महाभारतम्-16-मौसलपर्व-009

विकिस्रोतः तः
Jump to navigation Jump to search
← मौसलपर्व-008 महाभारतम्
षोडशपर्व
महाभारतम्-16-मौसलपर्व-009
वेदव्यासः
महाप्रस्थानिकपर्व →
  1. 001
  2. 002
  3. 003
  4. 004
  5. 005
  6. 006
  7. 007
  8. 008
  9. 009



अर्जुनेन व्यासाश्रमे तद्दर्शनम्।। 1 ।।
तस्मिन्द्वारकावृत्तान्तनिवेदनम्।। 2 ।।
व्यासेनार्जुनंप्रति युधिष्ठिरादीनामपि स्वर्गगमनसूचनम्।। 3 ।।
ततोऽर्जुनेन हास्तिनपुरमेत्य युधिष्ठिरे द्वारकावृत्तान्तादिनिवेदनम्।। 4 ।।

वैशम्पायन उवाच। 16-9-1x
प्रविश्य त्वर्जुनो राजन्नाश्रमं सत्यवादिनः।
ददर्शासीनमेकान्तो मुनिं सत्यवतीसुतम्।।
16-9-1a
16-9-1b
स तमासाद्य धर्मज्ञमुपतस्थे महाव्रतम्।
अर्जुनोस्मीति नामास्तै निवेद्याभ्यवदत्ततः।।
16-9-2a
16-9-2b
स्वागतं तेऽस्त्विति प्राह मुनिः सत्यवतीसुतः।
आस्यतामिति होवाच प्रसन्नात्मा महामुनिः।।
16-9-3a
16-9-3b
तमप्रतीतमनसं निःश्वसन्तं पुनःपुनः।
निर्विष्णमनसं दृष्ट्वा पार्थं व्यासोऽब्रवीदिदम्।।
16-9-4a
16-9-4b
नखकेशदशाकुंभवारिणा किं समुक्षितः।
आवीरजानुगमनं ब्राह्मणो वा हतस्त्वया।।
16-9-5a
16-9-5b
युद्धे पराजितो वाऽसि दतश्रीरिव लक्ष्यसे।
न त्वां प्रभिन्नं जानामि किमिदं भरतर्षभ।
श्रोतव्यं चेन्मया पार्थ क्षश्रिप्रमाख्यातुमर्हसि।।
16-9-6a
16-9-6b
16-9-6c
अर्जुन उवाच। 16-9-7x
यः स मेघवपुः श्रीमान्बृहत्पङ्कजलोचनः।
स कृष्णः सह रामेण त्यक्त्वा देहं दिवं गतः।।
16-9-7a
16-9-7b
`तदनुस्मृत्य संमोहं तदा शोकं महामते।
प्रयामि सर्वदा मह्यं मुमूर्षा चोपजायते।।
16-9-8a
16-9-8b
तद्वाक्यस्पर्शनालोकसुखं चामृतसन्निभम्।
संस्मृत्य देवदेवस्य प्रमुह्यित्यमृतात्मनः।।'
16-9-9a
16-9-9b
मौसले वृष्णिवीराणां विनाशो ब्रह्मशापजः।
बभूव वीरान्तकरः प्रभासे रोमहर्षणः।।
16-9-10a
16-9-10b
एते शूरा महात्मानः सिंहदर्पा महाबलाः।
भोजवृष्ण्यन्धका ब्रह्मन्नन्योन्यं तैर्हतं युधि।।
16-9-11a
16-9-11b
गदापरिघशक्तीनां सहाः परिघबाहवः।
त एरकाभिर्निहताः पश्य कालस्य पर्ययम्।।
16-9-12a
16-9-12b
हतं पञ्चशतं तेषां सहस्रं बाहुशालिनाम्।
निधनं समनुप्राप्तं समासाद्येतरेतरम्।।
16-9-13a
16-9-13b
पुनःपुनर्न मृष्यामि विनाशममितौजसाम्।
चिन्तयानो यदूनां च कृष्णस्य च यशस्विनः।।
16-9-14a
16-9-14b
शोषणं सागरस्येव मन्दरस्येव चालनम्।
नभसः पतनं चैव शैत्यमग्नेस्तथैव च।।
16-9-15a
16-9-15b
अश्रद्धेयमहं मन्ये विनाशं शार्ङ्गधन्वनः।
न चेह स्थातुमिच्छामि लोके कृष्णविनाकृतः।।
16-9-16a
16-9-16b
इतः कष्टतरं चान्यच्छृणु तद्वै तपोधन।
मनो मे दीर्यते येन चिन्तयानस्य वै मुहुः।।
16-9-17a
16-9-17b
पश्यतो वृष्णिदाराश्च मम ब्रह्मन्सहस्रशः।
आभीरैरभिभूयाजौ हृताः पञ्चनदालयैः।।
16-9-18a
16-9-18b
धनुरादाय तत्राहं नाशकं तस्य पूरणे।
यथापुरा च मे वीर्यं भुजयोर्न तथाऽभवत्।।
16-9-19a
16-9-19b
अस्त्राणि मे प्रनष्टानि विविधानि महामुने।
शराश्च क्षयमापन्नाः क्षणेनैव समन्ततः।।
16-9-20a
16-9-20b
पुरुषस्चाप्रमेयात्मा शङ्खचक्रगदाधरः।
चतुर्भुजः पीतवासाः श्यामः पद्मदलेक्षणः।।
16-9-21a
16-9-21b
यश्च याति पुरस्तान्मे रथस्य सुमहाद्युतिः।
प्रदहन्रिपुसैन्यानि न पश्याम्यहमद्य तम्।।
16-9-22a
16-9-22b
येन पूर्वं प्रदग्धानि शत्रुसैन्यानि तेजसा।
शरैर्गाण्डीवनिर्मुक्तैरहं पश्चादशातयम्।।
16-9-23a
16-9-23b
तमपश्यन्विषीदामि घूर्णामीव च सत्तम।
परिनिर्विण्णचेताश्च शान्तिं नोपलभेऽपि च।।
16-9-24a
16-9-24b
`देवकीनन्दनं देवं वासुदेवमजं प्रभुम्।'
विना जनार्दनं वीरं नाहं जीवितुमुत्सहे।।
16-9-25a
16-9-25b
श्रुत्वैव हि गतं विष्णुं ममापि मुमुहुर्दिशः।
प्रनष्टज्ञातिवीर्यस्य शून्यस्य परिधावतः।।
16-9-26a
16-9-26b
उपदेष्टुं मम श्रेयो भवानर्हति सत्तम।। 16-9-27a
व्यास उवाच। 16-9-28x
`देवांशा देवभूतेन सम्भूतास्ते गतास्सह।
धर्मव्यवस्थारक्षार्थं देवेन समुपेक्षिताः'।।
16-9-28a
16-9-28b
ब्रह्मशापविनिर्दग्धा वृष्ण्यन्धकसमहारथाः।
विनष्टाः कुरुशार्दूल न ताञ्शोचितुमर्हसि।।
16-9-29a
16-9-29b
भवितव्यं तथा तच्च दिष्टमेतन्महात्मनाम्।
उपेक्षितं च कृष्णेन शक्तेनापि व्यपोहितुम्।।
16-9-9a
16-9-9b
त्रैलोक्यमपि गोविन्दः कृत्स्नं स्थावरजङ्गमम्।
प्रसहेदन्यथा कर्तुं कुतः शापं महात्मनाम्।।
16-9-31a
16-9-31b
`स्त्रियश्च ताः पुरा शप्ताः प्रभासे कुपितेन वै।
अष्टावक्रेण मुनिना तदर्थं त्वद्बलक्षयम्।।'
16-9-32a
16-9-32b
रथस्य पुरतो याति यः स चक्रगदाधरः।
तव स्नेहात्पुराणर्षिर्वासुदेवश्चतुर्भुजः।।
16-9-33a
16-9-33b
कृत्वा भारावतरणं पृथिव्याः पृथुलोचनः।
मोक्षयित्वा तनुं प्राप्तः कृष्णः स्वस्थानमुत्तमम्।।
16-9-34a
16-9-34b
त्वयाऽपीह महत्कर्म देवानां पुरुषर्षभ।
कृतं भीमसहायेन यमाभ्यां च महाभुज।।
16-9-35a
16-9-35b
कृतकृत्यांश्च वो मन्ये संसिद्धान्कुरुपुङ्गव।
गमनं प्राप्तकालं व इदं श्रेयस्करं विभो।।
16-9-36a
16-9-36b
बलं बुद्धिश्च तेजश्च प्रतिपत्तिश्च भारत।
भवन्ति भवकालेषु विपद्यन्ते विपर्यये।।
16-9-37a
16-9-37b
कालमूलमिदं सर्वं जगद्बीजं धनंजय।
काल एव समादत्ते पुनरेव यदृच्छया।।
16-9-38a
16-9-38b
स एव बलवान्भूत्वा पुनर्भवति दुर्बलः।
स एवेशश्च भूत्वेह परैराज्ञाप्यते पुनः।।
16-9-39a
16-9-39b
कृतकृत्यानि चास्त्राणि गतान्यद्य यथागतम्।
पुनरेष्यन्ति ते हस्तं यदा कालो भविष्यति।।
16-9-40a
16-9-40b
कालो गन्तुं गतिं मुख्यां भवतामपि भारत।
एतच्छ्रेयो हि वो मन्ये परमं भरतर्षभ।।
16-9-41a
16-9-41b
वैशम्पायन उवाच। 16-9-42x
एतद्वचनमाज्ञाय व्यासस्यामिततेजसः।
अनुज्ञातो ययौ पार्थो नगरं नागसाह्वयम्।।
16-9-42a
16-9-42b
प्रविश्य च पुरीं वीरः समासाद्य युधिष्ठिरम्।
आचष्ट तद्यथावृत्तं वृष्ण्यन्धककुलं प्रति।।
16-9-43a
16-9-43b
।। इति श्रीमन्महाभारते
शतसाहस्रयां संहितायां वैयासिक्यां
मौसलपर्वणि नवमोध्यायः।। 9 ।।
।। मौसलपर्व समाप्तम् ।।
--------
अस्यानन्तरं महाप्रस्थानिकं पर्व भविष्यति
तस्यायमाद्यः श्लोकः।
जनमेजय उवाच।
0
एवं वृष्ण्यन्धककुले श्रुत्वा मौसलमाहवम्।
पाण्डवाः किमकुर्वन्त तथा कृष्णे दिवं गते।। 1 ।।
इदं मौसलपर्व कुंभघोणस्थेन
टी.आर्. कृष्णाचार्येण टी. आर्. व्यासाचार्येण च
मुम्बय्यां निर्णयसागरमुद्रायन्त्रे मुद्रापितम्।
शकाब्दाः 1832 सन 1910.

[सम्पाद्यताम्]

16-9-5 नखोदकं केशोदकं वस्त्रप्रान्तो दशा तदुदकं कुम्भमुखोदकं च। आवीरजा नारी रजस्वला तस्या रजःप्रस्रबकाले दिनत्रयादर्वाक् अनुगमनं तस्यां मैथुनं ब्राह्मणस्य वधो युद्धे पराजयश्चेति सप्तभिर्निमितैः पुरुषो भ्रष्टश्रीर्भवति। अपि राजोपघातस्ते ब्राह्मणो वेति क.ट.पाठः।। 16-9-6 प्रभिन्नं पराजितं त्वां कदाचिदपि न जानामि।। 16-9-11 हतं मृतम्। मारितवन्त इत्यर्थः।। 16-9-13 पञ्चशतं सहस्रं सहस्रगुणितं पञ्चलक्षामीत्यर्थः।। 16-9-13 न केवलं हतं ताडितमपि तु निधनं प्राप्तमित्यर्थः।। 16-9-18 पश्यतः अनादरे षष्ठी। मां पश्यन्तमनादृत्येत्यर्थः।। 16-9-37 वुद्धिरुपस्थितकार्यावधारणम्। तेजः प्रागल्भ्यम्। प्रतिपत्तिरनागतावेक्षणम्। भवन्ति उत्पद्यन्ते। भवकालेषु ऐश्वर्यावाप्तिसमयेषु। विपर्यये विनाशकाले। विपद्यन्ते विनश्यन्ति।। 16-9-38 कालः ईश्वरः जगद्बीजं वियदादिपञ्चकं। समादत्ते संहरति यदा भूतानामपि संहारो भवति कियांस्तत्र भौतिकानां नाश इति तदर्थं शोकोनुचित इति भावः। य एव बलवान्स एव दुर्बलो भवत्येव विपर्ययोऽपि कालमूलो ज्ञेयः।। 16-9-40 पुनर्युगान्तरे।। 16-9-41 मुख्यां गतिं स्वर्गं गन्तुम् एतत्प्रस्थानं श्रेयः।।

मौसलपर्व-008 पुटाग्रे अल्लिखितम्। महाप्रस्थानिकपर्व