बृहदारण्यक उपनिषद् 1a

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ

प्रथमोऽध्यायः

द्वितीयोऽध्यायः

तृतीयोऽध्यायः

चतुर्थोऽध्यायः

पञ्चमोऽध्यायः

षष्ठोऽध्यायः

ॐ शान्तिः शान्तिः शान्तिः ॥

अथ प्रथमोऽध्यायः ।


प्रथमं ब्राह्मणम् ।

उषा वा अश्वस्य मेध्यस्य शिरः ।
सूर्यश्चक्षुर्वातः प्राणो व्यात्तमग्निर्वैश्वानरः संवत्सर आत्माश्वस्य मेध्यस्य ।
द्यौः पृष्ठमन्तरिक्षमुदरं पृथिवी पाजस्यं दिशः पार्श्वे अवान्तरदिशः पर्शव ऋतवोऽङ्गानि मासाश्चार्धमासाश्च पर्वाण्यहोरात्राणि प्रतिष्ठा नक्षत्राण्यस्थीनि नभो मांसानि ।
ऊवध्यं सिकताः सिन्धवो गुदा यकृच्च क्लोमानश्च पर्वता ओषधयश्च वनस्पतयश्च लोमानि ।
उद्यन् पूर्वार्धो निम्लोचञ्जघनार्धः ।
यद्विजृम्भते तद्विद्योतते ।
यद्विधूनुते तत्स्तनयति ।
यन्मेहति तद्वर्षति ।
वागेवास्य वाक् ॥ बृह.१,१.१ ॥ (शतपथब्राह्मणम् १०.६.४.१ )


अहर्वा अश्वं पुरस्तान्महिमान्वजायत ।
तस्य पूर्वे समुद्रे योनिः ।
रात्रिरेनं पश्चान्महिमान्वजायत ।
तस्यापरे समुद्रे योनिर् ।
एतौ वा अश्वं महिमानावभितः सम्बभूवतुः ।
हयो भूत्वा देवानवहद्वाजी गन्धर्वानर्वासुरानश्वो मनुष्यान् ।
समुद्र एवास्य बन्धुः समुद्रो योनिः ॥ बृह.१,१.२ ॥


नैवेह किं चनाग्र आसीत् ।
मृत्युनैवेदमावृतमासीदशनायया ।
अशनाया हि मृत्युः ।
तन्मनोऽकुरुतात्मन्वी स्यामिति ।
सोऽर्चन्नचरत् ।
तस्यार्चत आपोऽजायन्त ।
अर्चते वै मे कमभूदिति ।
तदेवार्क्यस्यार्कत्वम् ।
कं ह वा अस्मै भवति य एवमेतदर्क्यस्यार्कत्वं वेद ॥ बृह. १,२.१ ॥


आपो वा अर्कः ।
तद्यदपां शर आसीत्तत्समहन्यत ।
सा पृथिव्यभवत् ।
तस्यामश्राम्यत् ।
तस्य श्रान्तस्य तप्तस्य तेजोरसो निरवर्तताग्निः ॥ बृह.१,२.२ ॥


स त्रेधात्मानं व्यकुरुतादित्यं तृतीयं वायुं तृतीयम् ।
स एष प्राणस्त्रेधाविहितः ।
तस्य प्राची दिक्शिरोऽसौ चासौ चेर्मौ ।
अथास्य प्रतीची दिक्पुच्छमसौ चासौ च सक्थ्यौ ।
दक्षिणा चोदीची च पार्श्वे ।
द्यौः पृष्ठमन्तरिक्षमुदरमियमुरः ।
स एषोऽप्सु प्रतिष्ठितः ।
यत्र क्व चैति तदेव प्रतितिष्ठत्येवं विद्वान् ॥ बृह. १,२.३ ॥


सोऽकामयत द्वितीयो म आत्मा जायेतेति ।
स मनसा वाचं मिथुनं समभवदशनाया मृत्युः ।
तद्यद्रेत आसीत्स संवत्सरोऽभवत् ।
न ह पुरा ततः संवत्सर आस ।
तमेतावन्तं कालमबिभर्यावान्त्संवत्सरः ।
तमेतावतः कालस्य परस्तादसृजत ।
तं जातमभिव्याददात् ।
स भाणकरोत् ।
सैव वागभवत् ॥ बृह. १,२.४ ॥


स ऐक्षत यदि वा इममभिमंस्ये कनीयोऽन्नं करिष्य इति ।
स तया वाचा तेनात्मनेदं सर्वमसृजत यदिदं किञ्च ऋचो यजूंषि सामानि छन्दांसि यज्ञान् प्रजां पशून् ।
स यद्यदेवासृजत तत्तदत्तुमध्रियत ।
सर्वं वा अत्तीति तददितेरदितित्वम् ।
सर्वस्यात्ता भवति सर्वमस्यान्नं भवति य एवमेतददितेरदितित्वं वेद ॥ बृह. १,२.५ ॥


सोऽकामयत भूयसा यज्ञेन भूयो यजेयेति ।
सोऽश्राम्यत् ।
स तपोऽतप्यत ।
तस्य श्रान्तस्य तप्तस्य यशो वीर्यमुदक्रामत् ।
प्राणा वै यशो वीर्यम् ।
तत्प्राणेषूत्क्रान्तेषु शरीरं श्वयितुमध्रियत ।
तस्य शरीर एव मन आसीत् ॥ बृह. १,२.६ ॥


सोऽकामयत मेध्यं म इदं स्यादात्मन्व्यनेन स्यामिति ।
ततोऽश्वः समभवत् ।
यदश्वत्तन्मेध्यमभूदिति तदेवाश्वमेधस्याश्वमेधत्वम् ।
एष ह वा अश्वमेधं वेद य एनमेवं वेद ।
तमनवरुध्यैवामन्यत ।
तं संवत्सरस्य परस्तादात्मन आलभत ।
पशून् देवताभ्यः प्रत्यौहत् ।
तस्मात्सर्वदेवत्यं प्रोक्षितं प्राजापत्यमालभन्ते ।
एष वा अश्वमेधो य एष तपति ।
तस्य संवत्सर आत्मा ।
अयमग्निरर्कः ।
तस्येमे लोका आत्मानः ।
तावेतावर्काश्वमेधौ ।
सो पुनरेकैव देवता भवति मृत्युरेव ।
अप पुनर्मृत्युं जयति ।
नैनं मृत्युराप्नोति ।
मृत्युरस्यात्मा भवति ।
सर्वमायुरेति ।
एतासां देवतानामेको भवति ॥ बृह. १,२.७ ॥

(उद्गीथब्राह्मणम्। वैराजब्राह्मणं वा।)

द्वया ह प्राजापत्या देवाश्चासुराश्च ततः कानीयसा एव देवा ज्यायसा असुराः ।
त एषु लोकेष्वस्पर्धन्त ।
ते ह देवा ऊचुर्हन्तासुरान् यज्ञ उद्गीथेनात्ययामेति ॥ बृह. १,३.१ ॥


ते ह वाचमूचुस्त्वं न उद्गायेति ।
तथेति तेभ्यो वागुदगायत् ।
यो वाचि भोगस्तं देवेभ्य आगायत् ।
यत्कल्याणं वदति तदात्मने ।
तेऽविदुरनेन वै न उद्गात्रात्येष्यन्तीति ।
तमभिद्रुत्य पाप्मनाविध्यन् ।
स यः स पाप्मा यदेवेदमप्रतिरूपं वदति ।
स एव स पाप्मा ॥ बृह. १,३.२ ॥


अथ ह प्राणमूचुस्त्वं न उद्गायेति ।
तथेति तेभ्यः प्राण उदगायत् ।
यः प्राणे भोगस्तं देवेभ्य आगायत् ।
यत्कल्याणं जिघ्रति तदात्मने ।
तेऽविदुरनेन वै न उद्गात्रात्येष्यन्तीति ।
तमभिद्रुत्य पाप्मनाविध्यन् ।
स यः स पाप्मा यदेवेदमप्रतिरूपं जिघ्रति ।
स एव स पाप्मा ॥ बृह. १,३.३ ॥


अथ ह चक्षुरूचुस्त्वं न उद्गायेति ।
तथेति तेभ्यश्चक्षुरुदगायत् ।
यश्चक्षुषि भोगस्तं देवेभ्य आगायत् ।
यत्कल्याणं पश्यति तदात्मने ।
तेऽविदुरनेन वै न उद्गात्रात्येष्यन्तीति ।
तमभिद्रुत्य पाप्मनाविध्यन् ।
स यः स पाप्मा यदेवेदमप्रतिरूपं पश्यति ।
स एव स पाप्मा ॥ बृह. १,३.४ ॥


अथ ह श्रोत्रमूचुस्त्वं न उद्गायेति ।
तथेति तेभ्यः श्रोत्रमुदगायत् ।
यः श्रोत्रे भोगस्तं देवेभ्य आगायत् ।
यत्कल्याणं शृणोति तदात्मने ।
तेऽविदुरनेन वै न उद्गात्रात्येष्यन्तीति ।
तमभिद्रुत्य पाप्मनाविध्यन् ।
स यः स पाप्मा ।
यदेवेदमप्रतिरूपं शृणोति ।
स एव स पाप्मा ॥ बृह. १,३.५ ॥


अथ ह मन ऊचुस्त्वं न उद्गायेति ।
तथेति तेभ्यो मन उदगायत् ।
यो मनसि भोगस्तं देवेभ्य आगायत् ।
यत्कल्याणं संकल्पयति तदात्मने ।
तेऽविदुरनेन वै न उद्गात्रात्येष्यन्तीति ।
तमभिद्रुत्य पाप्मनाविध्यन् ।
स यः स पाप्मा ।
यदेवेदमप्रतिरूपं संकल्पयति ।
स एव स पाप्मा ।
एवमु खल्वेता देवताः पाप्मभिरुपासृजन् ।
एवमेनाः पाप्मनाविध्यन् ॥ बृह. १,३.६ ॥


अथ हेममासन्यं प्राणमूचुस्त्वं न उद्गायेति ।
तथेति तेभ्य एष प्राण उदगायत् ।
तेऽविदुरनेन वै न उद्गात्रात्येष्यन्तीति ।
तमभिद्रुत्य पाप्मनाविव्यत्सन् ।
स यथाश्मानमृत्वा लोष्टो विध्वंसेतैवं हैव विध्वंसमाना विष्वञ्चो विनेशुः ।
ततो देवा अभवन्, परासुरा ।
भवत्यात्मना, परास्य द्विषन् भ्रातृव्यो भवति य एवं वेद ॥ बृह. १,३.७ ॥


ते होचुः क्व नु सोऽभूद्यो न इत्थमसक्तेति ।
अयमास्येऽन्तरिति ।
सोऽयास्य आङ्गिरसोऽङ्गानां हि रसः ॥ बृह. १,३.८ ॥


सा वा एषा देवता दूर्नाम ।
दूरं ह्यस्या मृत्युर् ।
दूरं ह वा अस्मान्मृत्युर्भवति य एवं वेद ॥ बृह. १,३.९ ॥


सा वा एषा देवतैतासां देवतानां पाप्मानं मृत्युमपहत्य यत्रासां दिशामन्तस्तद्गमयां चकार ।
तदासां पाप्मनो विन्यदधात् ।
तस्मान्न जनमियान्नान्तमियान्नेत्पाप्मानं मृत्युमन्ववायानीति ॥ बृह. १,३.१० ॥


सा वा एषा देवतैतासां देवतानां पाप्मानं मृत्युमपहत्याथैना मृत्युमत्यवहत् ॥ बृह. १,३.११ ॥


सा वै वाचमेव प्रथमामत्यवहत् ।
सा यदा मृत्युमत्यमुच्यत सोऽग्निरभवत् ।
सोऽयमग्निः परेण मृत्युमतिक्रान्तो दीप्यते ॥ बृह. १,३.१२ ॥


अथ प्राणमत्यवहत् ।
स यदा मृत्युमत्यमुच्यत स वायुरभवत् ।
सोऽयं वायुः परेण मृत्युमतिक्रान्तः पवते ॥ बृह. १,३.१३ ॥


अथ चक्षुरत्यवहत् ।
तद्यदा मृत्युमत्यमुच्यत स आदित्योऽभवत् ।
सोऽसावादित्यः परेण मृत्युमतिक्रान्तस्तपति ॥ बृह. १,३.१४ ॥


अथ श्रोत्रमत्यवहत् ।
तद्यदा मृत्युमत्यमुच्यत ता दिशोऽभवन् ।
ता इमा दिशः परेण मृत्युमतिक्रान्ताः ॥ बृह. १,३.१५ ॥


अथ मनोऽत्यवहत् ।
तद्यदा मृत्युमत्यमुच्यत स चन्द्रमा अभवत् ।
सोऽसौ चन्द्रः परेण मृत्युमतिक्रान्तो भाति ।
एवं ह वा एनमेषा देवता मृत्युमतिवहति य एवं वेद ॥ बृह. १,३.१६ ॥


अथात्मनेऽन्नाद्यमागायत् ।
यद्धि किञ्चान्नमद्यतेऽनेनैव तदद्यते ।
इह प्रतितिष्ठति ॥ बृह. १,३.१७ ॥


ते देवा अब्रुवन् ।
एतावद्वा इदं सर्वं यदन्नम् ।
तदात्मन आगासीः ।
अनु नोऽस्मिन्नन्न आभजस्वेति ।
ते वै माभिसंविशतेति ।
तथेति तं समन्तं परिण्यविशन्त ।
तस्माद्यदनेनान्नमत्ति तेनैतास्तृप्यन्ति ।
एवं ह वा एनं स्वा अभिसंविशन्ति भर्ता स्वानां श्रेष्ठः पुरएता भवत्यन्नादोऽधिपतिर्य एवं वेद ।
य उ हैवंविदं स्वेषु प्रतिर्बुभूषति न हैवालं भार्येभ्यो भवति ।
अथ य एवैतमनुभवति यो वैतमनु भार्यान् बुभूर्षति स हैवालं भार्येभ्यो भवति ॥ बृह. १,३.१८ ॥


सोऽयास्य आङ्गिरसोऽङ्गानां हि रसः ।
प्राणो वा अङ्गानां रसः ।
प्राणो हि वा अङ्गानां रसः ।
तस्माद्यस्मात्कस्माच्चाङ्गात्प्राण उत्क्रामति तदेव तच्छुष्यति ।
एष हि वा अङ्गानां रसः ॥ बृह. १,३.१९ ॥


एष उ एव बृहस्पतिः ।
वाग्वै बृहती ।
तस्या एष पतिस्तस्मादु बृहस्पतिः ॥ बृह. १,३.२० ॥


एष उ एव ब्रह्मणस्पतिः ।
वाग्वै ब्रह्म ।
तस्या एष पतिस्तस्मादु ब्रह्मणस्पतिः ॥ बृह. १,३.२१ ॥


एष उ एव साम ।
वाग्वै सामैष सा चामश्चेति तत्साम्नः सामत्वम् ।
यद्वेव समः प्लुषिणा समो मशकेन समो नागेन सम एभिस्त्रिभिर्लोकैः समोऽनेन सर्वेण तस्माद्वेव साम ।
अश्नुते साम्नः सायुज्यं सलोकताम् ।
य एवमेतत्साम वेद ॥ बृह. १,३.२२ ॥


एष उ वा उद्गीथः ।
प्राणो वा उत्प्राणेन हीदं सर्वमुत्तब्धम् ।
वागेव गीथा ।
उच्च गीथा चेति ।
स उद्गीथः ॥ बृह. १,३.२३ ॥


तद्धापि ब्रह्मदत्तश्चैकितानेयो राजानं भक्षयन्नुवाच ।
अयं त्यस्य राजा मूर्धानं विपातयताद्यदितोऽयास्य आङ्गिरसोऽन्येनोदगायदिति ।
वाचा च ह्येव स प्राणेन चोदगायदिति ॥ बृह. १,३.२४ ॥


तस्य हैतस्य साम्नो यः स्वं वेद भवति हास्य स्वम् ।
तस्य वै स्वर एव स्वम् ।
तस्मादार्त्विज्यं करिष्यन् वाचि स्वरमिच्छेत ।
तया वाचा स्वरसम्पन्नयार्त्विज्यं कुर्यात् ।
तस्माद्यज्ञे स्वरवन्तं दिदृक्षन्त एव ।
अथो यस्य स्वं भवति ।
भवति हास्य स्वं य एवमेतत्साम्नः स्वं वेद ॥ बृह. १,३.२५ ॥


तस्य हैतस्य साम्नो यः सुवर्णं वेद भवति हास्य सुवर्णम् ।
तस्य वै स्वर एव सुवर्णम् ।
भवति हास्य सुवर्णं य एवमेतत्साम्नः सुवर्णं वेद ॥ बृह. १,३.२६ ॥


तस्य हैतस्य साम्नो यः प्रतिष्ठां वेद प्रति ह तिष्ठति ।
तस्य वै वागेव प्रतिष्ठा ।
वाचि हि खल्वेष एतत्प्राणः प्रतिष्ठितो गीयते ।
अन्न इत्यु हैक आहुः ॥ बृह. १,३.२७ ॥

अथातः पवमानानामेवाभ्यारोहः ।
स वै खलु प्रस्तोता साम प्रस्तौति ।
स यत्र प्रस्तुयात्तदेतानि जपेत् ।
असतो मा सद्गमय, तमसो मा ज्योतिर्गमय, मृत्योर्मामृतं गमयेति ।
स यदाहासतो मा सद्गमयेति ।
मृत्युर्वा असत्सदमृतं मृत्योर्मामृतं गमयामृतं मा कुर्वित्येवैतदाह ।
तमसो मा ज्योतिर्गमयेति ।
मृत्युर्वै तमो ज्योतिरमृतं मृत्योर्मामृतं गमयामृतं मा कुर्वित्येवैतदाह ।
मृत्योर्मामृतं गमयेति ।
नात्र तिरोहितमिवास्ति ।
अथ यानीतराणि स्तोत्राणि तेष्वात्मनेऽन्नाद्यमागायेत् ।
तस्मादु तेषु वरं वृणीत ।
यं कामं कामयेत्तम् ।
स एष एवंविदुद्गातात्मने वा यजमानाय वा यं कामं कामयते तमागायति ।
तद्धैतल्लोकजिदेव ।
न हैवालोक्यताया आशास्ति य एवमेतत्साम वेद ॥ बृह. १,३.२८ ॥

(पुरुषविधब्राह्मणम् /आत्मब्राह्मणम् /सृष्टिब्राह्मणम् )

आत्मैवेदमग्र आसीत्पुरुषविधः ।
सोऽनुवीक्ष्य नान्यदात्मनोऽपश्यत् ।
सोऽहमस्मीत्यग्रे व्याहरत् ।
ततोऽहंनामाभवत् ।
तस्मादप्येतर्ह्यामन्त्रितोऽहमयमित्येवाग्र उक्त्वाथान्यन्नाम प्रब्रूते यदस्य भवति ।
स यत्पूर्वोऽस्मात्सर्वस्मात्सर्वान् पाप्मन औषत्तस्मात्पुरुषः ।
ओषति ह वै स तं योऽस्मात्पूर्वो बुभूषति य एवं वेद ॥ बृह. १,४.१ ॥


सोऽबिभेत्तस्मादेकाकी बिभेति ।
स हायमीक्षां चक्रे, यन्मदन्यन्नास्ति कस्मान्नु बिभेमीति ।
तत एवास्य भयं वीयाय ।
कस्माद्ध्यभेष्यत् ।
द्वितीयाद्वै भयं भवति ॥ बृह. १,४.२ ॥


स वै नैव रेमे ।
तस्मादेकाकी न रमते ।
स द्वितीयमैच्छत् ।
स हैतावानास यथा स्त्रीपुमांसौ सम्परिष्वक्तौ ।
स इममेवात्मानं द्वेधापातयत् ।
ततः पतिश्च पत्नी चाभवताम् ।
तस्मादिदमर्धबृगलमिव स्व इति ह स्माह याज्ञवल्क्यः ।
तस्मादयमाकाशः स्त्रिया पूर्यत एव ।
तां समभवत् ।
ततो मनुष्या अजायन्त ॥ बृह. १,४.३ ॥


सो हेयमीक्षां चक्रे कथं नु मात्मन एव जनयित्वा सम्भवति ।
हन्त तिरोऽसानीति ।
सा गौरभवद्वृषभ इतरः ।
तां समेवाभवत् ।
ततो गावोऽजायन्त ।
वडवेतराभवदश्ववृष इतरः ।
गर्दभीतरा गर्दभ इतरः ।
तां समेवाभवत् ।
तत एकशफमजायत ।
अजेतराभवद्बस्त इतरः ।
अविरितरा मेष इतरः ।
तां समेवाभवत् ।
ततोऽजावयो ऽजायन्त ।
एवमेव यदिदं किञ्च मिथुनमा पिपीलिकाभ्यस्तत्सर्वमसृजत ॥ बृह. १,४.४ ॥


सोऽवेदहं वाव सृष्टिरस्म्यहं हीदं सर्वमसृक्षीति ।
ततः सृष्टिरभवत् ।
सृष्ट्यां हास्यैतस्यां भवति य एवं वेद ॥ बृह. १,४.५ ॥


अथेत्यभ्यमन्थत् ।
स मुखाच्च योनेर्हस्ताभ्यां चाग्निमसृजत ।
तस्मादेतदुभयमलोमकमन्तरतः ।
अलोमका हि योनिरन्तरतः ।
तद्यदिदमाहुरमुं यजामुं यजेत्येकैकं देवमेतस्यैव सा विसृष्टिः ।
एष उ ह्येव सर्वे देवाः ।
अथ यत्किञ्चेदमार्द्रं तद्रेतसोऽसृजत ।
तदु सोम ।
एतावद्वा इदं सर्वमन्नं चैवान्नादश्च ।
सोम एवान्नमग्निरन्नादः ।
सैषा ब्रह्मणोऽतिसृष्टिः ।
यच्छ्रेयसो देवानसृजताथ यन्मर्त्यः सन्नमृतानसृजत तस्मादतिसृष्टिर् ।
अतिसृष्ट्यां हास्यैतस्यां भवति य एवं वेद ॥ बृह. १,४.६ ॥


तद्धेदं तर्ह्यव्याकृतमासीत् ।
तन्नामरूपाभ्यामेव व्याक्रियतासौ नामायमिदंरूप इति ।
तदिदमप्येतर्हि नामरूपाभ्यामेव व्याक्रियत असौ नामायमिदंरूप इति ।
स एष इह प्रविष्ट आ नखाग्रेभ्यो यथा क्षुरः क्षुरधानेऽवहितः स्याद्विश्वम्भरो वा विश्वम्भरकुलाये ।
तं न पश्यन्ति ।
अकृत्स्नो हि सः प्राणन्नेव प्राणो नाम भवति ।
वदन् वाक्पश्यंश्चक्षुः शृण्वञ्छ्रोत्रं मन्वानो मनः ।
तान्यस्यैतानि कर्मनामान्येव ।
स योऽत एकैकमुपास्ते न स वेद ।
अकृत्स्नो ह्येषोऽत एकैकेन भवति ।
आत्मेत्येवोपासीत ।
अत्र ह्येते सर्व एकं भवन्ति ।
तदेतत्पदनीयमस्य सर्वस्य यदयमात्मा ।
अनेन ह्येतत्सर्वं वेद ।
यथा ह वै पदेनानुविन्देदेवं कीर्तिं श्लोकं विन्दते य एवं वेद ॥ बृह. १,४.७ ॥


तदेतत्प्रेयः पुत्रात्प्रेयो वित्तात्प्रेयोऽन्यस्मात्सर्वस्मादन्तरतरं यदयमात्मा ।
स योऽन्यमात्मनः प्रियं ब्रुवाणं ब्रूयात्प्रियं रोत्स्यतीतीश्वरो ह तथैव स्यात् ।
आत्मानमेव प्रियमुपासीत ।
स य आत्मानमेव प्रियमुपास्ते न हास्य प्रियं प्रमायुकं भवति ॥ बृह. १,४.८ ॥


तदाहुर्यद्ब्रह्मविद्यया सर्वं भविष्यन्तो मनुष्या मन्यन्ते ।
किमु तद्ब्रह्मावेद्यस्मात्तत्सर्वमभवदिति ॥ बृह. १,४.९ ॥


ब्रह्म वा इदमग्र आसीत् ।
तदात्मानमेवावेत् ।
अहं ब्रह्मास्मीति ।
तस्मात्तत्सर्वमभवत् ।
तद्यो यो देवानां प्रत्यबुध्यत स एव तदभवत् ।
तथर्षीनाम् ।
तथा मनुष्याणाम् ।
तद्धैतत्पश्यन्नृषिर्वामदेवः प्रतिपेदेऽहं मनुरभवं सूर्यश्चेति ।
तदिदमप्येतर्हि य एवं वेदाहं ब्रह्मास्मीति स इदं सर्वं भवति ।
तस्य ह न देवाश्चनाभूत्या ईशते ।
आत्मा ह्येषां स भवति ।
अथ योऽन्यां देवतामुपास्तेऽन्योऽसावन्योऽहमस्मीति न स वेद ।
यथा पशुरेवं स देवानाम् ।
यथा ह वै बहवः पशवो मनुष्यं भुञ्ज्युरेवमेकैकः पुरुषो देवान् भुनक्ति ।
एकस्मिन्नेव पशावादीयमानेऽप्रियं भवति किमु बहुषु ।
तस्मादेषां तन्न प्रियं यदेतन्मनुष्या विद्युः ॥ बृह. १,४.१० ॥


ब्रह्म वा इदमग्र आसीदेकमेव ।
तदेकं सन्न व्यभवत् ।
तच्छ्रेयो रूपमत्यसृजत क्षत्रं, यान्येतानि देवत्रा क्षत्राणीन्द्रो वरुणः सोमो रुद्रः पर्जन्यो यमो मृत्युरीशान इति ।
तस्मात्क्षत्रात्परं नास्ति ।
तस्माद्ब्राह्मणः क्षत्रियं अधस्तादुपास्ते राजसूये ।
क्षत्र एव तद्यशो दधाति ।
सैषा क्षत्रस्य योनिर्यद्ब्रह्म ।
तस्माद्यद्यपि राजा परमतां गच्छति ब्रह्मैवान्तत उपनिश्रयति स्वां योनिम् ।
य उ एनं हिनस्ति स्वां स योनिमृच्छति ।
स पापीयान् भवति यथा श्रेयांसं हिंसित्वा ॥ बृह. १,४.११ ॥


स नैव व्यभवत् ।
स विशमसृजत ।
यान्येतानि देवजातानि गणश आख्यायन्ते वसवो रुद्रा आदित्या विश्वे देवा मरुत इति ॥ बृह. १,४.१२ ॥


स नैव व्यभवत् ।
स शौद्रं वर्णमसृजत पूषणम् ।
इयं वै पूषा ।
इयं हीदं सर्वं पुष्यति यदिदं किञ्च ॥ बृह. १,४.१३ ॥


स नैव व्यभवत् ।
तच्छ्रेयो रूपमत्यसृजत धर्मम् ।
तदेतत्क्षत्रस्य क्षत्रं यद्धर्मः ।
तस्माद्धर्मात्परं नास्ति ।
अथो अबलीयान् बलीयांसमाशंसते धर्मेण ।
यथा राज्ञैवम् ।
यो वै स धर्मः सत्यं वै तत् ।
तस्मात्सत्यं वदन्तमाहुर्धर्मं वदतीति ।
धर्मं वा वदन्तं सत्यं वदतीति ।
एतद्ध्येवैतदुभयं भवति ॥ बृह. १,४.१४ ॥


तदेतद्ब्रह्म क्षत्रं विट्शूद्रः ।
तदग्निनैव देवेषु ब्रह्माभवद्ब्राह्मणो मनुष्येषु, क्षत्रियेण क्षत्रियः, वैश्येन वैश्यः, शूद्रेण शूद्रः ।
तस्मादग्नावेव देवेषु लोकमिच्छन्ते ब्राह्मणे मनुष्येषु ।
एताभ्यां हि रूपाभ्यां ब्रह्माभवत् ।
अथ यो ह वा अस्माल्लोकात्स्वं लोकमदृष्ट्वा प्रैति स एनमविदितो न भुनक्ति यथा वेदो वाननूक्तोऽन्यद्वा कर्माकृतम् ।
यदि ह वा अप्यनेवंविन्महत्पुण्यं कर्म करोति तद्धास्यान्ततः क्षीयत एव ।
आत्मानमेव लोकमुपासीत ।
स य आत्मानमेव लोकमुपास्ते न हास्य कर्म क्षीयते ।
अस्माद्ध्येवात्मनो यद्यत्कामयते तत्तत्सृजते ॥ बृह. १,४.१५ ॥


अथो अयं वा आत्मा सर्वेषां भूतानां लोकः ।
स यज्जुहोति यद्यजते तेन देवानां लोकः ।
अथ यदनुब्रूते तेन ऋषीणाम् ।
अथ यत्पितृभ्यो निपृणाति यत्प्रजामिच्छते तेन पितॄणाम् ।
अथ यन्मनुष्यान् वासयते यदेभ्योऽशनं ददाति तेन मनुष्याणाम् ।
अथ यत्पशुभ्यस्तृणोदकं विन्दति तेन पशूनाम् ।
यदस्य गृहेषु श्वापदा वयांस्या पिपीलिकाभ्य उपजीवन्ति तेन तेषां लोकः ।
यथा ह वै स्वाय लोकायारिष्टिमिच्छेत् ।
एवं हैवंविदे सर्वदा सर्वाणि भूतान्यरिष्टिमिच्छन्ति ।
तद्वा एतद्विदितं मीमांसितम् ॥ बृह. १,४.१६ ॥


आत्मैवेदमग्र आसीदेक एव ।
सोऽकामयत जाया मे स्यादथ प्रजायेय ।
अथ वित्तं मे स्यादथ कर्म कुर्वीयेति ।
एतावान् वै कामः ।
नेच्छंश्चनातो भूयो विन्देत् ।
तस्मादप्येतर्ह्येकाकी कामयते जाया मे स्यादथ प्रजायेयाथ वित्तं मे स्यादथ कर्म कुर्वीयेति ।
स यावदप्येतेषामेकैकं न प्राप्नोत्यकृत्स्न एव तावन्मन्यते ।
तस्यो कृत्स्नता ।
मन एवास्यात्मा ।
वाग्जाया ।
प्राणः प्रजा ।
चक्षुर्मानुषं वित्तम् ।
चक्षुषा हि तद्विन्दते ।
श्रोत्रं दैवम् ।
श्रोत्रेण हि तच्छृणोति ।
आत्मैवास्य कर्म ।
आत्मना हि कर्म करोति ।
स एष पाङ्क्तो यज्ञः ।
पाङ्क्तः पशुः ।
पाङ्क्तः पुरुषः ।
पाङ्क्तमिदं सर्वं यदिदं किञ्च ।
तदिदं सर्वमाप्नोति य एवं वेद ॥ बृह. १,४.१७ ॥

(सप्तान्नब्राह्मणं वा संवर्गविद्याब्राह्मणम्)

यत्सप्तान्नानि मेधया तपसाजनयत्पिता ।
एकमस्य साधारणं द्वे देवानभाजयत् ।
त्रीण्यात्मनेऽकुरुत पशुभ्य एकं प्रायच्छत् ।
तस्मिन् सर्वं प्रतिष्ठितं यच्च प्राणिति यच्च न ।
कस्मात्तानि न क्षीयन्ते अद्यमानानि सर्वदा ।
यो वै तामक्षितिं वेद सोऽन्नमत्ति प्रतीकेन ।
स देवानपिगच्छति स ऊऋजमुपजीवति ।
इति श्लोकाः ॥ बृह. १,५.१ ॥


यत्सप्तान्नानि मेधया तपसाजनयत्पितेति ।
मेधया हि तपसाजनयत्पितैकमस्य साधारणमिति ।
इदमेवास्य तत्साधारणमन्नं यदिदमद्यते ।
स य एतदुपास्ते न स पाप्मनो व्यावर्तते ।
मिश्रं ह्येतत् ।
द्वे देवानभाजयदिति ।
हुतं च प्रहुतं च ।
तस्माद्देवेभ्यो जुह्वति च प्र च जुह्वति ।
अथो आहुर्दर्शपूर्णमासाविति ।
तस्मान्नेष्टियाजुकः स्यात् ।
पशुभ्य एकं प्रायच्छदिति ।
तत्पयः ।
पयो ह्येवाग्रे मनुष्याश्च पशवश्चोपजीवन्ति ।
तस्मात्कुमारं जातं घृतं वैवाग्रे प्रतिलेहयन्ति स्तनं वानुधापयन्ति ।
अथ वत्सं जातमाहुस्तृणादिति ।
तस्मिन् सर्वं प्रतिष्ठितं यच्च प्राणिति यच्च नेति ।
पयसि हीदं सर्वं प्रतिष्ठितं यच्च प्राणिति यच्च न ।
तद्यदिदमाहुः संवत्सरं पयसा जुह्वदप पुनर्मृत्युं जयतीति ।
न तथा विद्यात् ।
यदहरेव जुहोति तदहः पुनर्मृत्युमपजयत्येवं विद्वान् ।
सर्वं हि देवेभ्योऽन्नाद्यं प्रयच्छति ।
कस्मात्तानि न क्षीयन्ते अद्यमानानि सर्वदेति ।
पुरुषो वा अक्षितिः ।
स हीदमन्नं पुनः पुनर्जनयते ।
यो वैतामक्षितिं वेदेति ।
पुरुषो वा अक्षितिः ।
स हीदमन्नं धियाधिया जनयते कर्मभिः ।
यद्धैतन्न कुर्यात्क्षीयेत ह ।
सोऽन्नमत्ति प्रतीकेनेति ।
मुखं प्रतीकं मुखेनेत्येतत् ।
स देवानपिगच्छति स ऊर्जमुपजीवतीति प्रशंसा ॥ बृह. १,५.२ ॥


त्रीण्यात्मनेऽकुरुतेति
मनो वाचं प्राणं तान्यात्मनेऽकुरुत ।
अन्यत्रमना अभूवं नादर्शमन्यत्रमना अभूवं नाश्रौषमिति मनसा ह्येव पश्यति मनसा शृणोति ।
कामः संकल्पो विचिकित्सा श्रद्धाश्रद्धा धृतिरधृतिर्ह्रीर्धीर्भीरित्येतत्सर्वं मन एव ।
तस्मादपि पृष्ठत उपस्पृष्टो मनसा विजानाति ।
यः कश्च शब्दो वागेव सा ।
एषा ह्यन्तं आयत्तैषा हि न ।
प्राणोऽपानो व्यान उदानः समानोऽन इत्येतत्सर्वं प्राण एव ।
एतन्मयो वा अयमात्मा ।
वाङ्मयो मनोमयः प्राणमयः ॥ बृह. १,५.३ ॥


त्रयो लोका एत एव ।
वागेवायं लोको मनोऽन्तरिक्षलोकः प्राणोऽसौ लोकः ॥ बृह. १,५.४ ॥

त्रयो वेदा एत एव ।
वागेवर्ग्वेदो मनो यजुर्वेदः प्राणः सामवेदः ॥ बृह. १,५.५ ॥


देवा पितरो मनुष्या एत एव ।
वागेव देवा मनः पितरः, प्राणो मानुष्याः ॥ १,५.६ ॥


पिता माता प्रजैत एव ।
मन एव पिता वाङ्माता प्राणः प्रजा ॥ १,५.७ ॥


विज्ञातं विजिज्ञास्यमविज्ञातमेत एव ।
यत्किञ्च विज्ञातं वाचस्तद्रूपम् ।
वाग्घि विज्ञाता ।
वागेनं तद्भूत्वावति ॥ बृह. १,५.८ ॥


यत्किञ्च विजिज्ञास्यं मनसस्तद्रूपम् ।
मनो हि विजिज्ञास्यम् ।
मन एनं तद्भूत्वावति ॥ १,५.९ ॥


यत्किञ्चाविज्ञातं प्राणस्य तद्रूपम् ।
प्राणो ह्यविज्ञातः ।
प्राण एनं तद्भूत्वावति ॥ १,५.१० ॥


तस्यै वाचः पृथिवी शरीरम् ।
ज्योतीरूपमयमग्निः ।
तद्यावत्येव वाक्तावती पृथिवी तावानयमग्निः ॥ बृह. १,५.११ ॥


अथैतस्य मनसो द्यौः शरीरम् ।
ज्योतीरूपमसावादित्यः ।
तद्यावदेव मनस्तावती द्यौस्तावानसावादित्यः ।
तौ मिथुनं समैताम् ।
ततः प्राणोऽजायत ।
स इन्द्रः ।
स एषोऽसपत्नः ।
द्वितीयो वै सपत्नः ।
नास्य सपत्नो भवति य एवं वेद ॥ बृह. १,५.१२ ॥


अथैतस्य प्राणस्यापः शरीरम् ।
ज्योतीरूपमसौ चन्द्रः ।
तद्यावानेव प्राणस्तावत्य आपस्तावानसौ चन्द्रः ।
त एते सर्व एव समाः सर्वेऽनन्ताः ।
स यो हैतानन्तवत उपास्तेऽन्तवन्तं स लोकं जयति ।
अथ यो हैताननन्तानुपास्तेऽनन्तं स लोकं जयति ॥ बृह. १,५.१३ ॥


स एष संवत्सरः प्रजापतिष्षोडशकलः ।
तस्य रात्रय एव पञ्चदश कला ।
ध्रुवैवास्य षोडशी कला ।
स रात्रिभिरेवा च पूर्यतेऽप च क्षीयते ।
सोऽमावास्यां रात्रिमेतया षोडश्या कलया सर्वमिदं प्राणभृदनुप्रविश्य ततः प्रातर्जायते ।
तस्मादेतां रात्रिं प्राणभृतः प्राणं न विच्छिन्द्यादपि कृकलासस्यैतस्या एव देवताया अपचित्यै ॥ १,५.१४ ॥


यो वै स संवत्सरः प्रजापतिः षोडशकलोऽयमेव स योऽयमेवंवित्पुरुषः ।
तस्य वित्तमेव पञ्चदश कलाः ।
आत्मैवास्य षोडशी कला ।
स वित्तेनैवा च पूर्यतेऽप च क्षीयते ।
तदेतन्नभ्यं यदयमात्मा ।
प्रधिर्वित्तम् ।
तस्माद्यद्यपि सर्वज्यानिं जीयत आत्मना चेज्जीवति प्रधिनागादित्येवाहुः ॥ बृह. १,५.१५ ॥


अथ त्रयो वाव लोका मनुष्यलोकः पितृलोको देवलोक इति ।
सोऽयं मनुष्यलोकः पुत्रेणैव जय्यो नान्येन कर्मणा ।
कर्मणा पितृलोकः ।
विद्यया देवलोकः ।
देवलोको वै लोकानां श्रेष्ठः ।
तस्माद्विद्यां प्रशंसन्ति ॥ बृह. १,५.१६ ॥

अथातः सम्प्रत्तिः ।
यदा प्रैष्यन्मन्यतेऽथ पुत्रमाह त्वं ब्रह्म त्वं यज्ञस्त्वं लोक इति ।
स पुत्रः प्रत्याहाहं ब्रह्माहं यज्ञोऽहं लोक इति ।
यद्वै किञ्चानूक्तं तस्य सर्वस्य ब्रह्मेत्येकता ।
ये वै के च यज्ञास्तेषां सर्वेषां यज्ञ इत्येकता ।
ये वै के च लोकास्तेषां सर्वेषां लोक इत्येकता ।
एतावद्वा इदं सर्वम् ।
एतन्मा सर्वं सन्नयमितो भुनजदिति ।
तस्मात्पुत्रमनुशिष्टं लोक्यमाहुः ।
तस्मादेनमनुशासति ।
स यदैवंविदस्माल्लोकात्प्रैत्यथैभिरेव प्राणैः सह पुत्रमाविशति ।
स यद्यनेन किञ्चिदक्ष्णया कृतं भवति तस्मादेनं सर्वस्मात्पुत्रो मुञ्चति तस्मात्पुत्रो नाम ।
स पुत्रेणैवास्मिल्लोके प्रतितिष्ठति ।
अथैनमेते देवाः प्राणा अमृता आविशन्ति ॥ बृह. १,५.१७ ॥


पृथिव्यै चैनमग्नेश्च दैवी वागाविशति ।
सा वै दैवी वाग्यया यद्यदेव वदति तत्तद्भवति ॥ १,५.१८ ॥


दिवश्चैनमादित्याच्च दैवं मन आविशति ।
तद्वै दैवं मनो येनानन्द्येव भवत्यथो न शोचति ॥ १,५.१९ ॥


अद्भ्यश्चैनं चन्द्रमसश्च दैवः प्राण आविशति ।
स वै दैवः प्राणो यः संचरंश्चासंचरंश्च न व्यथतेऽथो न रिष्यति ।
स एष एवंवित्सर्वेषां भूतानामात्मा भवति ।
यथैषा देवतैवं सः ।
यथैतां देवतां सर्वाणि भूतान्यवन्त्येवं हैवंविदं सर्वाणि भूतान्यवन्ति ।
यदु किञ्चेमाः प्रजाः शोचन्त्यमैवासां तद्भवति ।
पुण्यमेवामुं गच्छति ।
न ह वै देवान् पापं गच्छति ॥ बृह. १,५.२० ॥


अथातो व्रतमीमांसा ।
प्रजापतिर्ह कर्माणि ससृजे ।
तानि सृष्टान्यन्योऽन्येनास्पर्धन्त ।
वदिष्याम्येवाहमिति वाग्दध्रे ।
द्रक्ष्याम्यहमिति चक्षुः ।
श्रोष्याम्यहमिति श्रोत्रम् ।
एवमन्यानि कर्माणि यथाकर्मम् ।
तानि मृत्युः श्रमो भूत्वोपयेमे ।
तान्याप्नोत् ।
तान्याप्त्वा मृत्युरवारुन्ध ।
तस्माच्छ्राम्यत्येव वाक् ।
श्राम्यति चक्षुः ।
श्राम्यति श्रोत्रम् ।
अथेममेव नाप्नोत्योऽयं मध्यमः प्राणः ।
तानि ज्ञातुं दध्रिरे ।
अयं वै नः श्रेष्ठो यः संचरंश्चासंचरंश्च न व्यथतेऽथो न रिष्यति ।
हन्तास्यैव सर्वे रूपं भवामेति ।
त एतस्यैव सर्वे रूपमभवन् ।
तस्मादेत एतेनाख्यायन्ते प्राणा इति ।
तेन ह वाव तत्कुलमाचक्षते यस्मिन् कुले भवति य एवं वेद ।
य उ हैवंविदा स्पर्धतेऽनुशुष्यति ।
अनुशुष्य हैवान्ततो म्रियत इत्यध्यात्मम् ॥ बृह. १,५.२१ ॥


अथाधिदेवतं
ज्वलिष्याम्येवाहमित्यग्निर्दध्रे ।
तप्स्याम्यहमित्यादित्यः ।
भास्याम्यहमिति चन्द्रमाः ।
एवमन्या देवता यथादेवतम् ।
स यथैषां प्राणानां मध्यमः प्राण एवमेतासां देवतानां वायुः ।
म्लोचन्ति ह्यन्या देवता न वायुः ।
सैषानस्तमिता देवता यद्वायुः ॥ बृह. १,५.२२ ॥


अथैष श्लोको भवति
यतश्चोदेति सूर्योऽस्तं यत्र च गच्छतीति ।
प्राणाद्वा एष उदेति प्राणेऽस्तमेति ।
तं देवाश्चक्रिरे धर्मं स एवाद्य स उ श्व इति ।
यद्वा एतेऽमुर्ह्यध्रियन्त तदेवाप्यद्य कुर्वन्ति ।
तस्मादेकमेव व्रतं चरेत्प्राण्याच्चैवापान्याच्च ।
नेन्मा पाप्मा मृत्युराप्नवदिति ।
यद्यु चरेत्समापिपयिषेत्तेनो एतस्यै देवतायै सायुज्यं सलोकतां जयति ॥ बृह. १,५.२३ ॥

(त्र्यन्नब्राह्मणं वा अविद्याविषयसंसारतत्त्वप्रदर्शकं ब्राह्मणं वा उपसंहारब्राह्मणम्)

त्रयं वा इदं नाम रूपं कर्म ।
तेषां नाम्नां वागित्येतदेषामुक्थम् ।
अतो हि सर्वाणि नामान्युत्तिष्ठन्ति ।
एतदेषां साम ।
एतद्धि सर्वैर्नामभिः समम् ।
एतदेषां ब्रह्म ।
एतद्धि सर्वाणि नामानि बिभर्ति ॥ १,६.१ ॥


अथ रूपाणां चक्षुरित्येतदेषामुक्थम् ।
अतो हि सर्वाणि रूपाण्युत्तिष्ठन्ति ।
एतदेषां साम ।
एतद्धि सर्वै रूपैः समम् ।
एतदेषां ब्रह्म ।
एतद्धि सर्वाणि रूपाणि बिभर्ति ॥ बृह. १,६.२ ॥


अथ कर्मणामात्मेत्येतदेषामुक्थम् ।
अतो हि सर्वाणि कर्माण्युत्तिष्ठन्ति ।
एतदेषां साम ।
एतद्धि सर्वैः कर्मभिः समम् ।
एतदेषां ब्रह्म ।
एतद्धि सर्वाणि कर्माणि बिभर्ति ।
तदेतत्त्रयं सदेकमयमात्मा ।
आत्मो एकः सन्नेतत्त्रयम् ।
तदेतदमृतं सत्येन छन्नम् ।
प्राणो वा अमृतम् ।
नामरूपे सत्यम् ।
ताभ्यामयं प्राणश्छन्नः ॥ १,६.३ ॥
इति बृहदारण्यकोपनिषदि प्रथमोऽध्यायः ॥

द्वितीयोऽध्यायः (next)

[सम्पाद्यताम्]

टिप्पणी

१.६.१ त्रयं वा इदं नाम रूप कर्म इति

उक्थ/उक्थ्य उपरि टिप्पणी

"https://sa.wikisource.org/w/index.php?title=बृहदारण्यक_उपनिषद्_1a&oldid=308886" इत्यस्माद् प्रतिप्राप्तम्