बृहदारण्यक उपनिषद् 5p

विकिस्रोतः तः
Jump to navigation Jump to search

प्रथमोऽध्यायः

द्वितीयोऽध्यायः

तृतीयोऽध्यायः

चतुर्थोऽध्यायः

पञ्चमोऽध्यायः

षष्ठोऽध्यायः


अथ पञ्चमोऽध्यायः ।

प्रथमं ब्राह्मणम् ।


पूर्णमदः पूर्णमिदं पूर्णात्पूर्णमुदच्यते ।
पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ।
खं ब्रह्म ।
खं पुराणम् ।
वायुरं खम् ।
इति ह स्माह कौरव्यायणीपुत्रः ।
वेदोऽयं ब्राह्मणा विदुः ।
वेदैनेन यद्वेदितव्यम् ॥ ५,१.१ ॥


त्रयाः प्राजापत्याः प्रजापतौ पितरि ब्रह्मचर्यमूषुः ।
देवा मनुष्या असुराः ।
उषित्वा ब्रह्मचर्यं देवा ऊचुर्ब्रवीतु नो भवानिति ।
तेभ्यो हैतदक्षरमुवाच द इति ।
व्यज्ञासिष्टा३ इति ।
व्यज्ञासिष्मेति होचुः ।
दाम्यतेति न आत्थेति ।
ओमिति होवाच व्यज्ञासिष्टेति ॥ बृह. ५,२.१ ॥


अथ हैनं मनुष्या ऊचुर्ब्रवीतु नो भवानिति ।
तेभ्यो हैतदेवाक्षरमुवाच द इति ।
व्यज्ञासिष्टा३ इति ।
व्यज्ञासिष्मेति होचुः ।
दत्तेति न आत्थेति ।
ओमिति होवाच व्यज्ञासिष्टेति ॥ ५,२.२ ॥

अथ हैनमसुरा ऊचुर्ब्रवीतु नो भवानिति ।
तेभ्यो हैतदेवाक्षरमुवाच द इति ।
व्यज्ञासिष्टा३ इति ।
व्यज्ञासिष्मेति होचुः ।
दयध्वमिति न आत्थेति ।
ओमिति होवाच व्यज्ञासिष्टेति ।
तदेतदेवैषा दैवी वागनुवदति स्तनयित्नुर्द द द इति ।
दम्यत दत्त दयध्वमिति ।
तदेतत्त्रयं शिक्षेद्दमं दानं दयामिति ॥ बृह. ५,२.३ ॥


एष प्रजापतिर्यद्धृदयम् ।
एतद्ब्रह्म ।
एतत्सर्वम् ।
तदेतत्त्र्यक्षरं हृदयमिति ।
हृ इत्येकमक्षरम् ।
अभिहरन्त्यस्मै स्वाश्चान्ये च य एवं वेद ।
द इत्येकमक्षरम् ।
ददत्यस्मै स्वाश्चान्ये च य एवं वेद ।
यमित्येकमक्षरम् ।
एति स्वर्गं लोकं य एवं वेद ॥ ५,३.१ ॥


तद्वै तदेतदेव तदास ।
सत्यमेव ।
स यो हैतं महद्यक्षं प्रथमजं वेद सत्यं ब्रह्मेति जयतीमांल्लोकान् जित इन्न्वसावसत् य एवमेतन्महद्यक्षं प्रथमजं वेद सत्यं ब्रह्मेति ।
सत्यं ह्येव ब्रह्म ॥ बृह. ५,४.१ ॥


आप एवेदमग्र आसुः ।
ता आपः सत्यमसृजन्त ।
सत्यं ब्रह्म ।
ब्रह्म प्रजापतिम् ।
प्रजापतिर्देवान् ।
ते देवाः सत्यमेवोपासते ।
तदेतत्त्र्यक्षरं सतियमिति स इत्येकमक्षरम् ।
तीत्येकमक्षरम् ।
यमित्येकमक्षरम् ।
प्रथमोत्तमे अक्षरे सत्यं मध्यतोऽनृतम् ।
तदेतदनृतमुभयतः सत्येन परिगृहीतम् ।
सत्यभूयमेव भवति ।
नैवंविद्वांसमनृतं हिनस्ति ॥ बृह. ५,५.१ ॥


तद्यत्तत्सत्यमसौ स आदित्यः ।
य एष एतस्मिन्मण्डले पुरुषो यश्चायं दक्षिणेऽक्षन् पुरुषस्तावेतावन्योऽन्यस्मिन् प्रतिष्ठितौ ।
रश्मिभिरेषोऽस्मिन् प्रतिष्ठितः प्राणैरयममुष्मिन् ।
स यदोत्क्रमिष्यन् भवति शुद्धमेवैतन्मण्डलं पश्यति ।
नैनमेते रश्मयः प्रत्यायन्ति ॥ ५,५.२ ॥


य एष एतस्मिन्मण्डले पुरुषस्तस्य भूरिति शिरः ।
एकं शिर एकमेतदक्षरम् ।
भुव इति बाहू ।
द्वौ बाहू द्वे एते अक्षरे ।
स्वरिति प्रतिष्ठा ।
द्वे प्रतिष्ठे द्वे एते अक्षरे ।
तस्योपनिषदहरिति ।
हन्ति पाप्मानं जहाति च य एवं वेद ॥ बृह. ५,५.३ ॥


योऽयं दक्षिणेऽक्षन् पुरुषस्तस्य भूरिति शिरः ।
एकं शिर एकमेतदक्षरम् ।
भुव इति बाहू ।
द्वौ बाहू द्वे एते अक्षरे ।
स्वरिति प्रतिष्ठा ।
द्वे प्रतिष्ठे द्वे एते अक्षरे ।
तस्योपनिषदहमिति ।
हन्ति पाप्मानं जहाति च य एवं वेद ॥ ५,५.४ ॥


मनोमयोऽयं पुरुषो भाःसत्यः ।
तस्मिन्नन्तर्हृदये यथा व्रीहिर्वा यवो वा ।
स एष सर्वस्येशानः सर्वस्याधिपतिः सर्वमिदं प्रशास्ति यदिदं किञ्च ॥ ५,६.१ ॥

विद्युद्ब्रह्मेत्याहुः ।
विदानाद्विद्युत् ।
विद्यत्येनं पाप्मनो य एवं वेद विद्युद्ब्रह्मेति ।
विद्युद्ध्येव ब्रह्म ॥ बृह. ५,७.१ ॥


वाचं धेनुमुपासीत ।
तस्याश्चत्वारः स्तनाः ।
स्वाहाकारो वषट्कारो हन्तकारः स्वधाकारः ।
तस्यै द्वौ स्तनौ देवा उपजीवन्ति ।
स्वाहाकारं च वषट्कारं च ।
हन्तकारं मनुष्याः ।
स्वधाकारं पितरः ।
तस्याः प्राण ऋषभो मनो वत्सः ॥ ५,८.१ ॥


अयमग्निर्वैश्वानरो योऽयमन्तः पुरुषे ।
येनेदमन्नं पच्यते ।
यदिदमद्यते ।
तस्यैष घोषो भवति ।
यमेतत्कर्णावपिधाय शृणोति ।
स यदोत्क्रमिष्यन् भवति नैनं घोषं शृणोति ॥ बृह. ५,९.१ ॥


यदा वै पुरुषोऽस्माल्लोकात्प्रैति स वायुमागच्छति ।
तस्मै स तत्र विजिहीते यथा रथचक्रस्य खम् ।
तेन स ऊर्ध्व आक्रमते ।
स आदित्यमागच्छति ।
तस्मै स तत्र विजिहीते ।
यथा लम्बरस्य खम् ।
तेन स ऊर्ध्व आक्रमते ।
स चन्द्रमसमागच्छति ।
तस्मै स तत्र विजिहीते ।
यथा दुन्दुभेः खम् ।
तेन स ऊर्ध्व आक्रमते ।
स लोकमागच्छत्यशोकमहिमम् ।
तस्मिन् वसति शाश्वतीः समाः ॥ बृह. ५,१०.१ ॥

एतद्वै परमं तपो यद्व्याहितस्तप्यते ।
परमं हैव लोकं जयति य एवं वेद ।
एतद्वै परमं तपो यं प्रेतमरण्यं हरन्ति ।
परमं हैव लोकं जयति य एवं वेद ।
एतद्वै परमं तपो यं प्रेतमग्नावभ्यादधति ।
परमं हैव लोकं जयति य एवं वेद ॥ ५,११.१ ॥


अन्नं ब्रह्मेत्येक आहुः ।
तन्न तथा ।
पूयति वा अन्नमृते प्राणात् ।
प्राणो ब्रह्मेत्येक आहुः ।
तन्न तथा ।
शुष्यति वै प्रण ऋतेऽन्नात् ।
एते ह त्वेव देवते एकधाभूयं भूत्वा परमतां गच्छतः ।
तद्ध स्माह प्रातृदः पितरम् ।
किं स्विदेवैवं विदुषे साधु कुर्यां किमेवास्मा असाधु कुर्यामिति ।
स ह स्माह पाणिना मा प्रातृद ।
कस्त्वेनयोरेकधाभूयं भूत्वा परमतां गच्छतीति ।
तस्मा उ हैतदुवाच वीति ।
अन्नं वै वि ।
अन्ने हीमानि सर्वाणि भूतानि विष्टानि ।
रमिति ।
प्राणो वै रम् ।
प्राणे हीमानि सर्वाणि भूतानि रमन्ते ।
सर्वाणि ह वा अस्मिन् भूतानि विशन्ति ।
सर्वाणि भूतानि रमन्ते य एवं वेद ॥ ५,१२.१ ॥


उक्थम् ।
प्राणो वा उक्थम् ।
प्राणो हीदं सर्वमुत्थापयति ।
उद्धस्मादुक्थविद्वीरस्तिष्ठति ।
उक्थस्य सायुज्यं सलोकतां जयति य एवं वेद ॥ बृह. ५,१३.१ ॥


यजुः ।
प्राणो वै यजुः ।
प्राणे हीमानि सर्वाणि भूतानि युज्यन्ते ।
युज्यन्ते हास्मै सर्वाणि भूतानि श्रैष्ठ्याय ।
यजुषः सायुज्यं सलोकतां जयति य एवं वेद ॥ ५,१३.२ ॥


साम ।
प्राणो वै साम ।
प्राणे हीमानि सर्वाणि भूतानि सम्यञ्चि ।
सम्यञ्चि हास्मै सर्वाणि भूतानि श्रैष्ठ्याय कल्पन्ते ।
साम्नः सायुज्यं सलोकतां जयति य एवं वेद ॥ ५,१३.३ ॥


क्षत्रम् ।
प्राणो वै क्षत्रम् ।
प्राणो हि वै क्षत्रम् ।

त्रायते हैनं प्राणः क्षणितोः ।
प्र क्षत्रमत्रमाप्नोति ।
क्षत्रस्य सायुज्यं सलोकतां जयति य एवं वेद ॥ बृह. ५,१३.४ ॥


भूमिरन्तरिक्षं द्यौरित्यष्टावक्षराणि ।
अष्टाक्षरं ह वा एकं गायत्र्यै पदम् ।
एतदु हैवास्या एतत् ।
स यावदेषु त्रिषु लोकेषु तावद्ध जयति योऽस्या एतदेवं पदं वेद ॥ ५,१४.१ ॥


ऋचो यजूषि सामानीत्यष्टावक्षराणि ।
अष्टाक्षरं ह वा एकं गायत्र्यै पदम् ।
एतदु हैवास्या एतत् ।
स यावतीयं त्रयी विद्या तावद्ध जयति योऽस्या एतदेवं पदं वेद ॥ ५,१४.२ ॥


प्राणोऽपानो व्यान इत्यष्टावक्षराणि ।
अष्टाक्षरं ह वा एकं गायत्र्यै पदम् ।
एतदु हैवास्या एतत् ।
स यावदिदं प्राणि तावद्ध जयति योऽस्या एतदेवं पदं वेद ।
अथास्या एतदेव तुरीयं दर्शतं पदं परोरजा य एष तपति ।
यद्वै चतुर्थं तत्तुरीयम् ।
दर्शतं पदमिति ददृश इव ह्येषः ।
परोरजा इति सर्वमु ह्येवैष रज उपर्युपरि तपति ।
एवं हैव श्रिया यशसा तपति योऽस्या एतदेवं पदं वेद ॥ बृह. ५,१४.३ ॥


सैषा गायत्र्येतस्मिंस्तुरीये दर्शते पदे परोरजसि प्रतिष्ठिता ।
तद्वै तत्सत्ये प्रतिष्ठितम् ।
चक्षुर्वै सत्यम् ।
चक्षुर्हि वै सत्यम् ।
तस्माद्यदिदानीं द्वौ विवदमानावेयातमहमदर्शमहमश्रौषमिति ।
य एवं ब्रूयादहमदर्शमिति ।
तस्मा एव श्रद्दध्याम ।
तद्वै तत्सत्यं बले प्रतिष्ठितम् ।
प्राणो वै बलम् ।
तत्प्राणे प्रतिष्ठितम् ।
तस्मादाहुर्बलं सत्यादोगीय इति ।
एवं वेषा गायत्र्यध्यात्मं प्रतिष्ठिता ।
सा हैषा गयांस्तत्रे ।
प्राणा वै गयाः ।
तत्प्राणास्तत्रे ।
तद्यद्गयांस्तत्रे तस्माद्गायत्री नाम ।
स यामेवामूं सावित्रीमन्वाहैषैव सा ।
स यस्मा अन्वाह तस्य प्राणांस्त्रायते ॥ ५,१४.४ ॥


तां हैतामेके सावित्रीमनुष्टुभमन्वाहुः ।
वागनुष्टुप् ।
एतद्वाचमनुब्रूम इति ।
न तथा कुर्यात् ।
गायत्रीमेव सावित्रीमानुब्रूयात् ।
यदि ह वा अप्येवंविद्बह्विव प्रतिगृह्णाति न हैव तद्गायत्र्या एकं चन पदं प्रति ॥ बृह. ५,१४.५ ॥


स य इमांस्त्रींल्लोकान् पूर्णान् प्रतिगृह्णीयात्सोऽस्या एतत्प्रथमं पदमाप्नुयात् ।
अथ यावतीयं त्रयी विद्या यस्तावत्प्रतिगृह्णीयात्सोऽस्या एतद्द्वितीयं पदमाप्नुयात् ।
अथ यावदिदं प्राणि यस्तावत्प्रतिगृह्णीयात्सोऽस्या एतत्तृतीयं पदमाप्नुयात् ।
अथास्या एतदेव तुरीयं दर्शतं पदं परोरजा य एष तपति ।
नैव केन चनाप्यम् ।
कुत उ एतावत्प्रतिगृह्णीयात् ॥ ५,१४.६ ॥


तस्या उपस्थानम् ।
गायत्र्यस्येकपदी द्विपदी त्रिपदी चतुष्पदि ।
अपदसि ।
न हि पद्यसे ।
नमस्ते तुरीयाय दर्शताय पदाय परोरजसे ।
असावदो मा प्रापदिति ।
यं द्विष्यादसावस्मै कामो मा समर्धीति वा ।
न हैवास्मै स कामः समृध्यते यस्मा एवमुपतिष्ठते ।
अहमदः प्रापमिति वा ॥ बृह. ५,१४.७ ॥


एतद्ध वै तज्जनको वैदेहो बुडिलमाश्वतराश्विमुवाच यन्नु हो तद्गायत्रीविदब्रूथाः ।
अथ कथं हस्तीभूतो वहसीति ।
मुखं ह्यस्याः सम्राण्न विदां चकरेति होवाच ।
तस्या अग्निरेव मुखम् ।
यदि ह वा अपि बह्विवाग्नावभ्यादधति सर्वमेव तत्संदहति ।
एवं हैवैवंविद्यद्यपि बह्विव पापं कुरुते सर्वमेव तत्संप्साय शुद्धः पूतोऽजरोऽमृतः संभवति ॥ ५,१४.८ ॥


हिरण्मयेन पात्रेण सत्यस्यापिहितं मुखम् ।
तत्त्वं पूषन्नपावृणु सत्यधर्माय दृष्टये ।
पूषन्नेकर्षे यम सूर्य प्राजापत्य व्यूह रश्मीन् समूह तेजः ।
यत्ते रूपं कल्याणतमं तत्ते पश्यामि योऽसावसौ पुरुषः सोऽहमस्मि ।
वायुरनिलममृतमथेदं भस्मान्तं शरीरम् ।
ओं क्रतो स्मर कृतं स्मर क्रतो स्मर कृतं स्मर ।
अग्ने नय सुपथा रायेऽस्मान् विश्वानि देव वयुनानि विद्वान् ।
युयोध्यस्मज्जुहुराणमेनो भूयिष्ठां ते नमौक्तिं विधेम ॥ बृह. ५,१५.१ ॥

इति पञ्चदशं ब्राह्मणम् ॥

॥ इति बृहदारण्यकोपनिषदि पञ्चमोऽध्यायः ॥

चतुर्तोऽध्यायः (previous chapter)

षष्ठोऽध्यायः (next chapter)