महाभारतम्-16-मौसलपर्व-002

विकिस्रोतः तः
Jump to navigation Jump to search
← मौसलपर्व-001 महाभारतम्
षोडशपर्व
महाभारतम्-16-मौसलपर्व-002
वेदव्यासः
मौसलपर्व-003 →
  1. 001
  2. 002
  3. 003
  4. 004
  5. 005
  6. 006
  7. 007
  8. 008
  9. 009



वैशंपायनेन जनमेजयंपति यादवानां मौसलेन निधनप्रकारकथनारम्भः।। 1 ।।
कदाचन विश्वामित्राकदिमहर्षिषु द्वारकः मागतेषु कैश्चन यादवैः सांबस्य स्त्रीवेषपरिकल्पनेन मुनीन्प्रति गर्भिणीयं किंरूपमपत्यं प्रसविष्यतीति प्रश्नः।। 2 ।।
ततो रुष्टैर्महर्षिभिः स्वकुलविनाशकमायसं मुसलं प्रसविष्यतीति शापदानम्।। 3 ।।
ततः परेथुः सांवेन मुसले प्रसूते भीतैस्तै राजाज्ञया तस्य चूर्णकरणेन समुद्र प्रक्षेपणम्।। 4 ।।

जनमेजय उवाच। 16-2-1x
कथं विनष्टा भगवन्नन्धका वृष्णिभिः सह।
पश्यतो वासुदेवस्य भोजश्चैवक महारथाः।।
16-2-1a
16-2-1b
वैशम्पायन उवाच। 16-2-2x
षट्त्रिंशेऽथ ततो वर्षे वृष्णीनामनयो महान्।
अन्योन्यं मुसलैस्ते तु निजघ्नुः कालचोदिताः।।
16-2-2a
16-2-2b
जनमेजय उवाच। 16-2-3x
केनानुशप्तास्ते वीराः क्षयं वृष्ण्यन्धका गताः।
भोजाश्च द्विजवर्य त्वं विस्तरेण वदस्व मे।।
16-2-3a
16-2-3b
वैशम्पायन उवाच। 16-2-4x
विश्वामित्रं च कण्वं च नारदं च तपोधनम्।
सारणप्रमुखा वीरा ददृशुर्द्वारकां गतान्।।
16-2-4a
16-2-4b
ते वै सांबं पुरस्कृत्य भूषयित्वा स्त्रियं यथा।
अब्रुवन्नुपसङ्गम्य् दैवदण्डिनिपीडिताः।।
16-2-5a
16-2-5b
इयं स्त्री पुत्रकामस्य बभ्रोरमिततेजसः।
ऋषयः साधु जानीत किमियं जनयिष्यति।।
16-2-6a
16-2-6b
इत्युक्तास्ते तदा राजन्विप्रलम्भप्रधर्षिताः।
प्रत्यबुवंस्तान्मुनयो यत्तच्छृणु नराधिप।।
16-2-7a
16-2-7b
वृष्ण्यन्धकविनाशाय मुसलं घोरमायसम्।
वासुदेवस्य दायादः सांबोऽयं जनयिष्यति।।
16-2-8a
16-2-8b
येन यूयं सुदुर्वृत्ता नृशंसा जातमन्यवः।
उच्छेत्तारः कुलं कृत्स्नमृते रामजनार्दनौ।।
16-2-9a
16-2-9b
समुद्रं यास्यति श्रीमांस्त्यक्त्वा देहं हलायुधः।
जरःकृष्णं महात्मानं शयानं भुवि भेत्स्यति।।
16-2-10a
16-2-10b
इत्यब्रुवंस्ततो राजन्प्रलब्धास्तैर्दुरात्मभिः।
मुनयः क्रोधरक्ताक्षाः समीक्ष्याथ परस्परम्।
तथोक्त्वा मुनयस्ते तु यथागतमथो ययुः।।
16-2-11a
16-2-11b
16-2-11c
अथाब्रवीत्तदा वृष्णीञ्श्रुत्वैतन्मधुसूदनः।
अन्तज्ञो मतिमांस्तस्य भवितव्यं तथेति तान्।।
16-2-12a
16-2-12b
एवमुक्त्वा हृषीकेशः प्रविवेश पुरं तदा।
कृतान्तमन्यथा नैच्छत्कर्तुं स जगतः प्रभुः।।
16-2-13a
16-2-13b
श्वोभूतेऽथ ततः सांबो मुसलं तदसूकत वै।
येन वृष्णन्धककुले पुरुषा भस्मसात्कृताः।।
16-2-14a
16-2-14b
वृष्ण्यन्धकविनाशाय किंकरप्रतिमं महत्।
असूत सापजं घोरं तच्च राज्ञे न्यवेदयन्।।
16-2-15a
16-2-15b
विषण्णरूपस्तद्राजा सूक्ष्मं चूर्णमकारयत्।
तच्चूर्णं सागरे चापि प्राक्षिपन्पुरुषा नृप।।
16-2-16a
16-2-16b
अघोषयंश्च नगरे वचनादाहुकस्य ते।
जनार्दनस्य रामस्य बभ्रोश्चैव महात्मनः।।
16-2-17a
16-2-17b
अद्यप्रभृति सर्वेषु वृष्ण्यन्धककुलेष्विह।
सुरासवो न कर्तव्यः, सर्वैर्नगरवासिभिः।।
16-2-18a
16-2-18b
यश्च नो विदितं कुर्यात्पेयं कश्चिन्नरः क्वचित्।
जीवन्स शूलमारोहेत्स्वयं कृत्वा सबान्धवः।।
16-2-19a
16-2-19b
ततो राजभयात्सर्वे नियमं चक्रिरे तदा।
नराः सासनमाज्ञाय तस्य राज्ञो महात्मनः।।
16-2-20a
16-2-20b
।। इति श्रीमन्महाभारते
मौसलपर्वणि द्वितीयोऽध्यायः।। 2 ।।

[सम्पाद्यताम्]

16-2-2 मुसलैरेरकालग्नैर्मुसलकणैः।। 16-2-10 जरा कृष्णमिति झ.पाठः। जरानामा कश्चित्कैवर्तः।। 16-2-15 किङ्करो यमदूतस्तत्तुत्यम्।। 16-2-19 खयंकृत्वा स्वयंकर्ता।।

मौसलपर्व-001 पुटाग्रे अल्लिखितम्। मौसलपर्व-003