
चित्रा राक्षसः । ड स्वाती देवः । ढण विशाखा राक्षसः ।
तथद अनुराधा देवः । ध ज्येष्ठा राक्षसः । न पस्य मूला
राक्षसः । ब पूर्वाषाढ़ा मानुषः । भौत्तरषाढ़ा मानुषः ।
म श्रवणा देवा । यर धगिष्ठा राक्षसः । ल शतमिषा राक्षसः ।
वश पूर्वभाद्रपदा मानुषः । षसह उत्तरमाद्रपदा मानुषः ।
अं अः लंक्ष रेवती देवः । निबन्धे “प्राप लोभात् पटुः
प्राद्यं रुद्रस्याद्रिरुरुःकरम् । लोकलोपपटुः प्रायः
खलौ योभेषु भेदिताः । वर्णाः क्रमात्स्वरान्त्यौ तु रेवत्यं-
शगतौ तदा । अन्त्यव्यञ्जनसंख्यात्र ग्राड्या वर्गादि-
वर्णतः” । तथा च पिङ्गलातन्त्रे “उत्तराद्दक्षिणा
ग्रान्तु रेखां कुर्य्याच्चतुष्टयीम् । दश रेखाः पश्चिमाग्राः
कर्त्तव्या वरवणिनि! । अश्विन्यादिक्रषेणैव विलिखेचारकाः
पुनः । वक्ष्यमाणबिधानेन तन्मध्ये वर्णकाम् लिखेत् ।
अकारादिक्षकारान्तान्द्विचन्द्रवह्निरेदकान् । भूमीन्द नेत्र-
चन्द्रांश्च अश्लेषायां खगो प्रिये! । द्विभूगेत्रनेत्रयुम्मानि
चेन्द्युनेत्राग्निचन्द्रकान् । मघादिज्येष्ठापर्य्यन्तं द्वितीयं
नवतारकम् । वह्निभूमीन्दुचन्द्रांश्च यमेन्दु नेत्रवचिकाम् ।
षेदेन भेदितान् वर्णान् रेवत्यन्त्ययुगे क्रमात् । पूर्त्तेक त्र्य-
ब्धिरूथावनिभुजकुवगायुन्मभूयुग्मपक्षारुग्र्मैकद्वित्ररूपा-
नलशशिशशिभूद्द्ये कपक्षाग्निवेदाः । वुर्णाः क्रमात्
स्वरान्त्यौ तु रेवत्यांशगतावुगौ । तथा च निबन्धे “पूर्वोत्तरा-
पृष्ठ २८१०
त्रय ञ्चैव भरण्यार्द्रा च रोहिणी । इमानि मानुषाण्याहु-
र्नक्षत्राणि मनीषिणः । ज्येष्ठाशतभिषामूलधनिष्ठाश्लेष
कृत्तिकाः । चित्रामघाविशाखाः स्युस्तारा राक्षसदेवताः ।
अश्विनी रेवती पुष्यः स्वाती हस्तपुनर्वसू । अनुराधा
मृग शरःश्रवणा देवतारकाः । तथाच “स्वजातौ परमा
प्रोतिर्मध्यमा भिन्नजातिषु । रक्षोमानुषयोर्नाशोवैरं
दानवदेवयोः । जन्मसम्पग्विपत्क्षेमं प्रत्यरिः साधको-
बधः । मित्रं परममित्रञ्च जन्मादीनि पुनः पुनः ।
जन्मतृतीयपञ्चमसप्तमानि नक्षत्राणि वर्ज्यानि । तथा च
“रसाष्टनवभद्राणि युगयुग्मगतान्यपि । इतराणि न
भद्राणि” इत्यादि । स्वनक्षत्रादेव नक्षत्रं गणनीयम् ।
स्वनक्षत्राज्ञाने स्वनामाद्यक्षरसम्बन्धिनक्षत्रादेव नक्षत्रं
गणनीयमिति । प्रादक्षिण्येन गणयेत् साधकाद्याक्ष-
रात् सुधीः” ।
  • अकथहचक्रम्--तच्च अकथहशब्दे ३८ पृ० दृश्यम्
  • अकडसचक्रम्--गोपालविवषयम् अकडमशव्दे ३७ पृ० उक्तम्
  • ऋणिधनिचक्रम्--ऋणिधनिचक्रशब्दे १४२८ पृ० दृश्यम्
अन्यान्यपि तदुपयोगीनि चक्राणि रुद्रयामले दृश्यानि ।
स्वरोदयसम्मतानि नरपतिजयचर्य्योक्तानि “स्वरचक्राणि
चक्राणि भूवलानि बलानि च” इत्यादिना षड़ङ्गोप
क्रमे उक्तानि २० स्वरचक्राणि सर्वतो भद्रादीनि
८४ चक्राणि च क्रमशः प्रदर्श्यन्ते । तत्र षडङ्गेषु
प्रथमाङ्गे स्वरचक्राणि विंशतिस्तत्रादौ
मात्रास्वरचक्रम्--“अथातः संप्रवक्ष्यामि प्रोक्ता ये ब्रह्म
यामले । मांत्रादिभेदभिन्नानां स्वराणां षोड़शोदयात् ।
माबृकायां पुरा प्रोक्ताः स्वराः षोड़शसंख्यया । तेषां
द्वावन्तिमौ त्याज्यौ चत्वारश्च नपुंसकाः । दश शेषाः स्वरा-
ग्राह्याः स्यादेकैकं द्विके द्विके । ज्ञेयास्तत्र स्वरा आद्या ह्रस्वाः
पञ्च स्वरोदये । लाभालाभं सुखं दुःखं जीवितं मरणं
तथा । जयः पराजयो वेति सर्वं ज्ञेयं स्वरोदये । स्वरादि
मातृकोच्चारोमातृव्याप्तं जगत्त्रयम् । तस्मात् स्वरोद्भवं
सर्वं त्रैलोक्यं सचराचरम् । स्वरवेत्ता हितस्त न दैवज्ञो
देवतांशकः अकारादिस्वराःपञ्च व्रह्माद्याः पञ्च देवताः ।
निवृत्त्याद्याः कलाः पञ्च इच्छाद्यं शक्तिपञ्चकम् ।
मायाद्या मन्त्रभेदाश्च धराद्यं भूतपञ्चकम् । शब्तादि-
विषयास्ते च कामवाणा इतीरिताः । पिण्डं पदं
तथा रूपं द्वन्द्वातीतं निरञ्जनम् । स्वरभेदस्थितं ज्ञानं
ज्ञायते गुरुतः सदा । अकारादिस्वराः पञ्च तेषामष्टौ-
भिदास्त्वमूः । मात्रा वर्णो ग्रहो जीव राशिर्भं पिण्ड
योगकम् । “प्रसुप्तो भाषते येन येनागच्छति शब्दितः ।
नामाद्यवर्णे या मात्रा मात्रास्वरः स हि स्मृतः” ।
  • २ वर्णस्वरचक्रम्--“कादिहान्तान् लिखेद्वर्णान् स्वराधोङ-
भणोज्झितान् । तिर्य्यक्पड्क्तिक्रमेणैव पञ्चत्रिंशत्प्रकोष्ठके ।
नरनामादिमोवर्णो यस्मात् स्वरादधः स्थितः । स स्वर
स्तस्य वर्णस्य वर्णस्वर इहोच्यते । ववौ शसौ खषौ चैव
जयौ चेति परस्परम् । ज्ञेयौ तुल्यबलौ भिन्नस्वरस्या-
धःस्थितावपि । न प्रोक्ता ङ ञणोवर्णा नामादौ सन्ति
ते न हि । चेद्भवन्ति तथा ज्ञेया गजडास्ते
यथाक्रमम् । बहूनि यस्य नामानि नरस्य स्युः कथञ्चन ।
तस्य पश्चाद्भबं नाम ग्राह्यं स्वरविशारदैः । यदि
नाम्नि भवेद्वर्णः संयुक्ताक्षरलक्षणः । ग्राह्यस्तस्यादिमो-
वर्ण इत्युक्तं ब्रह्मयामले ।”
  • ३ ग्रहस्वरचक्रम्--“अस्वरोमेषसिंहालि, इः कन्याद्वन्द्व-
कर्क्कटाः । उस्वरे च धनुर्मीनौ एस्वरे तु तुलावृषौ ।
ओस्वरे मृगकुम्भौ च राशीशास्तु ग्रहस्वराः । स्वराधः
स्थापयेत् खेटान् राशेर्योयस्य रायकः । भौमशुक्र-
ज्ञचन्द्रार्क्काबुधशुक्रारमन्त्रिणः । सौरिः सौरिस्तथा जीवो
मेषादीनामधीश्वराः” ।
  • ४ जीवस्वरचक्रम्--“षोड़शाक्षरोऽत्राबर्गःस्यात् कादिवर्गास्तु
पञ्चकाः । चतुर्वर्णौ यशौ वर्गौ संख्यावर्गे प्रकीर्त्तिताः ।
नाम्नि वर्णाः स्वराग्राह्यावर्गाणां वर्णसंख्यया । पिण्डि-
ताः पञ्चमिर्भक्ताः शेषं जीवस्वर विदुः
  • ५ राशिस्वरचक्रम्--“मेषवृषावकारे च मिथुनाद्याः षड़ं-
शकाः । मिथुनांशत्रयञ्चैवमिकारे सिंहकर्क्कटौ । कन्या-
तुले उकारे च वृश्चिकाद्यास्त्रयोंऽशकाः । एकारे वृश्चिक-
स्यांशाः षट् चापे षट् मृगादिमाः । अंशास्त्रयोमृगस्यान्त्याः
कुम्भमीनौ तथौस्वरे । एवं राशिस्वराः प्रोक्ता नवांशक-
क्रमोदिताः
  • ६ ऋक्षस्वरचक्रम्--“अकारे सप्तऋक्षाणि रेवत्यादि क्रमेण
च । पञ्च पञ्च इकाराद्रावेबमृक्षस्वरोदये”
  • ७ पिण्डस्वरचक्रम्--“नाम्नि वर्णस्वरात् संख्यातश्च मात्रा
स्वरात्तथा । पिण्डे शरहृते शेषे पिण्डस्वरैहोच्यते
  • ८ योगस्वरचक्रम्--“मात्रांदिस्वरभेदेन स्वरानुत्पाद्य
नामतः । योगे शरहते शेषे । योगस्वर इहोच्यते”
  • ९ द्वादशवार्षिकस्वरचक्रम्--“प्रोक्ता नैसर्गिकाश्चाष्टौ मात्रा-
द्या नामजाःस्वराः । एतेषामुदयाः वक्ष्ये द्वादशाव्दादिषु
पृष्ठ २८११
क्रमात् । प्रभवादिक्रमेणैव अकारादिस्वरास्तथा । वर्षैर्द्वा-
दशभिर्मानमेकैकस्य स्वरोदये । उदयोद्वादशाव्दानां प्रत्येकं
द्वादशाव्दिकः । अस्यान्तरोदयोवर्षमासमेकं दिनद्वयम् ।
लोकाब्धिनाडिकाः ४३ प्रोक्ता अष्टत्रिंशत्पलानि च”
  • १० वार्षिकस्वरचक्रम्--प्रभावाद्यब्दमेकैकमुदयश्चास्वरादि-
कः । द्वादशाव्दस्य वर्षोना तद्भुक्तिर्वार्षिके स्वरे”
  • ११ अयनस्वरचक्रम्--“अस्वरोदक्षिणे स्वामी इस्वरश्चोत्तरा-
यणे । वर्षभुक्त्यर्द्धमानेन भोगः षाण्मासिकस्वरे” ।
  • १२ ऋतुस्वरचक्रम्--“अकारादिस्वराः पञ्च वसन्तादिक्र-
मीदयाः । एकैकस्मिन् स्वरे प्रोक्तोद्विसप्ततिदिनोदयः ।
षड्दिनानि रदा ३२ नाड्यो वह्निवेद ३४ पलानि च ।
अन्तरोदयमानं स्याद् ऋतुनाम्नि स्वरोदये” इति
  • १३ मासस्वरचक्रम्--“नमस्यमार्गवैशाखेष्वस्वरस्योदयोभयेत् ।
आश्विनश्रावणाषाढेष्विकारो नायकः स्मृतः । उकार-
श्चैत्रपौषे स्यादेकारो ज्यैष्ठकार्त्तिके । ओकार उदयं
याति माघफाल्गुनमासयोः । द्वे दिने त्र्यब्धयो ४३
नाड्यश्चाष्टत्रिंशत् पलानि च । अन्तरोदयौक्तोऽ
साविति मासस्वरोदये”
  • १४ पक्षस्वरचक्रम्--“अस्वरः कृष्णपक्षेशः शुक्लपक्षेश इस्वरः ।
पक्षात्मिकान्तरा भुक्तिर्मासभुक्त्यर्द्धमानतः”
  • १५ तिथिस्वरचक्रम्--“अकारादिक्रमान्न्यस्य नन्दादितिथि
पञ्चकम् । नन्दा भद्रा जया रिक्ता पूर्णा च कथिताः
क्रमात् । दिनस्वरोदयोनित्यं स्वस्वतिथ्यादि जायते ।
एकैकस्य स्वरस्य स्युर्घटी पञ्च पलानि भैः २७ । अस्या-
न्तरोदयः प्रोक्तोदिनस्वरस्य सूरिभिः”
  • १६ घटीस्वरचक्रम्--“घटीस्वरो घटीपञ्च पलानि सप्तविं-
शतिः । एवं घटीस्वरोयाति दिनस्वरघटीस्वरः । अस्या-
न्तरोदयः प्रोक्तोघटिकार्द्धप्रमाणतः”
  • १७ तिथिवारर्क्षादिस्वरचक्रम्--“द्वादशाव्दादिनाड्यन्ताः
स्वस्थानाच्च स्वकालतः । उदयन्ते पुनस्ते च ते चैकादशधा
स्वराः । वर्षमासदिवानाडीपलानि च यथाक्रमम् ।
कालमानं मया प्रोक्तं पञ्चधात्र स्वरोदये । द्वादशाब्दस्वरा-
दीनां भुक्तं पलमयन्तु यत् । तद्भक्तं च स्वभोगेन लब्ध-
शेषादिकं भवेत् । लब्धभुक्तस्वरा ज्ञेयाः शेषञ्चैवोदिताः
स्वराः । अस्मिन् षष्ट्यादिभक्ते च भुक्तं स्यादुदितः स्वरः ।
उदितस्य स्वरस्य स्युर्न्नामस्वरवशेन ताः । पञ्च बाला-
दिकावस्थाः स्वस्वकालप्रमाणतः” ।
(यो यस्य कालसंभोगी तस्य कालगतान्तरम् । पिण्डितं
भुक्तिसंभक्तं लब्धाङ्केन गतोदयः । शेषस्वरोदयोज्ञेयः
स्वस्य संख्याहृते ततः । पञ्चावस्थाः स्वरूपेण ज्ञेयं
तस्य बलाबलम् । उदयास्तस्वरौ यत्र नामाद्यक्षर-
जस्वरात् । तत्र बालादयोऽवस्था भवन्त्येकादिसंख्यया ।
नामस्वरोदयोबालः कुमारश्च द्वितीयकः । तत्तृतीयो-
युवा तुर्य्यो वृद्धोमृत्युस्तु पञ्चमः) ग्रन्थान्तरेऽधिक पाठः ।
आद्योवालः कुमारश्च युवा वॄद्धो मृतिस्तथा । निजा-
वस्थास्वरूपेण फलदा नात्र संशय । किञ्चिल्लाभकरोवालः
कुमारस्त्वर्द्धलाभदः । सर्वसिद्धिंयुवा दत्ते वृद्धे हानि-
र्मृते क्षयः । यात्रायुद्धे विवादे च नष्टद्रष्टे रुजान्विते ।
बालस्वरोभवेद्दुष्टोविवाहादिशुभे शुभः । सर्वेषु शुभकार्येषु
यात्राकाले तथैव च । कुमारः कुरुते सिद्धिं संग्रामे सर्व-
तोजयम् । शुभाशुभेषु कार्येषु मन्त्रयन्त्रादिसाधने ।
सर्वसिद्धिं युवा दत्ते यात्रायुद्धे विशेषतः । दाने देवार्च्चने
दीक्षागूढमन्त्रप्रकल्पने । वृद्धस्वरो भवेद्भव्योरणे भङ्गो
भयं गमे । विवाहादिशुभं सर्व्वं संग्रामाद्यशुभं तथा । न
कर्त्तव्यं नृभिः किञ्चिज्जाते मृत्युस्वरोदये । मृतोबाल
स्तथा वृद्धः कुमारस्तरुणस्वरः । यथोत्तरबलाः सर्व्वे ज्ञा-
तव्याः स्वरवेदिभिः । योयस्य पञ्चमे स्थाने स स्वरो मृत्यु-
दायकः । तृतीये तु भवेत् वृद्धिः शेषामध्यफलप्रदाः ।
मृत्युहीनस्वरे नाम्नि जयोनाम्नि स्वराधिके ।
समनाम्नि भवेत साम्यं सन्धिर्जयपराजयौ । एकमात्रो-
द्विमात्रश्च त्रिचतुःपञ्चमात्रकाः । यथोत्तरबलाः सर्व्वे
ज्ञातव्याः स्वरपारगैः । एकमात्रः कवर्णश्च किवर्ण्णश्च
द्विमात्रकः । कुस्तृतीयस्तु तुर्य्यः केः, कोवर्ण्णः पञ्चमा-
त्रकः । आद्ये स्वरे भवेत् साम्यं द्वितीयोऽर्द्धफलप्रदः ।
तृतीये तु फलं पूर्णं तुर्य्ये बन्धपरम्परा । शत्रोर्मृत्यु
स्वरे प्राप्ते यूनि प्राप्ते स्वकीयके । तत्काले प्रारमेद्युद्धं
विजयो भवति ध्रुबम् । तत्काले मातिकोग्राह्योदिने
वर्णस्वरस्तथा । पक्षे ग्रहस्वरोज्ञेयो प्रासे जीवस्वरोदयः ।
ऋतौ राश्यंशकोग्राह्यः षण्मासे धिष्ण्यसम्भवः ।
अव्दे पिण्डस्वरोज्ञेयो योगो द्वादशवार्षिके । सर्व्व-
काले बली वर्णः सर्वव्यापी न संशयः । तस्मात्सर्व्व-
प्रयत्नेन वर्णे वीक्ष्यं बलाबलम् । यथा पद हस्तिपदे
प्रविष्टं यथा हि नद्यः खलु सागरेषु । यथा हरेर्द्देह-
गताश्च देवास्तथा स्वरा वर्णफलोदयाःस्युः । साधनं
मन्त्रयन्त्रस्य यात्रायोगञ्च सर्व्वदा । अधोमुखानि
कार्य्याणि मात्राखरवले कुरु । वर्णस्वरबले सर्व कर्त्तव्यं
पृष्ठ २८१२
च शुभाशुभम् । सिद्धिदं सर्व्वकार्य्येषु युद्धकाले
विशेषतः । मारणं मोहनं स्तम्भविद्वेषोच्चाटनं तथा
विवादं विग्रहं वातं कुर्य्यात् ग्रहस्वरोदये । खान
पानादिकं सर्ब्बं वस्त्रालङ्कारभूषणम् । विद्यारम्भं विवा-
हञ्च कुर्य्याज्जीवस्वरोदये । प्रासादारामहर्म्याणि देवता-
स्थापनार्चनम् । राजाभिषेचनं यात्रा प्रवेशो वीजवाप-
नम् । स्त्रीविवाहश्च दीक्षा च कर्त्तव्या राशिके स्वरे ।
शान्तिकं पौष्टिकं यात्रा प्रवेशोवीजवापनम् । स्त्रीविवाह-
स्तथा सेवा कर्त्तव्या भस्वरोदये । शत्रूणां देशभङ्गश्च
कोटयुद्धं च वेष्टनम् । सेनाध्यक्षस्तथा मन्त्री कर्त्तव्यः
पिण्डकोदये । योगेन साधयेद्योगं देहस्थं ज्ञान-
सम्भवम् । आणवं शाम्भवं चैव शाक्तेयञ्च तृतीयकम् ।
तिथिवारञ्च नक्षत्रं पृथक् पृथक् प्रभाषितम् । यत्तदे-
कत्र संमेल्य कुर्य्याद्वर्णस्वरोदये । सस्वरो वर्णतोयत्र
तत्तस्याधःस्थितं कुरु । यस्य नामादिमं वर्णं तिथि-
वारर्क्षमृक्षजम् । तद्दिनं वर्जयेत्तस्य हानिमृत्युकरं
यतः । अनेन स्वरयोगेन शत्रूणां मारणादिकम् । मन्त्र-
यन्त्रक्रियाहोमं साधयेत्तद्दिने बुधः । तत्र बालादयो-
ऽवस्थाभानुसंख्याभवन्ति हि । उदयन्ते क्रमेणैव
स्वस्वभुक्तिप्रमाणतः । घटिकाख्ये दिने पक्षे मासे
ऋत्वयने तथा । वर्षे द्वादशवर्षे च अवस्था जायते
स्वरे । भपलानि घटीपञ्च सपादार्द्धं दिनद्वयम् । षडहं
पक्षमासं च वर्षैकं भुज्यते क्रमात् । भुक्तस्वरप्रमाणं
च पिण्डस्थं भोगभाजितम् । गतावस्था गताङ्केन
शेषास्तत्कालजा मताः । मूका १ च बाला२ शिशु३
हासिका४ च कुमारिका५ यौवन६ राज्यदा७ च ।
क्लेशा ८ च मोघा ९ ज्वरिता १० पवासा ११ मृता १२ च
बालस्वरजा अवस्था । स्वस्था १ शुभा २ मोहन ३ हर्ष ४
वृद्धि ५ र्महोदया ६ शान्तिकरी ७ सदर्पा ८ । मदा ९ समा १०
शान्तिगुणोदया ११ च माङ्गल्यदा १२ द्वादशधा कुमारे ।
उत्साह १ धैर्य्योग्रजया २ । ३ । ४ । च बाला ५ माङ्गल्य-
युक्ता ६ च सकाम ७ पुष्टी ८ । सुखा ९ च सिद्धिश्च १०
धनेश्वरी११ च शान्ताभिधा १२ द्वादशधा युवाख्ये ।
बैकल्य १ शोषा २ च तथा च मोघा ३ च्युतेन्द्रिया ४
दुःखित ५ रात्नि ६ निद्रा ७ । वुद्धिप्रभङ्गा ८ च तपा ९ च
खिन्ना१० जरा११ मृता१२ द्वादश वृद्धजा च । छिन्ना१
च बन्धा २ रिपुचातकारी ३ शोका ४ मही ५ ज्वालन ६
कुष्ठदा७ च । व्रणाङ्किता ८ भेदकरी ९ च दाहा १०
मृत्युः११ क्षया१२ द्वादश मृत्युजा इमाः । एवं षंष्टि-
रवस्थाः स्युरवस्थापञ्चके सदा । तासु सर्वासु विज्ञेयं
स्वनामसदृशं फलम् । अवस्था फलम् ।
  • १८ तात्कालिकदिनस्वरचक्रम--“तिथ्यादावुदयंयाति
अकारादिर्घटीस्वरः । बालस्वरादिकं प्रश्ने फलं तस्य
वदाम्यहम् । तिथिभुक्तघटीसंख्यां कृत्वा पलमयीं ततः ।
ऋक्षवह्नि ३२७ हृते शेषे स्वरस्तत्कालसम्भवः । तिथि-
भुक्तघटी या स्याद्रुद्रघ्न ११ षष्टिभाजिता । शेषे तिथि-
स्वरात् प्रोक्तस्तत्कालजघटीस्वरः । शेषं रुद्रा११ हत
षष्ट्या भाजयेच्चान्तरोदयः । वर्ण्णतस्तु फलं वाच्यं
शेषे तत्कालजस्वरः । तिथिभुक्तघटीसंख्या विंशघ्ना
नवखेन्दुना १०९ । हृता घटीस्वरः शेषे तत्र स्यादन्तरो-
दयः । यमुर्दिश्य कृतः प्रश्नः फलं तस्य प्रजांयते । यत्र
नोद्दिश्यते किञ्चित् तत्र प्रष्टुः शुभाशुभम् । बालोदये
यदा पृच्छा लाभार्थे स्वल्पलाभदा । रुजार्थे चिररोगश्च गमे
हानिः क्षयो रणे । कुमारोदयवेलायां लाभोभवति पुष्क-
लः । रुजानाशोजयी युद्धे यात्रा सर्वत्र सिद्धिदा । युवोदये
लभेद्राज्यं क्लेशच्छेदश्च तत्क्षणात् । संग्रामे शत्रु हर्न्ता
च यात्रा च सफला भवेत् । दृद्धोदवे न लाभः स्यात्
क्लेशिनां क्लेशवर्द्धनम् । संग्रामे भङ्गमायाति यात्रायां
न निवर्त्तते । मृतोदये यदा दूतः पृच्छति स्वप्रयोजनम् ।
तत् सर्वं मृत्युदं ज्ञेयं युद्धे मृत्युश्च भङ्गदः ।
ओजस्वराः पुमांसः स्युः स्त्रियो युग्मस्वरान् विदुः । स्वस्व-
स्वरोदये जाते पुंसां स्त्रीणां बलं भवेत् । बलिनःस्युस्तदा
तेभ्यो बली स्वस्य स्वरोदये । गर्मार्थे पुंस्वरे पुत्रः । कन्या
कन्यास्वरोदये । युग्मे युग्मं, क्षयो नष्टे मातुर्म्मृत्युश्च
संक्रमे । द्युकाडीस्वरयोः पुंसोः पुंयुग्मं, स्त्रीयुगं
स्त्रियोः । तयोस्तु पुंस्त्रियोः पुंस्त्रोयुग्मं गर्भे विनि-
र्द्दिशेत् । तिथिनाडीस्वरे साम्ये पुंपुस्त्रीस्त्री पजायते ।
असाम्ये तिथिनाडीस्थे गर्भे साम्यं न विद्यते” ।
“तत्रजन्मनि विशेषः । “जन्मर्क्षे जन्मपादस्तद्वर्णे योऽक्षरजस्व-
रः । तेनाक्षरेण विज्ञेयःस्वमावः प्राणिनामिह । चपलः
कातरोमूर्खः कृपणश्चाऽजितेन्द्रियः । असत्यबहुभाषी च
जाते बालस्वरोदये । व्यवसायी कलाभिज्ञः स्त्रीरतः
सुमगः सदा । दीर्घायुर्विग्रही शूरः कुमारोदयसम्भवः ।
सर्वलक्षणसम्पूर्णोराजा भवांत धार्मिकः । सर्वकाल-
जयी युद्धे जातो युवोदये शुभः । स्त्रीजितो धामिकः
कामी विवेकी स्थिरसाहसः । सत्यवादी सदाचारः
पृष्ठ २८१३
पुमान् वृद्धोदयोद्भवः । क्लेशी समत्सरः क्रूरोनिःकामोवि-
कलेन्द्रियः । सर्वकार्य्यालसो दुष्टोजन्म यस्य मृतोदये”
जातस्य शुभाशुभनिर्णयः । “ककारादिदकारान्ताः पञ्च
ह्रस्वाः स्वरास्तथा । वलिनः स्युः सिते पक्षे शेषाः
सर्वे सितेतरे । एकस्वरः पृथक् वर्ण्णोयोधयोरुभयोर्य्यदि ।
तत्र पक्षबलं ग्राह्यं शुक्लकृष्णविभेदतः । एकपक्षाक्षरैरेक
स्वरश्चेद्योधयोर्द्वयोः । शुक्ले गौरः परः कृष्णे युद्धे जयति
निश्चितम् । यस्मिन्नेव स्वरे कृष्णो गौरोवा सुभटोयदि ।
स्वरासन्नाक्षरे ह्रस्वोदीर्घोदूराक्षरे जयी । प्रमाणनाम
वर्णैक्यं युद्धकारकयोर्यदि । तत्र युद्धे बलं देयं यायि-
स्थायिविभेदतः । योधयोः सर्वभेदैक्ये स्वरे यूनि कुमारके ।
यायी जयीं तथा स्थायी बालवृद्धान्तिमस्वरे । आद्यास्तिथे
स्त्रयोवर्णा द्वौ द्वौ शेषकयोर्मतौ । एवं तिथित्रये ज्ञेया
वर्णसंख्या तिथिस्वरे । वर्णतिथ्यादितिथ्याख्या जन्म-
हानिर्मृतिस्तथा । श्रीर्जन्म नीरुजा हानौ मृतौ
मृत्युर्न्न संशयः । यदुक्तं यामले तन्त्रेज्ञातं गुरुप्रसादतः ।
स्वराद्दिनफलं वक्ष्येपुंसां कर्मप्रकाशकम् । योगपिण्ड
र्क्षराश्याख्यान् जीवखेटाऽक्षरस्वरान् । उत्पाद्य नामत-
श्चाष्टौ मात्रान्तान् स्थापयेत् क्रमात् । तस्याधःस्थाल्लिखेच्चाष्टौ
द्वादशाव्दादिकालजान् । स्वभोगेन समायुक्तान् भोग
श्चैकाद्रशांशकः । यथोत्तरबलाः सर्वे तथा कालबलात्-
पुनः । कालोदयबलाश्चापि ज्ञातव्याः स्वरवेदिभिः ।
अकारादिस्वराधःस्था संख्याः वेदप्रमाणिकाः । विन्यस्य चक्र-
योगेण तेन विंशोपकामताः । योगात् द्वादशबर्षाःस्युरवस्था
पिण्डितोव्दके । भस्वरादयने ज्ञेया राशिस्वरादृतुस्व-
रे । जीवात् मासस्वरेऽवस्था ग्रहात्पक्षस्वरे तथा । वर्णा-
द्दिनस्वरे ज्ञेया मात्रास्वरात्घटीस्वरे । द्वादशाव्दादिकः
कालोयत्राऽकारादिकस्वरे । स्थितस्तत्र शुभो न स्यात्
पञ्चावस्थाशुभोऽपि च । स्वरौ दृद्धान्तिमौ दुष्टौ बालपूर्व-
दलं तथा । शेषं सार्द्धद्वयं भव्यमिति ज्ञेयं शुभाशुभम् ।
बालवृद्धान्तिमादुष्टाः, शुभौ युवकुमारकौ । उत्पाद्यौ
क्रमयोगेण योद्धुरङ्कौ शुभाशुभौ । यो यत्रं वर्त्तते कालो
द्वादशाव्दादिसम्भवः । अकारादिस्वरस्थाने योगादि
फलनिर्णयः । योगाद् द्वादशवर्ष च पिण्डाद्वर्षं च
सायनम् । भादृतुर्जीवतोमासं ग्रहात् पक्षोऽक्षरात्
दिनम् । योगादिस्वरयोगेण द्वादशाविदादिकः क्रमात् ।
यावदुत्पाद्यते राशिस्तावत् ज्ञेयं शुभाशुभम् ।”
(अङ्कयुग्माध्रिकत्वेन तद्दिने तस्य तत्फलम् । द्वादश-
बार्षिकाद्या ये स्वान्तरोदयसंस्थिताः । ते शुभाश्चैकतः
स्थाप्यास्त्वशुभास्त्वन्यतः पृथक् । वेदवेदाङ्गनेत्राणि
वेदसंख्या क्रमेण च । शुभाशुभस्वरूपस्य राशियुग्मस्य
मध्यतः । एकस्मात्पतिते शेषे ज्ञेयं तद्दिनजं फलम् ।
विंशत्या ताडिते शेषे चतुःषष्टिविभाजिते । लब्ध्या
विंशोपकास्तत्र शुभाशुभप्रकाशकाः । योगे स्वकर्म्मतः,
पिण्डे शरीराङ्गे सुहृज्जनात् । राशौ स्वकुलतो, जीवे
स्ववित्ताद्, ग्रहतो रिपोः । वर्णे स्वस्वामिनो ज्ञेयो,
मात्रायां स्त्रीजनात् फलम् । एवं ज्ञात्वा वदेद्विद्वान्दिने
फलशुभाशुभम्)” । ग्रन्थान्तरेऽधिकपाठः
  • १९ दिक्चक्रम्--“पूर्वस्मिन्नस्वरः स्वामी इस्वरो दक्षिणे
तथा । उस्वरः पश्चिमे ज्ञेयः एसौम्ये मध्य ओस्वरः ।
यस्यां दिश्युदयं याति स्वरस्तत्पञ्चमीं दिशम् ।
वर्जयेत् सर्वकर्य्येषु यात्राकाले विशेषतः । गच्छतः
पृच्छकस्याशु स्वरस्यास्तमितां दिशम् । हानिर्मृत्युभयं
रोगो जायते नात्र संशयः
  • २० देहजस्वरचक्रम्--“अथान्यत् संप्रवक्ष्यामि शरीरस्थं
स्वरोदयम् । हंसचारस्वरूपेण येन ज्ञानं त्रिकाल-
जम् । कुण्डलिनी महाशक्तिर्नाभिस्थाऽहिस्वरू-
पिणी । ततोदशोर्द्धगा नाड्योदश चाधोगतास्ततः । द्वे
द्वे बिर्य्यग्गते नाड्यौ चतुर्विंशतिसंख्यया । कुण्ड-
लिन्यां महाशक्तौ मूलमार्गे भवन्त्यमूः । ताम्यः सूक्ष्म-
मुखा नाड्यः शरीरस्यातिपोषिकाः । सप्त शतानि
जायन्ते सप्तोत्तराणि संख्यया । प्रधाना दश नाड्यस्तु
दशवायुप्रवाहिकाः । नामानि नाड़िकानाञ्च वातानाञ्च
वदाम्यहम् । इड़ा पिङ्गला सुषुम्णा गान्धारी
हस्तिजिह्विका । पूषा यशाऽलंबुषा च कुहूः शङ्खि-
निका तथा । प्राणोऽपानःसमानश्चोदानव्यानौ तथैव
च । नागः कूर्मः कृकरश्च देवदत्तो धनञ्जयः । प्रकटो
वायुसञ्चारो लक्ष्यते देहमध्यगः । पिङ्गलेड़ासुषुराणा-
भिर्न्नाडीभिस्तिसृभिर्बुधैः । (अष्टाङ्गुले वँहेद्वह्नि
रनिलश्चतुरङ्गुलः । दिवाकराङ्गुला पृथ्वी सलिलं
षोडशाङ्गुलम् । नीलवर्णो भवेद्व यूरक्तवर्णोहुताशनः ।
पीतवर्णस्तु माहेयः शुक्लवर्णस्तु वारुणः । चापाकारो
भवेद्वायुस्त्रिकोणो वह्निरुच्यते । चतुरस्रस्तु माहेयो
वर्त्तुलो वारुणःस्मृतः । कटुस्वादुर्भवेद्वायुस्तीक्ष्णस्वा-
दोऽनलोभवेत् । कषायकस्तु माहेयो मघुरो वारुणो-
मतः) अधिकपाठः । “इड़ानाडीस्थितश्चन्द्रः पिङ्गला
पृष्ठ २८१४
भानुवाहिनी । सुषुम्णा शम्भ रूपेण शम्भुर्हंसस्व-
रूपकः । हकारो निर्गमे प्रोक्तः सकारस्तु प्रवेशकः ।
हकारः शम्भुरूपेण सकारः शक्तिरुच्यते । शक्तिरूप-
स्थितश्चन्द्रो वामनाडीप्रवाहकः । दक्षनाडीप्रवाहे तु
शम्भुरूपी दिवाकरः । एकैकस्य कलाः पञ्च क्रमेणै-
वोदयन्ति ताः । पृथिव्यापस्तथा तेजो वायुराकाशमेव च ।
मध्ये पृथ्वी अधश्चाप ऊर्द्धे वहति चानलः । तिर्य्यग्वा-
युप्रवाहश्च नभोवहति संक्रमे । चलाहितं नभःप्रोक्तं
सर्ब्बशास्त्रेषु भाषितम् । अपां स्थाने स्थितं वस्तु
पृथिव्यामुत्तरं गतम् । तेजसा पूर्बगं वस्तु त्वाकाशे
दक्षिणं गतम् । त्रिंशद्दिनावघिः पृथ्वी सलिलं पक्ष-
संख्यकम् । एकविंशद्दिनं तेजोवायुः पञ्चदिनं स्मृतम् ।
वर्षसंज्ञं तु व्योम्नि स्यात् प्रश्नशास्त्रेषु सम्भतम् ।
दूतोक्तवर्णसंख्याङ्कोद्विगुणोभज्यते त्रिभिः । यद्येकं
द्वितयं श्रेष्ठं तृतीये मरणं भवेत् । लग्नं तिथिसमा-
युक्तं सनक्षत्रं त्रयान्वितम् । पञ्चभिस्तु हरेद्भागं शेषाङ्के
तत्त्वमुच्यते । पृथ्व्यापौ चोत्तमौ प्रोक्तौ तैजसे सर्वसि-
द्धयः । वायौ च निष्फलं ज्ञेयमाकाशे मरणं ध्रुवम् ।
पृथ्व्याद्येकैकतत्त्वस्याप्येकैकघटिकोदयः । अहोरात्रस्य
मध्ये स्यात्तेन द्वादशसङ्क्रमाः । आदौ चन्द्रः सिते पक्षे
भास्करस्तु सितेतरे । प्रतिपदादिदिनान्येवं त्रीणि त्रीणि
कृतोदयौ । चन्द्रोदये यदा सूर्यश्चन्द्रः सूर्योदये यदा । अशुभं
हानिरुद्वेगः शुभं सर्वं निजोदये । शशाङ्कं चारयेद्रात्रौ
दिवा चार्य्यो दिवाकरः । इत्यभ्यासरतोनित्यं स योगी नात्र
संशयः । यात्रादाने विवाहे च वस्त्रालङ्कारभूषणे ।
शुभकर्मणि सन्धौ च प्रवेशे च शशी शुभः । विग्रहे द्यूतयुद्धेषु
स्नानभोजनमैथुने । व्यवहारे भये भङ्गे मानुनाड़ी
प्रशस्यते । दूरयुद्धे जयी चन्द्रः समासन्ने दिवाकरः ।
वहन्नाडीपदेनैव कृता यात्राऽतिसिद्धिदा । पृथ्वीजले शुमे
तत्त्वे तेजो मिश्रफलोदयम् । हानिमृत्युकरौ पुंलामुभयौ
व्योममारुतौ । योद्धृद्वयकृते प्रश्ने पूर्णे च प्रथमोजयी ।
रिक्तसंस्थे द्वितीयस्तु जयी भवति नान्यथा । युद्धकाले
यदा चन्द्रः स्थायी जयति निश्चितम । यदा सूर्य्यप्रवाहश्च
याया च विजयी तदा । पार्थिवे सक्षतं युद्धं सन्धिर्भवति
वारुण । विजयोवह्नितत्त्वेन वायौ भङ्गो मृतिस्तु खे ।
पूर्णनाडीगते पृष्ठे शून्यमग्रे तदग्रतः । शून्यस्थाने कृते
शत्रुर्म्रियते नात्र संशयः । पूर्व्वोत्तरदिशोश्चन्द्रे भानौ
पश्चिमयाम्ययोः । स्थितस्तत्र जयी युद्धे स्थायी यायी
क्रमेण च । वामनाड्युदये चन्द्रः कर्त्तव्योवामसंमुखः ।
सूर्य्यवाहे तथा सूर्य्यः पृष्ठदक्षिणयोर्जयी । शयने वा
प्रसङ्गे वा युवत्यालिङ्गनेऽपि वा । यः सूर्य्येण पिवे-
च्चन्द्रं स भवेन्मकरध्वजः । जीबेन गृह्यते जीवो जीवो
जीवस्व दीयते । जीवस्थानगतो जीवोबाला जीवान्तवश्य
गा । रात्रित्रियामवेलायां प्रसुप्ते कामिनीजने ।
ब्रह्मजीवं पिबेद्यस्तु बालाजीवहरोनरः । अष्टाक्षरं
जपित्वा तु तस्मिन् क्षणे रते सति । तत्क्षणे दीयते
चन्द्रोमोहमायाति कामिनी । शिव आलिङ्ग्यते शक्त्या
प्रसङ्गे यत्क्षणेन तु । तत्क्षणे पाययेच्चन्द्रं मोहमायाति
कामिनी । चन्द्रचारी विषं हन्ति सूर्य्यो बालां वशं
नयेत् । सुषुम्णायां भवेन्मोक्ष एकोदेवस्त्रिधा स्थितः ।
भुक्तमात्रे च मन्दाग्नौ स्त्रीणां वश्यार्थकर्मणि ।
शयनं सूर्य्यवाहेन कर्त्तव्यं सर्वदा बुधैः । श्रान्ते शोके
विषार्त्ते च ज्वरिते मूर्छितेऽपि च । सज्जनस्यापि
वोधार्थे चन्द्रचारं प्रवाहयेत् । ऊर्द्धं वामाग्रतो दूतो-
ज्ञेयोवामपथोदये । पृष्ठे दक्षे तथाऽधस्तात् सूर्य्य-
वाहगमोमतः । पूर्णनाडीगतो दूतो यत् पृच्छति शुभा-
शुभम् । तत् सर्व्वं सिद्धिदं ज्ञेयं शून्ये शून्यं न संशयः ।
पृथिव्यादिद्वितत्त्वेन दिनमासाव्दके फलम् । शोभनञ्च
तथा दुष्टं व्योममारुतवह्निमिः । श्वासप्रवेशकाले तु दूतो-
वाञ्छति जल्पितुम् । सर्वतः सिद्धिमायाति निर्गमे नास्ति-
सुन्दरम् । सूर्य्ये च विषभान् वर्णान् समवर्णान् निशा-
करे । वाहस्थो भाषते दूतस्तदा लाभोऽन्यथा न हि ।
गर्भप्रश्ने यदा दूतः पूर्णे पुत्रः प्रजायते । शून्ये कन्या-
युगे युग्मं गर्भपातश्च संक्रमे । मारणं मोहनं स्तम्भं
विद्वेषोच्चटनं वशम् । प्रेरणाकर्षणं क्षोभं भानुनाड्युदये
कुरु । शान्तिकं पौष्टिकं क्षेमं दिव्योषधिरसायनम् ।
योमाभ्यासादिकर्माणि कर्त्तव्यानि निशाकरे । चन्द्र-
सूर्य्यस्वराभ्यासं ये कुर्वन्ति सदा नराः । अतीताना-
गतज्ञानं तेषां हस्तगतं सदा”
इति स्वरोदये स्वरचक्रनिर्णायकं प्रथमाङ्गम् ।
सर्वचक्रोपयोगि बालादिचक्रं ज्यो० त० दर्शितं यथा
“ऋवर्णञ्च ॡवर्णञ्च त्यक्त्वा कोष्ठेषु पञ्चसु । अकाराद्याः
स्वरा लेख्या एकैकस्मिन् द्विकं द्विकम् । कादिहान्तान्
लिखेद्वर्णान् स्वराघोङञणोज्झितान् । तिर्य्यक्पङ्क्ति-
क्रमेणैव पञ्चत्रिंशत्प्रकोष्ठके । अकारादिक्रमात् न्यस्य
नम्दादितिथिपञ्चकम् । अर्ककुजौ विधुज्ञौच गुरुः शुक्रः
पृष्ठ २८१५
शनिस्तथा । वाराः कोष्ठेष्वधो लेख्या अस्वरे सप्त भानि च ।
पञ्च पञ्च इकारादौ रेवत्यादिक्रमेण च । प्रसुप्तो बुध्यते
येन येनागच्छति शब्दितः । तस्य नाम्नस्त्वादिवर्णोयत्र
तिष्ठेन्नरस्य च । तस्माद्बालः कुमारश्च युवा वृद्धोमृतिः
क्रमात् । किञ्चिल्लाभकरोबालः कुमारस्त्वर्द्धलाभदः ।
सर्व्वसिद्धिं युवा धत्ते वृद्धे हानिर्मृते क्षयः । यदि
नाम्नि भवेद्वर्णः संयुक्ताक्षरलक्षणः । ग्राह्यस्तस्यादिमोवर्ण
इत्युक्तं व्रह्मयामले । तिथिवारर्क्षभेदेन प्रत्येकं
बलमादितः । नामवर्णादितो ज्ञेयं फलं पुंसां दिने दिने ।
तिथ्यादिमेलनवशात् फलं ज्ञेयं शुभाशुभम् । युव
त्रये शुभं पूर्णं अशुभञ्च मृतित्रये । अन्यत्राप्येवमह्यं
स्यात् शङ्क्रेण शुभाशुभम् ।”
बालादेरेव नामान्तराणि क्रमेण जन्मकर्म्माधानपिण्डच्छि-
द्राणि पञ्चस्वराग्रन्थे उक्तानि तत्र च तिथिसख्या-
भेदेनाङ्गभेदाश्चोक्ताः । ८१ । ८७ । ९३ । ९९ । १०५ ।
द्वितीयमङ्गं ८४ चक्रात्मक स्वरोदये उक्तं तेषां
नामोद्देशः अङ्गशब्दे ७३ पृ० दर्शितः तत्रादौ एकाशीतिपदं
  • १ सर्व्वतोभद्रचक्रम्--“अथातः संप्रवक्ष्यामि चक्रं त्रैलो-
क्यदीपनम् । विख्यातं सर्व्वतोभद्रं सदाप्रत्ययकार-
कम् । ऊर्द्धगा दश विन्यस्य तिर्य्यग्रेखास्तथा दश ।
एकाशीतिपदं चक्रं जायते नात्र संशयः । अकारादि-
स्वराः कोष्ठेष्वीशादौ विदिशि क्रमात् । सृष्टिमार्गेण
दातव्याः षोड़शैव चतुर्भ्रमम् । कृत्तिकादीनि धिष्ण्यानि
पूर्व्वाशादौलिखेत्ततः । सप्त सप्त क्रमेणैव अष्टाविंशति-
संख्यया । अवकहडा दिशि प्राच्यां मटपरता दक्षिणे
देयाः । नयभजखाश्च वारुण्यां गशदचलाश्चोत्तरस्यां स्युः ।
त्रयस्त्रयोवृषाद्यास्तु पूर्वादिक्रमतोबुधैः । राशयो द्वादश-
स्थाप्या मेषान्ता दक्षमार्गतः । शेषेषु कोष्ठकेष्वेवं नन्दा-
दितिथिपञ्चकम् । वाराणां सप्तकं लेख्यं भौमाद्यं तत्ति-
थिक्रमात् । भौमादित्यौ तु नन्दायां भद्रायां सोमसोम-
जौ । जयायां देवपूज्यञ्च रिक्तायां भृगुजं लिखेत् ।
पूर्णायाञ्च शनिः प्रोक्तो ग्रहवेधं विलोकयेत् । शन्यर्क-
राहुकेत्वाराः क्रूरा शेषाः शुभाग्रहाः । क्रूरयुक्तो
बुघः क्रूरः क्षीणचन्द्रस्तथैव च । इत्येष सर्वतोभद्र-
प्रस्तावः कथितोमया । यस्मिन्नृक्षे स्थितः खेटस्ततो-
वेधत्रयं भवेत् । ग्रहदृष्टिवशेनात्र वामदक्षिणसंमुखे ।
भुक्तं भोग्य तथाक्रान्तं विद्धं क्रूरग्रहेण भम् । शुभा-
शुभेषुं कार्य्येषु वर्जनीयं प्रयत्नतः । वक्रगे दक्षिणा
दृष्टिर्वामा दृष्टिश्च शीघ्रगे । संमुखी मध्यचारे च ज्ञेया
भौमादिपञ्चके । सूर्य्ययुक्ता ग्रहाः शीघ्रास्तथा चार्के
द्वितीयगे । समास्तृयीयगे ज्ञेया मन्दा भानौ चतुर्थगे ।
वक्राः स्युः पञ्चषष्ठेऽर्के त्वतिवक्रा नगाष्टगे । नवमे
दशमे भानौ जायते सहजा गतिः । द्वादशै-
कादशे सूर्य्ये लभन्ते शीघ्रतां पुनः । रविस्थित्यंश-
कत्रिंशाबधेः संख्याऽत्र कल्प्यते । न तु राश्यन्तर-
स्पर्शात् द्वितीयादिनिरूपणम् । राहुकेतू सदा वक्रौ
शीघ्रगौ चन्द्रभास्करौ । गतेरेकस्वभावत्वादेषां दृष्टि-
त्रयं सदा । क्रूरा वक्रा महाक्रूराः सौम्या वक्रा
महाशुभाः । स्युः सहजाः स्वभावस्थाः सौम्याः क्रूराश्च
शीघ्रगाः । ऋक्षसन्धिगताः खेटा राशिसन्धिगता-
स्तथा । एष्यराशेः फलं दद्युर्वक्रे तु विपरीतगम् ।
घङछाः षणठाश्चैव घफटस्थझञास्तथा । एतत्त्रिकं
त्रिकं विद्धं विद्धैः कपभदैः क्रमात् । घङछा रौद्रगे
वेधे षणठाहस्तगे ग्रहे । धफढाःपूर्ब्बाषाढ़ायां थझञा
भाद्र उत्तरे । बवौ शसौ खषौ चैव जयौ णनौ
परस्परम् । एकेन हि द्वयं विद्धं शुभाशुभग्रहव्यधे ।
अवर्णादिस्वरद्वन्द्वे त्वेकवेधात् द्वयोर्व्यधः । युग्मवर्णामके
वेधे अनुस्वारविसर्गयोः” । (अकारादियुग्मवर्णात्मकवेध-
वदनुस्वारविसर्गयोरेकवेधादुभयवेधैत्यर्थः) । “कोणस्थ-
धिष्ण्ययीर्मध्ये अन्त्यादिपादगे ग्रहे । अकारादिचतुष्के
तु वेधः पूर्णतिथौ तथा । एकादिक्रूरवेधेन फलं पुंसां
प्रजायते । उद्वेगश्च भयं हानिर्व्याधिर्मृत्युः क्रमेण च ।
ऋक्षे भ्रमोऽक्षरे हानिः स्वरे व्याधिर्भयं तिथौ । राशौ
विद्धे महाविघ्नः पञ्चविद्धोन जीवति । एकवेधे भयं
युद्धे युग्मवेधे धनक्षयः । त्रिवेधे तु भवेद्भङ्गो मृत्युर्वेधे
चतुर्ग्रहैः” । (दृष्टित्रये उदाहरणम् “भरण्यकार-
वृषभं नन्दां भद्रां तुलाञ्च तम् । विशांखां हरिभं
विध्येद्ग्रह आग्नेयसंस्थितः । उदाहरणान्तरम्
“वं युग्ममौस्वरं कन्यां रफं स्वातीमुकारकम् । अश्विनीं
रोहिणीसथोऽभिजिद्भमेवं परेष्वपि) जात्या दुष्टफलाः
क्रूरास्तथा सौम्याः शुभप्रदाः । क्रूरयुक्ताःपुनः सौम्या-
ज्ञेयाः क्रूरफलप्रदाः । अर्कवेधे मनस्तापोद्रव्यहानिश्च
भूसुते । रोगपीड़ाकरः सोरीराहुकेतू च बिघ्नदौ । चन्द्रे
मिश्रफलं पुंसां रतिलाभश्च भार्गवे । बुधवेधे भवेत्
प्रज्ञा जीवः सर्व्वशुभप्रदः । स्वक्षेत्रस्थे बलं पूर्णं पादोनं
मित्रभे ग्रहे । अर्द्धं समगृहे प्रोक्तं पादं शत्रुगृहे
पृष्ठ २८१६
स्थिते । इदञ्च सौम्यक्रूराणां बलं स्थानवशात् समम् ।
एतदेव फलं बिद्धि सौम्ये क्रूरे विपर्य्ययात् । स्थान-
वेधसमायोगात् यत्संख्यं जायते बलम् । तत्संख्यं
वेध्यवस्तूनां फलं ज्ञेयं शुभाशुभम् । ग्रहाः सौम्या-
स्तथा क्रूराः वक्राः शीघ्रोच्चनीचगाः । स्थानञ्च वेध्य-
मित्येवं बलं ज्ञात्वा फलं वदेत् । वक्रग्रहे फलं द्विघ्नं
त्रिगुणं स्वोच्चसंस्थिते । स्वभावजं फलं शीघ्रे नीचस्थेऽर्द्ध्व-
फलोग्रहः । तिथिराश्यंशनक्षत्रं विद्धं क्रूरग्रहेण
यत् । सर्व्वेषु शुभकार्य्येषु वर्ज्जयेत्तत् प्रयत्नतः । न
नन्दति विवाहे च यात्रायां न निवर्त्तते । न रोगात्-
मुच्यते रोगी वेधबेलाकृतोद्यमः । रोगकाले भवेद्वेधः
क्रूरखेचरसम्भवः । वक्रगत्या, भवेन्मुत्युः शीघ्रे चाप्य-
रुजान्वितः । बेधस्थाने रणे भङ्गो दुर्गे खण्डिः
(भङ्गः) प्रजायते । कविप्रवेशनं तत्र योधा-
थातश्च तत्र वै” । (कविश्चौरयोद्धा) । “यत्र पूर्व्वादि-
काष्ठायां वृषराश्यादिगो रविः । सा दिगस्तमिता
ज्ञेया शेषास्तिस्रः सदोदिताः । ईशानस्थाः स्वराः
प्राच्यां ज्ञेया आग्नेयगा यमे । नेरृतस्थाश्च
वारुण्यां, वायव्यां सोम्यगा मताः । नक्षत्राणि
स्वरा वर्णा राशयस्तिथयोदिशः । ते सर्व्वेऽस्तमिता
ज्ञेया यत्र भानुस्त्रिमासिकः । नक्षत्रेऽस्ते रुजा,
बर्णे हानिः, शोकः स्वरेऽस्तगे । राशौ विघ्न, स्तिथौ
भीतिः, प्रञ्चास्ते मरणं भवेत् । यात्रा युद्धं विवादश्च
द्वार प्रासादहर्म्म्ययोः । न कर्त्तव्यं शुभं चान्यदस्ता-
शाभिमुखं नरैः । अस्ताशायां स्थितं यस्य नाम्नः प्रथम-
मक्षरम् । स आर्त्तः सर्व्वकार्येषु ज्ञेयो दैवहतो नरः ।
अरौ कोटे तथा युद्धे चातुरङ्गे महाबले । त्यजेदस्तं-
गतान् योद्धा यदोच्छेद्विजयं रणे । नक्षत्रेऽभ्युदिते पुष्टि,
र्वर्णे लाभः, स्वरे सुखम् । राशौ जय, स्तिथौ तेजः
पदाप्तिः पञ्चकोदये । प्रश्नकाले भवेद्विद्धं यल्लग्नं क्रूर-
खेंचरैः । तद्दुष्टं, शोभनं सोम्यै, र्मिश्रैर्मिश्रफलं भवेत् ।
ग्रहैर्न विद्धं यल्लग्नं फलं लग्नस्वभावतः । ज्ञातव्यं
देशिकेन्द्रेण भाषितं यच्चरादिकम् । (शीर्षोदये सौम्यवि-
लग्नवर्गे लग्नेऽपि वा सौम्ययुते शुभं स्यात् । अतोऽन्यथा-
त्वे तुतदन्यथात्वं, मिश्रं विमिश्रैरधिकं वलाढ्यैः । केन्द्रोप-
गानवमपञ्चमगाश्च सौम्याः केन्द्राष्टवर्जमशुभास्त्रिषडाय-
संस्थाः । सर्ब्बार्थसाधनकराः परिपृच्छतां स्युरेभिर्ब्बिप-
र्य्ययगतैस्तु विपर्य्ययः स्यात् । लग्नाधिनाथोयदि केन्द्रगः
स्यात् तन्मित्रमेतस्य च केन्द्रगंवा । व्ययाष्टकेन्द्राण्यपहाय
पापा अन्थत्र याता यदि तच्छुभं स्यात् । आद्योलग्ना-
धिपः कार्ये लग्ने कार्य्याधिपोयदि । लग्नपः कार्य्यप-
श्चापि लग्ने यदि तृतीयकः । चतुर्थः कार्य्यगौ स्यातां
यदि लग्नपकार्य्यपौ । कार्य्यसिद्धिस्तदा ज्ञेया मित्रञ्चे-
दधिकं फलम् । एवं दृष्टिवशाज्ज्ञेयं फलं तद्वच्चतुष्टयम् ।
पूर्णनाड़ीस्थितो दूतोयत् पृच्छति शुभाशुभम् । तत् सर्व्वं
सिद्धिमाप्नोति शून्ये शून्यं समोरणे । आदौ शून्यगतः
पृच्छेत् पश्चात् पूर्णां विशेद् यदि । तदा सर्व्वार्थसिद्धिः
स्यात् वामे वामं न संशयः । श्वासप्रवेशकाले चेद् दूतो-
जल्पति वाञ्छितम् । तस्यार्थसिद्धिमाप्नोति निर्गमे नास्ति
सुन्दरम् । ऊर्द्ध्ववामाग्रतोदूतोज्ञेयो वामपथस्थितः । पृष्ठे
दक्षे तथाधस्ताद्दक्षवाहौ गतोमतः । यात्रादानविवाहेषु
वस्त्रालङ्कारभूषणे । शुभे कर्मणि सन्धौ च प्रवेशे वामगः
शुभः । कलह द्यूतयुद्धेषु स्नानभोजनमैथुने । व्यवहारे
भये भङ्गे दक्षनाड़ी प्रशस्यतो) । अन्यप्रकरणोक्त
मेतत् ज्यो० त० प्रक्षिप्तम् । “क्रूरैरुभयतोविद्धा यस्या-
क्षरतिथिस्वराः । राशिधिष्ण्यञ्च पञ्चापि तस्य मृत्युर्न
संशयः । मण्डलं नगरं ग्रामोदुर्गं देवालयं पुरम् ।
क्रूरैरुभयतोवेधे विनश्यन्ति न संशयः । कृत्तिकायां
तथा पुष्ये रेवत्याञ्च पुनर्ब्बसौ । वेधे सति क्रमाद्वेधो-
वर्णेषु ब्राह्मणादिषु । पूर्ब्बात्रयं तथाग्नेयं व्राह्मणानां
प्रकीर्त्तितम् । उत्तरात्रितयं पुष्यं क्षत्रियाणां विनिर्द्दि-
शेत् । पौष्णं मैत्रंमघा चैव प्राजापत्यं विशाम्पतेः ।
आदित्यमश्विनीं हस्तं शूद्राणामभिजित्तथा । विद्धै-
रेभिर्द्विजातीनां कारुकाणां च शेषके । तौल्यं भाण्डं
रसोधान्यं गजाश्वादिचतुष्पदाः । सर्व्वं महार्घतां
याति यावत् क्रूरोव्यधे स्थितः । क्रूरवेधसमायोगे
यस्योपग्रहसम्भबः । तस्य मृत्युर्न सन्देहारोगाद्वापि
रणेऽपि वा । सूर्य्यभात् पञ्चमं धिष्ण्यं ज्ञेयं विद्यु-
न्मुखाभिधम् । शून्यञ्चाष्टमभं प्रोक्तं सन्निपातश्चचतुर्द्द-
शम् । केतुरष्टादशं प्रोक्तमुल्का स्यादेकविंशतिः । द्वाबिं-
वतितमं कम्पस्त्रयोविंशञ्च वज्रकम् । निर्घातश्च
चतुर्विंशमुक्ता अष्टावुपग्रहाः । प्रस्थाने विघ्नदाः प्रोक्ताः
सर्व्वकार्य्येषु सर्ब्बदा । प्रसङ्गादत्र
  • १ षड्नाडीचक्रं नबनाडीचक्रञ्चोक्तं यथा “जन्मभं कर्म्म
आधानं विनाशः सामुदायिकम् । सांघातिकमिदं धिष्ण्यं
षट्कं सार्वजनीनकम् । जातिदेशाभिषेकैश्च नुव धिष्ण्यानि
पृष्ठ २८१७
भूपतेः । वेधं ज्ञात्वांफलं ब्रूहि सौम्यैः क्रूरैः शुभा-
शुभम् । जन्मभं जन्मनक्षत्रं दशमं कर्म्मसंज्ञकम् ।
एकोनविंशमाधानं त्रयोविंशं विनाशकम् । अष्टादशञ्च नक्षत्रं
साभुदायिकसंज्ञकम् । सांघातिकञ्च विज्ञेयं धिष्ण्यं
षोड़शमेव हि । षट्त्रिकञ्च ९ राजजातेर्जातिनाम
स्वनामभम् । देशभं देशनामर्क्षं राज्यभं चाभिषेकभम् ।
मृत्युः स्याज्जन्मभे विद्धे कर्म्मभे क्लेश एव च ।
आधानर्क्षे प्रवासः स्यात् विनाशे बन्धुविग्रहः । सामुदा-
यिकभे रिष्टं हानिः सांघातिके तथा । जातिभे
कुलनाशः स्यात् बन्धनञ्चाभिषेकभे । देशर्क्षे देशभङ्गः स्यात्
क्रूरैरेवं शुभैः शुभम् । उपग्रहसमायोगे मृत्युर्भवति
नान्यथा । भयं भङ्गश्च घातश्च मृत्युर्भङ्गयुता मृतिः ।
क्रूरैरेकादिपञ्चान्तैर्युधि वेधे फलं मवेत् । तिथिं
धिष्ण्यं स्वरं राशिं वारञ्चैव तु पञ्चमम् । यद्दिने
वेधयेच्चन्द्रस्तद्दिने स्यात् शुभाशुभम् । तिथ्यादिपञ्चके
विद्धे चन्द्रयोगोयदा भवेत् । उक्तं फलं तदा वाच्यं
तद्दिने ग्रहसम्भवम् ।
अथार्घं संप्रवक्ष्यामि यदुक्त चादिजामले । एकाशीति
पदे चक्रे ग्रहभेदाच्छुभाशुभम् । देशः कालस्ततः पण्य-
मिति त्रीण्यर्घनिर्णये । चिन्तनीयानि विद्धानि सर्व-
कालं विचक्षणैः । देशोऽथ मण्डलं स्थानमिति देशस्त्रि-
धोच्यते । वर्षमासदिनं चेति त्रिधा कालोऽषि कथ्यते ।
धातुर्मूलं च जीषश्च इति पण्यं त्रिधा मतम् । अथ त्रिक
त्रयस्यास्य बक्ष्यामि खामिखेचरान् । देशेशा राहु-
मन्देज्या मण्डलस्वामिनः पुनः । केतुसूर्य्यसिताः स्थान-
नाथाश्चन्द्रारचन्द्रजाः । वर्षेशा राहुकेत्वार्क्किजीवा मासा-
घिपाः पुनः । भौमार्कज्ञसिता ज्ञेयाश्चन्द्रः स्यात् दिवसाधिपः ।
धात्वीशाः सौरिपातारा, जीवेशाज्ञेन्दुसूरयः । मूलेशाः
केतुशुक्रार्का इति पण्याधिपाग्रहाः । पुग्रहा राहुकेत्वर्क
जीवभूमिसुता मताः । स्त्रीग्रहौ शुक्रशशिनौ सौरिसौ
म्यौ नपु सकौ । सितेन्दू सितवर्णेशौ रक्तेशौ भौम
भास्करौ । पीतेशौ ज्ञगुरू कृष्णनाथाः केतुतमोऽर्क्कजाः ।
ग्रहोवक्रोच्चयोर्यः स्यादुदये च बलाधिकः । देशादीनां
स एवैकः स्वामी खेटस्तदा मतः । स्वगृहे वक्रतुङ्गे स्या-
दुदये च बलाधिकः । वक्रोदये स्वहर्म्ये च पूर्णवीर्य्यो-
ग्रहो भवेत् । तदग्रपृष्ठगे खेटे बलं त्रैराशिकात्
मतम् । उच्चांशस्थे बलं पूर्णं नीचांशस्थे दलं वलम् ।
त्रैराशिकवशात्ज्ञेयमन्तरे तु बलं बुधैः । एवं देशा-
दिनाथा ये ग्रहवेधे व्यवस्थिताः । सुहृदः शत्रवोम-
ध्याश्चिन्तनीयाः प्रयत्नतः । स्वमित्रसमशत्रूणां विध्यन्
देशादिकं क्रमात् । शुभग्रहः शुभं दत्ते चतुस्त्रिद्व्ये-
कपादकैः । दुष्टं दुष्टग्रहः कुर्य्यादेकद्वित्रिचतुःपदैः ।
विद्धं पूर्णदृशा पश्यन् तत्पादेन फलं ग्रहः । अविद्धं
त्वन्यथां ज्ञेयं फलं दृष्ट्यनुमानतः । वर्णादिस्वरराशीनां
मेषाद्ये राशिमण्डले । ग्रहदृष्टिवशात् सर्वं बिद्धं वर्णादिकं
मतम् । स्वरवर्णः स्वचक्रोक्तस्तिथिवेधाच्च पीडयेत् ।
तिथिवर्णेषु यो राशिस्तद्दृष्टिः स्यात्तिथीक्षणात् । अशुभो
वा शुभोवापि शुक्ले विध्यँस्तिथिं ग्रहः । सर्वं
निजफलं दत्ते कृष्णे पक्षे तु तद्दलम् । खेटकेकैकाशके
ज्ञेया पूर्णा दृष्टिः सदा बुधैः । दृष्टिहीने पुनर्वेधे न
स्यात् किञ्चित् शुभाशुभम् । इत्येवं दृष्टिभेदेन निर्द्दिष्टं
सकलं फलम् । वर्णादिपञ्चके विद्धे ग्रहो दत्ते शुभा-
शुभम् । सौम्यः पूर्णदृशा पश्यन् विद्धं वर्णादिपञ्च-
कम् । फलं विंशोपकाः पञ्च क्रूरस्य चतुरोदिशेत् ।
वर्णादिपञ्चके यावत् स्थानवेधे च तावती । ष्टिस्तदनु-
मानेन वाच्या विंशोपका बुधैः । एव विंशोपका येऽत्र
सम्भवन्ति शुभाशुभाः । अन्योन्यं शोधयेत्तेषां शेषात् ज्ञेयं
शुभाशुभम् । देशध्वंसः प्रजापीडा नृपविप्रबघस्तथा ।
यत्र दृष्टिस्तु तत्र स्याद् दुर्भिक्षंमण्डले तथा । वर्त्तमानार्घ
विंशांशाः कल्प्या विंशोपका इह । ते क्रमात् वर्त्तमा-
नार्घे देयाः पात्याः शुभाशुभाः । अकालेऽपि फलं
पुष्पं वृक्षाणां यत्र जायते । स्वजातिमासभुक्तिश्च
दुर्भिक्षं तत्र रौरवम् । परचक्रागमोयत्र विग्रहश्च
स्वराज्यके । ऋतोर्विपर्य्ययो यत्र दुर्भिक्षं मण्डले
भवेत् । भूमिकम्पोरजःपातोरक्तवृष्टिश्च जायते । देशे
सर्वसुखोपेते वेधादेतद्वदेत्बुधः । दीपो यथा गृहस्या-
न्तमुद्द्योयति सर्वतः । तथेदं सर्वतोभद्र चक्रं ज्ञान-
प्रकाशकम्” ।
  • २ शतपदचक्रम्--“चक्रं शतपदं बक्ष्ये ऋक्षांशाक्षरसम्भ-
वम् । नामादिवर्णतोज्ञेवां ऋक्षराश्यंशकास्तथा । तिर्य्य-
गूर्द्धगता रेखा रुद्रसंख्यालिखेद्बुधः । जायते कोष्ठ-
कानाञ्च शतैकं १०० नात्र संशयः । न्यस्येदवकह-
डादि रौद्रादिविदिशि क्रमात् । (अ वकह ड़ा ऐशान्यां
म ट प र ता हरिति चाग्नेय्याम । न य भ०
ज खा नैरृत्यां ग श द च लावायव्याम्) पञ्च पञ्च
क्रमेणैव विंशवर्णान् नियोजयेत् । पञ्चस्वरसमायोगे
पृष्ठ २८१८
एकैकं पञ्चधा कुरु । (अवर्णाद्यास्त्रयोज्ञेयाः सन्ध्यक्षर
युतस्तथा । सजातीयैक्यमास्थाय पञ्चस्वरविनिर्णयः ।
ऋदॢतोरप्यकारेण शेन सस्य परिग्रहः) अधिक पा० ।
“कुर्य्यात् कुपुभुदुस्थाने त्रीणि त्रीण्यक्षराणि च । कुघङछो
भवेत् स्तम्भे रौद्रे त्वीशानगोचरे । पुषणठो भवेत् स्तम्भे
ह्रस्ते चाग्नेयसंज्ञके । भुधफढोभवेत् स्तम्भे पूर्वाषाढ़े च
नैरृते । दुथझङो भवेत् स्तम्भे वायव्ये भाद्रौत्तरे ।
एवं स्त्रम्भचतुष्कञ्च ज्ञातव्यं स्वरवेदिभिः । धिष्ण्यानि
कृत्तिकादीनि प्रत्येकं चतुरक्षरैः । साभिजिन्त्यंशका-
स्तत्र शतैकं द्वादशाधिकम् । यदृक्षांशककोष्ठस्थः क्रूरः
सौम्योऽपि वा ग्रहः । ततस्तं वेधयेत् तिर्यक् पुंसोनामा-
दिमाक्षरम् । सौम्यैर्विद्धं शुभं ज्ञेयमशुभं पापखेचरैः ।
मिश्रैर्मिश्रफलं तत्र निर्वेधे न शुभाशुभम् । यदुक्तं
सर्वतोभद्रे ग्रहोपग्रहवेधतः । शुभाशुभफलं सर्वं
तदिहापि विचिन्तयेत्” । (पञ्च स्वराः अ इ उ ए ओकारास्तै-
र्योगे धिष्ण्यानि नक्षत्राणि । अ त्र चतुभिर्वर्णैरेकं नक्षत्रं
यथा । अ इ उए ३ । ओ वविवु । ४ । वेवोककि । ५ ।
कुघङछ । ६ । केकोहहि । ७ । हुहेहोड । ८ ।
डिडुडेडो । ९ । ममिमुमे । १० । मोटटिटु । ११ टेटो-
पपि । १२ । पुषणठ १३ । पेपोररि । १४ । रुरे-
रोत । १५ । तितुतेतो । १६ । ननिनुने । १७ ।
नोययियु । १८ । येयोभभि । १९ । भुधफढ । २० । भेभो-
जजि । २१ । जुजेजोख । (अभिजित्) ० । खिखुखे-
खो । २२ । गगिगुगे । २३ । गोशशिशु । २४ ।
शेशोददि । २५ । दुथझञ । २६ । देदोचचि । २७ ।
चुचेचोल । १ । लिलुलेलो । २ । ऋऌयुक्तः अकार-
युक्तेन ज्ञेयः । ह्रस्वेन दीर्घोज्ञेयः । तालव्यशकारेण
दन्त्यसकारोज्ञेयः) ।
  • ३ अंशचक्रम्--“अष्टाविंशोर्द्धगा रेखा अष्टाविंशतितिर्य्यग-
गाः । अंशचक्रं भवत्येवं यदुक्तं चादिजामले । कृत्तिकादीनि
भ्रान्यत्र पादाक्षरक्रमेण च । साभिजिन्ति न्यसेत् सर्वा-
ण्यष्टाविंशतिसंख्यया । यो ग्रहो यत्र ऋक्षांशेतं तत्रैव
न्यसेद्बुधः । वेधयेत् संमुखं वर्णं शुभो वाप्यशुभीऽपि वा ।
आद्यंशेन चूतुर्थांशं चतुर्थांशेन चादिमम् । द्वितीयेन
तृतीयं तु तृतीयेन द्वितीयकम् । यस्य नामाक्षरं
विद्ध्वमंशचक्रे ग्रहेण तु । क्रूरैः रिष्टं, शुभैर्हानिर्द्व्या-
द्यैर्म्मृत्युर्न संशयः । क्रूरोभयस्थिते वेधे मृत्युर्विघ्नं
शुमाशुमैः । शुभोभयगते वेधे व्याधिषीड़ा च बन्ध-
नम् । बैधव्यञ्च विवाहे तु यात्राकाले महाभयम् ।
रोगे मृत्यूरणे भङ्गः क्रूरवेधे न संशयः । अद्रयः
सागरानद्यो देशग्रामपुराणि च । क्रूरवेधे विनश्यन्ति
नात्र कार्य्या विचारणा । चन्द्रस्यर्क्षांशको विद्धो भवेद्यत्रा-
परग्रहैः । तन्मानं तद्दिनं वर्ज्यं सर्वदा शुभकर्मणि”
  • ४ छत्रत्रयचक्रम्--आदौ चक्रं समालिख्य छत्रत्रयसुशोमि-
तम् । अश्विन्यादीनि लेख्यानि सप्तविंशतिभानि च । अश्वि-
न्याद्यं मघाद्यञ्च मूलाद्यञ्च क्रमेण च । उत्तरे पूर्वके याम्ये
चैतच्छत्रत्रयं मतम् । प्रतीचीमध्यरेखायामीशानान्तं
हयाधिपः । आग्नेयान्तं नराधीशस्तन्मध्ये च
गजाधिपः । अश्वाध्यक्षा गजाध्यक्षोनराध्यक्षः क्रसेण च ।
एषां छत्रविभागेण ज्ञातव्यं हि शुभाशुभम् । अन्येषां
भूभृतामृक्षं यत्र छत्रे व्यवस्थितम् । तच्छत्रं तस्य भूपस्य
शुभाशुभफलप्रदम् । यत्र छत्रे स्थितः सौरिर्भङ्गं तस्य
विनिर्दिशेत् । फलञ्च चामरादीनां प्रत्येकं च वदाम्य-
हम् । चामरं कलसं वीणा छत्रं दण्डं पतद्गहम् ।
आसनं कीलकं रज्जुर्न्नव भेदा प्रकीर्त्तिताः ।
चामरे १ चण्डता बायोरनावृष्टिश्च जायते । दुर्भिक्षं
च भवेद्घोरं प्रजापीड़ा न संशयः । कलसस्थे
२ भवेद्युद्धं रणे भङ्गो महद्भयम् । घातपातादिकं
सर्वं जायते नात्र संशयः । वीणासंस्थे ३ चार्कपुत्रे
पट्टराज्ञी विनश्यति । चलचित्तो भवेद्राजा भयभीता
च मेदिनी । यदाऋक्षत्रये सौरिश्छत्रे ४ दण्डे ५
पतद्ग्रेहे ७ । तदा तस्य भवेद्भङ्गश्छत्रस्यापि न संशयः । आसनस्य
भवेन्नाश आसनस्थे ७ शनैश्चरे । युवराजक्षयः कीले ८ वन्धनं
रज्जुसंस्थिते ९ । सौम्ययुक्तोऽतिचारस्थः शनिरुक्त-
फलो न हि । वक्रगः क्रूरयुक्तश्च सर्व्वं क्रूरं करोति
सः । शनिराहुकुजादित्यायदाजीवेन्दुसंयुताः । उत्त-
राधीशराज्यस्य निश्चितं छत्रभङ्गदाः । क्रूरचतुष्टयं
चैव बुधचन्द्रेण संयुतम् । पूर्वछत्रविनाशाय कथितं
पूर्वसूरिभिः । एवं पापचतुष्क च यदा शुक्रेन्द
संयुतम् । दक्षिणाधिपतेश्छत्रविनाशो भाषितो बुधैः ।
एवमन्येषु राज्येषु यत्र यस्य च सम्भवः । उपग्रह
समायोगाच्छत्रभङ्गं विनिर्दिशेत् । यथा दुष्टफलः सौरि-
स्तथा सौम्यफलोगुरुः । भौमज्ञौ शुक्रराहू च रविचन्द्रौ
बले समौ । यथा हानिकराः क्रूरास्तथा सौम्याः शुभप्रदाः ।
क्रूरयुक्तो भवेत् क्रूरश्चन्द्रः सौम्ययुतः शुभः । सौम्य-
क्रूरा यदा छत्रे अष्टावेकत्र संस्थिताः । छत्रभङ्गो मवे-
पृष्ठ २८१९
त्तस्य परचक्रागमेण च । नृपनामर्क्षगोराहुः केतुर्वा यस्य
संस्थितः । छत्रभङ्गोभवेत्तस्य विषदानेन भूपतेः ।
मृगयां साहसं यात्रां दुष्टाश्वगजवाहनम् । विग्रहञ्च
त्यजेद्राजा छत्रस्थैः क्रूरखेचरैः । एवं ज्ञात्वा सदा
राजा करोति ग्रहशान्तिकम् । यदुक्तं यामले तन्त्रे
तेन शान्तिर्भविष्यति” इति
  • ५ सिंहासनचक्रम् (३)--“अथातः संप्रवक्ष्यामि चक्रं सिंहासन
त्रयम् । येन विज्ञातमात्रेण क्रियते राज्यनिर्णयः । सप्त-
विंशतिनक्षत्रेष्वेकैकन्तु नवात्मकम् । अश्विनीमधमूलाद्यं
पञ्चनाड़ीविभेदितम् । अश्विन्याद्युत्तरे भागे मघाद्यं पूर्व-
तः स्थितम् । भूलाद्यं दक्षिणे भागे ज्ञातव्यं नृपतित्रयम् ।
इतरेषु च राज्येषु नृपनामर्क्षतोवदेत् । शुभाशुभमिदम्
मर्वं यस्य यत्र शनिः स्थितः । नाड़िकापञ्चभेदेन एकैक-
स्याऽऽसनं भवेत् । आधारमासन पट्टं सिंहं सिंहासनं
तथा । आधारादिफल सर्वमेकैकस्य वदाम्यहम् । ग्रहवेध
वशाज्ज्ञेयं मौम्यैःक्रूरैः शुभाशुभम् । नृपस्याऽऽधारना-
मर्क्षे यदा पट्टाभिषेचनम् । पराधीनगतं राज्यं कुरुते
नात्र संशयः । आसनस्थेन ऋक्षेण नीतियुक्तो भवेन्नृपः ।
प्रधानपुरुषादेशी प्रजाशान्तिकरो भवेत् । पट्टऋक्षे यदा
राजा चोपविष्टो यदासने । पूर्वराजस्थितेस्तुल्यं चिरं
पालयते महीम् । सिंहरूपी भवेद्राजा सिंहऋक्षासने
स्थितः । संग्रामस्य प्रियोनित्यमसाध्यो मन्त्रिणः सदा ।
सिंहासनगते ऋक्षे तेजस्वी भीषणाकृतिः । चलचित्तो
महाक्रोधी प्रजापीड़ाकरोनृपः । तत्कालेन्दुगते
ऋक्षे क्रूरनिर्वेधनाडिके । शुभावस्थे शुभलग्ने संस्थायी
नृप आसने । ईदृशे च समायोगे उपविष्टो यदासने ।
उच्छिद्य शत्रुसंघातमेकच्छत्रं करोति सः । क्रूरग्रह
गतनाड्यामुपविष्टो यदासने । बन्धनं भूमिनाशश्च तथा
मृत्युः प्रजायते । आधारादिफलं तत्र क्रूरैरेव शुभैः
शुभम् । आधारऋक्षगः सौरिरनावृष्टिं करोति सः ।
दुर्भिक्ष रौरवं घोरं प्रजामृत्युः प्रजायते । आसनस्थो
यदा सौरिर्युद्धे भङ्गप्रंदोभवेत् । अथ वा व्याधिपीडा च
घातदुःखञ्च जायते । पट्ट ऋक्षे यदा सौरिः पट्टराज्ञी
विनश्यति । प्रियो वाथ कुमारो वा मन्त्रिवर्गक्षयोऽपि
वा । सिंहे सिंहासने वाथ यदि तिष्ठति सूर्य्यजः ।
तदा मृत्युर्न्न सन्देहो यदि शक्रसमोनृपः । शन्यर्क-
राहुमाहेया यदा चन्द्रर्क्षसंयुताः । यस्यासनगता एते
तदा तस्य क्षयङ्कराः । क्रूरयुक्तोऽतिवक्रश्च क्रूरनाडीगतो-
ऽपि वा । आसने चन्द्रयोगेण कालरूपी शनैश्चरः । एवं
शुभफलं दद्याद्देवमन्त्री नं संशयः । करोति विपुलं-
राज्यं यस्यासनगतो गुरुः”
  • ६ कूर्मचक्रम् (५)--“कूर्मचक्रं प्रवक्ष्यामि यदुक्तं कौशलागमे ।
येन विज्ञातमात्रेण ज्ञायते देशनिर्णयः । यस्य शृङ्गैक
देशस्था देवास्त्रित्रिंशकोटयः । स मेरुः पृथिवीमध्येश्रू-
यते दृश्यते न तु । तादृशाः पर्वताश्चाष्टौ सागरा द्वीप
दिग्गजाः । सर्वे तु विधृता मूम्या सा धृता येन तं शृणु ।
दंष्ट्रायां सा वराहेण विधृता सधराधरा । मुस्ताखन-
नतोयस्य शोभते मृत्तिका यथा । ईदृशोऽपि महाकायो
वराहः शेषमस्तके । तस्य चूड़ामणेरूर्द्ध्वं शीभते मशकोपमः ।
एवंविधः स शेषोऽपि कुण्डलीभूय संस्थितः । कूर्मपृष्ठैक
भागेन विसतन्तुरिवाबभौ । वपुःस्कन्धः शिरः पुच्छनखाङ्घ्रि
प्रभृतीनि च । मानेन तस्य कूर्मस्य कथयामि प्रयत्नतः ।
शङ्कोः शतसहस्राणि योजनानि वपुः स्थितम् । तदर्द्धेन
भवेत् पुच्छं पुच्छार्द्धेन तुकुक्षिकम् । ग्रीवाऽस्याऽयुतकोटीभि
र्मस्तकं सप्तकोटिभिः । नेत्रयोरन्तरं तस्य कोटिरेका प्रजा-
यते । मुखं कोटिद्वयं तस्य द्विगुणेन च पादयोः । अङ्गु-
लीनां नखाग्रे तु योजनायुतसं ख्यया । एवं कूर्म
प्रमाणन्तु कथितं चादियामले । तस्योपरिस्थिता चेयं सप्त
द्वीपवती मही । कूर्माकारं लिखेच्चक्रं सर्वाबयवसंयुतम् ।
पूर्वभागे मुखं तस्य पुच्छं पश्चिममण्डले । पूर्वापरं लिखे-
द्वेधं वेधश्चोत्तरदक्षिणे । ईशानराक्षसे वेध वेधमाग्नंय
मारुते । नाभिशीर्षचतुःपादकुक्षिपुच्छेषु संस्थिते ।
तारात्रयाङ्किते ह्यस्मिन् सौरिं यत्नेन चिन्तयेत् ।
अधिके भत्रिके तत्र पादार्द्धेषु भमण्डलम् । चतुर्विंशति
संसथाः स्युस्तांश्च हन्ति शनिः क्रमात् । अश्विन्याद्युत्तरे-
भागे मघाद्र्यं पूर्व्वतः स्थितम् । मूलं च दक्षिणे भागे
ज्ञातव्यं नृपतित्रयम् । व्यापकग्रहराशिस्थे चन्द्रे
मन्दोविशेद्यदा । यद्यद्धिष्ण्यपदार्द्धे च तत्र दोषा
भवन्त्यमी । अतिवृष्टिरनावृष्टिर्मूषिकाः शलभाः शुकाः ।
स्वचक्र परचक्रञ्च सप्तैताः ईतयः स्मृताः । कृत्तिका
रोहिणी सौम्यं (५) कूर्मनाभीगतं त्रयम् । साकेता
मिथिला चम्पा कौशाम्बो कौशिकी तथा । अहिच्छत्रं
गया विन्ध्यमन्तर्वेदी च मेकला । कान्यकुब्जं प्रयागञ्च
मध्यदेशो विनश्यति । रौद्रम्पुनर्वसू पुष्यः कूर्मस्य च
शिरःस्थितम् । सगौड़ो हस्तिबन्धश्च पञ्चराटञ्च कामरूः ।
वरेन्द्री च तथा ज्ञेया मगधश्च तथैव च । सूरसेनो वने-
पृष्ठ २८२०
यासः पूर्वदेशोविनश्यति । अश्लेषा च मघापूर्वफाल्-
गुन्याग्नेयगोचरे । अङ्गवङ्गौ कलिङ्गश्च पूर्वजाश्चैव
कोशलाः । डाहलोजयहन्ता च तथैवच सुलज्जिका । उड्डी-
यानं वराटञ्च अग्निदेशो विनश्यति । उत्तरा हस्तचित्रा
च दक्षिणं कुक्षिमाश्रिताः । दर्दुरश्च महेन्द्रश्च वनवासश्च
सिंहलः । तापी भीमरथी लङ्का त्रिकूटं मलयस्तथा ।
श्रीपर्वतः किष्किन्घा इति नश्यति दक्षिणः । स्वाती
विशाखा मैत्रं च कूर्मनैरृत्यगोचरे । नासिक्यं च सुराष्ट्रं
चोत्तरमालवकं तथा । बाह्लीकं च प्रकाशञ्च भृगुकच्छ-
ञ्च कोङ्कणम् । खेटापुरं च मौटेरं देशा नश्यन्ति चेदृशाः ।
ज्येष्ठा मूलं तथाषाढा पुच्छे कूर्मस्य संस्थिताः । पारावतं
मरुकच्छमवन्ती पूर्वमालवः । पारातवर्वरद्वीपं सौराष्ट्रं
सैन्धवं तथा । जनस्थानं विनश्यन्ति स्त्रीराज्यं
पुच्छपीडने । उत्तरादित्रिऋक्षाणि पादे वायव्यगोचरे ।
गुर्ज्जरं तङ्गणञ्चैव मरुदेशं सरस्वतीम् । जालन्धरं
बरादं च वालुकोदधिसंयुतम् । मेरुशृङ्गं विनश्यन्ति
ये चान्ये कोणसंस्थिताः । शतभिषादित्रयञ्चैव उत्तरं
कुक्षिमाश्रितम् । नेपालं कीरकाश्मरीरगञ्जन
खुरसानकम् । माथुरं म्लेच्छदेशश्च खसकेदारमण्डले ।
हिमाश्रया विनश्यन्ति ये देशाश्चोत्तराश्रयाः । रेवती
चाश्विनी याम्यं २ पादे त्वीशानगोचरे । गङ्गाद्वारं
कुरुक्षेत्रं श्रीकण्ठं हस्तिनापुरम् । अश्ववक्त्वेकपादाश्च
गजकर्णस्तथैव च । विनश्यन्ति च ते सर्वे देशा
स्त्वीशानगोचरे । सौरिःस्वदेशगोयत्र तत्र यत्नेन चिन्त-
येत् । परदेशस्थितः कुर्याद्विग्रहंपृथिशीवतेः । यत्रस्थः
पीडयेत्तत्र वेधस्थाने तथैव च । देशनामर्क्षगः सौरिर्भङ्ग-
दो नात्र संशयः । १ पृथ्वीकूर्मं समालेख्यं कृत्तिकादि
यमान्तकम् । देशादिस्वस्वऋक्षादि वक्ष्ये कूर्मचतुष्टयम् । पूर्वव-
च्चक्रमालिख्य देशनामर्क्षपूर्व्वकम् । २ देशकूर्मो भवेत्तत्र यत्र
सौरिक्षयन्तथा । नगरे ३ नागरमृक्षं कृत्वा लेख्यं तु पूर्व-
वत् । सौरिस्थाने भवेद्दुष्टं वेधस्थाने तथैव च । ४ क्षेत्रजे
क्षेत्रभान्यत्र कृत्वा कूर्मं यथास्थितम् । सौरिस्थाने तथा
वेधे जायतेऽत्र महद्भयम् । ५ गृहकूर्मं समालिख्य गृहद्वा-
रमुखस्थितम् । स्वाम्यर्क्षपूर्व्वकम् कृत्वा ततोवीक्ष्यं शुभा-
शुभम् । गृहमध्यस्थितः सौरिः शोकसन्तांपदायकः । द्वारे
विघ्नप्रदोज्ञेयः पावके वह्निदायकः । ज्ञेयो मृत्युप्रदो
याम्ये राक्षसे राक्षसाद्भयम् । वारुणे शुभदोज्ञेयो वायव्ये
शून्यदायकः । अर्थलाभप्रदः सौम्ये शाङ्करे सर्वसिद्धिदः ।
सौरिर्बलाधिकोदुष्टः स्वल्पवीर्य्यः शुभावहः । समकालं
पीडयेद्यत् भानुजः कूर्मपञ्चक्वम् । तत्र स्थाने-
महायुद्धं जायते नात्र संशयः । दुष्टस्थाने गते चन्द्रे
कर्त्तव्यन्तत्र शान्तिकम् । यदुक्तं यामले तन्त्रे सर्वविघ्न
विनाशकम् । यन्देशञ्चैवं पश्यन्ति राहुभौमशनै-
श्चराः । परचक्रभयं चाग्निदुर्भिक्षन्तत्र दारुणम् । कूर्म
चक्रं महाचक्रं कथितञ्चादियामले । तिकालविषय-
ज्ञानं पाणिस्थं येन जायते” ।
तन्त्रोक्ते मन्त्रग्रहणतत्साधनोपयोगिकुर्म्मचक्रे तु
कूर्म्मचक्रशब्दे पृष्ठे उक्ते तत्र दृश्ये ।”
  • ७ पद्मचक्रम्--“पद्माकारं लिखेच्चक्रमष्टपत्रं सुशोभनम् ।
कोष्ठकं नवमं मध्ये पद्मचक्रं प्रजायते । कृत्तिकादीनि
भान्यत्र त्रीणि त्रीणि यथाक्रमम् । मध्यकोष्ठादि
रुद्रान्तं सप्तविंशतिसंख्यया । नव खण्डा धरा सा च
नवभागेषु संस्थिता । यत्र खण्डे स्थितः सौरिः स्वण्डं
तच्च विनश्यति”
  • ८ फणीश्वरचक्रम्--“कृत्तिकाद्यं लिखेच्चक्रं सर्पाकारं
फणीश्वरम् । सप्तनाड़ीसमायुक्तं सौरिवेधं विलोकयेत् ।
नाड्येकैकसमायोगे जम्बूद्वीपादि गण्यते । सप्त द्वीपाः
क्रमेणैव पीड्यन्ते सौरिपीडया । जम्बूप्लःक्षस्तथा शाकः
कुशः क्रौञ्चश्च शाल्मलिः । सप्तमः पुष्करद्वीपः पीड्यन्ते
सौरिपीडया” । कोलानलचक्राणि सप्त
  • ९ राहुकालानलचक्रम्--(३) “अथातः संप्रवक्ष्यामि प्रोक्ता
या व्रह्मयामले । राहुकालानली यात्रा सद्यःप्रत्यय
कारणम् । ग्रहयोगवशाद्यात्रा ज्योतिःशास्त्रे प्रभा-
षिता । या सा शुभेषु कार्य्येषु फलदा न तु सङ्गरे ।
यस्य छायाप्रभावेण छाद्येते शशिभास्करौ । तस्य राहोः
प्रभावञ्च वक्ष्येऽहं रणकर्म्मणि । केचित् मूर्खा
वदन्त्येवं ग्रहोराहुरकारणम् । यतो वर्षे दिने लग्ने-
ष्वाधिपत्य न दृश्यते । आधिपत्ये स्थिता ये च वर्षे मासे
दिवानिशोः । ते चाधिकारिणोज्ञेया राहू राजाऽ-
भिधीयते । वेदागमपुराणेषु विख्यातो राहुखेचरः । तस्य
माहात्म्यमज्ञात्वा मिथ्या जल्पति स्वल्पवित् । दुष्टारिष्टेषु
सर्वेषु जातकादिषु मन्यते । सद्यः प्रत्ययदो राहुः
स कथं स्यादकारणम् । भ्रमँश्च कालरूपेण संहारेण
महीतले । स्ववक्त्रदंष्ट्रया रौद्रोज्ञेयो राहुर्न्न संशयः ।
ग्रहा ग्रासभयाद् यस्य सृष्टिमार्गे भ्रमन्ति च । तस्य
नामान्यहं वक्ष्ये मुखं पुच्छं क्रमेण च । राहुरगुस्तमः
पृष्ठ २८२१
पातः स्वर्भानुः सिंहिकासुतः । दैत्यश्छाया शिरोबक्त्रं
ग्रहारिश्च विधुन्तुदः । पुच्छं केतुः शिखी सर्पो गुदं गुह्यं
घटोमतम् । उत्पातो विषगर्भश्च धूम्रकालः ग्रहान्तकः ।
ऋक्षाधारगतोराहुः सर्परूपेण संस्थितः । तस्य चक्रं
प्रवक्ष्यामि राहुकालानलाख्यकम् । शलाकासप्तकं चक्र
मीशादौ कृत्तिकादिकम् । साभिजित् सर्वमालिख्य अष्टा-
विंशतितारकाः । यत्र ऋक्षस्थितोराहुर्वदनं तद्विनिर्दि-
शेत् । मुखात् पञ्चदशे ऋक्षे पुच्छं तस्य व्यवस्थितम् ।
एकोत्तरशतं ख्याताः जायन्ते तत्र केतवः । व्याप्नुवन्तो
जगत्सर्वं सहस्रार्कसमत्विषः । राहुभुक्तानि ऋक्षाणि
जीवपक्षे त्रयोदश । त्रयोदशाऽपि भोग्यानि मृतपक्षः
प्रकीर्त्तितः । मृतपक्षे मुखन्तस्य गुदं जीवाङ्गमध्यगम् ।
एवमङ्गद्वयं राहोर्ज्ञातव्यं स्वरवेदिभिः । जीवपक्षे क्षपा-
नाथे मृतपक्षे रवौ स्थिते । तस्मिन् काले शुभा यात्रा
विपरीता तु हानिदा । चन्द्रादित्यौ यदा युक्तौ जीवपक्ष-
व्यवस्थितौ । तत्र क्षेमं जयो लाभो यात्राकाले न
संशयः । मृतपक्षे यदा काले सस्थितौ चन्द्रभास्करौ ।
तदा हानिर्भयं भङ्गोमृत्युर्यात्राफलं मतम् । जीवप-
क्षस्थिते चन्द्रे कार्य्यं स्यादऽमृतोपमम् । मृतपक्षे मृतं
ज्ञेयं यतश्चन्द्रबलात् बलम्” तत्राङ्गभेदेन फलभेद उक्तस्तत्र
  • राहुषडङ्गविभागचक्रम्--“अतः षडङ्गभेदेन राहु-
चक्रं वदाम्यहम् । मुखं हृदुदरं गुह्यं पुच्छं मस्तक-
मेव च । मुखैकं हृदये सप्त षडृक्षाणि तथोदरे । ऋक्षैकं
गुह्यगं तस्य षट् पुच्छे
“मुखाद्यङ्गनामभेदः सप्तमस्तके मुखाद्यङ्गस्य नामानि फलं
चास्य वदाम्यहम् । यथोत्तरं क्रमेणैवं चन्द्रार्कभ्रमणेन
च । यत्र ऋक्षे स्थितो राहुस्तस्याभिधानमीरितम् ।
गिलितं कर्त्तरी जिह्वा चन्द्राङ्गं वदनं तथा । राहु-
धिष्ण्याग्रतः सप्त भुक्तधिष्ण्यानि यानि च । तानि सम्पुट-
संज्ञानि कामाङ्गं हृदयन्तथा । हृदयाग्रे स्थिता-
याश्च तारका रससंख्यया । कामाङ्गं जठरं जीवं सम्पु-
टोदरसंज्ञकम् । तत्पुरोयत्तु नक्षत्रमेकं पञ्चदशं
मुखात् । गुदमुद्गिलितं गुह्यं केतुश्चन्द्राङ्गकर्त्तरी ।
गुदधिष्ण्याग्रतोयानि धिष्ण्यनि रससं ख्यया । पुच्छं
सूर्य्याङ्गवज्राङ्गपुष्टिमृत्युस्तथैव च । शेषाणि सप्त
भान्यत्र मध्यस् थान्यस्य पुच्छयोः । कपालं मस्तकं शीर्षं
रुद्राङ्गंभोगिमण्डलम् । स्थिररूपी स्थितोभानुश्चररूपश्च
चन्द्रमाः । क्रमेणैकैकशोऽङ्गानां योगषट्कं वदाम्यहम् ।
  • मुखादियोगषट् कम्--“राहुवक्त्रे स्थिते सूर्य्ये चन्द्रे हृदय-
संस्थिते । यायिनो विजयस्तत्र स्थायिनो भङ्ग आहवे ।
मुखाग्रसंस्थिते सूर्य्ये चन्द्रे चोदरगे तथा । अत्र यायी
जयेद्युद्धे हेलया नात्र संशयः । भास्करे गिलिताङ्गस्थे
चन्द्रे वज्राङ्गसंस्थिते । स्थायी भङ्गमवाप्नोति यायी
जयति सक्षतः । राहुऋक्षस्थितो भानुश्चन्द्रे पुच्छाड़ ।
संस्थिते । स्थायिनोविजयोयुद्धे यायिनो मृत्युमादिशेत् ।
राहुजिह्वां गते सूर्य्ये चन्द्रे रुद्राङ्गसंस्थिते । बलावर्तो
भवेत्तत्र सैन्ययोरुभयोरपि । राहुऋक्षस्थितोभानुश्चन्द्र-
स्तत्रैव संस्थितः । न कश्चिज्जयमाप्नोति सैन्ययो-
रुभयोःक्षयः” ।
  • हृदयादियोगषट्कम् । “हृदयस्थे दिवानाथे जठरस्थे
निशाकरे । निर्द्दिष्टः स्थायिनोमृत्युर्य्यायो जयति
निर्व्रणः । हृदयस्थो यदा भानुः शशाङ्कोगुदमाश्रितः ।
हेलया जयते यायी स्थायी च म्रियते रणे । कामाङ्गके
दिवानाथे पुच्छषट्के निशाकरे । स्थायिनो विजयस्तत्र
यायिनश्च पराजयः । सम्पुटस्थो यदादित्यो रुद्राङ्गे
चन्द्रमा स्थितः । यायी च भङ्गमायाति किञ्चित्स्थायी
जयी रणे । कामाङ्गं याति चेत् भानुश्चन्द्रे राहुमुख-
स्थिते । संग्रामे विजयी यायी, स्थायिनो भङ्गमादिशेत् ।
हृदयाङ्गे यदा युक्तौ चन्द्रादित्यौ व्यवस्थितौ । देवानपि
जयेत् यायी किंपुनर्मानवं बलम्” ।
  • उदरादियोगषट्कम्--“उदरस्थे दिवानाथे निशानाथे
गुदस्थिते । समयुद्धं भवेत्तत्र किञ्चित् यायी जयी रणे ।
सम्पुटस्थो यदा भानुः पुच्छे भवति चन्द्रमाः । यायिभङ्गो,
जयः स्थातुस्तत्र काले न संशयः । कामाङ्गगः सहस्रां-
शुर्म्मस्तकस्थो निशाकरः । यात्रिकोभङ्गमायाति स्थाने वासी
जयी रणे । भानुरुदरगोयत्र निशेशोराहुवक्त्रगः । विवादी
हीयते तत्र स्थायी जयति नान्यथा । स्वर्भानोरुदरे
भानुर्हृदये तारकाधिपः । अनायासेन संग्रामे यायिनो
जयमादिशेत् । उदराङ्गे यदा युक्तौ चन्द्रादित्यौ
व्यवस्थितौ । तदा सन्धिर्न्न सन्देहः सैन्ययोरुभयोरपि” ।
  • गुदादियोगषट्कम्--“केतुधिष्ण्ये स्थिते सूर्य्ये चन्द्रे वज्राङ्ग
संस्थिते । यायिभङ्गो, जयी स्थायी भाषितं व्रह्मयामले ।
गुदे तीक्ष्णांशुसंयुक्ते कपालस्थे निशाकरे । यायी च
भज्यते तत्र स्थायी जयति नान्यथा । गुदऋक्षस्थितः
सूर्य्योराहुऋक्षस्थितः शशी । महाहवं भवेद् वोरं
किञ्चित् स्थायी जयी रणे । भानुरुद्गिलिते ऋक्षे शशभृत्
पृष्ठ २८२२
संपुटे यदि । यायिनो विजयस्तत्र स्थायिनो भङ्गमादि-
शेत् । गुदभे वर्त्तते भानुर्ज्जठरे रोहिणीपतिः । दण्ड-
यित्वा रिपोः सैन्यं याताभ्येति निजालयम् । गुदे
दिनकरो यत्र तत्रैव यामिनीकरः । समयुद्धं भवेत्तत्र
किञ्चिदागन्तुको जयी” ।
  • वज्राङ्गयोगषट्कम्--“सूर्य्याङ्गस्थः सहस्रांशुर्ज्जिह्वायां
शीतगुः स्थितः । यायिनोविजयं विद्यात् स्थायिनश्च
पराजयम् । पुच्छक्षेत्रस्थितो भानुः रुद्रक्षेत्रे तु चन्द्रमाः ।
यायिनो मृत्युरायाति जयलाभौ च स्थायिनः । पुच्छ-
षट्के यदादित्यः कामाङ्गे चन्द्रमाः स्थितः । यायी
विजीयते तत्र शक्रतुल्योऽपि वैरिभिः । अंशुमाली स्थितोवज्रे
जठरस्थं सुधाकरे । आदत्तेऽरिश्रियं सर्वां जित्वा यायी
रणाङ्गणे । भास्करे राहुपुच्छस्थे मृगाङ्के गुदमाश्रिते ।
समयुद्धं भवेत् तत्र किञ्चित् यायी जयी रणे ।
सूर्य्याचन्द्रमसौ यत्र वज्राङ्गे यदि संस्थितौ । सैन्य-
योरुभयोस्तत्र बधो भबति निश्चितम्” ।
  • कपालादियोगषट्कम्--“रुद्राङ्गस्थे दिवानाथे राहुजिह्वा-
ङ्गगः शशी । स्थायिनस्तु जयस्तत्र भङ्गो भवति यायिनः ।
राहुशीर्षस्थिते मित्रे शशाङ्के हृदि संस्थिते ।
विना युद्धेन गृह्णीयाद्यायी सर्वामरिश्रियम् । कपाल
संस्थितः सूर्य्यः सम्पुटस्थो यदा शशी । यायिना जीयते
तत्र स्थायिनो भङ्गमादिशेत् । मस्तकस्थे दिवानाथे
धिष्ण्यनाथे गुदश्रिते । यायिनो विजयो युद्धे स्थायिनस्तु
पराजयः । राहुशीर्षगतोभानुः पुच्छर्क्षे तु निशाकरे ।
अन्योऽन्यं विग्रहं घोरं युद्धं भवति दारुणम् ।
दिनेशो राहुरुद्राङ्गे चन्द्रस्तत्रैव सङ्गतः । विनाशं
कोषराज्यस्य यायिनो मृत्युमादिशेत् ।”
  • राहुदशाङ्गविभागचक्रम्--“हृदयादीनि चाङ्गानि जिह्वान्तानि
क्रमेण च । दशसंख्यान्यहं वक्ष्ये राहुचक्रस्य मध्यतः ।
पुष्पितं फलितं चैव निःफलं झटितं गुदम् । राजस-
न्तामसं वृद्धं मृतं जिह्वा क्रमेण च । पुष्पिते त्रीणि
धिष्ण्यानि क्षेमलाभकराणि च । शत्रुभङ्गो भवेद्युद्धे
यात्रा मासेन लाभदा । ततश्चत्वारि धिष्ण्यानि पक्षै-
केण्ण फलन्ति च । गजवाजिधनं देशं यायी तु लभते
ध्रुवम् । अफलेषु त्रिविष्ण्येषु षण्मासैर्य्यायिनं प्रति ।
सन्धिं सेवां तथा देशं स्थायी यच्छति निश्चितम् ।
फलं प्राप्नोति वर्षेण झटितैश्च त्रितारकैः ।
हस्त्यश्वपुत्रमित्रादि देशकोषपरिग्रहैः । गुदैकेन भृशं
लक्ष्मीः पद्मिनी प्रियवादिनी । रूपयौवनसम्पन्ना
मासयुग्मेन लभ्यते । विग्रहस्य भवेद्वृद्धिर्युद्धे भङ्ग
स्तथैवच । रोगपीड़ा भवेद्वर्षे राजसाख्यैस्त्रितारकैः ।
हस्त्यश्वपुत्रमित्रादि देशकोषपरिग्रहाः । षड्भिर्मासै-
र्विनश्यन्ति यायिनस्तामसत्रये । तामसाग्रे चतुष्के तु
तारकावृद्धसंज्ञकाः । सर्व्वनाशकराः प्रोक्ता मासैकेन न
संशयः । ततस्त्रीणि मृत्युभानि राजमृत्युप्रदानि च ।
आर्शोवातश्च गुल्मश्च पक्षैकेण फलन्ति च । युद्धे भङ्गो-
महाभीतिर्द्रव्यनाशः कुलक्षयः । सद्यो मृत्युं लभेद्-
यायी राहुवक्त्रे सुनिश्चितम् ।” इति दशाङ्गफलम् ।
  • “युद्धकाले यदा शीध्रं यात्रायोगो न लभ्यते । उत्पाद्येते
तदा शीघ्रं तत्कालेन्दुदिवाकरौ । इष्टनाड्योहताधिष्ण्यैः
षष्टिभागाप्तशेषके । अश्विन्यादीन्दुभुक्तेन युतस्तत्काल-
चन्द्रमाः । यथा चन्द्रस्तथा सूर्य्यः कर्त्तव्यश्चेष्टकालिकः ।
अहोरात्रस्य मध्ये तौ विभ्रान्तौ धिष्ण्यमण्डले । स्थिर-
चक्रे पुरा प्रोक्तं चन्द्रादित्यफलं मया । चरचक्रेऽप्यनेनैव
प्रकारेण फलम्भवेत् । सर्व्वेषु शुभकार्य्येषु यात्राकाले
विशेषतः । सर्वकाले शुभश्चन्द्रोज्ञेयो हृदि गुदोदरे ।
पुच्छषट्के कपालस्थे शशाङ्के राहुवक्त्रगे । बन्धनं हानि
र्मृत्युश्च सर्वकार्य्येषु जायते । हृदि गुदोदरे चन्द्रे विवाहे
नन्दति द्वयम् । नैःस्वं वैधव्यविद्वेषौ मुखे पुच्छे तु
मस्तके । पुष्पिते फलिते गुह्ये प्रश्नकाले शशो शुभः ।
अफले झटिते मध्ये मृत्युः शेषाङ्गगे विधौ । ऊर्द्धे तु
खेचरं चक्रमधोभूचरमुच्यते । उभयोः सन्निपातेन
राहुकालानलं मतम्” ।
  • १० सूर्य्यकालानलचक्रम्--“ऊर्द्धगास्त्रिस्रः शूलाग्रास्ति
स्रस्तिर्यक् च संस्थिताः । द्वे द्वे नाड्यौ स्थिते कोण
शृङ्गयुग्मं तथैकया । मध्ये त्रिशूलदण्डाधो भानुभाद्य
भमण्डलम् । साभिजिच्च प्रदातव्यं सव्यमार्गेण सर्वदा ।
ऋक्षाष्टके जयोलाभः ऋक्षषट्के तथा पुनः । शृङ्गयुग्मे
रुजाभङ्गो मृत्युः शूलत्रये स्फुटम् । नामऋक्षं स्थितं
यत्र ज्ञेयं तत्र शुभाशुभम् । अधोगतैश्च नक्षत्रैरुद्वेगो-
बधबन्धनम् । विवाहे विग्रह युद्धे रोगार्त्तौ गमने तथा ।
सूर्य्यकालानलं चक्रं ज्ञातव्यं च प्रयत्नतः ।” (रोगे च
कुजनक्षत्र दिन ऋक्षन्तु युद्धके । प्रयाणे कृत्तिका लेख्या
अन्यत्रार्कस्य दीयते) । क्वचित् अधिकपाठः
  • ११ चन्द्रकालानलचक्रम्--“चन्द्रकालानलं चक्रं व्योमाकारं
लिखेद्बुधः । चतुर्द्दिक्षु त्रिशूलानि मध्ये भिन्नानि कार-
पृष्ठ २८२३
येत् । पूर्वत्रिशूलमध्यस्थं दिनऋक्षादि लेखयेत् । सव्य-
मार्गेणदातव्या अष्टाविंशतितारकाः । त्रिशूले च बहिर्मध्ये
म ये बहिस्त्रिशूलके । त्रिशूले चक्रबाह्ये च चक्रमध्ये
तथैव च । नामऋक्षं स्थितं यत्र तत्र ज्ञेयं शुभाशुभम् ।
त्रिशूले च भवेन्मृत्युर्भव्यञ्च बहिरष्टकम् । लाभः
क्षेमं जयः प्रज्ञा चन्द्रगर्भ न संशयः । वर्ज्जनीयं
प्रयत्नेन प्रथमाष्टत्रिपञ्चकम् । ऋक्षं द्वातिंशकं चात्र
कालरूपं न संशयः । लाभालाभौ सुखं दुःखं जय
श्चैव पराजयः । चन्द्रकालानलं चक्रं ज्ञात्वा संशय-
वर्ज्जितम्” ।
  • १२ घोरकालानलचक्रम्--“शलाकासप्तकं चक्रं लिखित्वा
चन्द्रभादितः । त्रिषु त्रिषु च ऋक्षेषु नव सूर्यादयो-
ग्रहाः । यदङ्गे नामनक्षत्रं युद्धकारस्य जायते ।
फलन्तस्य प्रवक्ष्यामि एकैकस्य यथाक्रमम् । भानुना शोकस-
न्तापः शशाङ्कः क्षेमलाभदः । भूसुतो मृत्युमाधत्ते बुधे-
बुद्धिः प्रजायते । जीवे लाभः, शुभं शुक्रे, सूर्य्यपुत्रे
महद्भयम् । राहुणा घातपातश्च केतौ मृत्युर्न्न संशयः ।
यात्राजन्मविवाहेषु संग्रामे विग्रहेऽपि वा । घोर
कालानलं चक्रं ज्ञात्वा कर्म समारभेत्” ।
  • १३ गूढ़कालानलचक्रम्--“सप्तरेखोद्भवं चक्रं चन्द्रभाद्यं
भमण्डलम् । लिखित्वा कल्पयेच्चक्रं षड़ङ्गं जयका-
ङ्क्षिभिः । दिनर्क्षाद्गण्यते चक्रे गूढसम्पुटकर्त्तरी ।
दण्डः कपालं वज्राङ्गं ज्ञातव्यं स्वरवेदिभिः । यत्र ऋक्षे
स्थितश्चन्द्रस्तत्रादौ त्रीणि गूढ़कम् । सम्पुटे नव भान्य-
त्र कर्त्तरी च ततस्त्रिभिः । दण्डे धिष्ण्यानि च त्रीणि
कपाले धिष्ण्यसप्तकम् । वज्राङ्गे त्रीणि धिष्ण्यानि षडङ्ग
स्येति निर्णयः । यदङ्गे नामनक्षत्रं युद्धकारस्य जायते ।
वक्ष्य शुभाशुभं तस्य गूढ़कालानले स्थितम् । गूढ़स्थे
विभ्रमो, युद्धे जयो भवति सम्पुटे । कर्त्तर्य्यां सक्षतं
युद्धं, दण्डे भङ्गो न संशयः । कपालस्थ भवेन्मृत्युर्वज्रें
तस्य महद्भयम् । गूढकालानलं चक्रं भाषितं व्रह्म-
जामले” ।
  • १४ शशिसूर्य्यकालानलचक्रम्--“द्वादशारं लिखेच्चक्रं मेषादि
द्वादशान्वितम् । क्षेत्रयुग्मञ्च तत्रैव विख्यातं रविचन्द्रयोः ।
सिहाद्यं मकरान्तञ्च भानुक्षेत्रमुदाहृतम् । कुम्भादिकर्क
पर्य्यन्तं चन्द्रक्षेत्रं न संशयः । चन्द्रक्षेत्रगते सूर्य्ये चन्द्र-
स्तत्रैव संस्थितः । यायिनो विजयोयुद्धे स्थायिनो भङ्ग
नादिशेत् । सूर्य्यक्षेत्रे गते चन्द्रे सूर्य्यस्तत्रैव संस्थितः ।
यायी भङ्गमवांप्नोति स्थायिनो विजयो भवेत् ।
सूर्य्ये सूर्य्याङ्गसंयुक्ते चन्द्रे चन्द्राङ्गसंगते । तदा
काले भवेद्सन्धिर्युद्धं तस्य विपर्यये । सूर्य्यक्षेत्र गते
चन्द्रे चन्द्रक्षेत्रगते रवौ । महायुद्धं प्रवर्त्तेत संहारः
सैन्ययोर्द्वयोः । यात्रायां युद्धकाले च चक्रमेतद्वि-
लोकयेत्” । अत्र विशेषः । “एकेन क्रूरवेधेन विद्धो
भवति चन्द्रमाः । स्वल्पं युद्धं तदा काले जायते नात्र
संशयः । द्वाभ्यां वापि त्रिभिर्व्वापि पापैर्विद्धो यदा
शशी । तदा युद्धं महाघोरं सैन्ययोरुभयोरपि ।
वक्रैः पृष्ठे भवेद्युद्धमग्रे चैवातिचारिभिः । मध्यगत्या
भवेन्मध्ये पापैः सौम्यैस्तु तत् नं हि । ऊर्द्ध्व-
दृष्टौ भवेदूर्द्धं मध्यदृष्टौ तु मध्यमे । अधोदृष्टा-
वधस्ताच्च केकरे पार्श्वतो भवेत् । शनिराहुकुजादित्या-
स्त्वेकरेखागता यदि । चन्द्रेण संयुतास्ते च तदा पात
चतुष्टयम् । शनिना चन्द्रयुक्तेन जीववेधगतेन
च । तदा वृष्टिर्भवेन्नूनं वर्षोपलमथोच्छ्रितम् । भौमे-
नाग्नेर्भवेत् पातो राहुणा लौहपातकृत् । भानु
ना चण्डवातश्च सर्व्वैः सर्व्वे भवन्ति च । शुक्रेण
जलपातोऽपि पांशुपातः शशाङ्कजे । गुरुणा चञ्चला-
पातः दिग्दाहः केतुना भबेत्” ।
  • १५ संघट्टचक्रम्--“अश्विन्यादि लिखेत् चक्रं सप्तविंशति
तारकम् । त्रिकोणं नवभिर्वेधः कर्त्तव्यस्तिर्य्यगाकृति ।
अश्विनीरेवतीवेधी वेधश्चाश्विनिज्येष्ठयोः । मघापौष्णै
मथाश्लेषे अश्लेषामूलयोस्तथा । एवं संघट्टचक्रं च
कार्य्यमृक्षगता ग्रहाः । भूपनामर्क्षसंघट्टे युद्धं भवति
नान्यथा । निर्वेधे सौम्यबेधे च युद्धं नास्ति न संशयः ।
क्रूरवेधे भवेद्युद्धं तत्काले घोरदर्शनम् । युद्धकाङ्क्षी
भवेद्राजा यस्य भंक्रूरवेधितम् । युद्धद्वेषी भवेत् सौम्ये
तथा वेधविवर्जिते । सौम्यक्रूरविभागेन मित्रामित्र
क्रमेण च । वक्रातिचारगत्या च युद्धं स्वल्पञ्च जास्ति च ।
  • १६ कुलाकुलचक्रम्(३)--“द्वितीया दशमी षष्ठी कुलाकुल-
मुदाहृतम् । बिषमा अकुलाः सर्वाः शेषाश्च तिथयः
कुलाः १ रविचन्द्रौ गुरुः सौरिश्चत्वारोऽप्यकुलामताः ।
भौमशुक्रौ कुलाख्यौ च बुधवारः कुलाकुलः २ । वारु-
णार्द्राभिजिन्मूलं कुलाकुलमुदीरितम् । कुलानि
समधिष्ण्यानि शेषभान्यकुलानि च ३ । तिथौ वारे च
नक्षत्रे अकुले यायिनो जयः । कुलाख्ये स्थायिनोनूनं
सन्धिश्चैव कुलाकुले” ।
पृष्ठ २८२४
  • १७ कम्भचक्रम्(२)--“कुम्भाकारं लिखेच्चक्रं तिर्य्यग्रेखाप्रभे-
दितम् । तस्य चोर्द्ध्वमधोलेख्यमेकैकान्तरभं क्रमात् ।
भानुभाद्यं न्यसेत्तत्र रिक्तां पूर्णामिति क्रमात् १ । एवं
राशिक्रमाल्लेख्यारिक्ता पूर्ण्णा इति क्रमात् २ । रिक्ते
रिक्ता भवद्यात्रा पूर्ण्णे यात्रा शुभावहा । इति यात्रा
फलं ज्ञेयं कुम्भचक्रद्वये स्थितम्” ।
  • १८ प्रस्तारचक्र--“त्रयोदशोर्द्धगारेखा दश रेखाश्च तिर्य्य-
गाः । भवेयुः कोष्ठकास्तत्र सङ्ख्ययाष्टोत्तरं शतम् ।
मेषाद्या राशवोलेख्यास्तिर्य्यक् प्रथमपङ्क्तिषु । नवां-
शराशयश्चाधो नवधा सर्व्वराशिषु । कवर्गान्नवधा
लेख्यं कोष्ठके प्रथमाष्टके । द्वितीये सप्तमे चाद्या एवं
टाद्यास्त्रिषष्ठले । यशवर्गौ चतुर्थे च अवर्गः पञ्चमे
तथा । नवद्वादशके ताद्याः शेषे पाद्याः द्विकोष्ठके ।
चतुरक्षरसंयोगात् अश्विन्यादिक्रमेण च । ज्ञेया नवां-
शका वर्ण्णा मेषादिराशिमण्डले । भौमं शुक्रं बुधं
चन्द्रं भानुं सौम्यं सितं कुजम् । गुरुं सौरिं शनिं
जीवं विदध्यात् कोष्ठकोपरि । कोष्ठाक्षरगतो ज्ञेय
श्चन्द्रस्तत्कालसम्भवः । तदधीनं फलं सर्व्वं लाभा-
लाभजयादिकम् । दिनऋक्षगतानाड्यः सप्तविंशति
ताडिताः । षष्टिभक्ते भवेदृक्षं तत्कालेन्दुंगतं स्फु-
टम् । इष्टनाड्योहताधिष्ण्यैः षष्टिभागाप्तशेषके ।
अश्विन्यादीन्दुभुक्तेन युक्तस्तत्कालचन्द्रमाः । क्रूर
क्षेत्राक्षरे चन्द्रे न शुभं सर्व्वकर्म्मसु । शुमक्षेत्रे शुभं
चैव प्रस्तारे चन्द्रनिर्ण्णयः । नाडीफलौ यशौ वर्गा
ववर्गोद्युफलोदयः । कुःपक्षेण च मासेन ऋतौ च
तोऽयनोदयः । जन्मकाले विवाहे च याने जन्मनि
सङ्गरे । शशाङ्कस्य फलं श्रेष्ठं स्वरशास्त्रेषु निश्चितम् ।
अंशकेनांशकं गुण्यं ध्रुवयुक्तं कृतं पुनः । चतुःस्था-
मुनयः (७, ७, ७, ७), सूर्य्याः १२ सप्त ७ रन्ध्र ९ गुणे-
षवः ५३ । मासाः १२ शैलाः ७ इना १२ स्तत्वा २४ राशीनां
च ध्रुवाइमे । गुणाः ३ शैलाः ७ युगाः ४ पञ्च सप्त
पञ्चाद्रयो ७ युगाः ४ । नागा ८ वाणा ५ रसा ६ भूता ५
मेषादेरंशका इमे । नग्नस्य योऽंशकोदेवि! तस्य स्वामी
च यो ग्रहः । तद्वशात् कालविज्ञानमुदितांशकसं-
ख्यया । सूर्य्येऽयनं क्षणश्चन्द्रे दिनान्यारे तथा बुधे ।
ऋतवंश्च, गुरौ मासाः, शुक्रे पक्षः प्रकीर्त्तितः । सूर्य-
पुत्रे समा देवि! सर्व्वदैवंविधिः स्मृतः” ।
  • १९ तुम्बरचक्रे दृष्टिचक्रम्--“प्रस्तारे द्वादशारे च ऋक्षाक्षर-
क्रमेण च । नवांशराशिमार्गेण चक्रं भवति तुम्बरम् ।
यत्र मेषादिराशिस्थस्तत्कालेन्दुः प्रजायते । ग्रहदृष्टिव-
शात् सर्व्वं ज्ञेयं तत्र शुभाशुभम् । त्रिदशे पञ्चमे धर्मे
चतुर्थाष्टमसप्तमे । पादवृद्ध्या निरीक्षन्ते प्रयच्छन्ति
तथा फलम् । ऊर्द्धदृष्टी च भौमार्क्कौ केकरौ बुधभार्ग-
बौ । समदृष्टी च जीवेन्दू शनिराहू त्वधोमुखौ । मेषो
वृषो मृगः कन्या कर्कमीनतुलास्तथा । आदित्यादिग्रहेषू-
च्चा नीचं तु तस्य सप्तमम् । परमोच्चा दिशॊ० रामा ३
अष्टाविंशतिथोन्द्रियाः १५ । ५ । सप्तविंशास्तथा विंशः
सूर्य्यादीनां तथांशकाः । परमोच्चात् परं नीचमर्द्धचक्वां-
शसंख्यया । नीचस्थानात् क्रमेणोच्च उक्तोऽसावत्र खेचरः ।
उच्चान्नीचाच्च यत्तुर्य्यं समस्थानं तदुच्यते । उच्चनीच
समस्थाने चन्द्रं ज्ञात्वा फलं वदेत् । उच्चस्थानस्थितं
चन्द्रं भोमादित्यौ प्रपश्यतः । समस्थाने च गुर्विन्दू
नीचस्थं राहुसूर्य्यजौ । बुधशुक्रौ त्रिकोणे च चन्द्रं
तत्कालसम्भवम् । अन्यत्रस्थं न पश्यन्ति जात्य
न्धा इव खेचराः । सौम्यदृष्टिस्थिते चन्द्रे सर्वं सौख्यं
प्रजायते । क्रूरदृष्टिगतं पुंसां मृत्युर्हानिर्महद्भयम् ।
एवं शुभयुते चन्द्रे सर्वं सौम्यं प्रजायते । क्रूरैः
क्रूरफलं तत्र मिश्रैर्मिश्रं न संशयः । रक्तं पीतं सितं
कृष्णं चन्द्रे वर्णचतुष्टयम् । ज्ञातव्यञ्च प्रयत्नेन प्रश्नकाले
सदा बुधैः । रविर्भौमः सितः सौम्योगुरुः सौरिः श
शी तमः । वर्गेशाश्च अवर्गादौ ग्रहाज्ञेया
विचक्षणैः । स्यातां रविकुजौ रक्तौ पीतौ जीवबुधौ ग्रहौ ।
शशिशुक्रौ सितौ वर्णौ कृष्णत्वं राहुमन्दयोः । यद्वर्ण
वर्गगश्चन्द्रस्तस्य स्वामी च यो ग्रहः । तस्य वर्णेन
वर्णत्वं शशाङ्कस्य प्रजायते । रक्ते चन्द्रे भवेद्युद्धं
कृष्णे मृत्युर्न्न संशयः । पीते शुभं विजानीयात्सिते
शुभतरं फलम्” ।
  • २० तुम्बुरचक्रम्--“द्वादशारं लिखेच्चक्रं नाडिकैका त्रिधा
पुनः । पञ्चमे पञ्चमे स्थाने तिर्य्यग्वेधं तथा कुरु ।
अष्टोत्तरशतं चैव नाडीसंख्या प्रजायते । अक्षराण्यस्य
चक्रस्य नाडिकाग्रेषु विन्यसेत् । क्रूरवेधाक्षरे चन्द्रो यदा
तत्कालसम्भवः । तदा तस्य फलं वक्ष्ये विवाहादौ
शुभाशुभम् । विवाहे क्रूरवेधेन वैधव्यं च विशीलता ।
यात्रायाञ्च भवेद्धानिर्मृत्युर्भङ्गोमहाहवे । क्रूराः
सर्वे हानिकराग्रहाः सौम्याः शुभप्रदाः । द्व्यादिवेधो
भवेद्यस्य तस्य मृत्युर्न्न संशयः । तत्कालेन्दुफलं सर्व
पृष्ठ २८२५
यद्क्तं चादिजामले । गोपितंत्वन्यशास्त्रेषु मया चात्र
प्रकाशितम्” । अङ्गशब्दे ७३ पृ० चक्रनामोद्देशे
चरमित्यशुद्धम् । तुम्बरमिति शुद्धम् एवमन्यस्याप्यशुद्ध-
स्यात्र दर्शितचक्रनामानुसारेण तत्र शुद्धता बोध्या
  • २१ भूचरखेचरचक्रम्--“अधःस्थं भूचरं चक्रमूर्द्ध्वस्थं
खेचरं तथा । चरस्थिरविभागेन स्थायी यायी फलं
क्रमात् । मेषादिद्वादशारे च वाममार्गेण भूचरम् ।
तस्योर्द्धं खेचरं चक्रं दक्षमार्गेण सर्वदा । ये ग्रहाराहु
मार्गस्था भूचक्रे ते व्यवस्थिताः । सूर्य्यमार्गेण ये लग्नाः
खेचराः खेचरस्थिताः । भूचक्रे संस्थितैः पापैः खेचक्रे
सौम्यखेचरैः । स्थायियायिबलं ज्ञेयं क्रमात् स्वर
विचक्षणैः । सौम्यश्च भूचरे चक्रे क्रूराः खेचरगा यदि ।
संहारोजायते तत्र सैन्ययोरुभयोरपि । भूचरस्थाग्रहा
यत्र दृश्यन्ते च शुभाशुभाः । यायी संहारमायाति-
स्थायी सार्द्धक्षये जयी । खेचरे खेचराः सर्वे सौम्याः
पापगतायदा । स्थायिनो बलसंवर्त्तो यायी जयति
सक्षतः । भूचरे खेचरे सर्वे यदा मिश्रा शुभाशुभाः ।
तदा मिश्रं फलं वाच्यं स्थायिनो यायिनोऽपि वा” ।
  • २१ पथचक्रम्--“अश्विन्यादीनि धिष्ण्यानि पङ्क्तियुक्त्या
लिखेद्बुधः । नाडीनाञ्च त्रये वेधः सर्पाकारः पथाख्यके ।
क्रूरवेधस्थिता नाडी तद्धिष्ण्येन युते दिने । यात्रा
युद्धं न कर्त्तव्यं पथचक्रे त्विदम फलम्”!
  • २२ नाडीचक्रम्(३)--आर्द्रादिकं लिखेच्चक्रं मृगान्तञ्च
त्रिनाडिकम् । भुजङ्गसदृशाकारं मध्ये मूलं प्रतिष्ठि-
तम् । यद्दिने चैकनाडीस्थाश्चन्द्रनामर्क्षभास्कराः ।
तद्दिनं वर्जयेत्तस्य विवाहे विग्रहे रणे ।” १ एकनाडीगते
भौमे रविजीवसमन्विते । यदा चन्द्रेण संयुक्ते
तदाक्षौणी परिप्लुता । ऊर्द्ध्वनाडीगतो वायु र्मध्यनाड्यां
समोभवेत् । अधोनाड्यां भवेत्वृष्टि रेतद्वृष्टेस्तुलक्षणम् २
विवाहाङ्गत्रिनाड़ीचक्रम्--“अश्विन्यादि लिखेच्चक्रं
सर्पाकारं त्रिनाडीकम् । तत्र वेधवशात् ज्ञेयं विवा-
हादि शुभाशुमम् । आद्यनाडीगनक्षत्राण्यश्विरौद्र पुनो-
त्तराः ७ । १२ । हस्तेन्द्रमूलबारुण्यः पूर्वभाद्रपदस्तथा १ याम्यः
सौम्यो ५ गुरु ८ र्य्योनि ११ श्चित्रा मित्र १७ जलाह्वयम् २० ।
धनिष्ठा चोत्तरा भाद्रा मध्यनाड़ीव्यवस्थिताः । कृत्तिका
रोहिणी सार्प ९ मथास्वातीविशाखकम् । उत्तरा श्रवणं
पौष्णं २७ पृष्ठनाड़ीव्यवस्थिताः । वेधनाड्यृक्षमश्विन्यादि-
षष्ठं च द्वितीयकम् । याम्यादि तुर्य्यतुर्य्यं च कृत्तिकादि
द्विकं द्विकम् । एवं निरीक्ष्य बोद्धव्यं कन्यामन्त्रे गुरौ
स्वरे । पण्यस्त्रीस्वामिमित्रेषु देशे ग्रामे पुरे गृहे ।
एकनाड़ीस्थऋक्षाणि यदा स्युर्वरकन्ययोः । तदा
बेधं विजानीयाद्गुर्वादिषु तथैव च । प्रकटं यस्य
जन्मर्क्षं तस्य जन्मर्क्षतोवदेत् । प्रनष्टं जन्मभं यस्य
तस्य नामार्क्षतो वदेत् । द्वयोर्ज्जन्मभयोर्वेधो द्वयोर्न्नाम
र्क्षयोस्तथा । जन्मनामर्क्षयोर्वेधो न कर्त्तव्यः कदाचन ।
एकनाड़ीस्थिता दुष्टा भर्त्तुश्चैव कुलाङ्गना । तस्मा-
न्नाड़ीव्यधोवीक्ष्यो विवाहे शुभमिच्छता । आद्यनाड़ी
व्यधे भर्त्ता मध्यनाडीव्यधे द्वयम् । पृष्ठनाड़ीब्यधे कन्या
म्रियते नात्र संशयः । समासन्ने व्यधे शीघ्रं दूरवेधे
चिरेण तु । व्यधान्तरभमानेन वर्षे रिष्टं प्रजायते । एकर्क्षं
जायते यत्र विवाहे वरकन्ययोः । मूलवेधो भवेत्तत्र
महादुष्टफलप्रदः । एकनाड़ीस्थिता यत्र गुरुर्मन्त्रश्च
देवताः । तत्र द्वेषं रुजं मृत्युं क्रमेण फलमादिशेत् ।
प्रभुःपण्याङ्गना मित्रं देशो ग्रामः पुरं गृहम् । एक
नाड़ीगता भव्या न भव्या वेधवर्ज्जिताः । क्रूर
ग्रहगता नाड्यो यस्य जन्मर्क्षसम्भवाः । तस्य मृत्युर्न्न
सन्देहो यात्रायुद्धे भयं भवेत् । द्व्यादिक्रूरव्यधो यस्य
चक्रे चैव त्रिनाडिके । हानिर्विघ्नं भयं क्लेशोजायते
बधबन्धनम् । एवं सौम्यव्यधो यस्य जन्मधिष्ण्ये प्रजायते ।
जयो लाभः सुखं तस्य जायते नात्र संशयः । शुभपाप-
ग्रहैर्विद्धा यस्य जन्मर्क्षनाड़िका । तस्य मिश्रं फलं
वाच्यं नाड़ीचक्रे स्वरज्ञकैः” २ ।
“एतच्चक्रं समालिख्य अश्विन्याद्यं हि पङ्क्तितः ।
वेधो द्वादशनाड़ीभिः कर्त्तव्यः पन्नगाकृतिः । आद्यं-
शेन चतुर्थांशं चतुर्थांशेन चादिमम् । द्वितीयेन तृती-
यञ्च तृतीयेन द्वितीयकम् । एवं चांशव्यधोयेषां जायते
वरकन्ययोः । तेषां मृत्य्रन्नसन्देहः शेषांशाः स्वल्प-
दुःखदाः । गुरुमन्त्राश्च देवाश्च स्वस्थाने च सुशोभनाः ।
अन्यांशकगताभव्या ज्ञातव्या स्वरवेदिभिः । एवं जाना-
ति यश्चक्रं चक्रराजं त्रिनाडिकम् । तस्य पाणितले
ज्ञानं सर्वदैक प्रतिष्ठितम्” ३ ।
  • २३ कालचक्रम्--“नवोर्द्धगानि धिष्ण्यानि नव तिर्य्यग्ग-
तानि च । अधोगतानि धिष्ण्यानि नव चैव विनिर्द्दिशेत् ।
चतुर्न्नाडीकृतो वेघो मध्यऋक्षत्रयोज्झितः । सर्पाकारञ्च
तच्चक्रं कालचक्रं प्रजायते । त्रीणि मध्यगतर्क्षाणि
तानि कालमुखानि च । कोणस्थिते च ये धिष्ण्ये ते च
पृष्ठ २८२६
दंष्ट्रे द्वयं मतम् । दिनर्क्षमादितः कृत्वा नामर्क्षं यत्र
संस्थितम् । मुखदंष्ट्रागतो मृत्युः शुभमन्यत्न संस्थिते ।
ज्वरिते नष्टदग्धे च विवाहे विग्रहे रणे । काल
दंष्ट्रास्यगं नाम यस्य तस्य महद्भयम्” ।
  • २४ सूर्य्यफणिचक्रम्--“सप्तविंशतिभान्यत्र पङ्क्तियुक्त्या
क्रमेण च । त्र्यन्तरे त्र्यन्तरे चैव फणिचक्रं त्रिना-
डिकम् । यत्र ऋक्षे स्थितो भानुस्तदादि गणयेद्बुधः ।
नामर्क्षं च स्थितं यत्र ज्ञेयं तत्र शुभाशुभम् । कुर्य्या-
न्मृत्युं च रोगञ्च नाडीवेवं गतो नृणाम् । वर्ज्जयेत्
सर्व्वकार्य्येषु युद्धकाले विशेषतः । निर्व्वेधर्क्षकमध्यस्थं
यस्य नाम प्रजायते । सिद्ध्यन्ति तस्य कार्य्याणि संग्रामे
विजयो भवेत्” ।
  • २५ “चन्द्रफणिचक्रम्--“सूर्य्यफणीश्वरे चक्रे यदुक्तं च
शुभाशुभम् । चन्द्रादौ तत्फलं चक्रे ज्ञेयं सर्वं फंणीश्वरे ।”
  • २६ कविचक्रम्--“हीनसैन्यः सदा स्थायी यायी सैन्या-
धिकः सदा । अबलस्य बलोपायं वक्ष्येऽहं कविसङ्गरे ।
प्रयाणे चोत्प्रयाणे वा निशीथे मृगयाङ्गते । शोकार्त्ति
व्यसनप्राप्ते हतसैन्ये विनायके । अष्टधा कविकाल-
स्तु कथितो दुर्बले नृपे । इत्थं कुर्वन् परान् युद्धे जयती-
ह न संशयः । चतुरस्रं त्रिनाड़ीकम् कविचक्रं लिखे-
द्वुधः । प्रवेशे निर्गगे भानि स्थानविष्ण्यादि विन्यसेत् ।
यत्र नामाङ्किते स्थाने शत्रुसैन्यं व्यवस्घितम् । तत्र
चक्रम् समालेख्यं सेनाध्यक्षर्क्षपूर्वकम् । त्रीणि त्रीणि
प्रवेशे च ईशादौ विदिशि क्रमात् । निर्गमे तुर्य्यतुर्य्यौ
च पूर्वाशादिक्रमेण च । सौम्याः क्रूरा ग्रहायत्र
प्रवेशे निर्गमे स्थिताः । वक्रातिचारगास्तत्र ज्ञात्वा
कविरणं कुरु । जीवपक्षस्थिते चन्द्रे अकुलर्क्षे प्रवे-
शके । यानं कविरणे प्रोक्तं ज्ञात्वा प्रवेशनिर्गमौ ।
उदितेऽस्तस्वरो यस्य यत्र जन्मेन्दुसम्भवः । तद्दिने
ते भटाः सर्वे वर्जनीयाः कवौ रणे । क्रूरे शीघ्रे प्रवे-
शर्क्षे यत्र तत्र बिशेद्रणे । वक्रस्थे निर्गमे सोम्ये
तद्दिशि निर्गम कुरु । प्रवेशर्क्षे प्रवेशं च निर्गमे
निर्गमे क्रुरु । भूबलं पृष्ठतः कृत्वा प्रोक्तः कंविरणे जयः ।”
  • २७ खलचक्रम्--“चतुरस्रं चतुर्द्वारं” खलचक्रं लिखे-
द्बुधः । नन्दाद्यास्तिथयोन्यस्याः पूर्यद्वारक्रमेण च ।
पूर्वाशादिचतुष्के तु सप्त सप्त क्रमेण तु । कृत्तिकादि
लिखेन्मध्ये खले मान्यष्टविंशतिम् । शनिचन्द्रौ कुज
सौम्यौ भानुशुक्रौ वृहस्पतिः । मध्ये बहिर्गतादेया
अपसव्यं दिशां क्रमैः । यद्दिने यद्दिशि स्युस्ते तिथि-
धिष्ण्यदिनाधिपाः । प्रवेशः खलकद्वारे कृर्त्तव्यस्तेन
सर्वदा । खलकाभ्यन्तरे कालः शनिसूर्य्येज्यमङ्गलैः ।
बुधशुक्रेन्दुभिर्बाह्ये यायी स्थायी क्रमाज्लयी ।
खलके मध्यनक्षत्रे यो ग्रहो यत्र संस्थितः । तत्र स्थाने
गते चन्द्रे फलं वक्ष्ये शुभाशुभम् । सूर्य्यस् थाने-
स्थिते शूरे मृत्युश्चन्द्रसमाश्रिते । भौमस्थाने
भहाक्रोधी बुधस्थाने महद्भयम् । गुरुस्थाने स्थितः
स्थास्नुर्भङ्गमायाति भार्गवे । शनिस्थे सक्षतं युद्धं
राहुस्थे मरणं ध्रुवम् । वक्रस्थाने भवेद्युद्धं शीघ्र
स्थाने च धावति । समचारगते स्थायी क्षीणेन्दु-
स्थे च मोहनम् । क्रूरपृष्ठे जयो युद्धे, सौम्यपृष्ठे
पराजयः । क्रूरे च संमुखे मृत्युर्ज्जयः सौम्य-
ग्रहे स्थिते । योधयोः पृष्ठगाः क्रूरा उभयोर्म्मृत्यु
कारकाः । सौम्याः सन्धिप्रदा युद्धे मिश्रा मिश्रफलप्रदाः ।”
  • २८ कोट चक्रम् (८)--“अथातः सं प्रवक्ष्यामि कोटयुद्धस्य
निर्णयम् । अल्पारिः कुरुते यत्र भूरिसैन्यपराभवम् ।
यस्याश्रयबलादेव राज्यं कुर्वन्ति भूतले । विग्रहं
चतुराशायां सामात्यैः शत्रुभिःसह । विषमं दुर्गभं
घोरं चक्र भीरुभयावहम् । कपिशीर्षञ्च शोभाद्यं
रौद्राट्टलकमण्डिनम् । प्रतोली यत्र कालास्यं परिखा
कालरूपिणी । रणमण्डकृताटोपः ठिङ्कुनीयन्त्रमण्डितम् ।
मुसलैर्मुद्गरैः पाशैःकुन्तखङ्गैर्धनुःशरैः । संयुतैः सुभटैः
शूरैरिति दुर्गं समादिशेत् । दुर्गस्थो दुर्गमः
शत्रुरसाध्यो येन सिध्यति । कोटचक्रं प्रवक्ष्यामि
विशषादष्टधा मतम् । प्रथमं मृण्मयं कोटं जलकोटं
द्वितीयकम् । तृतीयं ग्रामकोटञ्च चतुर्थं गिरिगह्वरम् ।
पञ्चमं पर्वतारोहं षष्ठकोटञ्च डामरम् । सप्तमं
वक्रभूमिस्थं विषमाख्यं तथाष्टमम् । मृण्मथे साधयेत्
खण्डिर्जलस्थे जलमोक्षणम् । ग्रामदुर्गेऽग्निदानञ्च
प्रवेशो गह्वंरस्य च । पर्वते स्थानभेदश्च भूबलं डामरे-
रणे । चक्राख्ये कविंयोगश्च विषमे स्थायियायिता ।
अतिवर्ण्णं कालकर्णञ्चक्रावर्त्तं च डामरम् । ताला-
यर्त्तञ्च पद्माङ्गं यक्षभेदञ्च शाम्बरम् । एतन्नामाष्टकं
ज्ञेयं दुर्गाष्टकक्रमेण च । यस्य वर्गस्य योभक्ष्यः
स वर्गस्तस्य भङ्गदः । अ गरुडः क मार्ज्जारः च सिंहः
ट शुनीसुतः । त सर्पः प आखुकश्च य गजः श
अजासुतः । दुर्गवर्गस्य ये भक्ष्या वर्ज्यास्तद्भागजा नराः ।
पृष्ठ २८२७
तद्वर्ग्यास्तु रणे त्याज्या न कर्त्तव्या गडाधिपाः स्ववर्ग-
पञ्चमे स्थाने खण्डिर्भङ्गश्च जायते । अवर्गाद्यष्टकं
ज्ञेयं पूर्वाद्यष्टदिशां क्रमात् । कोटचक्रं लिखेच्चादौ
चतुरस्रं त्रिनाड़िकम् । कृत्तिकादीनि भान्यत्र साभि-
जन्ति न्यसेद्बुधः । बहिः कोटे च मध्ये च मध्ये दुर्गे
बहिर्बहिः । प्रवेशो निर्गमस्तत्र ज्ञातव्यः स्वरवेदि-
मिः । ईशात् प्रवेशधिष्ण्यानि मध्यात् प्राचीविनि-
र्गमः । वहिर्द्वादश भान्यत्र प्राकारे तारकाष्ट-
कम् । दुर्गमध्ये तथा चाष्टौ तन्मध्ये स्तम्मतुर्य्यकम् ।
कृत्तिका पुष्यसार्पञ्च मघास्वातीविशाखकम् । अनुराधा-
भिजित् कर्णो धनिष्ठाश्वियमाह्वयम् । ब्राह्मं पुनर्वसु
भाग्यं चित्रा ज्येष्ठा तथोत्तरा १२ । शतभं रेवती चैवं
प्राकारे तारकाष्टकम् । मृगरौद्रोत्तराहस्तमूलमाषाढ-
पूर्वकम् । पूर्वोत्तरा तंथा भाद्रा मध्ये ताराष्टकं तथा ।
प्राच्यां रौद्रं यमे हस्तं पूर्वाषाढ़ा च पश्चिमे । कौवेर्य्या-
मुत्तरा भाद्रा ह्येतत्स्तम्भचतुष्टयम् । कृत्तिकाद्यं मघाद्यञ्च
मैत्राद्यं वासवादिकम् । त्रीणि त्रीणि प्रवेशे च द्वाद-
शर्क्षाणि निर्गमे । कृत्तिकादिरयं न्यासः सुबेधार्थः प्रद-
र्शितः । दुर्गभाद्गणना चात्र ग्रहैर्वाच्यं ततः फलम् ।
दुर्गनामस्थितो वर्णोयद्वर्गोच्चारितः स्फुटम् । तदाशादि
लिखेच्चक्रं क्रमात् स्वरविचक्षणैः । चतुरस्रं १ वृत्तं २ दीर्घं ३
त्रिकोणं ४ वृत्तदीर्घकम् ५ । अर्द्धचन्द्रं ६ तथा ज्ञेयं गोस्तनं ७
धनुराकृति ८ । चतुरस्रे यथा न्यासो भूमिभागक्रमेण च ।
प्रवेशे निर्गपे ह्यस्ति तथा वृत्तादिसप्तके । दुर्गे भित्ति
विभागेन दातव्यं धिष्ण्यमण्डलम् । तत्र स्थैः खेचरैः सर्वैः
फलं वाच्यं यथोदितम् । बाह्यभे मध्यभे वापि यत्रस्थाः
क्रूरखेचराः । तत्रस्थाने कृतं यत्न हन्ति दुर्गं ससैनि-
कम् । बुधशुक्रेन्दुजीवाश्च सदा सौम्या ग्रहा मताः ।
शन्यर्कराहुकेत्वारा मताः क्रूरा बुधैरिमे । त्रिप्रकारो
ग्रहे चारो वक्रः शीघ्रः समोमतः । उच्चनीचसमास्ते च
त्रिधा चक्रे भ्रमन्तिं च । ऊर्द्धं चाधः समास्तिर्ष्यग्दृष्टि-
भेदश्चतुर्विब्धः । स्वके मित्रे समं शत्रौ चतुर्द्ध च
गृहे ग्रहः । सूर्य्यमुक्ता उदीर्यन्ते शीघ्राश्चार्क्के
द्वितीयगे । समास्तृतीयगे यान्ति मन्दगत्या चतुर्थगे ।
वक्रः स्यात् पञ्चषष्ठेऽर्के त्वतिवक्रोऽष्टसप्तमे । नवमे
दशमे भानौ जायतेकुटिला गतिः । शीघ्रगाश्च भवन्त्येते
द्वादगैकादशे तथा । राहुर्वक्रः सदा ज्ञेयो रवीन्दू शीघ्र
गौ तथा । शीघ्रोऽतिचारगत्या च समश्च सप्तमन्दया ।
वक्रातिवक्रकौटिल्यगत्या वक्रग्रहोमतः । क्रूरोऽति-
क्रूरतां याति सौम्थोयात्यतिसौम्यताम् । वक्रचारे
समुत्पन्ने शीघ्रे तूक्तविपर्य्ययः । मेषो वृषोमृगः कन्या कर्क
मीनतुलास्तथा । रव्यादीनां क्रमादुच्चं नीचं यत्तस्य सप्त-
मम् । उच्चान्नीचाच्च यत्तुर्य्यं समस्थानं तदुच्यते । उच्चस्थं
मध्यमं नीचं वक्रे यत्र व्यवस्थितम् । ऊर्द्धदृष्टी च
भौमार्क्कौ केकरौ बुधभार्गवौ । समदृष्टी च जीवेन्दू
शनिराहू त्वधोदृशौ । सुहृदोर्क्केन्दुभौमेज्या एवं
शुक्रज्ञभानुजाः । अन्योन्यं वैरिणोह्येते राहीः सर्वे च
शत्रवः । स्वक्षेत्रस्थे बलं पूर्णं पादोनं मित्रभे ग्रहे ।
अर्द्धं समगृहे ज्ञेयं पादं शत्रुगृहस्थिते । क्रूरोगर्भे पुरं-
हन्ति प्राकारे खण्डिकारकः । बहिःस्थो वेष्टके सैन्थे
मृत्युदो नात्र संशयः । क्रूरागर्भे, शुभा बाह्ये निश्चितन्ते
पुरान्तकाः । सौम्या मध्ये बहिः क्रूरा असाध्यं
दुर्गमुच्यते । क्रूरचतुष्टयं मध्ये प्राकारे सोम्यखेचराः ।
भेदोभङ्गो भवेत्तत्र विना युद्धेन गृह्यते । प्राकारे
संस्थिताः क्रूरामध्ये सौम्याग्रहा यदि । दुर्गभङ्गे
समुत्पन्ने भङ्गमायाति वेष्टकः । मध्ये नाडीस्थिताः
सौम्याः क्रूरां बहिरवस्थिताः । सैन्यावर्त्तोबहिः शत्रो-
र्थिना युद्धेन जायते । प्राकारे पुरमध्ये च यदा
क्रूरा व्यवस्थिताः । सौम्या बाह्ये तदा दुर्गमयत्ने-
नापि सिद्ध्यति । सौम्या मध्ये च कोटे च बाह्ये
पापग्रहो यदि । देवैर्ब्रह्मादिभिर्दुर्गं रणारम्मे न
गृह्यते । प्राकारबाह्यगाः क्रूराः सौम्या मध्यगता यदि ।
युद्धे प्राकारखण्डिश्च पुरभङ्गो न जायते । सौम्या
बाह्ये तथा कोटे मध्ये क्रूरग्रहाःस्थिताः । स्वयं दुर्गं
प्रयच्छन्ति वेष्टकस्य गडाधिपाः । बाह्याभ्यन्तरगाः क्रूणाः
प्राकारे शोभना ग्रहाः । रिपुपक्षः क्षयं याति विना-
युद्धेन निश्चितम् । प्राकारस्था ग्रहाः क्रराबहिर्म्मध्ये
शुभाःस्थिताः । समयुद्धं भवेत्तत्र खण्डिःपाता दिने
दिने । स्तम्भान्तरगता यस्यं ग्रहाः सौम्याः शुभा-
न्विताः । भवेयुस्तस्य कोटस्य न नाशस्तु कदाचन ।
यदि साक्षादहं (शिवः) तत्र युध्यमानोरणेऽम्बिके ।!
तथापि न भयं विद्यादिति सत्यं च नान्यथा ।
भौम्याः क्रूराग्रहाश्चाष्टौ मध्ये प्राकारबाह्यगाः ।
एकस्था यत्र कुर्वन्ति सङ्ग्रामं तत्र दारुणम् ।
गजाश्वरथभूपालैः सामन्तैर्मण्डलेश्वरैः । तत्राप्यकभटा-
मर्द्द उभयोः सैन्ययोः क्षयः । बाह्ये शत्रुप्रवेशर्क्षे
पृष्ठ २८२८
संग्रामं चारभेद्यदा । तदा सिध्यति तत् दुर्गं न
करोतीह विस्मितम् । कोष्टस्थैस्तु गतोयोद्धा शस्त्रहस्तो
महाबलः । शस्त्रंत्यक्त्वा ब्रवीत्येवं धर्म्ममार्बं
ददख मे । निर्गमेषु च ऋक्षेषु संग्रामं यदि चारभेत् ।
नैव सिद्ध्यति तद्वुर्गं कोटस्थश्च जयावहः । बाह्यना-
ड्यां स्थिता ये च ग्रहाः पापान्विता यदा । मध्ये शुभा-
न्विता ये च तत्र भङ्गो न जायते । गडाधीशाः स्मृताः
सौम्या वेष्टाधीशाश्च पापकाः । क्षेत्रयुग्मे स्थिता ये च
ज्ञातव्याश्च प्रयत्नतः । गडाधीशो भवेच्चन्द्रो वेष्टाधीशश्च
भास्करः । चन्द्रसूर्य्यविभागेन ज्ञातव्यं च बलाबलम् ।
अंशाधीशोभवेच्चन्द्रस्ताराधीशोहि भास्करः । चन्द्र-
सूर्य्यगतिं ज्ञात्वा पश्चाद्द्वेषं तु कारयेत् । वेष्टाधीशो
भवेन्मध्ये गडाधीशो हि याह्यगः । स्वयं दुर्गं प्रय-
च्छन्ति वेष्टकस्य गडाधिपाः । चापकुन्तगदापाशखङ्ग-
हस्तैर्महाभटैः । अभङ्गयोर्द्वयो राज्ञोः सेन्यावर्त्तो हि
जायते । वाहिन्यो रक्तवाहिन्यो दुस्तराः प्रेतस-
ङ्कुलाः । वसासृक्पङ्कलिप्ताङ्गा अन्त्रमालावगुण्ठिताः ।
गृध्रकाकशिवाश्येनशाकिनीप्रेतराक्षसाः । वेतालखेच-
रा भूताः र्पिशाचाः स्वेच्छयादृताः । ईदृशञ्च मादा-
थोरं तत्काले जायते ध्रुबम् । न कश्चिद्विजयी युद्धे-
द्वयं याति यमालयम् । समसंख्याः शुभाः क्रूराः
बहिर्म्मध्ये यदा सिथताः । तदा सन्धिं विजानीयात्
सैन्ययोरुभयोरपि । क्रूरैर्भङ्गोजयः सौम्यैर्मिश्रै
र्मिश्रं फलं मतम् । विचार्य्य युद्धं कर्त्तव्यं कोटचक्रे
स्वरोदये । प्रबेशधिष्ण्यगे चन्द्रे जीवपक्षर्क्षसंस्थिते ।
निशि कविरणं दुर्गे कर्त्तव्यं बाह्यसैन्यकैः । निर्गम-
र्क्षस्थिते चन्द्रे दुर्गाभ्यन्तरगैर्न्नृपैः । कर्त्तव्यं
कवियुद्धं तु रात्रौ सुप्ते वहिर्ज्जने । प्रवेशनिर्गमावुक्तौ
सैन्ययोरुभयोर्न्निशि । कवौ कोटे जयोयुद्धे विपरीते
पराजयः । क्रूरोवक्री प्रवेशर्क्षे पुरमध्यगतो यदा ।
तदा कोटविनाशाय कोटम् थो बाह्यभूपतेः । प्रवेशे
बाह्यगैर्वक्रैः क्रूरैः स्वसैन्यविग्रहः । दुर्भिक्षं मृत्युर्भङ्गश्च
बहिःसैन्यस्य जायते । निर्गमर्क्षे बहिःस्थे च क्रूरो-
वक्रं करोति चेत् । प्राकारस्य भवेद्भङ्गः प्राकारस्थे
पुरस्य च । पुरभे निर्गमे वक्राः कथञ्चित् क्रूरखेचराः ।
दुर्गं सुक्त्वा तदा काले दुःर्गस्थः प्रपलायते । यथा क्रूरैस्तथा
सौम्यैः फलं ग्राह्यं विपर्य्यये । मिश्रैर्मिश्रं विजानीयात्
कोटचक्रे न संशयः । उक्तग्रहैः समायोगो न चात्यै-
र्न बलोञ्झितैः । न भास्करकरोच्छिन्नैर्न खेचरपरा-
जितैः । दुर्गसैन्यं तथा तूच्चे प्राकारे मघ्यभागतः ।
नीचस्थ वेष्टक सैन्य ज्ञातव्य स्वरवेदिभिः । कोटं
कोटाधिपौ नीचौ निघ्नन्तौ भौमभास्करौ । समस्थौ
च पुरं सर्वमुच्चस् थौ निफलौ च तौ । प्राकारवेष्टकान्
घ्रन्तावुच्चस्थौ राहुसूर्य्यजौ । प्राकारस्थौ बहिः-
सैन्यं नीचस्थौ निःफलौ चतौ । समदृष्ट्या गुरु
चन्द्रौ पश्यतः सर्वतः सदा । तिर्य्यकस्थानं बुधशुक्रौ
फलदौ नात्र संशयः । ऊर्द्ध्वदृष्टिग्रहैः कुर्य्यात्-
ढङ्कुलीयन्त्रवाहनम् । समे च साधयेत् खण्डिरन्ध्रपात-
मधोमुखे । दुर्गमध्यस्थिते सूर्य्ये जलशोषः प्रजायते ।
चन्द्रे भङ्गः, कुजे दाहो, बुधे बुद्धिबलानराः । वाक्पतौ
दुर्गमध्यस्थे सुभिक्ष प्रचुरं जलम् । चलचित्तानराः शुक्रे,
मृत्युरोगो शनैश्चरे । दुर्गमध्ये स्थिते राहौ भेदोभङ्गो
महद्भयम् । केतौ मध्यगते तत्र विषदानं गडाधिपे ।
इत्थमुक्तं फलं मध्ये एवं बाह्यस्थितैर्ग्रहैः । उपग्रह
समायोगादत्यन्तं प्राणसंशयः । अकारादिस्वराः पञ्च
पूर्वाद्याशाचतुष्टये । मध्येऽन्त्यं सव्यमालिख्य अन्तस्थाने
च खण्डिका । दुर्गनाम्नः स्वरोयस्य बालो वास्तमितो-
ऽपि वा । तद्दिने प्रारभेद्युद्धं दुर्गं सिद्ध्यति नान्यथा ।
वज्रार्गलविधांनं च कर्त्तव्यं दुर्गरक्षणे । भञ्जने
यमराजाख्यं यदुक्तं चादिजामले । शुक्रोबुधोगुरुर्मन्दो
राहुर्मन्दः सितोबुधः । चन्द्रः सूर्य्यः शनिः सौम्यो
वैशाखात् कोटपालकाः” ।
  • २९ गजचक्रम्--“अथातः सं प्रवक्ष्यामि चक्र”
मातङ्गनामकम् । येन विज्ञातमात्रेण यात्रायुद्धे जयोभवेत् ।
गजाकारं लिखेच्चक्रं सर्व्वावयवसंयुतम् । अष्टाविंशति
भान्यत्र देयानि सृष्टिमार्गतः । मुखे शुण्डाग्र
नेत्रेच कर्णे शीर्षाङ्घ्रिपुच्छके । द्विकं द्विकञ्च दातव्यं
पृष्ठोदरे चतुश्चतुः । द्विरदर्नामभान्यादौ वदनाद्गण्यते बुधैः ।
यत्र धिष्ण्ये स्थितः सौरिर्ज्ञेयं तत्र शुभाशुभम् ।
सुखशुण्डाग्रनेत्रे च सौरिभं सस्तकोदरे । युद्धकाले
भनेद्यस्य जयस्तस्य न संशयः । पादे पृष्ठे च पुच्छे च कर्ण-
संस्थे शनैश्चरे । मृत्युर्भङ्गो रणेतस्य ऐरावतसमोयदि ।
एतेषां दुष्टभानाञ्च यत्काले संस्थितः शनिः । तत्काले
पट्टबन्धश्च वर्जनीयः प्रयत्नतः । पृथिव्या भूषणं मेरुः
शर्व्वर्य्या भूषणं शशी । नराणां भूषणं विद्या सैन्यानां
भूषणं गजः । शरत्रोमरचक्राद्यैर्गजस्कन्धहतानराः ।
पृष्ठ २८२९
तत्क्षणात् स्वर्गप्तायान्ति तस्मात् स्वर्गोपमागजाः ।
नास्ति हस्तिसमोयोद्धा नास्तिहस्तिसमः सखा ।
नास्ति हस्तिसमोबन्धुर्न्नास्ति हस्तिसमोरिपुः” ।
  • ३० अश्वचक्रम्--“अश्वाकारं लिखेच्चक्रमश्वधिष्ण्यादिता-
रकाः । वदनात् सृष्टिगा देया अष्टाविंशतिसंख्यया ।
मुखाक्षिकर्णशीर्षेषु पुच्छाङ्घ्रौ युग्मसंख्यया । पञ्च
पञ्चोदरे पृष्ठे सौरिर्यत्र फलं ततः । मुखाक्ष्युदरशी-
र्षेषु यदा सौरिर्व्यवस्थितः । युद्धकाले तदा तस्य जयो
भवति नान्यथा । कर्णपुच्छाङ्घ्रिपृष्ठस्थे अश्वचक्रेऽर्क-
नन्दने । विभ्रमं भङ्गं हानिञ्च करोत्यश्वो महाहवे ।
एतत्स्थाने स्थितः सौरिर्यदा काले हयस्य च । पट्ट-
वन्धे गमे युद्धे वर्ज्जयेत्तं हयं नृपः । देशान्तर-
स्थितास्तस्य रिपवः सन्ति शङ्किताः । तुरङ्गायस्य
भूपस्य विचरन्ति महीतले । मेदिनी तस्य यस्याश्वा
इति वाक्यं विनिश्चितम् । सर्व्वाःश्रियो न राजन्ते विना-
ऽश्वेन महीभुजाम्” ।
  • ३१ रथचक्रम्--“आदौ चक्रं समालिख्य रथाकारं सुशो-
भनम् । रथाग्रे त्रित्रिशूलानि रथचक्रं त्रिदण्डकम् ।
भानुभं मध्यशूलाग्रे ततः स्वर्क्षगतानि च । त्रीणि त्री-
णि लिखेदेवं सप्तविंशतिसंख्यया । महारथिकनक्षत्रं
यत्र तत्र शुभाशुभम् । शृङ्गे मृत्युर्ज्जयश्चक्रे रथे
सन्धिः सदण्डके” ।
  • ३२ व्यूहचक्रम्--“अष्टारं वर्त्तुलाकारं व्यूहचक्रं त्रिना-
डिकम् । दण्डचतुष्टयं बाह्ये कर्त्तव्यञ्च चतुर्द्दिशम् ।
पूर्व्वदण्डाग्रतोन्यस्य दिनभाद्यं भमण्डलम् । प्रवेशे निर्ग-
मे चैव त्रीणि त्रीणि प्रदक्षिणे । शशिसंज्ञाष्टकं मध्ये
तद्बाह्ये भानुसंज्ञकम् । तृतीयं राहुसंज्ञं च क्रेतु
र्दण्डवतुष्टये । चन्द्रर्क्षे विजयोलाभः सूर्य्यर्क्षे मध्यसं
फलम् । रांहुधिष्ण्याष्टके विघ्नं मृत्युः केतुचतुष्टये ।
एवमुकं चतुःस्थाने यद्दिने यस्य नामभम् । तद्दिने
तत् फलं तस्य सर्वकार्य्येषु सर्वदा” ।
  • ३३ कुन्तचक्रम्--“कुन्ताकारं लिखेच्चक्र तीक्ष्णदण्डसम-
न्वितम् । दिनभादि समारभ्य कर्त्तव्यं नवकत्रयम् ।
राजभं नथके यत्र तत्र वक्ष्ये शुभाशुभम् । तीक्ष्णे मृत्यु
र्ज्जयोदण्डे शेषधिष्ण्ये समं रणम्” ।
  • ३४ खङ्गचक्रम्--“खड्गचक्रं समालिख्य नवभेद समन्वि-
तम् । योधधिष्ण्यात् समारभ्य त्रीणि त्रीणि लिखे-
द्बुधः । यवं वज्रं तथा मुष्टिं पालिकां वन्धधारिके ।
स्वड्गं तीक्ष्णं विजानीयान् नवाङ्गानि विधानतः ।
यवादौ यत्र बन्धान्ते जायन्ते क्रूरखेचराः । मृत्यु-
र्भङ्गो भवेदुद्धं सोम्यैर्लाभो जयस्तथा । खड्गे
धाराद्वये तीक्ष्णे क्रूरैर्जयति सङ्गरे । सौम्यैस्तथा
भवेद्भङ्गो मिश्रैर्मिश्रफलं मतम्” ।
  • ३५ छुरिकाचक्रम् । “यथा खङ्गं तथा विद्याच्छुरिका
चक्रनिर्णयम् । क्रूरसौम्यविभागेन योधधिष्ण्यादि
विन्यसेत्” ।
  • ३६ चापचक्रम्--“चापचक्रं समालेख्य गुणवाणसमन्वितम् ।
शशिनक्षत्रतोभानि त्रीणि त्रीणि समालिखेत् । त्रीणि-
वाणस्य मूले तु मध्ये मूर्द्ध्निक्रमात्तथा । चापमूलस्य
मध्योर्द्धे त्रीणि त्रीणि तथा पुनः । गुणे तु त्रीणि
त्रीण्येव योधनक्षत्रतः फलम् । शरमूले भवेन्मृत्युर्मध्ये
व्याधिः फले जयः । गुणमध्ये भवेद् भङ्गश्चापमध्ये
धनक्षयः । चापोर्द्धे विजयोज्ञेयो, गुणोर्द्धे लाभसंयु-
तः । चापाधो विग्रहो मृत्युर्गुणाधोऽपि तथा फलम् ।
पापग्रहयुते नेष्टं विशेषेण तु नान्यथा । सौम्ययोगे
जयोलाभश्चापचक्रे समादिशेत् । शुभपापसमायोगे
बलाधिक्ये बलं स्फुटम्” ।
  • ३७ शनिचक्रम्--“शनिचक्रं नराकारं लिखित्वा सौरिभा-
दितः । नामधिष्ण्यं भवेद्यत्र ज्ञेयं तत्र शुभाशुभम् ।
मुखैकन्दक्षदोस्तुर्य्यं षट्पादे तुर्य्यं वामके । हृदि पञ्च
त्रयं शीर्षे नेत्रगुह्ये द्विकद्विकम् । हान्यास्ये दक्षदोर्लाभः
भ्रमोऽङ्थ्रौ वामदोरुजम् । हृदि श्रीर्मस्तके राज्यं नेत्रे
सौख्यं मृतिर्गुदे । जन्माष्टद्वादशे तुर्य्ये यदा विघ्न-
करः शनिः । तदा सौख्यं यपुस्थ चेत् हृत्शीर्ष नेत्रद-
क्षदोः । तृतीयैकादशे षष्ठे यदा सौख्यकरः शनिः ।
तदा विघ्नं शरीरं चेत् वक्त्राङ्घ्रिगुह्यवाभदोः । यस्य
पीड़ाकरः सौरिस्तस्य चक्रमिदं स्फुटम् । लिखित्वा
कृष्णवर्णेन तैलमध्ये क्षिपेद्बुधः । निःक्षिप्य भूमिमध्यस्थं
कृष्णपुष्पैः प्रपूजयेत् । तुष्टिं याति न सन्देहः पीड़ां
मुक्त्वा शनैश्चरः” ।
  • ३८ सेवाचक्रम्--“सेवाचक्रं शीरे सप्त पृष्ठे सप्त तथोदरे ।
पादयोः सप्त ऋक्षाणि साभिजिन्त्यत्र विन्यसेत् । स्वामि-
भाद्भृथभं गुण्यं, भृत्यभात् स्वामिभं तथा । निम्फलं
पादपृष्ठस्थे फलदं मस्तकोदरे” ।
  • ३९ नरचक्रम्--“नरचक्रं समालिख्य अष्टावयवसंयुतम् ।
येन विज्ञातमात्रेण क्रियते क्षातनिर्णयः । मुखैकं मस्तके
पृष्ठ २८३०
त्रीणि हस्ते पादे चतुश्चतुः । हृदि पञ्च त्रिकं कण्ठे
साभिजित् तत्र विन्यसेत् । कृत्वा योधभमादौ तु
मुखमस्तकवामके । हस्तपादोदरे कण्ठे दक्षहस्ताङ्घ्रि
गण्यते । यत्राङ्गे भानुभौमार्किराहवोधिष्ण्यसंस्थिताः ।
तत्र घातं विजानीयात् चन्द्रयोगे विशेषतः । ग्रह-
भुक्तिप्रमाणेन नवांशकक्रमेण च । प्रहारोजायते तत्र
वक्रे द्विगुणसंख्यया । निजभे चार्द्धघातं च पादोनं
मित्रभे ग्रहे । उदासीने भवेत् सर्वं द्विगुणं शत्रूक्षेत्रगे ।
एकोऽप्यनेकघातं च करोति भूबलोज्झितः । भूबले
च यदा खेटाः स्थिताघातं न कुर्वते । यत्र यत्र स्थिते
घातो यत्रयत्रस्थितेन हि । तत्फलं कथयिष्यामि
ग्रहभूमिवशात्पुनः । क्रूराथातं न कुर्वन्ति पृष्ठदक्षिणगा
रणे । सम्मुखाबामगा ह्येते योधाङ्गे घातकारकाः ।
दक्षिणाङ्गे गताः क्रूराः सौम्यावामाङ्गसंस्थिताः ।
शिरश्छेदे समुत्पन्ने भटं धावति सम्मुखम् । यस्य
वामाङ्गगाः क्रूराः सौम्या यस्य च दक्षिणे । तस्य मङ्गे
रणे नूनं यदि शूरो महाभटः” ।
  • ४० डिम्भचक्रम्--“डिम्भचक्रे न्यसेद्भानि भानुभात् त्रीणि
मस्तके । मुखे त्रीणि द्वयं स्कन्धे एकैकं बाहुहस्तयोः ।
पञ्चहृन्नाभिगुह्यैकं षट्जान्वैकैकपादयोः । विलेख्यं-
स्नर्य्यनक्षत्रात् जन्मभं तत्र चित्तयेत् । शीर्षस्थे छत्रला-
भश्च वक्त्रे मिष्टान्नभोजनम् । स्कन्धेऽवनी च, बाहुभ्यां
स्थानभ्रष्टोमवेन्नरः पाणिभ्यां तस्करोलक्ष्मी र्हृद्यल्पायुश्च
नाभिभे । गुह्ये कामी, भ्रमो, जानौ, स्तोकजीवी च
पादयोः” ।
  • ४१ पक्षिचक्रम्ं--“चञ्चुमस्तकूकण्ठे च हृद्युदराङ्घ्रिपक्षयोः ।
त्रीणि त्रीणि क्रमेणैव शशिभाद्विन्यसेद्बुधः । चञ्चुस्थे
नामभे मृत्युः, शीर्षे कण्ठोदरे हृदि । विजयः क्षे
मलाभश्च च भङ्गदं पादपक्षयोः” ।
  • ४२ वग्र्गचक्रम्--“अगरुडःक मार्जारश्चः सिंहः टः शुनी-
सुतः । तःसर्पः प आखुश्च य गजः शअजासुतः ।
वसुवाणाङ्गवेदास्तु चन्द्राग्निनेत्रवह्नयः । वर्गाङ्काः क्रमशो-
ज्ञेया वैनतेयाद्यजात्तकाः । पूर्वादिक्रमशो ज्ञेयं वर्गो-
परिदिगष्टकम् । नाम्नि मात्राक्षराः ग्राह्या वर्गाङ्कोपेत
संख्यया । प्रत्येकं स्थापयेत्तत्र पिण्डं कृत्वाष्टभिर्भजेत् ।
शेषसंख्यो ध्वजो १ धूम्रः २ सिंहः ३ श्वा ४ वृष ५ रास
भौ६ । गजो७ धाङ्क्षः८ क्रमेणैवमायाह्यष्टौ भवन्ति च ।
धाङ्क्षश्वरासंभोक्षाणो गजः सिंहोध्वजोऽनलः । यथो-
त्तरवलाः सर्वे ज्ञातव्याः स्वरवेदिभिः । प्रभौ योधे
पुरे देशे मित्रनारोगृहेषु च । बलिन्याये भवेल्लाभोन
लाभोबलवर्ज्जिते” ।
  • ४३ आयचक्रम्--“ध्वजोधूर्म्रोऽथ सिंहःश्वा सौरभेयः
खरोगजः । ध्वाङ्क्षश्चेति क्रमेणैव आयाष्टकदिशाष्टके ।
प्रतिपदाद्वितीयादौ तिथिभुक्तिप्रमाणतः ।
अहोरात्रे ततः सर्वेयामभुक्त्या भ्रमन्ति च । इन्दस्थाने
महालाभ आग्नेय्यां मरणं ध्रुवम् । दक्षिणे विजयः
सौख्यं, नैरृत्यां बन्धनं मृतिः । वारुण्यां सर्वलाभश्च
वायव्यां हानिकारकम् । उत्तरे धनधान्यं च
त्वैशान्यां निःफलं मतम् । अतीतं गोहारधाङ्क्षै
र्वर्त्तमानं ध्वजेऽनले । अनागतं परं विद्यात् धूम्र
कुक्कुट हस्तिभिः । वृषे ध्वजे समीपस्थं, दूरस्थः गजसिं-
हयोः । श्वाने खरे च मार्गस्थो निःफलं धूम्रधाङ्क्षयोः ।
ऐन्द्राग्नेय्यो र्मूलचिन्ता धातोर्द्दक्षिणनैरृतौ । वारु-
ण्यां धातुचिन्ता च जीवचिन्तोत्तरे शिवे” ।
आयावर्गाष्टके ज्ञेया दिगष्टकक्रमेण च । स्वोदये मृत्युदं ज्ञेयं
सर्वकार्य्येषु सवर्दा” ।
  • ४४ विरिञ्चिचक्रम्--“अथातः संप्रवक्ष्यामि सद्यःप्रत्ययका-
रकम् । चक्रं विरिञ्चिविख्यातं यत्सूरैरपि दुर्गमम् ।
कृत्तिका चोत्तरा फाल्गुन्युत्तराषाढभादितः । पङ्क्ति
युक्त्या न्यसेद्भानि क्रमेण नवकत्रयम् । वेधोऽबि तिर्य्य-
गस्तत्र कर्त्तव्यो नवकत्रये । क्रूरसौम्यैर्ग्रहैर्विद्धं ज्ञेयं तत्र
शुभाशुभम् । जन्मसम्पद्विपत्क्षेमं प्रत्यरिः साधको
बधः । मित्रातिमित्रगास्तारानव भेदा भवन्ति च ।
जन्मत्रयस्य वेधेन मृत्युः क्रूरग्रहैर्यवेत् ।
जयोलाभः शुभैस्तत्र मिश्रैर्मिश्रफलं मतम् । सौम्योयः
शुभतारास्थस्तत्ताराभावपोषकः । दुष्टास्थो दुष्टमाध्रत्ते
क्रूरे तस्माद्विपर्ययः । जन्मत्रये स्थितः सौरिः क्षेमाये-
राहुभूमिजौ । मित्रातिमित्रगे सूर्ये जायते बधयन्धनम् ।
जन्मत्रये यदा मन्त्री क्षेमाये बुधभार्गवौ । मित्राति
मित्रगे चन्द्रे जयलाभसुखानिच । त्रिपञ्चसप्तनासु रोगोत्
पत्तिर्यदा तदा । चिरं रोगे मृतिस्तासु क्रूरविद्धासु
जायते” ।
  • ४५ सप्तशलाकचक्रम्--“तिर्यगूर्द्धं गतारेखा सप्तसप्त न्यसे-
द्बुधः । कृत्तिकादीनि भान्यत्र साभिजिन्ति कमेण च ।
भुक्तं भोग्यं तथाऽऽक्रान्तंविद्धं पापग्रहेण भम् । शुभा-
शुभेषु कार्येषु वर्ज्जनीयं प्रयत्नतः । यस्याभिधान
पृष्ठ २८३१
नक्षत्रं विद्धं क्रूरग्रहेण च । देशग्रामं पुरं सैन्यं
नरोनारी विनश्यति” । अधिकमुपयमशब्दे १२६३ पृ० दृश्यम् ।
  • ४६ पञ्चशलाकचक्रम्--“तिर्यगूर्द्धगताः पञ्च द्वे द्वे रेखे च
कोणयोः । ईशकोणाग्ररेखायां कृत्तिकां विलिखेद्बुधः ।
विशाखाकृत्तिकावेधो भरण्याश्चानुराधया । धनिष्ठा
सार्पयोवेधो मधाश्रवणयोस्तथा । शुभाशुभैर्ग्रहैर्विद्धं
विवाहे परिबर्जयेत् । यदि विद्धं महादुष्टं क्रूरवेधे-
महद्भयम्” । अधिकमुपयमशब्दे १२६३ पृ० दृश्यम् ।
  • ४७ चन्द्रचक्रम्--वक्रेन्दुसदृशं चक्रं त्रित्रिशूलसम-
न्बितम् । मध्ये द्वादश भान्यत्र षट् पृष्ठे नव शूलके ।
मध्ये शूलस्य मध्यस्थं शशभृदृक्षमादितः । सव्येन
मण्यते चक्रं यावद्योधस्य नामभम् । शृङ्गे मृत्युर्भयं
मध्ये, पृष्ठे भङ्गो महाहवे । चतुरङ्गे कवौ कोटे द्वन्द्वे
युद्धे विशेषतः” ।
  • ४८ भास्करचक्रम्--“रेखात्रयं त्रिशूलाग्रं तिर्य्यग्रेखा-
षड़न्वितम् । एकैकाः कोणगास्तत्र मध्याधोभानुभादितः ।
अधस्त्रये भवेन्मृत्युश्चतुर्भिः कोणगैः शुभम् । द्वादश
सध्ये संप्रोक्ता नवर्क्षाश्चैव दाहकाः ।”
  • ४९ प्रथममातृकाचक्रम्--“षोड़शोर्द्धगतारेखाः पञ्च रेखाश्च
तिर्य्यनाः । कोष्ठकानां भवेद् षष्टिर्मात्राङ्कस्वरयोजना ।
पूर्णिमादिविलोमर्क्षान् लिखेत् प्रतिपदादिकान् । तदधो
मातृकालेख्या ङञणान्त्यस्वरोज्झितान् । संगृह्य
नामवर्णाङ्कान् मात्राभेदेन संयुतान् । मुनिभि(७)स्तु
हरेद्भागं पश्चात् ज्ञेयं शुभाशुम् । मात्राधिके भवेल्लाभो
मात्राहीने पराजयः । मातृकायाः प्रभेदोऽयं तस्मात्
ज्ञेयः प्रयत्नतः” ।
  • ५० द्वितीयमावृकाचक्रम्--“द्वादशोर्द्धगता रेखाः पञ्च-
रेखाश्च तिर्य्यगाः । मातृकाप्रस्तरे तत्र षण्डान्त्यस्वर-
वर्ज्जितान् । कोष्ठकाधोलिखेदङ्कान् पञ्च युग्मं त्रिकं
त्रयम् । षड्द्वयमष्टकं त्रीणि नवकैकं तथैव च । नाम
वर्णस्य या संख्या मात्रासंख्या तथैव च । पिण्डिता
नवमिर्भक्ता जयोमात्राधिके रणे ।”
  • ५१ तृतीयमातृकाचक्रम्--“भानुमार्त्तण्डदोर्वाणतिथ्यद्रिरस-
दिग्गजाः । नवाङ्कास्तदधः स्थाप्याः पञ्चस्वरकखा-
दितः । ङञणोना हकारान्ता नबधा कोष्ठकक्रमैः ।
नाममात्राक्षराङ्कैक्यसप्तशेषेऽधिके जयः” ।
“भूवाणादित्यदोर्वाणतिथिवेदाश्वदिग्रसान् । वसुनन्दान्त-
लान् लिख्य षण्डकोज्झितमातृकाम् । पुन्नामवर्णमात्राणा
मङ्कयोगेऽष्टशेषके । मात्राधिके जयो युद्धे मात्राहीने
पराजयः” पाठान्तरम् ।
  • ५२ विजयचक्रम्--“अथ सारतरं वक्ष्येलम्पटाचार्य्यभाषि-
तम् । जयपराजयौ येन नामोच्चारणतः स्फुटम् ।
लग्नालग्नप्रभेदेन घोषाघोषक्रमेण च । प्रवेशनिर्ग-
माभ्यां च चक्रं जयपराजयम् ।”
  • ५३ श्येनचक्रम्--“श्येनचक्रं समालिख्य पक्षिरूपं
सुशोभनम् । चञ्च्वग्रे भानुभं कृत्वा अष्टाविंशतिभंलिखेत् ।
ऋक्षैकं चञ्चुकोटिस्थं शीर्षे नेत्रे त्रिकं त्रिकम् ।
पादे पृष्ठे चतुष्कं च उदरे नव भानि च । नाम ऋक्षं
स्थितं यत्र फलं तस्य वदाम्यहम् । चञ्च्वग्रे
बधबन्धाय नामर्क्षं च यदा भवेत् । लाभः शीर्षोदरे नेत्रे-
ऽशुमं स्यात् पादपृष्ठयोः ।”
  • ५४ तोरणचक्रम्--“नाड़ीचतुष्टयं चक्रं लिखित्वा
तोरणाकृतिं । नृपभाद्विन्यसेत् भानि प्रवेशे निर्गमे तथा ।
स्तम्भमूले स्थितान्यष्टौ सिंहद्वारे तथाष्टकम् । मालाया-
मष्टकं चैव चतुर्धिष्ण्यानि तोरणे । निर्गमे चन्द्रमा
यत्र प्रवेशे यत्र भास्करः । तत्र काले शुभा यात्रा
विपरीता च हानिदा । चन्द्रःप्रवेशऋक्षस्थो
निर्गमस्थो दिवाकरः । बधबन्धनदा यात्रा प्रवेशे तत्र
शोभना । चन्द्रादित्यौ प्रवेशर्क्षे अथ वा निर्गमे स्थितौ ।
मिश्रं फलं भवेत्तत्र प्रवेशे वाऽथ निर्गमे । क्रूरग्रह
युतश्चन्द्रः प्रवेशे वाऽथ निर्गमे । तद्दिने भूभुजां चैव
निषिद्धा राजपट्टिका । शुभग्रहयुते चन्द्रे ३ सिंहद्वार-
भसंस्थिते । प्रवेशः पट्टवन्धश्च भूभुजां शोभनः स्मृतः ।
स्तम्भे सौरिर्नृपं हन्ति सिंहे स्वचक्रविग्रहः । माला-
स्थिते बलं राज्यं तोरणे सर्वसिद्धिदः” ।
  • ५५ अहिचक्रम्--“अहिचक्रं प्रवक्ष्यामि यथा सर्वज्ञ
भाषितम् । द्रव्यं शल्यं तथा शून्यं येन जानन्ति
साधकाः । निधिर्न्निबर्त्तनैकस्थः सम्भ्रान्तो यत्र भूतले ।
तत्रचक्रमिदं स्थाप्यं स्थानद्वारमुखस्थितम् । ऊर्द्ध्वरेखा-
ष्टकं लेख्यं तिर्य्यक् पञ्च तथैव च । अहिचक्रं भवत्येव
मष्टाविंशतिकोष्ठकम् । अहिगत्या च नक्षत्रे
तत्काले यत्र चन्द्रमाः । द्रव्यं शल्यं भवेत्तत्र चन्द्र
भास्करसंक्रमे । तत्र पौष्णाश्वियाम्यर्क्षकृत्तिकामघ-
भाग्यकम् । उत्तराफालगुनी लेख्यं पूर्ब्बपङ्क्त्यां
भसंज्ञकम् । अहिर्बुध्नाजपादर्क्षे शतभं ब्राह्मसर्पभम् ।
पुष्पं हस्तं समालेख्यं द्वितीयपङ्क्तिसंस्थितम् । विघिं
पृष्ठ २८३२
विष्णुं धनिष्ठाख्यं सौम्यं रौद्रं पुनर्वसुम् । चित्रभं
च तृतीयायां पङ्क्तौ वै धिष्ण्यसप्तकम् । विश्वभं
तोयभं मूलं ज्येष्ठां चैत्रविशाखके । स्वातीं पङ्क्त्यां
चतुर्थ्यां च कृत्वाथ प्रविलोकयेत् । एवं प्रजायते चक्रे
प्रस्तारः पन्नगाकृतिः । द्वारस्तम्भे मघायाम्ये द्वारस्था
कृत्तिका ततः । अश्विन्यादित्रिऋक्षञ्च आर्द्रादिपञ्चकं
तथा । रेवती पूर्वभाद्रेन्दोः पूर्वाषाढचतुष्टयम् । शेषाणि
भानुभान्यत्र प्रोक्तानि सर्वसंख्यया । शशाङ्के चन्द्र-
भे द्रव्यं शल्यं भवति सूर्य्यभे । उदयादिगताबाड्यो
भ २७ घ्नाःषष्ट्याप्तशेषके । दिनेन्दुभुक्तयुक्तोऽसौ भवेत्
तत्कालचन्द्रमाः । ग्रहैर्भुक्तानि धिष्ण्यानि खखभै
र्गुणयेत्ततः । भुक्तपादकलायोज्याः षष्ट्या भागं
ततोहरेत् । लब्धस्य त्रिंशता भागो ग्रहाःस्युः शशिपूर्वकाः ।
अश्विन्यादीन्दुभुक्तानि भानि षष्टिहतानि च । स्वभुक्त
नाडीसंयुक्तं द्विव्नं नन्द ९ हृतं त्रिधा । दिनेन्दुभुक्तमा-
गादि जायन्ते चेष्ठकालिकाः । चन्द्रवत् साधयेत्-
सूर्य्यमृक्षस्थं चेष्टकालिकम् । पश्चात् विलोकयेत् तौ
च स्वऋक्षे चात्यभे स्थितौ । चन्द्रर्क्षे च यदाऽ-
र्केन्दू तदास्ति निश्चितं निधिः । भानुऋक्षे-
गतौ द्वौ च तदा शल्यं न संशयः । स्वस्व भे
द्वितयं ज्ञेयं नास्ति किञ्चिद्विपर्य्यये । स्थितं न लध्यते
द्रव्यं चन्द्रे क्रूरग्रहान्विते । पुष्टे चन्द्रे भवेत्पुष्टः
क्षीणे चन्द्रेऽल्पको निधिः । ग्रहदृष्टिवशात् सोऽपि
विज्ञेयो नवधा बुधैः । नवांशकानुमानेन भूमानं
तस्य कल्पयेत् । कालमानेन तत्संख्या धातुज्ञानं
निरीक्षणैः । हैमं तारं च ताभ्रं च रत्नं कांस्याय-
सं त्रपु । चन्द्रे नागंविजानीयाद् भास्करादिग्रहेक्षिते ।
भिश्रैर्मिश्रं भवेद्द्रव्यं शून्यं दृष्टिविवर्जिते ।
सर्वग्रहेक्षिते चन्द्रे निर्दिष्टोऽसौ महानिधिः । हैमं
तारञ्च ताम्रारं पाषाणं मृण्मयायसम् । सूर्यादिगृह-
गे चन्द्रे द्रव्यभाण्डं प्रजायते । भुक्तराश्यंशमा-
नेन भूमानं कायिकैः करैः । नीचे निम्नः, परे नीचे-
जलस्थोऽसौ महानिर्धिः । स्वोच्चस्थे ऊर्द्ध्वगं द्रव्यं
नवांशकक्रमेण च । कोष्ठद्वयं परित्यज्य लेख्या
मेषादयः क्रमात् । प्रश्नलग्नाधिपोयत्र तत्र द्रव्यं
विनिर्दिशेत् । परमोच्चे परे तुङ्गे भित्तिस्थमृक्ष
संक्रमे । चन्द्रांशभुक्तिमानेन द्रव्यसंख्याभिधीयते ।
तस्वद्दशगुणा वृद्धिः षड्वर्गे तु वलक्रमात् । अघिष्ठितं
भवेत् द्रव्यं यत्र चन्द्रो ग्रहान्वितः । तदधिष्ठायको-
ज्ञेयो भास्करादिग्रहक्रमात् । ग्रहं मुख्यग्रहं चैव
क्षेत्रपालं च मातृकाम् । दीपेशं भीषणं रुद्रं यक्षं नागं
विदुः क्रमात् । ग्रहे होमः प्रकर्त्तव्यो मुख्ये नायराणो
बलिः । क्षेत्रपाले सुरामांसं मातृकायां महाबलिः ।
दीपेशे दीपिकापूजा भीषणे भीषणार्चनम् । रुद्रे
च रुद्रियोजाप्योयक्षे यक्षादिशान्तयः । नागे नाम
ग्रहाःपूज्या गणनाथेन संयुताः । लक्ष्मीधरादितत्त्वानि
सर्वकाय्येषु पूजयेत् । निर्वर्त्तनैकमध्ये च सम्भ्रान्तो
यत्र भूतले । तत्र चक्र लिखेद्धीमान् द्रव्यशल्यस्य
निर्णयम् । एवं कृतविधाने तु असाध्यो निधिराप्यते ।
निधिं प्राप्य नरा लोके वन्दनीया न संशयः” ।
  • ५६ चन्द्रशृङ्गोन्नतिचक्रम्--“मीनमेषोदयश्चन्द्रः सततं
दक्षिणोत्तरा । उत्तरोत्तरशेषेषु समत्वं वृषकुम्भयोः ।
विट्वरं स्यात् समे चन्द्रे दुर्भिक्षं दक्षिणोन्नते । इति
रोगं भयं शूले सुभिक्षं तूत्तरोन्नते” ।
  • ५७ जीवचक्रम्--“शीर्षे राज्यं चतुर्भिर्भवति खलु करे
दक्षिणे श्रीश्चतुर्भिः पीड़ां षड़्भिः पदस्थैर्मृतिरपि
च भवेद्वामहस्ते चतुर्भिः । कण्ठेचैकेन भूतिर्मदन-
शरमितैर्वक्षसि प्रीतिलाभः स्यान्नेत्रस्थैस्त्रिभिर्मैरपि
वशमसुखं वाक्पतेश्चक्रमेतत्” ।
  • ५८ लाङ्गलचक्रम्--“लाङ्गलं दण्डिकायूकं योत्रद्वयसम-
न्वितम् । दण्डिकादि लिखेद्भानि दिनेशाक्रान्तभादितः ।
दण्डिकाहलयूकानां द्विद्विस्थाने त्रिकं त्रिकम् । योत्रयोः
पञ्चकं सव्यगणना चक्रलाङ्गले । दण्डस्थे च गवां
हानिर्युगस्थे स्वामिनो भयम् । लक्ष्मीर्लाङ्गलयोत्रस्थे
क्षेत्रारम्भो दिनर्क्षगे” । “त्रिकं त्रिकं त्रिकं पञ्च त्रिकं
पञ्च द्विकं द्विकम् । अशुभानि शुभानि स्युश्चक्रे लाङ्गल
संज्ञके” क्वचिदधिकः पाठः ।
  • ५९ वीजोप्तिचक्रम्--“सूर्य्यभादुरगं स्थाप्यंत्रिमाड्येकान्त
न्तरं क्रमात् । मुखे त्रीणि गले त्रीणि भानि द्वादश
चोदरे । पुच्छे तुर्य्यं बहिः पञ्च दिनभाच्च फलं वदेत् ।
वदने पुलाकं विद्याद्गलकेऽङ्गारकस्तथा । उदरे धान्य-
वृद्धिश्च पुच्छे धान्यक्षयोभवेत् । ईतिरोगभयं बाह्ये चक्रे
वीजोप्तिसम्भवे” ।
  • ६० वृषचक्रम्--“वृषचक्रं वृषाकारं सर्वावयवसंयुतम् ।
लिखित्वा विन्यसेद्भानि वृषनामर्क्षपर्वकम् । मुखाक्षि-
कर्णशीर्षेषु शृङ्गस्कन्धे द्विकं द्विकम् । त्रीणि पुष्ठे द्विद्धं
पृष्ठ २८३३
पुच्छे र्द्विर्द्विः पादोदरे न्यसेत् । हलप्रवाहवीजोप्तिप्रार-
म्भादिदिनर्क्षकम् । यत्राङ्गे संस्थितश्चन्द्रस्तस्य वक्ष्ये शुभा-
शुभम् । हान्यास्ये च सुखानि लोचनगते कर्णे च
भिक्षाटनम्, शीर्षे स्यात् मृतिरत्र शृङ्गकयुगे स्कन्धे स्थिते
शोभनम् । पृष्ठे राजभयं च पुच्छभगते पादे भ्रमं हृत्-
सुखमेवं चन्द्रभजं फलं प्रकटितं चक्रे वृषाख्ये नृणाम्” ।
  • ६१ सप्तनाडीचक्रम्--“अथातः संप्रवक्ष्यामि यच्चक्रं
सप्तनाडिकम् । येन विज्ञातमात्रेण वृष्टिं जानन्ति
सांधकाः । कृत्तिकादि लिखेद्भानि साभिजिन्ति क्रमे-
ण च । सप्तनाडीव्यधस्तत्र कर्त्तव्यः पन्नगाकृतिः ।
ताराचतुष्कवेधेन नाड्येकैका प्रजायते । तासां
नामान्यहं वक्ष्ये तथा चैव फलानि च । कृत्तिका च
विशाखा च मैत्राख्यं भरणी तथा । ऊर्द्धाख्या शनि
नाडी स्याच्चण्डनाड्यभिधा मता । रोहिणी स्वाति
ज्येष्ठाश्वि द्वितीया नाडिका मता । आदित्यप्रभवा नाडी
नायुनाडी तथैव च । सौम्यं चित्रा तथा मूलं पौष्णर्क्षं
च चतुर्थकम् । तृतीयाऽङ्गारका नाडी दहनाख्या
तथैव च । रौद्रं हस्तं तथा पूर्वाषाढभाद्रोत्तरा तथा ।
चतुर्थी जीवनाडी स्यात् सौम्या नाडी प्रकीर्त्तिता ।
पुनर्वसूत्तराफाल्गुन्युत्तराषाढतारका । पूर्वभाद्रश्च शुक्रा-
ख्या पञ्चषी नीरनाडिका । पुष्यर्क्षं फालगुनी
पूर्वा सामिजिच्छततारका । षष्ठी नाडी च विज्ञेया
वुधाख्या जलनाडिका । अश्लेषर्क्षं मघा कर्णो
धनिष्ठाभं तथैव च । अमृताख्या हि चन्द्रस्य सप्त नाड्यः
प्रकीर्त्तिताः । मध्यमार्गे स्थिताः सौम्या नाडी तस्याग्र
पृष्ठतः । सौम्ययाम्यगतं ज्ञेयं नाडिकानां त्रिकं
त्रिकम् । क्रूरा याम्यगता नाड्यः सौम्याः सौम्यदि-
गाश्रिताः । मध्यनाडी च मध्यस्था ग्रहरूपफल
प्रदा । एकनाडीगता द्व्याद्या ग्रहाःक्रूराः शुभायदि ।
ततोनाड़ीफलं वाच्यं शुभं वा यदिवाऽशुभम् । ग्रहाः-
कुर्य्युर्म्महावातं गताश्चण्डाख्यनाडिकाम् । वायुनाडीं
नतावायुं दहन्यासपि दाहकाः । सौम्यनाडीगता-
मध्या नीरस्था मेघवाहकाः । जलायां वृष्टिदा चन्द्र
नाडिकाऽप्यतिवृष्टदा । एकोऽप्येतत्फलं दत्ते स्वनाडी
संस्थितो ग्रहः । भूसुतः सर्वनाडीषु धत्ते नाडीभवं
फलम् । प्रावृट्काले समायाते रौद्रऋक्षगते रवौ ।
नाडीबेधसमायोगे जलयोगं बदाम्यहम् । यत्र नाडी
स्थितश्चन्द्रस्तत्रस्थाः खेचरा यदि । क्रूरसौम्यैर्वि-
मिश्रैश्च तद्दिने वृष्टिरुत्तमा । एवमृक्षांशसंयोगो
जायते यदि खेचरैः । तत्र काले महावृष्टिर्य्यावत्
तस्यांशके शशी । केवलैः सौम्यपापैर्वा ग्रहैर्विद्धो यदा
शशी । तदा तु तुच्छपानीयं दुर्द्दिनं तु भवेद्ध्रुवम् ।
यस्य ग्रहस्य नाडीस्थश्चन्द्रमास्तद्ग्रहेण च । दृष्टो
युक्तः कंरोत्यम्भो यदि क्षीणोन जायते । पीयूषनाडी
गश्चन्द्रस्तत्र खेटाः शुभाशुभाः । त्रिचतुःपञ्चपानीयं
दिनान्येकत्रिसप्तकम् । एवं जलाख्यनाडीस्थे चन्द्रे
मिश्रग्रहान्विते । दिनार्द्धं दिवसं पञ्च दिनानि जायते
जलम् । नीरनाड़ीस्थिते चन्द्रे तत्रस्थैः पूर्ववद्-
ग्रहैः । यामं दिनार्द्धकं त्रीणि दिनानि जायते जलम् ।
अमृतादित्रये यत्र भवन्ति सर्वखेचराः । तत्र वृष्टिः
क्रमाज्ज्ञेया धृत्यर्करसवासरान् । सौम्यनाडीगताः
सर्वे वृष्टिदास्ते दिनत्रयम् । शेषनाड्यां महावात
दुष्टवृष्टिप्रदा ग्रहाः । निर्जला जलदानाड़ी भवेद्योगे
शुभाधिके । क्रूराधिक्रसमायोगे जलदा ऽप्यम्बुवाहिका ।
एकनाडीसमारूढौ चन्द्रमोधरणीसुतौ । यदि तत्र
भवेज्जीवस्तदा वारिमयी मही । याम्यनाडीगताः
क्रूरा अनावृष्टिप्रसूचकाः । शुभयुक्ता जलाख्यास्था-
स्तेऽतिवृष्टिप्रदायकाः । बुधशुक्रौ यदैकत्र गुरुणा च
समन्वितौ । चन्द्रयोगे तदा काले जायते वृष्टिरुत्तमा ।
जलयोगसमायाते यदा चन्द्रसितौ ग्रहौ । क्रुरै
र्दृष्टौ युतौ वापि तदा मेघोऽल्पवृष्टिदः । उदयास्त
मिते मार्गे चक्रे युक्ते च संक्रमे । जलनाडीगताः स्वेटा
महावृष्टिप्रदामताः” । “प्रावृषि शीतकरो भृगुपुत्रात्
सप्तमराशिगतः शुभदृष्टः । सूर्य्यसुतान्नवपञ्चमगोवा सप्त-
मगश्च जलागमनाय” । क्वचित् पाठान्तरम् ।
  • ६२ संवत्सरचक्रम्--“चक्रं सांवत्सरं वक्ष्ये यदुक्तं
कौशलागमे । येन विज्ञायते सम्यग्वर्षे वर्षे शुभाशुभम् ।
द्वादशारं लिखेच्चक्रं तत्र मेषादिराशयः । संस्थाप्याः
क्रमयोगेण मीनान्ताः सव्यमार्गगाः । तत्र चक्रे
समालेख्या मेषादिराशिमार्गगाः । प्रभवाद्यव्दमेकैकं
षष्टिपञ्चप्रवर्त्तनैः । एकराशौ स्थितो यत्र वत्सरो-
वर्त्तमानकः । तद्राशिस्थं फलं वीक्ष्य यत्किञ्चित् वार्षिकं
मतम् । चैत्रे या प्रतिपच्छुक्ला तस्याः काले प्रवेशयेत् ।
एतद्विलोकयेच्चक्रं कालज्ञानविनिश्चिये । तत्र सप्त ग्रहा-
णस्य राशौ यो यत्र संस्थितः । वर्षे राशौ विचिन्त्या-
स्ते रेखास्थानगता ग्रहाः । उपचयेषुगता, क्रूराः सौम्या
पृष्ठ २८३४
श्छिद्रान्त्यवर्ज्जिताः । ग्रहरेखाप्रदाज्ञेया मित्र-
मध्यस्थिता ग्रहाः । स्वर्क्षे द्विघ्नं फलं दत्ते स्वोच्चे त्रिघ्नं
तथैव च । फलार्द्धं शत्रुगेहस्थो नीचस्थो निष्फलो-
ग्रहः । एवं रेखाप्रमाणेन वर्षविंशोपका मताः । ज्ञातव्या-
दिशि केन्द्रेण वर्षे वर्षे प्रयत्नतः । एवं वर्षफलं प्रोक्तं चैत्र-
मासाद्यवासरात् । आषाड़े कार्त्तिकेऽप्येवं जलं धान्यं
विचिन्तयेत् । ननु देशे पुरे ग्रामे फलं भिन्नं प्रदृश्यते ।
तस्मात् तत्कारणं वाच्यं येन जानन्ति साधकाः ।
देशादिराशिनाथस्य यो रेखादायको ग्रहः । मित्रोदासीन
शत्रुत्वे फलं भिन्नं करोति सः । मित्रं द्विघ्नं फलं
दत्ते समः साम्यं करीति च । शम्रुः सर्व्वहरोज्ञेयः
सर्वदा कालचिन्तकैः । एवं विचार्य्य कर्त्तव्या काल
विंशोपकाबुधैः । तथा पानीयधान्यानां स्वकाले च
विचिन्तयेत्” ।
  • ६३ स्थानचक्रम्--“स्थानचक्र प्रवक्ष्यामि यदुक्त लम्पटा-
गमे । येन विज्ञायते सम्यक् स्थाने स्थाने शुभाशुभम् ।
स्थानपोड़ाप्रभावेण राज्ञां पीड़ा प्रजायते । तस्मादपी-
डिते स्थाने स्थातव्यं सर्व्वदा बुधैः । स्थाननामोद्भवं
राशिं कृत्वादौ द्वादशारके । राशिमण्डलकं न्यस्य
वाममार्गेण संस्थितम् । तत्र नव ग्रहा स्थाप्याः मासचन्द्रः
स्वराशिभे । तेषां विलोकनं वीक्ष्य स्थानराशिगतायथा ।
तृतीयैकादशे पादं द्विपादं व्योमबन्धुगे १० । ४ । त्रिकोणे ५ । ९ ।
त्र्यङ्घ्रिमूर्त्त्यस्ते १ । ७ । पूर्णं पश्यन्ति खेचराः । शन्यर्क्क
राहुकेत्वाराः पञ्च क्रूरा ग्रहा मताः । शेषं चतुष्टयं
सौम्यं मासेन्दुश्चापि पञ्चमः । एवं पञ्च ग्रहाः क्रूराः
पञ्च सौम्यास्तथैव च । तेषां शुभाशुभाम् दृष्टिं ज्ञात्वा
स्थानवलं वदेत् । एकैकग्रहजा दृष्टिः पूर्णपादचतुष्ट-
यम् । पञ्चमे लापकैस्तेषां पादानां विंशतिर्भवेत् ।
तत्र विंशोपकाज्ञेया सौम्यक्रूरहोद्भवाः । एवं
प्रसाधयेद्दृष्टिं युग्मं मानं शुभाशुभम् । बह्वी स्तोकोनिता
शेषा जायते दृक्शृभाशुभा । ते च विंशोपकास्तस्य
स्थानस्य बलनिर्णये । एवं देशेपुरे ग्रामे बलं यत्र शुभा-
धिकम् । तत्र स्थाने स्थितोराजा दुष्टारिष्टैर्न्न पीड्यते ।
स्थानबलप्रभावेण स्वबलस्य बलोदयः । शत्नुसैन्यं क्षयं
याति यावत्स्थाने शुभे स्थितः । एतानि सर्व्वचक्राणि
ज्ञात्वा युद्धं समारभेत् । जयेदिह न सन्देहः शक्र-
तुल्योऽपि भूभुजि” । ऐतेषां त्रिषष्टिसंख्याकत्वेऽपि
अवान्तरचक्रसंख्याभेदेन चतुरशीतिसंख्यापूरणम् ।
अङ्गशब्दे ७३ पृ० दर्शितानि “तथाचान्तरचक्रं च
मृनचक्रं तथैव च । श्वचक्रं वातचक्रञ्च चक्राङ्गेषु
चतुष्टयम्” गर्गोक्तानि च चत्वारि चतुषष्ट्यङ्गज्योतिष-
मध्ये अन्तरादिचक्राणि यान्ति तत्र चान्तरचक्रं वृ० सं०
८७ अ० उक्तं यथा
“ऐन्द्र्यां दिशि शान्तायां विरुवन्नृपसंश्रितागमं वक्ति ।
शकुनिः पूजालाभं मणिरत्नद्रव्यसम्प्राप्तिम् । तदनन्तर-
दिशि कनकागमो भवेद्वाञ्छितार्थसिद्धिश्च । आयुधधन
पूगफलागमस्तृतीये भवेद्भागे । स्निग्धद्विजस्य सन्दर्शनं
चतुर्थे तथाऽऽहिताग्नेश्च । कोणेऽनुजीविभिक्षुप्रद-
र्शनं कनकलोहाप्तिः । याम्ये त्वाद्ये नृपपुत्रदर्शनं
सिद्धिरभिमतस्याप्तिः । परतः स्त्रीधर्म्माप्तिः सर्षपयवलब्धिर-
प्युक्ता । कोणाच्चतुर्थखण्डे लब्धिर्द्रव्यस्य पूर्वनष्टस्य । यद्वा
तद्वा फलमपि यात्रायां प्राप्तुयाद्याता । यात्रासिद्धिः
प्रथमदक्षिणेन शिखिमहिषकुक्कटाप्तिश्च । याम्याद्वितीय-
भागे चारणसङ्गः शुभं प्रीतिः । ऊर्ध्वं सिद्धिः कैवर्त्त-
सङ्गभो मीनतित्तिराद्याप्तिः । प्रव्रजितदर्शनं तत्परे च
पक्वान्नफललब्धिः । नैरृत्यां स्त्रीलाभस्तुरगालङ्कारदूतले
खाप्तिः । परतोऽस्य चर्मतच्छिल्पिदर्शनं चर्म्ममयलब्धिः ।
वानरभिक्षुश्रमणावलोकनं नैरृतीतृतोयांशे । फलकुसुम-
दन्तघटितागमश्च कोणाच्चतुर्थांशे । वारुण्यामर्णवजात-
रत्नवैदूर्य्यमणिमयप्राप्तिः । परतोऽतः शवरव्याधचौर-
सङ्गः पिशितलब्धिः । परतो ऽपि दर्शनं वातरोगिणां
चन्दनागुरुप्राप्तिः । आयुधपुस्तकलब्धिस्तद्वृत्तिसमागम-
श्चोर्ध्वम् । वायव्ये फेनकचामरौर्णिकाप्तिः समेति
कायस्यः । मृण्मयलाभोऽन्यस्मिन् वैतालिकडिण्डिभाण्डा-
नाम् । वायव्याद्यतृतीये मित्रेण समागमो धनप्राप्तिः ।
वस्त्राश्वाप्तिरतः परमिष्टसुहृत्सम्प्रयोगश्च । दधितण्डल-
लाजानां लब्धिरुदग्दर्शनं च विप्रस्य । अर्थावाप्तिरन-
न्तरमुपगच्छति सार्थवाहश्च । वेश्यावटुदाससमागर्मः परे
शुष्कपुष्पफललब्धिः । अतः परं चित्रकरस्य दर्शेनं
वस्त्रसम्प्राप्तिः । ऐशान्यां देवलफोपसङ्गमो धान्यरत्न-
पशुलब्धिः । प्राक् प्रथमे वस्त्राप्तिः समागमश्चापि
बन्धक्या । रजकेन समायोगो जलजद्रव्यागमश्च परतो
ऽतः । हस्त्युपजीविसमाजश्चास्माद्धनहस्तिलब्धिश्च ।
द्वात्रिंशत् प्रविभक्तं दिक्चक्रं वास्तुबन्धनेऽप्युक्तम् ।
अरनाभिस्थैरन्तः फलानि नवधा विकल्प्यानि ।
नाभिस्थे बन्धुसुहृत्ससागमस्तुष्टिरुत्तमा भवति । प्रागूक्त
पृष्ठ २८३५
पट्टवस्त्रागमस्त्वरे नृपतिसंयोगः । आग्नेये कौलिक-
तक्षपारिकर्माश्वसूतसंयोगः । लब्धिश्च तत्कृतानां द्रव्या-
णामश्वलब्धिर्वा । नेमीभागं बुद्ध्वा नाभीभागं च दक्षिणे
योऽरः । धार्म्मिकजनसंयोगस्तत्र भवेद्धर्मलाभश्च ।
उस्राक्रीडककापालिकागमो नैरृते समुद्दिष्टः । वृषभस्य
चात्र लब्धिर्माषकुलत्थाद्यमशनं च । अपरस्यां दिशि यो
ऽरस्तत्रासक्तिः कृषीवलैर्मवति । सामुद्रद्रव्यसुसारकाचफल-
मद्यलब्धिश्च । भारवहतक्षभिक्षुकसन्दर्शनमपि च वायु-
दिक्संस्थे । तिलककुसुमस्य लब्धिः सनागपुन्नागकुसु-
मस्य । कौवेर्य्यां दिशि शकुनः शान्तायां वित्तलाभमा-
ख्याति । भागवतेन समागममाचष्टे पीतवस्त्रैश्च ।
ऐशाने व्रतयुक्तवनितासन्दर्शनं समुपयाति । लब्धिश्च
परिज्ञेया कृष्णायोवस्त्रघण्टानाम् । याम्येऽष्टांशे
पश्चाद्द्विषट्त्रिसप्ताष्टमेषु मध्यफला । सौम्येन च द्वितीये
शेषेष्वतिशोभना यात्रा । अभ्यन्तरे तु नाभ्यां शुभफलदा
भवति षट्सु चारेषु । वायव्यानैरृतयोरुभयोः क्लेशा-
वहा यात्रा । शान्तासु दिक्षु फलमिदमुक्तं दीप्तास्वतो
ऽभिधास्यामि । ऐन्द्र्यां भयं नरेन्द्रात् समागमश्चैव
शत्रूणाम् । तदनन्तरदिशि नाशः कनकस्य भयं सुवर्णका-
राणाम् । अर्थक्षयस्तृतीये कलहः शस्त्रप्रकोपश्च ।
अग्निभयं च चतुर्थे भयमाग्नेये च भवति चौरेभ्यः ।
कोणादपि द्वितीये धनक्षयो नृपसुतविनाशः । प्रम-
दागर्भविनाशस्तृतीयभागे भवेच्चतुर्थे च । हैरण्यकका-
रुकयोः प्रध्वंसः शस्त्रकोपश्च । अथ पञ्चमे नृपभयं
मारीमृतदर्शनं च वक्तव्यम् । षष्ठे तु भयं ज्ञेयं गन्ध-
र्वाणां सडोम्बानाम् । धीवरशाकुनिकानां सप्तमभागे
भयं भवति दीप्ते । भोजनविघात उक्तो निर्ग्रन्थिभयं
च तत्परतः । कलहो नैरृतभागे रक्तस्रावो ऽथ शस्त्र-
कोपश्च । अपराद्ये चर्मकृतं विनश्यति चर्मकारसुभयम् ।
तदनन्तरे परिव्राट्श्रमणभयं तत्परे त्वनशनभयम् ।
वृष्टिभयं बारुण्यां श्वतस्कराणां भयं परतः । वायुग्र-
स्ते विनाशः परे परे शस्त्रपुस्तवार्त्तानाम् । कोणे पुस्तक-
नाशः परे विषस्तेन वायुभयम् । परतो वित्तविनाशो
मित्रैः सह विग्रहश्च विज्ञेयः । तस्यासन्नेऽश्वबधो
भयमपि च पुरोधसः प्रोक्तम् । गोहरणशस्त्रघाता-
वुदक् परे सार्थघातधननाशौ । आसन्ने च श्वभयं व्रात्य-
द्विजदासगणिकानाम् । ऐशानस्थासन्ने चित्राम्बरचित्र-
कृद्भयं प्रोक्तम् । ऐशाने त्वग्मिभयं दूषणमप्युत्तमस्त्री-
णाम् । प्रोक्तस्यैवासन्ने दुःखोत्पत्तिः स्त्रिया विनाशश्च ।
भयमूध्वं रजकानां विज्ञेयं काच्छिकानां च । हस्त्या-
रोहभयं स्याद् द्विरदविनाशश्च मण्डलसमाप्तौ । अभ्य-
न्तरे तु दीप्ते पत्नीमरणं ध्रुवं पूर्वे । शस्त्रानलप्रकोपा-
वाग्नेये वाजिमरणशिल्पिभयम् । याम्ये धर्मविनाशः
परेऽग्न्यवस्कन्दचोक्षबधाः । अपरे तु कर्मिणां
भयमथ कोणे चानिले खरोष्ट्रबधः । अत्रैव मनुष्याणां
विसूचिकाविषभयं भवति । उदगर्थविप्रपीडा दिस्यै-
शान्यां तु चित्तसन्तापः । ग्रामोणगोपपीडा तत्र च
नान्या तथात्मवधः” ।
२ मृगचक्रं वृ० स० ९२ अ० यथा
“सीमागता वन्यमृगा रुवन्तः स्थिता व्रजन्तोऽथ
समापतन्तः । सम्प्रत्यतीतैष्यभयानि दीप्ताः कुर्वन्ति शून्यं
परितो भ्रमन्तः । ते ग्राम्यसत्वैरनुवाश्यमाना भयाय
रोधाय भवन्ति वन्यैः । द्वाभ्यामपि प्रत्यनुवाशितास्ते
वन्दिग्रहायैव मृतौ भवन्ति । वन्ये सत्वे द्वारसंस्थे
पुरस्य रोधो वाचः सम्प्रविष्टे विनाशः । सूते मृत्युः,
स्याद्भयं संस्थिते च गेहं याते बन्धनं सम्प्रदिष्टम् ।”
३ श्वचक्रं वृ० स० ८९ अ०
“नृतुरगकरिकुम्भपर्याणसक्षीरवृक्षेष्टकासञ्च यच्छत्रशया-
सनोलूखलानि ध्वजं चामरं शाद्वलं पुष्पितं वा प्रदेशं
यदा श्वावमूत्र्याग्रतो याति यातुस्तदा कार्यसिद्धिर्भवेदार्द्रके
गोमये मिष्टभोज्यागमः शुष्कसम्मूत्रणे गौडिकामोदकावा-
प्तिरेवाथ वा । अथ विषतरुकण्टकीकाष्ठपाषाणशुष्कद्रुमा-
स्थिश्मशानानि मूत्र्यावहत्याथवा यायिनो ऽग्रेसरो
ऽनिष्टमाख्याति शय्याकुलालादिभाण्डान्यभुक्तान्यभि-
न्नानि वा मूत्रयत् कन्यकादोषकृद् भुज्यमानानि चेद्दुष्टतां
तद्गृहिण्यास्तथा स्यादुपानत्फलं गोस्तु सम्मूत्रणे वर्णजः
सङ्करः । गमनमुखमुपानहं सम्प्रगृह्योपतिष्ठेद्यदा
स्यात्तदा सिद्धये मांसपूर्णाननेऽर्थाप्तिरार्द्रोण चास्थ्ना
शुभं साग्न्यलातेन शुष्केण चास्थ्ना गृहीतेन मृत्युः
प्रशान्तील्मुकेनाभिघातोऽथ पुंसः शिरोहस्तपादादि-
वक्त्रे भुवो ह्यागमो वस्त्रचौरादिभिर्व्यापदः केचिदाहुः
सवस्त्रे शुभम् । प्रविशति तु गृहं सशुष्कास्थिवक्त्रे
प्रधानस्य तस्मिन् बधः शृङ्खलाशीर्णवल्लीबरत्रादि वा बन्ध-
नं चोपगृह्योपतिष्ठेद्यदा स्यात्तदा बन्धनंलेढि पादौ विधु-
न्वन् स्वकर्णावुपर्याक्रमंश्चापि विघ्नाय यातुर्विरोधे विरोध-
स्तथा स्वाङ्गकण्डूयने स्यात् स्वपंश्चोर्ध्वपादः सदा दो-
पृष्ठ २८३६
षकृत् । सूर्य्योदयेऽर्काभिमुखो विरौति ग्रामस्य मध्यें
यदि सारमेयः । एको यदा वा बहवः समेताः शंसन्ति
देशाधिपमन्यमाशु । सूर्योन्मुखः श्वाऽनलदिक्स्थितश्च
चौरानलत्रासकरोऽचिरेण । मध्याह्नकाले ऽनलमृत्यु-
शंसी सशोणितः स्यात्कलहो ऽपराह्णे । रुवन्दिनेशाभि-
मुखो ऽस्तकाले कृषीवलानां भयमाशु धत्ते । प्रदोष-
कालेऽनिलदिङ्मुखस्तु धत्ते भयं मारुततस्करोत्थम् ।
उदङ्मुखश्चापि निशार्धकाले विप्रव्यथां गोहरणं च
शास्ति । निशावसाने शिवदिङ्मुखश्च कन्याभिदूषानल-
गर्भपातान् । उच्चैःस्वराः स्युस्तृणकूटसंस्थाः प्रासादवेश्मो-
त्तमसंस्थिता वा । वर्षासु वृष्टिं कथयन्ति तीव्रामन्यत्र
मृत्युं दहनं रुजश्च । प्रावृट्कालेऽवग्रहे ऽम्भोऽवगाह्य
प्रत्यावृत्तै रेचकैश्चाप्यभीक्ष्णम् । आधुन्वन्तो वा पिबन्तश्च
तोयं वृष्टिं कुर्वन्त्यन्तरे द्वादशाहात् । द्वारे शिरो न्यस्य
बहिः शरीरं रोरूयते श्वा गृहिणीं विलोक्य । रोगप्रदः
स्यादथ मन्दिरान्तर्बहिर्मुखः शंसति बन्धकीं ताम् ।
कुड्यमुत्किरति वेश्मनो यदा तत्र खानकभयं भवेत्तदा ।
गोष्ठमुत्किरति गोग्रहं वदेद्धान्यलब्धिमपि धान्यभूमिषु ।
एकेनाक्ष्णा साशुणा दीनदृष्टिर्मन्दाहारो दुःखकृत्तद्गृ-
हस्य । गोभिः सार्धं क्रीडमानः सुभिक्षं क्षेमारोग्यं
चाभिधत्ते मुदं च । वामं जिघ्रेज्जानु वित्तानमाय
स्त्रीभिः साकं विग्रहो दक्षिणं चेत् । ऊरुं वामं चेन्द्र-
यार्थोपभोगाः सव्यं जिघ्रेदिष्टमित्रैर्विरोधः । पादौ
जिथ्रेद्यायिनश्चेदयात्रां प्राहार्थाप्तिं वाञ्छितां निश्चलस्य ।
स्थानस्थस्योपानहौ चेद्विजिथ्रेत् क्षिप्रं यात्रां सारमेयः
करोति । उभयोरपि जिघ्रतीह बाह्वोर्बिज्ञेयो
रिपुचौरसम्प्रयोगः । अथ गोपायति भस्मनि स्वभक्षान्
मांसास्थीनि च शीघ्रमग्निकोपः । ग्रामे भषित्वा च बहिः
श्मशाने भषन्ति चेदुत्तमपुंविनाशः । यियासतश्चाभि-
मुखो विरौति यदा तदा श्वा निरुणद्धि यात्राम् ।
उकारवर्णेन रुते ऽर्थसिद्धिरोकारवर्णेन च वामपार्श्वे ।
व्याक्षेपमौकाररुतेन विद्यान् निषेधकृत्सर्वरुतैश्च पश्चात् ।
स्वङ्खेति चोच्चैश्च मुहुर्मुहुर्ये रुवन्ति दण्डैरिब ताड्य-
मानाः । श्चानो ऽभिधावन्ति च मण्डलेषु ते शून्यतां
मृत्युभयं च कुर्य्युः । प्रकाश्य दन्तान् यदि लेढि सृक्विणी
तदाऽशनं मिष्टमुशन्ति तद्विदः । यदाननं चावलिहेन्न
सृकिणी प्रवृत्तभोज्येऽपि तदान्नविघ्रकृत् । ग्रामस्य मध्ये
यदि वा पुरस्य भषन्ति संहत्य मुहुर्मुहुर्ये । ते क्लेश-
माख्यान्ति तदीश्वरस्य श्वारण्यसंस्थो मृगवद्विचिन्त्यः ।
वृक्षोपगे क्रोशति तोयपातः स्यादिन्द्रकीले सचिवस्य
पीडा । वायोर्गृहे शस्यभयं गृहान्तः पीडा पुरस्यैव
च गोपुरस्थाः । भय च शय्यासु तदीश्वराणां याने भषन्तो
भयदाश्च पश्चात् । अथापसव्या जनसन्निवेशे भयं भषन्तः
कथयन्त्यरीणाम्” ।
४ अनिलचक्रञ्च अनिलशब्दे १६६ पृ० दर्शितम् । व्यूहश्चात्र
चक्राकारः स च द्रोणेनाभिमन्युबधपर्व्वणि कृतः ।
“चक्रव्यूही महाराज! ह्याचार्य्येणाभिकल्पितः” भा०
द्रो० ३४ अ० । इत्यादिनोक्तः । यन्त्ररूपचक्राणि यन्त्रशब्दे
वक्ष्यन्ते । तत्र राष्ट्रे “स्वचक्रं परचक्रञ्च”
इतिकथने एतद्दच्छव्दे अनुपदं दर्शितवाक्ये । समूहे
“भूरेणवो नभसि नङ्धपयोदचक्रम्” माघः । “दिक्-
चक्रमाक्रामति” मृच्छ० । सुदर्शनाख्ये राष्ट्रे च ।
“अविचालितचारुचक्रयोरनुरागादुपगूढयोः श्रिया”
माथः । “न चक्रमस्याक्रमताधिकन्धरम्” माघ ।
चक्रवाके । “तव तन्वि! कुचावेतौ नियतं चक्रव-
र्त्तिनौ” उद्भटः । कुम्भकारचक्रे चक्रवाके च । “कलसे
निजहेतुदण्डजः किमु चक्रभ्रमिकारितागुणः । स
तदुच्चकुचौ भवन् प्रभाझरचक्रभ्रमिमातनोति यत्” नैष० ।
राशिचक्रे “त्रिंशत्कृत्यो युगे भानां चक्र प्राक्प्रविल-
म्बते” सू० सि० । “रवेश्चक्रभोगोऽर्कवर्षं प्रदिष्टम्” सि०
शि० । २० मण्डलाकारे रेखाविन्यासभेदे “चक्रे
सचक्रनिभचङ्क्रमणच्छलेन” “वितत्य वात्यामयचक्र
चङ्क्रमान्” नैष० । “शालग्रामशिलाचक्रम् गोमती-
चक्रम्” एकद्वारे चतुश्चक्रं वनमालाविभूषितम्”
शालग्रामशब्दे दृश्यम् ।

चक्रक पु० चक्रमिव कायति कै--क । तर्कभेदे । तल्लक्षणं

स्वापेक्षणीयापेक्षितसापेक्षत्वनिबन्धनः प्रसङ्गश्चक्रकः”
तर्के जगदीशः । अपेक्षा च ज्ञप्तौ उत्पत्तौ स्थितौ च ।
अन्योन्याश्रयशब्दे दर्शिते आपादके जन्यपदमन्तर्भाव्योदा-
हरणम् । अपेक्षा चात्र साक्षात्परस्परासाधारणी
ग्राह्या” तर्के जगदीशः । तत्र ज्ञप्तौ एतद्घटज्ञानं यद्ये-
तद्घटज्ञानजन्यज्ञानजन्यज्ञानजन्यं स्यात तदा एतद्घट-
ज्ञानजन्यज्ञानजन्यज्ञानभिन्नं स्यात् । उत्पत्तौ घटोऽयं
यद्येतद्घटजन्यजन्यजन्यः स्यात् तदा एतद्घटजन्यजन्य
भिन्नः स्यात् । स्थितौ घटोऽयं यद्येतद्घटवृत्तिवृत्तिः स्यात्
तथात्वेनोपकभ्येतेति । २१ ऋषिभेदे पु० चक्रस्य गोत्रा-
पृष्ठ २८३७
पत्यम् अश्वा० फञ् । चाक्रायण चक्रगोत्रापत्ये पुंस्त्री
“उशस्तिर्ह चाक्रायणः” छा० उ० । कुण्डलकलितनगण-
मिह सुलभं गन्धकुसुमरसविरचितबलयम् । चक्रमुरग-
पतिवरपरिगणितं षोडशकलमतिसुललितभणितम्”
इत्युक्तलक्षणे २२ छन्दोभेदे चक्राकारे २३ ददुरोगे
चक्रमर्द्दः । २४ मनस्तत्त्वे चक्रगदाधरशब्दे उदा० ।
गिरिनद्या० ततः परं नदीनितम्बशब्दस्थनस्य वा णत्वम् ।

चक्रकारक न० चक्रं चक्राकाररेखां करोति कृ--ण्वुल्

६ त० । १ नखे शब्दार्थचि० । तस्य नारीकुचयोः चक्रा-
काररेखाकरणात् तथात्वम् २ व्याघ्रनखाख्ये गन्धद्रव्ये
अमरः ।

चक्रकुल्या स्त्री चक्रस्य तदाकारस्य कुल्येव । १ चित्रपर्ण्याम् (चाकुलिया) शब्दच० ।

चक्रगज पु० चक्रे चक्राकारे दद्रुरोगे गजैव मर्द्दकत्वात् ।

चक्रमर्द्द वृक्षे (दादमर्दनवृक्षे) राजनि० ।

चक्रगण्डु पु० चक्रभिव गण्डुः । (गालवालिश)ख्याते

उपधानभेदे हेमच० ।

चक्रगदाधर पु० “मनस्तत्त्वात्मकं चक्रं बुद्धितत्त्वात्मिकां

गदाम् । धारयन् लोकरक्षार्थं गुप्तश्चक्रगदाधरः” बिष्णुसं०
भाष्यधृतवाक्योक्ते परमेश्वरे

चक्रगुच्छ पु० चक्रमिव गुच्छोऽस्य । अशीकवृक्षे शब्दच० ।

चक्रचर त्रि० चक्रेण संघशश्चरति चर--ट । संघीभूय

चारिणि गजविहगादौ । “तथा नागाः सुपर्णाश्च
सिद्धाश्चक्रचरास्तथा” भा० व० ८२१४ श्लो० ।

चक्रचारिन् पु० चक्रेण चरति णिनि । रथे । “विधिरेकक

चक्रचारिणं किमु निर्म्मित्सति मान्मथं रथम्” नैष० ।

चक्रजीवक पु० चक्रेण कुम्भसाधनचक्रेण जीवति जीव--ण्वुल्

६ त० । कुम्भकारे हेमच० ।

चक्रतीर्थ न० चक्रेण सुदर्शनेन क्षालनेन कृतं तीर्थम् । प्रभास

क्षेत्रस्थे वैष्णवे तीर्थभेदे तत्कथा स्क० प्रभा०
“तस्य सीमां प्रवक्ष्यामि विष्णुक्षत्रस्य भामिनि! । पूर्वे-
यमेश्वरं यावत् श्रीसोमेशस्तु पश्चिमे । उत्तरे तु विशा-
लाक्षी दक्षिणे सरितां पतिः” इत्युपक्रमे “चक्रतीर्थे नरः
स्नात्वा सापवासोजितेन्द्रियः । द्वादश्यां कार्त्तिके मासि-
दद्यात विप्रषु काञ्चनम् । विष्णुं संपूज्य विधिना मुच्यते
सवपातकैः देव्युवाच चक्रतीर्थं कथं नाम त्वया
प्रोक्तं वृषध्वज! । कुत्र तिष्ठति तत्तीर्थं किंप्रभावं बदस्व
मे । ईश्वर उवाच । पुरा देवासुरे यद्ध डत्वा दैत्यान्
जनार्द्दनः । चक्रं प्रक्षालयामास तत्र वै रक्तराञ्जतम् ।
अष्ट कोटीस्तु तीर्थानि तत्रानीय स्वयं हरिः । तीर्थे
प्रकल्पयामास शुद्धिं कृत्वा सुदर्शने । तीर्थस्य चक्रे
नामापि चक्रतीर्थमिति श्रुतम् । अष्टायुतानि तीर्था-
नामष्टौ कोट्यस्तथैव च । तत्र सन्ति महादेवि । चक्रतीर्थे
न संशयः । यस्तत्र कुरुते स्नानमेकचित्तो नरोत्तमः ।
सर्वतीर्थाभिषेकस्य स प्राप्नोत्यखिलं फलम् । तीर्था-
नामष्टकोट्यस्तु निवसन्ति वरानने! । एकादश्यां विशेषेण
चन्द्रसूर्यग्रहे तथा । तत्र स्नात्वा महादेवि! यज्ञ-
कोटिफलं लभेत् । तस्य कल्पेषु नामानि शृणुते
कथयाम्यहम् । कोटितीर्थं पूर्वकल्पे श्रीनिधानं द्विती-
यके । तृतीये शतधारं च चक्रतीर्थं चतुर्थके । एवं ते
कल्पनामानि अतीतान्यखिलानि ते । कथितान्येवमन्यानि
ज्ञेयानि विबुधैः क्रमात् । तत्र यद्दीयते दानं तस्य
संख्या न विद्यते । अर्द्धक्रोशप्रमाणञ्च विष्णुक्षेत्रं प्रकी-
र्त्तितम् । व्रह्महत्यापसर्पाय सत्यमेतन्मयोदितम् ।
मासोपवासी तत्क्षेत्रमग्निहोत्री पतिव्रता । स्वाध्यायी
यज्ञयाजी च तपश्चान्द्रायणादिकम् । तिलोदकं च
पितॄणां श्राद्धञ्च विधिपूर्ब्बकम् । एकरात्रं त्रिरात्रं बा
कृच्छ्रसान्तपनं तथा । मासोपवासी तत्रैव अन्यद्वा
पुण्यकर्म्मकृत् । दैत्यारिक्षेत्रमासाद्य यत्किञ्चित् कुरुते
नरः । अन्यक्षेत्रात् कोटिगुणं पुण्यं भूयान्न संशयः ।
सुदर्शने वरे तीर्थे गोदानं तत्र दापयेत् । सम्यक्यात्रा-
फलप्रेप्सुः सर्वपापविशुद्धये । चाण्डालः श्वपचोवापि
तिर्यग्योनिगतस्तथा । तस्मिन् तीर्थे मृतः सम्यक्
आच्युतं लोकमाप्नुयात् । इति संक्षेपतः प्रोक्तं चक्रतीर्थ-
समुद्भवम् । माहात्म्यं सर्वपापघ्नं सर्वकामफलप्रदम्” ।

चक्रतैल न० चक्रस्य तत्फलस्य तैलम् । चक्रमर्द्दफल-

जाते तैले । “चक्रतैलेन चाभ्यज्य सज्जचूर्ण्णेन चूर्णयेत्” ।
“कृत्वा सूक्ष्मेण नेत्रेण चक्रतैलेन तर्पयेत्” सुश्रुतः ।

चक्रदंष्ट्र पुंस्त्री चक्रमिव दंष्ट्रास्य । शूकरे राजनि० ।

चक्रदत्त न० चक्रपाणिना निर्म्मिते वेद्यकशास्त्रभेदे ।

चक्रदन्ती पु० चक्रमिव फलरूपदन्तोऽस्याः । दन्तीवृक्षे

राजनि० ।

चक्रदन्तीवीज न० ६ त० । जयपालवीजे राजनि० ।

चक्रदेव पु० यादवे नृपभेदे । “अष्टादश सहस्राणि भ्रातॄणां

सन्ति नः कुले । आहुकस्य शतं पुत्रा एकैकस्त्रिदशा-
वरः । चारुदेष्णः सह भ्रात्रा चक्रदेवश्च सात्यकिः । अहञ्च
रौहिणेयश्च” भा० स० १३ अ० । कृष्णोक्तिः ।
पृष्ठ २८३८

चक्रद्वार पु० चक्रमिव द्वारमत्र । पर्व्वतभेदे । “द्रोणश्च शत

शृङ्गश्च चक्रद्वारश्च पर्वतः” भा० शा० ३२२ अ० ।

चक्रधनुस् पु० सूर्य्याज्जाते कपिलाख्ये ऋषिभेदे । “अत्र

चक्रधनुर्नाम सूर्य्याज्जातोमहानृषिः । विदुर्यं कपिलं देवं
येनार्त्ताः सगरात्मजाः” भा० उ० १०८ अ० ।

चक्रधर पु० चक्रं मनस्तत्त्वं सुदर्शाख्यमस्त्रं वा धरति-

धृ--अच् । १ चक्रधारिणि विष्णौ २ ग्रामयाजिनि च
मेदि० । “प्रचक्रमे चक्रधरप्रभावः” रघुः । ३ चक्रास्त्र-
धारकमात्रे नृपादौ “यजन्ते क्रतुभिर्देवास्तथा चक्र-
धरानृपाः” भा० व० ८५ अ० ।

चक्रधर्म्मन् पु० विद्याधरभेदे । “विद्याधराधिपश्चैव चक्र-

धर्म्मा सहानुजैः । उपाचरति तत्रस्थं धनानामीश्वरं
प्रभुम्” भा० स० १० अ० ।

चक्रधारण न० चक्रं धार्य्यतेऽनेन धारि--करणे ल्युट् ।

रथावयवभेदे अक्षनाभौ शब्दार्थ० ।

चक्रधारा स्त्री ६ त० । चक्रस्याग्रे शब्दार्थ० ।

चक्रनख पु० चक्रमिव नखोऽस्त्यस्य अच् । व्याघ्रनखे गन्ध-

द्रव्यभेदे राजनि० ।

चक्रन(ण)दी स्त्री चक्रप्रधाना विष्णुचक्राबिर्भवस्थानं नदी

गिरिनद्या० वा णत्वम् । गण्डकीनद्याम् । “यत्रा-
श्रमपदान्युभयतो नाभिर्दृशच्चक्रैश्चक्र(ण)नदी नाम
सरित्प्रवरा सर्वतःपवित्रीकरीति” भाग० ५ । ७ । ११ । “चक्रनदी
गण्डकी” श्रीधरः ।

चक्रनाभि पु० ६ त० । चक्रस्य नाभौ । “यावत्यस्तु सिराः

काये सम्भवन्ति शरीरिणाम् । नाभ्यां सर्वा निबद्धास्ताः
प्रतन्वन्ति समन्ततः । नाभिस्थाः प्राणिनां प्राणाः प्रा-
णान्नाभिर्व्युपाश्रिता । सिराभिरावृता नाभिश्चक्रना-
भिरिवारकैः” सुश्रुतः ।

चक्रनामन् पु० चक्रात् मक्षिकाचक्रात् नाम यस्य । १ माक्षिक

धातौ हेमच० । तस्य मक्षिकापटलजातत्वात् तथात्वम्
२ चक्रनामनामके चक्रवाके च ।

चक्रनायक पु० चक्र तदाकारं नयति नी--ण्वुल् ६ त० ।

व्याघ्रनखे गन्धद्रव्यभेदे राजनि० ।

चक्रपद्माट पु० चक्रः चक्राकारो दद्रुरोगः पद्ममिव तत्राटति

प्रभवति अच् ७ त० । चक्रमर्द्दवृक्षे दद्रुघ्ने शब्दर० ।

चक्रपद न० “चक्रपदमिह मनननगुरुभिः” वृ० र० टी० उक्ते

त्रयोदशाक्षरपादे छन्दोमेदे ।

चक्रपरिव्याध पु० चक्रं दद्रुरोगं परिविध्यति परि + व्यध--ण ६ त० । आरग्बधे वैद्यकम् ।

चक्रपर्ण्णी स्त्री चक्रमिव पर्णमस्या ङीप् । पृश्निपर्ण्याम् शब्दच०

चक्रपाणि पु० चक्रं पाणावस्य प्रहरणार्थत्वात् सप्तम्याः

परनि० व्य० बहु० । विष्णौ । “निघ्रन्नमित्रान् समरे
चक्रपाणिरिवासुरान्” भा० भी० ४८ अ० । “प्रायेण
निष्क्रामति चक्रपाणौ” माघः ।

चक्रपाणिदत्त पु० चक्रदत्ताख्यवैद्यकग्रन्थकारके विद्वद्भेदे ।

चक्रपाद पु० चक्रं पादैव यस्य । रथे अजयपालः ।

चक्रपाल पु० चक्रं पालयति पालि + अण् । सेनापति

चक्ररक्षके योधभेदे । चक्ररक्षशब्दे दृश्यम् ।

चक्रपुष्करिणी चक्रेण खननात् विष्णुना कृता पुष्करिणी ।

काशीस्थे मणिकर्ण्णिकाख्ये पुष्करिणीभेदरूपे तीर्थे
तत्कथा काशीख० २६ अ० यथा
“खनित्वा तत्र चक्रेण रम्यां पुष्करिणीं हरिः । निजा-
ङ्गस्वेदसन्दोहसलिलैस्तामपूरयत् । समाः सहस्रं पञ्चा-
शत् तपौग्रञ्चकारसः । चक्रपुष्करिणीतीर्थे तत्र स्थाणु-
समाकृतिः” इत्युपक्रमे “त्वदोयचरणाम्भोजमकरन्दमधू-
त्सुकः । मच्चेतोभ्रमरो भ्रान्तिं विहायास्त्वाशु निश्चलः ।
त्वदीयस्यास्य तपसो महोपचयदर्शनात् । यन्मया
लोलितो मौलिरहिश्रवणभूषणः । तदान्दोलनतः कर्णात्
पपात मणिकर्णिका । मणिभिः खचिता रम्या ततोऽस्तु
मणिकर्णिका । चक्रपुष्करिणीतीर्थं पुरा ख्यातमिदं
शुभम् । त्वया चक्रेण खननात् शङ्खचक्रगदाधर! ।
मम कर्णात् पपातेयं यदा च मणिकर्णिका । ततः प्रभृति
लोकेऽत्र ख्यातास्तु मणिकर्णिका” । “अस्मिंस्तीर्थवरे
शम्भो! मणिश्रवणभूषणे । सन्ध्या स्नानं जपं हीमं
वेदाध्ययनमुत्तमम् । तर्पणं पिण्डदानञ्च देवतानाञ्च
पूजनम् । गोभूतिलहिरण्यानि दीपान्नाम्बरभूषणम् ।
कन्यादानं प्रयत्नेन सप्ततन्तूननेकशः । व्रतोत्सर्गं
वृषोत्सर्गं लिङ्गादिस्थापनं तथा । करोति यो
महाप्राज्ञो ज्ञात्वायुः क्षणगत्वरम् । विपत्ति विपुलाञ्चापि
सम्पत्तिमतिभङ्गुराम् । अक्षया मुक्तिरेकाऽस्तु विपाकस्तस्य
कर्म्मणः । अन्यच्चापि शुभं कर्म्म यद्दत्तं श्रद्धया हुतम् ।
विनात्मघातमीशान! त्यक्त्वा प्रायोपवेशनम् । नैःश्रेयस्याः
श्रियो हेतुस्तदस्तु जगदीश्वर! । नानुशोचति नाख्याति
कृत्वा कालान्तरेऽपि यत् । तदिहाक्षयमेवास्तु तस्येश! त्व
दनुग्रहात् । तव प्रासादात्तस्येश! सर्वमक्षयमस्तु तत् ।
यदस्ति यद् भविष्यञ्च यद्भूतञ्च सदाशिव । तस्मादेतच्च
सर्वस्मात् क्षेत्रमस्तु शुमोदयम् यथा सदाशिव!
पृष्ठ २८३९
त्वत्तो न किञ्चिदधिकं शिव! । तथाऽऽनन्दवनादस्मात्
किञ्चनास्त्वधिकं क्वचित् । विना सांख्येन योगेन विना
स्वात्मावलोकनम् । विना व्रततपोदानैः श्रेयोऽस्तु प्राणि-
नामिह” ।

चक्रफल न० चक्रमिव फलमग्रं यस्य । चक्राकाराग्रयुक्ते अस्त्रभेदे त्रिका० ।

चक्रबन्धु पु० ६ त० । सूर्य्ये हेमच० । चक्रबान्धवादयोऽप्यत्र ।

चक्रभृत् पु० चक्रं बिभर्त्ति भृ--क्विप् ६ त० । १ सुदर्शनधरे

विष्णौ २ चक्रास्त्रधारिणि च

चक्रभेदिनी स्त्री चक्रौ चक्रवाकौ भिनत्ति वियोजयति

भिद--णिनि ङीप् । रात्रौ त्रिका० रात्रौ हि
तयोर्वियोगात्तथात्वम् ।

चक्रभोग पु० चक्रस्य राशिचक्रस्य भोगः । “यत्स्थानमारभ्य

चलितो ग्रहः पुनस्तत्स्थानमायाति स चक्रभोगः
परिवर्त्त संज्ञः” इति सू० सि० टी० रङ्गनाथोक्ते ग्रहाणां राशि
चक्रभोगे “तेषान्तु परिवर्त्तेन पौष्णान्ते भगणः स्मृतः”
इति सू० सि० टीकायां दृश्यम् ।

चक्रभ्रम पु० चक्रमिव भ्रमति भ्रम--अच् । कुन्दाख्ये

शिल्पिनां यन्त्रभेदे शब्दार्थचि० । इन् चक्रभ्रमिरप्यत्र ।
भावे इन् । चक्रभ्रमणे चक्रवाकभ्रान्तौ च “किमु
चक्रभ्रंमिकारिता गुणः” नैष० ।

चक्रमण्डलिन् पुंस्त्री० चक्रमिव मण्डलोऽस्त्यस्य इनि ।

अजगरसर्पे हेम० स्त्रियां ङीप् ।

चक्रमन्द पु० नागभेदे । “तथा नागौ चक्रमन्दातिषण्डौ” भा० मौ० ४ अ० ।

चक्रमर्द्द पु० चक्रं चक्राकारं दद्रुरोगं मृद्नाति मृद्--अण्

उप० स० (दादमर्दन) क्षुपभेदे राजनि० । ण्वुल् । चक्र-
मर्दकोऽप्यत्र अमरः । “चक्रमर्द्दोलघुः स्वादूरूक्षः
पित्तानिलापहः । हृद्यो हिमः कफश्वासकुष्ठदद्रुक्रिमीन्
हरेत् । हन्त्युष्णं तत्फलं कुष्ठकण्डूदद्रुविषानिलान् ।
गुल्मकासकृमिश्वासनाशनं कटुकं स्मृतम्” भावप्र० ।

चक्रमुख पुंस्त्वी चक्रमिव वृत्तं मुखमस्य । शूकरे हारा०

स्त्रियां जातित्वात् ङीष् ।

चक्रमुद्रा स्त्री “हस्तौ तु संमुखौ कृत्वा संलग्नौ सुप्रसा-

रितौ । कनिष्ठाङ्गुष्ठको लग्नौ मुद्रैषा चक्रसंज्ञिका”
तन्त्रसारोक्ते देवपूजनाङ्गमुद्राभेदे ।

चक्रमुषल पु० चक्रं मुषलञ्च साधनतया अत्रास्ति अच् ।

चक्रमुषलनिष्पाद्ये युद्धभेदे “तत्र चक्रं हलञ्चैव गदां
कौमोदकीन्तथा । सौनन्दं मुषलञ्चैव वैष्णवान्यायुधानि
च । दर्शयिष्यर्त्ति संग्रामे पास्यन्ति च महीक्षिताम् ।
रुधिरं कालयुक्तानां वपुर्भिः कालसन्निभैः । स
चकृमुषलो नाम संग्रामः कृष्ण! विश्रुतः । दैवतैरिह
निर्द्दिष्टः कालः स्यादेष संज्ञितः” हरि० ९६ अ० । चक्रेण
निर्वृत्तम् अण् । चाक्र तन्निर्वृत्ते युद्धे “चाकं मौषल-
मिद्येवं संग्रामं रणवित्तमाः । कथयिष्यन्ति लोकेऽस्मिन्
ये धरिष्यन्तिं पार्थिवाः” हरि० १० अ० ।

चक्रयान न० चक्रयुक्तं यानम् । चक्रयुक्ते याने रथादौ ।

“असौ पुष्य(ष्प)रथश्चक्रयाणं न समराय यत्” अमरः ।

चक्ररक्ष पु० चक्रं रक्षति अण् उप० स० । युद्धे सेनापति

चक्ररक्षके योधभेदे । “माद्रेयौ चक्ररक्षौ तु फाल्गुनश्च
तदाऽकरोत्” भा० आ० १३८ अ० । “यमौ च चक्ररक्षौ ते
भवितारौ महावलौ” भा० वि० ३३ अ० । “चक्ररक्षश्च
शूरोवै मदिराक्षोऽतिविश्रुतः” ३३ अ० । ण्वुल् चक्र
रक्षकोऽप्यत्र ।

चक्ररद पुंस्त्री चक्रमिव वृत्तोरदोऽस्य । शूकरे त्रिका० स्त्रियां जातित्वात् ङीष् ।

चक्रलक्षणा स्त्री चक्रे मण्डलाकारकुष्ठे लक्षणं प्रतीकार

साधनरूपं चिह्नमस्य । गुडूच्याम् रत्नमा० ।

चक्रलताम्र पु० चक--तृप्तौ करणे रक् चक्रः तृप्तिसाधनं

लताम्रः । वृद्धरसालवृक्षे राजनि०

चक्रला स्त्री चक्र दद्रुरोगं लाति ला--क । उच्चटायाम् मुस्ताभेदे अमरः ।

चक्रलिप्ता स्त्री ६ त० । राशिचक्रस्य कलांरूपे भागभेदे

कलाश्च २१६०० मिताः । तथाहि द्वादशराश्यात्मकचकस्य
एकैकराशेस्त्रिंशांशत्मकत्वात् ३६० अंशात्मकं राशिचक्रम्
अंशश्च ६० कलामितः तदङ्कस्य षष्ट्या गुणने २१६००
कलाभवन्ति इति कलापर्य्यायलिप्तानां तावन्मितत्वम् ।

चक्रवत् त्रि० चक्रमस्त्यस्य मतुप् मस्य वः । १ चक्रास्त्रयुक्ते

स्त्रियां ङीप् । २ तैलिके च । “सुनाचक्रध्वजवतां वेशे-
नैव च जीवताम्” मनुः । “सुनावान् पशुमारणपूर्व्वक
मांसविक्रयजीवी । चक्रवान् वीजबधबिक्रयजीवी तैलिकः
ध्वजवान् मद्यविक्रयजीवी शौण्डिकः” कुल्लूकः । चक्रं
तदाकारीऽस्त्यस्य । चक्राकारसदृशाकारयुक्ते ३ पर्व्वत-
भेदे पु० । “तत्रैव चक्रसदृशं चक्रवन्तं महाचलम् ।
सहस्रकूटं विपुलं भगवान् संन्यवेशयत्” हरिवं० २२५ अ० ।

चक्रवर्त्तिन् पु० चक्रे भूमण्डले, वर्त्तितुं, चक्रं सैन्यचक्रं

वा सर्व्वभूमौ वर्त्तयितुं शीलमस्य वृत--वृत--णिच्--वा
णिनि । १ समुद्रपर्य्यन्तक्षितेरधीश्वरे, अमरः २ वास्तूक-
शाके राजनि० । ३ जतुकायां शब्दार्तचि० ५ जटामा-
स्याम् ४ अलक्तके च स्त्री ङीप् राजनि० । ५ जनीसाम-
पृष्ठ २८४०
गन्धद्रव्ये स्त्री अमरः चक्र इव वर्त्तते । चक्रवाकतुल्ये त्रि०
“तव तन्वि! कुचावेतौ नियतं चक्रवर्त्तिनौ । आसमुद्र-
क्षितीशोऽपि भवान् यत्र करप्रदः” उद्भटः । “यश्चक्र-
वर्त्तित्वमवाप वीरः स्वैः कर्म्मभिः शक्रसमप्रभावः”
हरिव० १५४ अ० । “वृन्दैर्गजानां गिरिचक्रवर्त्ती” कुमा० ।
“जन्म यस्व पुरोर्वंशे युक्तरूपमिदं तव । पुत्रमेवं गुणोपेतं
चक्रवर्त्तिनमाप्नुहि” शकु० । “विद्याधरराज्यमिव चक्र-
वर्त्तिनरवाहनोचितम्” काद० ।

चक्रवाक पु० स्त्री० चक्रशब्देन उच्यते वच--परिभाषणे कर्मणि

घञ् न्यङ्क्वा० कुत्वम् । स्वनामख्याते खगे अमरः ।
“परस्पराक्रन्दिनि चक्रवाकयोः पुरोवियुक्ते मिथुने
कृपावती” कुमा० । स्त्रियां जातित्वात् ङीष् । “वरु-
णाय चक्रवाकीम्” यजु० २४ । २२ । “सरिदपरतटा-
न्तादागता चक्रवाकी” माधः । “दूरीभूते मयि सहचरे
चक्रवाकीमिवैकाम्” मेघ० ।

चक्रवाकवती स्त्री चक्रवाकाः भूम्ना सन्त्यत्र मत्प् मस्य वः

ङीप् अजिरा० संज्ञायामपि न दीर्घः । बहुलचक्र
वाकयुक्ते नदीभेदे ।

चक्रवाट पु० चक्रस्वेव वाटोऽत्र वट--वेष्टने घञ् । १ क्रिया-

राहे कर्म्मप्रारम्भे २ पर्य्यन्ते ३ शिखातरौ च मेदि० ।

चक्रवाड(ल) पु० चक्रमिव वाडते वेष्टयति वाड--अच् । वा डस्य

लः चक्रमिव वलते बल बा० ण लस्य वा डः । १ लोका-
लीकपर्व्वते । २ मण्डले न० अमरः । लोकालोकपर्व्वतस्य
भूमण्डलवेष्टनाकारेण स्थितत्वात् तथात्वम् । ३ मण्ड-
लाकारेण वर्त्तिनि समूहमात्रे च “किरीटहा-
राङ्गदचक्रवाडैर्विभूषिताङ्गाः पृथुबाहवस्ते” भा० आ०
१८७ अ० । “एवं स कृष्णो गोपीनां चक्रवालैरलङ्कृतः”
हरिवं० ७७ अ० । वलधातोर्वाडधातोर्बा अन्तःस्थादि-
त्वेन वर्ग्यादित्वाभावात् अस्य शब्दस्य वर्ग्यमध्यत्वकल्पनं
प्रामादिकमेव ।

चक्रवाते पु० चक्रमिव वातः । (घुर्णीं) । भ्रमिवायौ वात्या-

याम् । “दैत्योनाम्रा तृणावर्त्तः कंसभृत्यः प्रचोदितः ।
चक्रवातस्वरूपेण जहारासीनमर्भकम्” भाग० ७ । १८ श्लो०

चक्रवृद्वि स्त्री चक्रमिव वृद्धिः । “वृद्धेरपि पुनर्वृद्धिश्चक्रवृद्धि-

रुदाहृता” इति नारदोक्ते १ वृद्धिभेदे । तद्दानादिप्रकांरः
मनुना दर्शितो यथा “नातिसांवत्सरीं वृद्धिं नवादृष्टां
पुनर्हरेत् । चक्त्रवृद्धिः कालवृद्धिः कारिता कायिका च
था । ऋणं दातुमशक्तोयः कर्त्तुमिच्छेत् पुनः क्रियाम् ।
स दत्त्वा निर्जितां वृद्धिं करणं परिवर्त्तयेत् । अदर्शयित्वा
तत्रैव हिरण्यं परिवर्त्तयेत् । यावती सम्भवेद् घृद्धिस्ता-
वतीं दातुमर्हति” । “ममैकस्मिन्मासि मासद्धये मासत्रये
वा गते तस्य वृद्धिः विगणय्य एकदा दातव्येत्येवं विधि
नियमपूर्ब्बकवृद्धिग्रहणमुत्तमर्णः संवत्सरपर्य्यन्तं कुर्य्यात्
नातिक्रान्ते संवत्सरे वृद्धिं गृह्णीयात् न च शास्त्रोक्त-
धर्म्यद्विकत्रिकशताद्यधिकां गृह्णीयात् । अधर्म्यत्वबोध-
नार्थो निषेधः । चक्रवृद्ध्यादिचतुष्टयीं चाशास्त्रीयां न
गृह्णीयात् । तासां स्वरूपमाह वृहस्पतिः “कायिका
कायसंयुक्ता मासग्राह्या च कालिका । वृद्धेर्वृद्धिश्चक्रवृद्धिः
कारिता ऋणिना कृता” । तत्र चक्रवृद्धिः स्वरूपेणैव
गर्हिता । कालवृद्धिस्तु द्विगुणाधिकग्रहणन । कायिका
चातिवाहदोहादिना । कारिता ऋणिकेन या आपत्-
काल एव उत्तमर्णपीड़या कृता । चतस्रोऽपि वृद्धीरशा
स्त्रीया न गृह्णीयात् । तथा च वृहस्पतिः “भागो
यद्द्विगुणादूर्द्ध्वं चक्रवृद्धिश्च गृह्यते । पूर्णे च सोदय
पश्चात् वार्द्धुष्यं तद्विगर्हितम्” । कात्यायनः “ऋणिकेन
कृता वृद्धिरधिका सम्प्रकल्पिता । आपत्कालकृता नित्य
दातव्या कारिता तथा । अन्यथा कारिता वृद्धिर्न्न दातव्या
कथञ्चन” । ऋणं दातुमिति । अधमर्णो धनदानासामर्थ्यात्
यदि पुनर्लेख्यादिक्रियां कर्त्तुमिच्छेत् स निर्ज्जितां
उक्तमार्गेण सत्यतया आत्मसात् कृतां वृद्धिं दत्त्वा करणं
लेख्यं पुनः कुर्य्यात् । अदर्शयित्वेति । यदि देवगत्या
वृद्धिहिरण्यमषि समग्रं दातुं न शक्नोति तदा तद्
गृहीत्वैव तत्रैव पुनः क्रियमाणे लेख्यादौ वृद्धिहिर-
ण्यादिशेषमारोपयेत् । यत्प्रमाणं चक्रवृद्धिधनं तदानीं
सम्भवति तद्दातुमर्हति” कुल्लू० ।
चक्रमस्त्वस्य अच् चक्रं चक्रवच्छकटादि तन्निमित्ता वृद्धिः ।
२ शकटादिभाटकरूपलाभे च । “चक्रवृद्धिं समारूढ़ो
देशकालव्यवस्थितः । अतिक्रामन् देशकालौ न तत्फल-
मवाप्नुयात्” मनुः । “चक्रदृद्धिमिति । चक्रवृद्धिशब्दे-
नात्र चक्रवच्छकटादिभाटकरूपा वृद्धिरभिमता चक्र-
वृद्धिमाश्रित उत्तमर्णो देशकालव्यवस्थितः । यदि वारा-
णसीपर्य्यन्तं लवणादि शकटेन वहामि तदा ममेय-
द्धनं दातव्यमिति वेतने देशव्यवस्थितिः । यदि मासं
यावद्वहामि तदा ममेयद्धनं दातव्यमिति कालव्यवस्थितिः
एवमभ्युपगतदेशकालौ नियमस्थौ दैवादपूरयन्
शकदादिनाऽवहन् लाभरूपफलं सकलं न प्राप्नोति” कूल्लू० ।
"https://sa.wikisource.org/w/index.php?title=वाचस्पत्यम्/च&oldid=85297" इत्यस्माद् प्रतिप्राप्तम्