बृहद्देवता/अध्यायः ७

विकिस्रोतः तः

सुष्ट्वा भर्तुः परोक्षं तु सरण्यूः सदृशीं स्त्रियम् ।
निक्षिप्य मिथुनं तस्याम् अश्वा भूत्वापचक्रमे ॥ १ ॥
अविज्ञानाद्विवस्वांस्तु तस्यामजनयन्मनुम् ।
राजर्षिरभवत्सोऽपि विवस्वानिव तेजसा ॥ २ ॥
स विज्ञाय त्वपक्रान्तां सरण्यूमश्वरूपिणीम् ।
त्वष्ट्रीं प्रति जगामाशु वाजी भूत्वा सलक्षणः ॥ ३
सरण्यूश्च विवस्वन्तं विदित्वा हयरूपिणम् ।
मैथुनायोपचक्राम तां च तत्रारुरोह सः ॥ ४ ॥
ततस्तयोस्तु वेगेन शुक्रं तदपतद्भुवि ।
उपाजिघ्रच्च सा त्वश्वा तच्छुक्रं गर्भकाम्यया ॥ ५ ॥
आघातमात्राच्छुक्रात्तु कुमारौ संबभूवतुः ।
नासत्यश्चैव दस्रश्च यौ स्तुतावश्विनाविति ॥ ६ ॥
इतिहासमिमं यास्कः सरण्यूदेवते [१]द्वृचे ।
विवस्वतश्च त्वष्टुश्च त्वष्टेति सह मन्यते ॥ ७ ॥
[२]पूषेति पादौ पौष्णौ द्वाव् आग्नेयावुत्तरौ तु यौ ।
स्यात्तृतीयोऽपि वा पौष्णस्तिस्रश्चान्याः परास्तु याः ॥८॥
अपां स्तुतिस्त्वृगत्रैका तृचात्सारस्वतात्परा ।
स्तुतः परोक्षः सोमस्तु द्रप्स इत्युत्तरे [३]तृचे ॥ ९ ॥
अब्देवताशीर्वादो वा [४]पयस्वत्युत्तरा तु या ।
[५]चतस्रस्तास्तुतिर्मृत्योर् अन्त्ये क्लृप्ताश्च कर्मणि ॥ १०॥
मृतशिष्टेभ्य आशास्ते इमे ज्योग्जीवनं पुनः ।
इमं जीवेभ्य आशास्ते तेभ्यः परिधिकर्मणि ॥ ११ ॥
[६]यथा धात्र्युत्तरा त्वाष्ट्री ततो यान्या [७]इमास्त्विति ।
स्त्रीणामाशिषमाशास्ते तयैवाञ्जनकर्मणि ॥ १२ ॥
[८]उदीर्ष्व नारीत्यनया मृतं पत्न्यनुरोहति ।
भ्राता कनीयान्प्रेतस्य निगद्य प्रतिषेधति ॥ १३ ॥
कुर्यादेतत्कर्म होता देवरो न भवेद्यदि ।
प्रेतानुगमनं न स्याद् इति ब्राह्मणशासनात् ॥ १४ ॥
वर्णानामितरेषां च स्त्रीधर्मोऽयं भवेन्न वा ।
शान्त्यर्थं धनुरादाने प्रेतस्यर्चं [९]धनुर्जपेत् ।
यस्मादेताः प्रयुज्यन्ते श्मशाने चान्त्यकर्मणि ॥ १५ ॥
तस्माद्वदेत्तृचस्वास्य देवतां मृत्युमेव तु ।
मन्त्रेषु ह्यनिरुक्तेषु देवतां कर्मतो वदेत् ॥ १६ ॥
मन्त्रेषु ह्यनिरुक्तेषु देवतां कर्मतो वदेत् ॥ १६ ॥
मन्त्रतः कर्मतश्चैव प्रजापतिरसंभवे ।
पराश्चतस्रो यास्त्वत्र [१०]उप सर्पेति पार्थिवी ॥ १७ ॥
तासां प्रयोगः प्रेतस्य अस्थिसंचयकर्मणि ।
[११]प्रतीचीने यथाहानि अपहृत्येतराणि तु ॥ १८ ॥
अहःसु पितरो दधुर् इत्याशास्तेऽन्त्ययाशिषः ।
अहः स्वागामिषु च मां प्रयन्तं समजीवयन् ॥१९॥
[१२]नि वर्तध्वमितीदं तु गवां केचिदपां विदुः ।
अर्धर्चः प्रथमायास्तु अग्नीषोमीय उत्तरः ॥ २० ॥
ऐन्द्री षष्ठी द्वितीयायाम् उभौ देवौ निपातितौ ।
दशाक्षरं तु शान्त्यर्थं [१३]मानसं सूक्तमुच्यते ॥ २१ ॥
त्रीण्यैन्द्राणि [१४]कुहेत्यत्र आग्नेयाभ्यां पराणि तु ।
तृचोऽत्रास्त्याश्विनस्त्वेक ऐन्द्राणामुत्तमे [१५]युवम् ॥२२॥
[१६]भद्रं सौम्यं [१७]प्र हि पौष्णं [१८]त्रीण्यैन्द्राणि पराण्यसत् ।
तेषामाद्येन मत्तः सन् स्वानि कर्माणि शंसति ॥ २३ ॥
यथा चरति भूतेषु यथा वर्षति पाति च ।१
सूक्ते तदस्मिन्नष्टाभिर् [१९]ऋग्भिरुक्तमभूर्विति ॥ २४ ॥
[२०]सप्तेति मरुत स्तौति स्तौति वज्रमृगुत्तरा ।
अग्निमिन्द्रं च सोमं च पीवानं मेषमर्चति ॥ २५' ॥
पूर्वोऽर्धर्चोऽपरस्तस्याः पर्जन्यं वायुना सह ।
वि क्रोशनास इत्यग्निम् उत्तरा सूर्यमेव तु ॥ २६ ॥
एतौ मेऽयं य इत्येते स्तुतिश्चैवेन्द्रवज्रयोः ।
वृक्षेवृक्षे धनुश्चेन्द्रं देवानामिति तु त्रयः ॥ २७ ॥
शीतोष्णवर्षदातारः पर्जन्यानिलभास्कराः ।
अन्त्ये सूर्योनिलौ चोभौ स्तूयेते च पदे सह ॥ २८ ॥
सा ते जीवातुरित्यस्याम् इन्द्रो वा सूर्य एव वा ।
[२१]विश्वो अन्यस्तु संवाद ऋषेः शक्रस्य चैव हि ॥२९॥
युग्माः शक्रस्य विज्ञेया वसुक्रस्येतरा ऋचः ।
स्नुषेन्द्रस्यागतान्देवान् दृष्ट्वा शक्रमनागतम् ॥ ३० ॥
यज्ञं परोक्षवत्प्राह श्वशुरो नागतो मम ।
यद्यागच्छेद् भक्षयेत्स धानाः सोमं पिबेदपि ॥ ३१ ॥
इति तस्या वचः श्रुत्वा तत्क्षणादेत्य वज्रधृक् ।
तिष्ठन्वेद्यामुत्तरस्याम् उच्चैराह स रोरुवत् । । ३२ । ।
तृतीयया चतुर्थ्या च [२२]प्र देवत्रेत्यपां स्तुतौ ।
अपांनपादित्यनेन नाम्नाग्निर्मध्यम स्तुतः ॥ ३३ ॥
[२३]एति यद्वैश्वदेवं तु तस्य [२४]प्रेत्यैन्द्रमुत्तरम् ।
वैश्वदेवी [२५]प्र मेत्येका सं मेत्येन्द्रो द्वृचः परः ॥ ३४ ॥
कुरुश्रवणमर्चतः परे द्वे त्रासदस्यवम् ।
मृते मित्रातिथौ राज्ञि तन्नपातमृषिः परैः ॥ ३५ ॥
उपमश्रवसं यस्य चतुर्भिः स व्यशोकयत् ।
[२६]प्रावेपा इति सूक्तं यत् तदक्षस्तुतिरुच्यते ॥ ३६ ॥
अत्राक्षान्द्वादशी स्तौति नवम्याद्या च सप्तमी ।
त्रयोदशी कृषिं स्तौति कितवं चानुशासति ।
अक्षांस्तु शेषा निन्दन्ति [२७]अबुध्रं वैश्वदेवते ॥ ३७ ॥
सावित्रमेके मन्यन्ते महो अग्ने स्तवं परम् ।
आचार्याः शौनको यास्को गालवश्चोत्तमामृचम् ॥३८॥
[२८]नमः सौर्यमैन्द्रमस्मिन्[२९] सौर्ये षष्ट्या तु या स्तुताः ।
निपातिन्यस्ताः सूक्तान्ते वैश्वदेवोऽत्र तु द्वृचः ॥ ३९ ॥
आश्विनानि तु [३०]यस्त्रीणि ऐन्द्राण्यस्तेव[३१] सु प्र च ।
ऐन्द्राणामुत्तमायास्तु स्तुतोऽर्धर्च बृहस्पतिः ॥ ४० ॥
परे [३२]दिवस्पर्याग्नेये प्रथमस्योत्तमेन तु ।
द्यावापृथिव्यौ विश्वे च पच्छोऽर्धर्च्चेन संस्तुताः ॥ ४१ ॥
आसीत्काक्षीवती घोषा पापरोगेण दुर्भगा ।
उवास षष्टि वर्षाणि पितुरेव गृहे पुरा॥४२॥
आतस्थे महतीं चिन्तां न पुत्रो न पतिर्मम ।
जरां प्राप्तां मुधातस्मात् प्रपद्येऽहं शुभस्पती ॥ ४३ ॥
यथैतौ मामकस्तात आराध्यावाप यौवनम् ।
आयुरारोग्यमैश्वर्यं सर्वभूतहत्थे विषम् ॥ ४४ ॥
रूपवतां च सौभाग्यम् अहं तस्य सुता यदि ।
समापि मन्त्राः प्रादुःस्युर् यैस्तोष्येते मयाश्विनौ ॥४५॥
चिन्तयन्तीति सूक्ते द्वे [३३]यो वां परि ददर्श सा ।
स्तुतौ तावश्विनौ देवौ प्रीतौ तस्या भगान्तरम् ॥४६॥
प्रविश्य विजरारोगां सुभगां चक्रतुश्च तौ ।
भर्तारं ददतुस्तस्यै सुहस्त्यं च सुतं मुनिम् ॥४७॥
ददतुस्तत्सुपर्णाभ्यां यन्नासत्येति कीर्त्यते ।
काक्षीवत्यै च घोषायै न तस्यामाजुरोऽनया ॥ ४८ ॥
प्राजापत्यासुरी त्वासीद् विकुण्ठा नाम नामतः ।
सेछन्तीन्द्रसमं पुत्रं तेपेऽथ सुमहत्तपः ॥ ४९ ॥
सा प्रजापतितः कार्मांल्लेभेऽथ विविधान् वरान् ।
तस्यां चेन्द्रः स्वयं जज्ञे जियांसुर्दैत्यदानवान् ॥ ५० ॥
एकदा दानवैः सार्धं समरे समसज्यत ।
जघान तेषां नवतीर् नव सप्त च सप्तकान् ॥ ५१ ॥
भित्त्वा स्वबाहुवीर्येण हैमरौप्यायसीः पुरीः ।
हत्वा सर्वान् यथास्थानं पृथिव्यादिव्यवस्थितान् ॥५२॥
पृथिव्यां कालकेयांश्च पौलोमांश्चैव धन्विनः ।
तांश्च व्युत्सादयामास प्रह्लादतनयान्दिवि ॥ ५३ ॥
राज्यं प्राप्य स दैत्येषु स्वेन वीर्येण दर्पितः ।
देवान्बाधितुमारेभे मोहितोऽसुरमायया ॥ ५४ ॥
बाध्यमानास्तु तेनापि असुरेणामितौजसा ।
उपाधावन्नृषिश्रेष्ठं तत्प्रबोधाय सप्तगुम् ॥ ५५ ॥
ऋषिस्तु सप्तगुर्नाम तस्यासीत्सुप्रियः सखा ।
स चैनमभितुष्टाव [३४]जगृभ्मेति करे स्पृशन् ॥ ५६ ॥
ततः स बुद्ध्वा चात्मानं सप्तगुस्तुतिहर्षितः ।
आत्मानमेव तुष्टाव [३५]अहं भुवमिति त्रिभिः ॥ ५७ ॥
कीर्तयन्स्वानि कर्माणि यानि स्म कृतवान्पुरा ।
यथाकरोच्च वैदेहं व्यंसं सोमपतिं नृपम् ॥ ५८ ॥
वसिष्ठशापादभवद् वैदेहो नृपतिः पुरा ।
इन्द्रप्रसादादीजे च सत्त्रैः सारस्वतादिभिः ॥ ५९ ॥
प्रभूतां शक्तिमत्तां च शत्रूणामप्यपाक्रियाम् ।
नृषु सर्वेषु चैश्वर्यं प्रभुत्वं भुवनेषु च ।
[३६]प्र वो मह इति त्वस्याम् आत्मनो वीर्यमक्षयम् ॥६०॥
वैश्वानरे गृहपतौ यविष्ठेऽग्नौ च पावके ।
वषट्कारेण वृक्णेषु भ्रातृष्वग्नौ सहःसुते ॥ ६१ ॥
अपचक्राम देवेभ्यः सौचीकोऽग्निरिति श्रुतिः ।
स प्रविशदपक्रम्य ऋतूनपो वनस्पतीन् ॥ ६२ ॥
ततोऽसुराः प्रादुरासन् नष्टेऽग्नौ हव्यवाहने ।
तेऽग्निमेवान्ववैक्षन्त देवा हत्वासुरान्युधि ॥ ६३॥
तं तु दूराद्यमश्चैव वरुणश्चान्वपश्यताम् ।
उभावेनं समादाय देवानेवाभिजग्मतुः ॥ ६४ ॥
दृष्ट्वा देवास्त्वेनमूचुर् अग्ने हव्यानि नो वह ।
वरान् गृहाण चास्मत्तश् चित्रभानो भजस्व नः ।
देवयानान् सुगान् पथः कुरुष्व सुमनाः स्वयम् ॥६५॥
प्रत्युवाचाथ तानग्नि् विश्वे देवा यदूच माम् ।
तत्करिष्ये जुषन्तां तु होत्रं पञ्च जना मम ॥ ६६ ॥
शालामुख्यः प्रणीतश्च पुत्रो गृहपतेश्च यः ।
उत्तरो दक्षिणाश्चाग्निर् एते पञ्च जनाः स्मृताः ॥ ६७ ॥
मनुष्याः पितरो देवा गन्धर्वोरगराक्षसाः ।
गन्धर्वाः पितरो देवा असुरा यक्षराक्षसाः ॥ ६८ ॥
यास्कौपमन्यवावेतान् आहतुः पञ्च वै जनान् ।
निषादपञ्चमान् वर्णान् मन्यते शाकटायनः ॥ ६९ ।
ऋत्विजो यजमानं च शाकपूणिस्तु मन्यते ।
होताध्वर्युस्तथोद्गाता ब्रह्मा चेति वदन्ति तान् ॥७०॥
चक्षुः श्रोत्रं मनो वाक् च प्राणश्चेत्यात्मवादिनः ।
गन्धर्वाप्सरसो देवा मनुष्याः पितरस्तथा ॥ ७१॥
सर्पाश्च ब्राह्मणे चैव श्रूयन्ते ह्यैतरेयके ।
ये चान्ये पृथिवीजाता देवाश्चान्येऽथ यज्ञियाः ॥ ७२ ॥
आयुरस्तु च मे दीर्घं हवींषि विविधानि च ।
अरिष्टिः पूर्वजानां च भ्रातृणामध्वरेऽध्वरे ॥ ७३ ॥
प्रयाजाश्चानुयाजाश्च घृतं सोमे च यः पशुः ।
मद्दैवत्यानि वै सन्तु यज्ञो मद्देवतोऽस्तु च ॥ ७४ ॥
[३७]तवाग्ने यज्ञ इत्येतत् प्रत्याधि स्विष्टकृच्च सः ।
यस्य त्रीणि सहस्राणि नव त्रीणि शतानि च ॥ ७५ ॥
त्रिंशच्चैव तु देवानां सर्वामेव वरान्ददुः ।
ततोऽग्निः सुमनाः प्रीतो विश्वेदेवैः पुरस्कृतः ॥ ७६ ॥
विधूयाङ्गानि यज्ञेषु चक्रे होत्रमतन्द्रितः ।
भ्रातृभिः सहितः प्रोतो दिव्यात्मा हव्यवाहनः ॥७७॥
तस्यास्थि देवदार्वासीन् मेदो मांसं च गुग्गुलुः ।
सुगन्धितेजनं स्नायु शुक्रं रजतकाञ्चने ॥७८॥
रोमाणि काशाः केशास्तु कृशाः कूर्मा नखानि च ।
अन्त्राणि चैवाप्यवका मज्जा सिकतशर्कराः ॥७९॥
असृक् पित्तं च विविधा धातवो गैरिकादयः ।
एवमग्निश्च देवाश्च सूक्तैर्महदिति[३८] त्रिभिः ॥८०॥
समूदिरे परे त्वस्माद् ऐन्द्रे सूक्ते तु [३९]तां सु ते ।
[४०]विधुं दद्राणमित्यस्यां सूर्याचन्द्रमसौ स्तुतौ ॥८१ ॥
प्राणवच्चात्मवच्चापि स्तुतिरप्यत्र दृश्यते ।
इदं द्वे वैश्वदेवे च द्वितीये मनसस्तृचः ॥ ८२ ॥
प्रथमैन्द्रो द्वितीयाग्नेय्य् अन्त्या तत्सोमदेवता ।
अपि स्तौति पितॄनेतद् आर्त्विजं यत्तदुत्तरम् ॥८३॥
सूक्तमाख्यानसंयुक्तं वक्तुकामस्य मे शृणु ।
संमोहान्नष्टसंज्ञस्य शत्रुणाभिहतस्य तु ॥८४॥
जीवावृत्तिः सुबन्धोर्वा यदि वा मनस स्तवः ।
राजासमातिरैक्ष्वाकू रथप्रोष्ठः पुरोहितान् ॥८५॥
व्युदस्य बन्धुप्रभृतीन् द्वैपदा येऽत्रिमण्डले ।
द्वौ किराताकुली नाम ततो मायाविनौ द्विजौ ॥८६॥
असमातिः पुरोऽधत्त वरिष्ठौ तौ हि मन्यते ।
तौ कपोतौ द्विजौ भूत्वा गत्वा गोपायनानभि ॥८७॥
मायाबलाच्च योगाच्च सुबन्धुमभिपेततुः ।
स दुःखादभिघाताच्च मुमोह च पपात च ॥८८॥
तौ ततोऽस्यासुमालुच्य राजानमभिजग्मतुः ।
ततः सुबन्धौ पतिते गतासौ भ्रातरस्त्रयः ॥ ८९ ॥
जेपुः स्वस्त्ययनं सर्वै मेति गौपायनाः सह ।
मनआवर्तनं तस्य सूक्तं यदिति तेऽभ्ययुः ॥ ९० ॥
जेपुश्च भेषजार्थं यं प्र तारीति परं ततः ।
सूक्तस्याद्यस्तृचस्तत्र निर्ऋतेरपनोदनः ॥ ९१ ॥
त्रयः पादा मो ष्विति तु सौम्या नैर्ऋत उत्तमः ।
ऋक् सौम्या नैर्ऋती चैषा असुनीते स्तुतिः परे ॥९२॥
द्वृचे त्वानुमतं पादम् अन्त्यं यास्कस्तु मन्यते ।
भूर्द्यौः सोमश्च पूषा च खं पथ्या स्वस्तिरेव च ।.। ९३ ॥
सुबन्धोरेव शान्त्यर्थं पुनर्न ऋचि तु स्मृताः ।
तृचः शमिति रोदस्योर् ऐन्द्रोऽर्धर्चः समित्यृचि ॥९४॥
रपसो नाशनार्थं वै तुष्टुवुस्त्यथ रोदसी ।
रप इत्यभिधानं तु गदितं पापकृछ्रयोः ॥ ९५ ॥
ऋग्भिरेति चतसृभिस् तत ऐक्ष्वाकुमस्तुवन् ।
इन्द्र क्षत्रेत्यृचा चास्य स्तुत्वाशंसिषुराशिषः ॥ ९६ ॥
अगस्त्यस्येति माता च तेषां तुष्टाव तं नृपम् ।
स्तुतः स राजा सव्रीळस् तस्थौ गोपायनानभि ॥९७॥
सूक्तेनाप्यस्तुवन्नग्निं द्वैपदेन यथात्रिषु ।
अग्निरप्यत्रब्रवीदेतान् अय्मन्तः परिध्यसुः ॥ ९८ ॥
सुबन्धोरस्य चैक्ष्वाकोर् मया गुप्तो हितर्थिना ।
सुबन्धवे प्रदायासुं जीवेत्युक्त्वा च पावकः ॥ ९९ ॥
स्तुतो गौपायनैः प्रीतो जगाम त्रिदिवं प्रति ।
अयं मातेति हृष्टास्ते सुबन्धोरसुमाह्वयन्॥००॥
न२९ङ्कुकेऽङ्गुनुष्टुष्टम् ॥ १००॥
शरीरमभिनिर्दिश्य सुबन्धोः पतितं भुवि ।
सूक्तशेषं जगुश्चास्य चेतसो धारणाय ते ॥ १०१ ॥
लब्धासुं चायमित्यस्यां पृथक् पाणिभिरस्पृशन् ।
षळिदं वैश्वदेवानि द्वितीयेऽङ्गिरसां स्तुतिः ॥१ ०२॥
जन्म कर्म च सख्यं च इन्द्रेण सह कीर्तयन् ।
स्तौति प्र नूनमित्याद्याः सावर्ण्यस्य मनो स्तुतिः ॥ १०३ ॥
तस्यैव चायुषोऽर्थाय देवान्स्तौत्यभ्ययादृषिः ।
सुत्रामाणं महीमू षु दक्षस्येत्यदिते स्तुतिः ॥ १०४॥
पथ्यास्वस्तेः स्वस्तिरिद्धि स्वस्ति नो मरुतां स्तुतिः ।
मारुतीमृचमन्वाहेत्य् उक्तमाध्वर्यवेषु हि ॥ १०५ ॥
या गौरिति तथैवास्यां स्तूयते मध्यमा तु वाक् ।
मित्राय मैत्रावरुणी भुज्युमंहस आश्विनी ॥ १ ०६ ॥
स्तौत्यपि च मनुं स्वस्ति द्वृचे वाचं च मध्यमाम् ।
अथेमां[४१] द्वे बार्हस्पत्ये [४२]भद्रा आग्नेयमाप्रियः[४३] ॥ १०७ ॥
प्रथमे बार्हस्पत्ये तु अर्धर्चे ब्रह्मणस्पतिः ।
उद्धरणे दोषः : समाप्तिः </ref> <ref> शृङ्खला लुप्तायज्ज्योतिरमृतं ब्रह्म यद्योगात्समुपाश्नुते ।
तज्ज्ञानमभितुष्टाव सूक्तेनाथ बृहस्पतिः ॥ १०९ ॥
जीवनार्थं प्रयोगस्तु मन्त्राणां प्रतिषिध्यते ।
वेदतत्त्वार्थविज्ञानं प्रायेणात्र हि दृश्यते ॥ ११० ॥
आचार्या केचिदित्याहुर् अत्र वाग्विदुषां स्तवः ।
यथाभिर्निन्द्यतेऽत्रर्ग्भिः भूक्तेऽन्याभिरनर्थवित् ॥ १११ ॥
यथैतामन्वविन्दन्त विद्वांसर्षिगतां सतीम् ।
यथा च व्यभजन् यज्ञे तदत्रोक्तं तृतीयया ॥ ११२ ॥
प्रशस्यते दशम्या तु विद्वानुत्तमया त्वृचा ।
यज्ञे महर्त्विजामाह विनियोगं च कर्मणाम् ॥ ११३ ॥
परे तु स्तूयते दक्षो अष्टौ चैवादितेः सुताः ।
धातेन्द्रो वरुणो मित्रो अंशः सूर्योऽर्यमा भगः ॥१ १४॥
ऐन्द्रे [४४]जनिष्ठा सूक्ते द्वे [४५]प्र स्वित्यत्र परं तु यत् ।
तत्र प्राच्यः प्रतीच्यश्च स्रवन्त्यो दक्षिणाश्च यः ॥१ १५॥
ताः सप्त सप्तकैर्वर्गैः संस्तूयन्ते प्रधानतः ।
ग्राव्णामा वो[४६] मारुते द्वे अभ्रप्रुष[४७] इति स्मृते ॥१ १ ६॥
[४८]अपश्यमिति चाग्नेये [४९]य इमा वैश्वकर्मणे ।
मान्यवे यस्त इत्येते परं यत्तु मम व्रते ॥ ११७ ॥
तदाशीर्वादबहुलं स्तौति विश्वान्दिवौकसः ।
पराकदास आग्नेयं यदुदित्यष्टकं परम् ॥ ११८ ॥
मैत्रावरुण्यृक् तत्रास्ति चतुर्थ्येन्द्राग्न्युपोत्तमा ।
सावित्री चैव सूर्या च सैव पत्नी विवस्वतः ॥१ १९॥
स्तुता वृषाकपायीति उषा इति च योच्यते ।
उषा एषा त्रिधात्मानं विभज्य प्रैति गोपतिम् ॥१२० ॥
उषाः पुरोदयाद् भूत्वा सूर्या मध्यंदिने स्थिते ।
भूत्वा वृषाकपायी च दिनान्तेष्ववगच्छति ॥ १२१॥
सत्यसूर्यर्तसोमानां सौर्याद्यात्र ह्यृगुच्यते ।
पराभिस्तिसृभिस्त्वृग्भिर् उच्यते सोम ओषधिः ॥ १२२॥
विस्पष्टमुत्तरा त्वासाम् ऋक् चन्द्रमसमर्चति ।
सूर्यायै भाववृत्तं तु रैभीत्यष्टाभिरुच्यते ॥ १२३ ॥
यदश्विनौ द्वृच स्तौति सूर्यमेवोत्तरार्चति ।
सप्तदशी वैश्वदेवी सौर्याचान्द्रमसी परा ॥ १२४॥
परस्याः प्रथमौ पादौ सौर्यौ चान्द्रमसौ परौ ।
और्णवाभो द्वृचे त्वस्मिन्न् अश्विनौ मन्यते स्तुतौ ॥१२५॥
सूर्याचन्द्रमसौ तौ हि प्राणापानौ च तौ स्मृतौ ।
अहोरात्रौ च तावेव स्यातां तावेव रोदसी ॥१२६॥
अश्नुवाते हि तौ लोकाञ् ज्योतिषा च रसेन च ।
पृथक्पृथक् च चरतो दक्षिणेनोत्तरेण च ॥१२७॥
सूर्यः सरति भूतेषु सु वीरयति तानि वा ।
सु ईर्यत्वाय यात्येषु सर्वकार्याणि संदधत् ॥१२८॥
चारु द्रमति वा चायंश् चायनीयो द्रमत्युत ।
चमेः पूर्वं समेतानि निर्मिमीतेऽथ चन्द्रमाः ॥ १२९॥
सुकिंशुकमिति त्वस्यां सूर्यामारोहतीं पतिम् ।
स्तौति विश्वावसुं चैव द्वृचे गन्धर्वमुत्तरे ॥१ ३०॥
अनृक्षरा इत्यनया यातौ स्तौतीह दंपती ।
गृहान्प्रपद्यमानां तु पराभिः पञ्चभिर्वधूम् ॥ १३१ ॥
वाससश्च वधूनां च वरदानं प्रचक्षते ।
तत् स्त्रिया विरागस्य विभवे सति वाससः ॥ १३२ ॥
अन्यत्र मैथुनाद्भर्तुर् हरणं प्रतिषिध्यते ।
ये यक्ष्मनाशिनो स्तौति द्वृचे मा परिपन्थिनः ॥ १ ३३॥
तृष्टमेतदिति त्वाह यादृग्वाधूयमर्हति ।
आशास्ते चैव विविधं ज्ञातिभ्यश्चानुशासनम् ॥ १ ३४॥
बद्धा स्त्री भाववृत्तिश्च परवा त्वत्र कथ्यते ।
गृभ्णामि त ऋचा हस्तं गुह्णन्नथ धनाशिषः ॥१ ३५॥
आशास्ते परया तस्याः संयोगार्थास्तथाशिषः ।
पराभिराशीश्चाशास्ते पृथक् ताभ्यां सहैव च ॥ १३६॥
अधोरेति तृचे तस्याः समिहेति द्वयोर्द्वयोः ।
आ नः प्रजापतेर् ऐन्द्री चान्त्या बृहस्पतेः ॥ १३७ ॥
मन्त्रा वैवाहिका ह्येते निगद्यन्ते नृणामपि ।
आर्त्विजा याजमानाश्च यथारूपं विशेषतः ॥ १३८ ॥
प्रत्यृचं प्रतिकीर्त्यन्ते देवताश्चेह यासु याः ।
वदेत्तां देवतां तासु नाराशंसीर्वदेत वा ॥ १३९ ॥
औषसी सर्वथा चैता भाववृतं प्रचक्षते ।
सूर्यया सह सूक्तेऽस्मिन् पादश्चैवात्र लक्ष्यते ॥ १४० ॥
वि हि वार्षाकपं सूक्तम्[५०] असौ हि कपिलो वृषा ।
इन्द्रः प्रजापतिश्चैव विश्वस्मादिन्द्र उत्तरः ॥१४१ ॥
[५१]रक्षोहणादि चाग्नेयं त्रीन् स्तौत्यग्नीन् परं [५२]हविः ।
इमं च मध्यमं चैव असौ वैश्वानरं च यः ॥ १४२ ॥
ऐन्द्रात्पुरुषसक्तं च अन्त्यया पौरुषस्य तु ।
यथैनमभजन्साध्या यज्ञार्थं सोऽर्थ उच्यते ॥ १४३ ॥
आपान्तमन्युरित्यैन्द्र्यां स्तुतः सोमोऽत्र दृश्यते ।
सालोक्यात्साहचर्याद्वा स्तूयते सोम एव वा ॥ १४४॥
निपातभाजं सोमं च अस्यां रथीतरोऽब्रवीत् ।
सेन्द्रेषु हि निपातोऽत्र स्तुतोऽग्निररुणेन सम् ॥ १४५ ॥
यज्ञस्य यो वैश्वदेवे प्रैत इत्युत्तरं तु यत् ।
तत्रावुदस्तु ग्रावाणं मूर्तिमन्तमिवार्चति ॥ १४६ ॥
प्र तद्दुःसीम इत्यृग्भ्यां राज्ञां दानं च शंसति ।
पुरुरवसि राजर्षाव् अप्सरास्तूर्वशो पुरा ।
न्यवसत्संविदं कृत्वा तस्मिन्धर्मं चचार च ॥१४७॥
तथा तस्य च संवासम् असयून् पाकशासनः ।
पैतामहं चानुरागम् इन्द्रवच्चापि तस्य तु ॥ १ ४८॥
स तथोस्तु वियोगार्थं पार्श्वस्थं वज्रमब्रवीत् ।
प्रीतिं भिन्द्धि तयोर्वज्र मम चेदिच्छसि प्रियम् १४९
तथेत्युक्त्वा तयोः प्रीति वज्रोऽभिनत्स्वमायया ।
ततस्तया विहीनस्तु चचारोन्मत्तवन्नृपः ॥ १५० ॥
चरन्सरसि सोऽपश्यद् अभिरूपामिवोर्वशीम् ।
सखीभिरभिरूपाभिः पञ्चभिः पार्श्वतो वृताम् ॥१५१ ॥
तामाह पुनरेहीति दुःखात्सा त्यब्रवीन्नृपम् ।
आप्राप्याहं त्वयाद्येह स्वर्गे प्राप्स्यसि मां पुनः ॥१५२॥
आह्वानं प्रति चाख्यानम् इतरेतरयोरिदम् ।
संवादं मन्यते यास्क इतिहासं तु शौनकः ॥ १५३ ॥
हय इति परमैन्द्रं प्र ते या ओषधास्तवः ।
प्रयोगे भिषजस्त्वेतद् यक्ष्मनाशाय कल्पते ॥ १५४ ॥
आर्ष्टिषेणस्तु देवापिः कौरव्यश्चैव शंतनुः ।
भ्रातरौ कुरुषु त्वेतौ राजपुत्रौ बभूवतुः ॥ १५५ ॥
ज्येष्ठस्तयोस्तु देवापिः कनीयांश्चैव शंतनुः ।
त्वग्दोषी राजपुत्रस्तु ऋष्टिषेणसुतोऽभवत् ॥ १५६॥
राज्येन छन्दयामासुः प्रजाः स्वर्गं गते गुरौ ।
स मुहूर्त्तमिव ध्यात्वा प्रजास्ताः प्रत्यभाषत ॥ १५७॥

॥ इति बृहद्देवतायां सप्तमोऽध्यायः ॥


  1. १०.१७.१-२
  2. १०.१७.३
  3. १०.१७.११-१३
  4. १०.१७.१४
  5. १०.१८.१-४
  6. १०.१८.५
  7. १०.१८.७
  8. १०.१८.८
  9. १०.१८.९
  10. १०.१८.१०-१३
  11. १०.१८.१४
  12. १०.१९
  13. १०.२०.१
  14. १०.२२-२४
  15. १०.२४.४-६
  16. १०.२५
  17. १०.२६
  18. १०.२७-२९
  19. १०.२७.७-१४
  20. १०.२७.१५
  21. १०.२८
  22. १०.३०
  23. १०.३१
  24. १०.३२
  25. १०.३३.१
  26. १०.३४
  27. १०.३५-३६
  28. १०.३७
  29. १०.३८
  30. १०.३९-४१
  31. १०.४२-४४
  32. १०.४५-४६
  33. १०.३९-४०
  34. १०.४७
  35. १०.४८-१०.५०
  36. १०.५०
  37. १०.५१.९
  38. १०.५१-१०.५३
  39. १०.५४-५५
  40. १०.५५.५
  41. १०.६७-१०.६८
  42. १०.६९
  43. १०.७०
  44. १०.७३-१०.७४
  45. १०.७५
  46. १०.७६
  47. १०.७७-१०.७८
  48. १०.७९-१०.८०
  49. १०.८१-१०.८२
  50. ऋ. १०.८६
  51. १०.८७-१०.८९
  52. १०.८८
"https://sa.wikisource.org/w/index.php?title=बृहद्देवता/अध्यायः_७&oldid=400566" इत्यस्माद् प्रतिप्राप्तम्