महाभारतम्-16-मौसलपर्व-003

विकिस्रोतः तः
Jump to navigation Jump to search
← मौसलपर्व-002 महाभारतम्
षोडशपर्व
महाभारतम्-16-मौसलपर्व-003
वेदव्यासः
मौसलपर्व-004 →
  1. 001
  2. 002
  3. 003
  4. 004
  5. 005
  6. 006
  7. 007
  8. 008
  9. 009



द्वारकायां नानोत्पातप्रादुर्भावः।। 1 ।।
तत्तद्दर्शनात्कृष्णेन गान्धारीशापदानानुस्मरेण तस्य सत्यताचिकीर्षया भटैः सर्ववृष्ण्यादीनां तीर्थयात्रोद्धोषणम्।। 2 ।।

वैशंपाय उवाच। 16-3-1x
एवं प्रयतमानानां वृष्णीनामन्धकैः सह।
कालो गृहाणि सर्वेषां परिचक्राम नित्यशः।।
16-3-1a
16-3-1b
करालो विकटो मुण्डः पुरुषः कृष्णपिङ्गलः।
गृहाण्यावेक्ष्य वृष्णीनां नादृश्यतं पुनः क्वचित्।।
16-3-2a
16-3-2b
तमघ्नन्त महेष्वासाः शरैः शतसहस्रशः।
न चाशक्यत वेद्धुं स सर्वभूतात्ययस्तदा।।
16-3-3a
16-3-3b
उत्पेदिरे महावाता दारुणाश्च दिनेदिने।
वृष्ण्यन्धकविनाशाय बहवो रोमहर्षणाः।।
16-3-4a
16-3-4b
विवृद्धमूषिका रथ्या विभिन्नमणिकास्तथा।
केशा नखाश्च सुप्तानामद्यन्ते मूषिकैर्निशि।।
16-3-5a
16-3-5b
चीचीकूचीति वाशन्ति शारिका वृष्णिवेश्मसु।
नोपशाम्यति शब्दस्य सदिवारात्रमेव हि।।
16-3-6a
16-3-6b
अन्वकुर्वन्नुलूकानां सारसा विरुतं तथा।
अजाः शिवानां विरुतमन्वकुर्वत भारत।।
16-3-7a
16-3-7b
पाण्डुरा रक्तपादाश्च विहगाः कालचोदिताः।
वृष्ण्यन्धकानां गेहेषु कपोता व्यचरंस्तदा।।
16-3-8a
16-3-8b
व्यजायन्त खरा गोषु करभाश्वतरीषु च।
शुनीष्वपि बिडालाश्च मूषिका नकुलीषु च।।
16-3-9a
16-3-9b
नापत्रपन्त पापानि कुर्वन्तो वृष्णयस्तदा।
प्रार्दयन्ब्राह्मणांश्चापि पितॄन्देवांस्तथैव च।।
16-3-10a
16-3-10b
गुरूंश्चाप्यवमन्यन्ते न तु रामजनार्दनौ।
पत्न्यः पतीनुच्चरन्ति पत्नीश्चक पतयस्तथा।।
16-3-11a
16-3-11b
विभावसुः प्रज्वलितो वामं विपरिवर्तते।
नीललोहितमञ्जिष्ठा विसृजन्नर्चिषः पृथक्।।
16-3-12a
16-3-12b
उदयास्तमये नित्यं पुर्यां तस्यां दिवाकरः।
व्यदृश्यतासकृत्पुंभिः कबन्धैः परिवारितः।।
16-3-13a
16-3-13b
महानसेषु सिद्धेषु संस्कृतेऽतीवि भारत।
आहार्यमाणे कृमयो व्यदृश्यन्त सहस्रशः।।
16-3-14a
16-3-14b
पुण्याहे वाच्यमाने तु जपत्सु च महात्मसु।
अभिधावन्तः श्रूयन्ते न चादृश्यत कश्चन।।
16-3-15a
16-3-15b
परस्परं च नक्षत्रं हन्यमानं पुनःपुनः।।
ग्रहैरपश्यन्सर्वे ते नात्मनस्तु कथञ्चन।।
16-3-16a
16-3-16b
नदन्तं पाञ्चिजन्यं च वृष्णन्धकनिवेशने।
समन्तात्पर्यवाशन्त रासभा दारुणस्वराः।।
16-3-17a
16-3-17b
एवं पश्यन्हृषिकेशः संप्राप्तं कालपर्ययम्।
त्रयोदश्याममावास्यां तान्दृष्ट्वा प्राब्रवीदिदम्।।
16-3-18a
16-3-18b
चतुर्दशी पञ्चदशी कृतेयं राहुणा पुनः।
प्राप्ते वै भारते युद्धे प्राप्ता चाद्य क्षंयाय नः।।
16-3-19a
16-3-19b
विमृशन्नेव कालं तं परिचिन्त्य जनार्दनः।
मेने प्राप्तं स षट्त्रिंशं वर्षं वै केशिसूदनः।।
16-3-20a
16-3-20b
पुत्रशोकाभिसंतप्ता गान्धारी हतबान्धवा।
यदनुव्याजहारार्ता तदिदं समुपागमत्।।
16-3-21a
16-3-21b
इदं च तदनुप्राप्तमब्रवीद्यद्युधिष्ठिरः।
पुरा व्यूढेष्वनीकेषु दृष्ट्वेत्पातान्सुदारुणान्।।
16-3-22a
16-3-22b
इत्युक्त्वा वासुदेवस्तु चिकीर्षुः सत्यमेव तत्।
आज्ञापयामास तदा तीर्थयात्रामरिंदमः।।
16-3-23a
16-3-23b
अघोषयन्त पुरुषास्तत्र केशवशासनात्।
तीर्थयात्रा समुद्रे वः कार्येति पुरुषर्षभाः।।
16-3-24a
16-3-24b
।। इति श्रीमन्महाभारते
मौसलपर्वणि तृतीयोऽध्यायः ।।

[सम्पाद्यताम्]

16-3-1 कालः कपोतोलूकादिरूपेण।। 16-3-2 स एव क्वचित्करालादिरूपोऽदृस्यत क्वचिन्न। आवेक्ष्य परिक्रामन्निति शेषः।। 16-3-3 सर्वभूतानां अत्ययो नाशो यस्मात्।। 16-3-5 मणिका मृत्पात्राणि।। 16-3-11 उच्चरन्ति वञ्चयन्ति।। 16-3-14 आहार्यमाणे अन्ने। 16-3-16 स्वनक्षत्रादर्शनमपि स्वमृत्युसूचकमित्यर्थः।। 16-3-18 एवमिति। त्रयोदशदिवसः कृष्णपक्षोऽभूदित्यर्थः।। 16-3-19 एवं सत्यग्रिमपक्षए वृद्ध्या भाव्यं तन्न जातं प्रत्युतैकातिथिः क्षीणा तत्र ग्रहणं र्चं जातमित्याह चतुर्दशीति।।

मौसलपर्व-002 पुटाग्रे अल्लिखितम्। मौसलपर्व-004