बृहदारण्यक उपनिषद् 6p

विकिस्रोतः तः

प्रथमोऽध्यायः

द्वितीयोऽध्यायः

तृतीयोऽध्यायः

चतुर्थोऽध्यायः

पञ्चमोऽध्यायः

षष्ठोऽध्यायः


अथ षष्ठोऽध्यायः ।



प्रथमं ब्राह्मणम्

यो ह वै ज्येष्ठं च श्रेष्ठं च वेद ज्येष्ठश्च श्रेष्ठश्च स्वानां भवति ।
प्राणो वै ज्येष्ठश्च श्रेष्ठश्च ।
ज्येष्ठश्च श्रेष्ठश्च स्वानां भवति ।
अपि च येषां बुभूषति ।
य एवं वेद ॥ ६,१.१ ॥

यो ह वै वसिष्ठां वेद वसिष्ठः स्वानां भवति ।
वाग्वै वसिष्ठा ।
वसिष्ठः स्वानां भवति ।
अपि च येषां बुभूषति ।
य एवं वेद ॥ ६,१.२ ॥


यो ह वै प्रतिष्ठां वेद प्रतितिष्ठति समे ।
प्रतितिष्ठति दुर्गे ।
चक्षुर्वै प्रतिष्ठा ।
चक्षुषा हि समे च दुर्गे च प्रतितिष्ठति ।
प्रतितिष्ठति समे प्रतितिष्ठति दुर्गे ।
य एवं वेद ॥ बृह. ६,१.३ ॥


यो ह वै संपदं वेद सं हास्मै पद्यते यं कामं कामयते ।
श्रोत्रं वै संपत् ।
श्रोत्रे हीमे सर्वे वेदा अभिसंपन्नाः ।
सं हास्मै पद्यते यं कामं कामयते ।
य एवं वेद ॥ ६,१.४ ॥


यो ह वा आयतनं वेदायतनं स्वानां भवत्यायतनं जनानाम् ।
मनो वा आयतनम् ।
आयतनं स्वानां भवत्यायतनं जनानाम् ।
य एवं वेद ॥ ६,१.५ ॥


यो ह वै प्रजातिं वेद प्रजायते ह प्रजया पशुभिः ।
रेतो वै प्रजातिः ।
प्रजायते ह प्रजया पशुभिः ।
य एवं वेद ॥ बृह. ६,१.६ ॥


ते हेमे प्राणा अहंश्रेयसे विवदमाना ब्रह्म जग्मुः ।
तद्धोचुः को नो वसिष्ठ इति ।
तद्धोवाच यस्मिन् व उत्क्रान्त इदं शरीरं पापियो मन्यते स वो वसिष्ठ इति ॥ ६,१.७ ॥

वाग्घोच्चक्राम ।
सा संवत्सरं प्रोष्यागत्योवाच कथमशकत मदृते जीवितुमिति ।
ते होचुः यथाकला अवदन्तो वाचा प्राणन्तः प्राणेन पश्यन्तश्चक्षुषा शृण्वन्तः श्रोत्रेण विद्वांसो मनसा प्रजायमाना रेतसैवमजीविष्मेति ।
प्रविवेश ह वाक् ॥ ६,१.८ ॥


चक्षुर्होच्चक्राम ।
तत्संवत्सरं प्रोष्यागत्योवाच कथमशकत मदृते जीवितुमिति ।
ते होचुः यथान्धा अपश्यन्तश्चक्षुषा प्राणन्तः प्राणेन वदन्तो वाचा शृण्वन्तः श्रोत्रेण विद्वांसो मनसा प्रजायमाना रेतसैवमजीविष्मेति ।
प्रविवेश ह चक्षुः ॥ बृह. ६,१.९ ॥


श्रोत्रं होच्चक्राम ।
तत्संवत्सरं प्रोष्यागत्योवाच कथमशकत मदृते जीवितुमिति ।
ते होचुः यथा बधिरा अशृण्वन्तः श्रोत्रेण प्राणन्तः प्राणेन वदन्तो वाचा पश्यन्तश्चक्षुषा विद्वांसो मनसा प्रजायमाना रेतसैवमजीविष्मेति ।
प्रविवेश ह श्रोत्रम् ॥ ६,१.१० ॥


मनो होच्चक्राम ।
तत्संवत्सरं प्रोष्यागत्योवाच कथमशकत मदृते जीवितुमिति ।
ते होचुः यथा मुग्धा अविद्वांसो मनसा प्राणन्तः प्राणेन वदन्तो वाचा पश्यन्तश्चक्षुषा शृण्वन्तः श्रोत्रेण प्रजायमाना रेतसैवमजीविष्मेति ।
प्रविवेश ह मनः ॥ ६,१.११ ॥


रेतो होच्चक्राम ।
तत्संवत्सरं प्रोष्यागत्योवाच कथमशकत मदृते जीवितुमिति ।
ते होचुः यथा क्लीबा अप्रजायमाना रेतासा प्राणन्तः प्राणेन वदन्तो वाचा पश्यन्तश्चक्षुषा शृण्वन्तः श्रोत्रेण विद्वांसो मनसैवमजीविष्मेति ।
प्रविवेश ह रेतः ॥ बृह. ६,१.१२ ॥


अथ ह प्राण उत्क्रमिष्यन् यथा महासुहयः सैन्धवः पड्वीशशङ्खून्त्संवृहेदेवं हैवेमान् प्राणान्त्संववर्ह ।
ते होचुः मा भगव उत्क्रमीः ।
न वै शक्ष्यामस्त्वदृते जीवितुमिति ।
तस्यो मे बलिं कुरुतेति ।
तथेति ॥ ६,१.१३ ॥


सा ह वागुवाच यद्वा अहं वसिष्ठास्मि त्वं तद्वसिष्ठोऽसीति ।
यद्वा अहं प्रतिष्ठास्मि त्वं तत्प्रतिष्ठोऽसीति चक्षुः ।
यद्वा अहं संपदस्मि त्वं तत्संपदसीति श्रोत्रम् ।
यद्वा अहमायतनमस्मि त्वं तदायतनमसीति मनः ।
यद्वा अहं प्रजातिरस्मि त्वं तत्प्रजातिरसीति रेतः ।
तस्यो मे किमन्नं किं वास इति ।
यदिदं किञ्चा श्वभ्य आ कृमिभ्य आ कीटपतङ्गेभ्यस्तत्तेऽन्नम् ।
आपो वास इति ।
न ह वा अस्यानन्नं जग्धं भवति नानन्नं प्रतिगृहीतं य एवमेतदनस्यान्नं वेद ।
तद्विद्वांसः श्रोत्रिया अशिष्यन्त आचामन्त्यशित्वाचामन्ति ।
एतमेव तदन्नमनग्नं कुर्वन्तो मन्यन्ते ॥ बृह. ६,१.१४ ॥

इति प्रथमं ब्राह्मणम् ॥

द्वितीयं ब्राह्मण् (पञ्चाग्निविद्याब्राह्मणं वा श्वेतकेतुब्राह्मणम्)

श्वेतकेतुर्वा आरुणेयः पन्चालानां परिषदमाजगाम ।
स आजगाम जैवलिं प्रवाहणं परिचारयमाणम् ।
तमुदीक्ष्याभ्युवाद कुमारा३ इति ।
स भो३ इति प्रतिशुश्राव ।
अनुशिष्टो न्वसि पित्रेति ।
ओमिति होवाच ॥ बृह. ६,२.१ ॥


वेत्थ यथेमाः प्रजाः प्रयत्यो विप्रतिपद्यन्ता३ इति ।
नेति होवाच ।
वेत्थो यथेमं लोकं पुनरापद्यन्ता३ इति ।
नेति हैवोवाच ।
वेत्थो यथासौ लोक एवं बहुभिः पुनः पुनः प्रयद्भिर्न संपूर्यता३ इति ।
नेति हैवोवाच ।
वेत्थो यतिथ्यामाहुत्यां हुतायामापः पुरुषवाचो भूत्वा समुत्थाय वदन्ती३ इति ।
नेति हैवोवाच ।
वेत्थो देवयानस्य वा पथः प्रतिपदं पितृयाणस्य वा ।
यत्कृत्वा देवयानं वा पन्थानं प्रतिपद्यन्ते पितृयाणं वा ।
अपि हि न ऋषेर्वचः श्रुतं
द्वे सृती अशृणवं पितॄणामहं देवानामुत मर्त्यानाम् ।
ताभ्यामिदं विश्वमेजत्समेति यदन्तरा पितरं मातरं चेति ।
नाहमत एकं चन वेदेति होवाच ॥ ६,२.२ ॥


अथैनं वसत्योपमन्त्रयां चक्रे ।
अनादृत्य वसतिं कुमारः प्रदुद्राव ।
स आजगाम पितरम् ।
तं होवाच इति वाव किल नो भवान् पुरानुशिष्टानवोच इति ।
कथं सुमेध इति ।
पञ्च मा प्रश्नान् राजन्यबन्धुरप्राक्षीत् ।
ततो नैकं चन वेदेति ।
कतमे त इति ।
इम इति ह प्रतीकान्युदाजहार ॥ बृह. ६,२.३ ॥


स होवाच तथा नस्त्वं तत जानीथा यथा यदहं किंच वेद सर्वमहं तत्तुभमवोचम् ।
प्रेहि तु तत्र ।
प्रतीत्य ब्रह्मचर्यं वत्स्याव इति ।
भवानेव गच्छत्विति ।
स आजगाम गौतमो यत्र प्रवाहणस्य जैवलेरास ।
तस्मा आसनमाहृत्योदकमाहारयां चकार ।
अथ हास्मा अर्घ्यं चकार ।
तं होवाच वरं भगवते गौतमाय दद्म इति ॥ ६,२.४ ॥


स होवाच प्रतिज्ञतो म एष वरः ।
यां तु कुमारस्यान्ते वाचमभाषथास्तां मे ब्रूहीति ॥ ६,२.५ ॥


स होवाच दैवेषु वै गौतम तद्वरेषु ।
मानुषाणां ब्रूहीति ॥ बृह. ६,२.६ ॥


स होवाच विज्ञायते हास्तिहिरण्यस्यापात्तं गोअश्वानां दासीनां प्रवाराणां परिधानस्य ।
मा नो भवान् बहोरनन्तस्यापर्यन्तस्याभ्यवदान्यो भूदिति ।
स वै गौतम तीर्थेनेच्छसा इति ।
उपैम्यहं भवन्तमिति ।
वाचा ह स्मैव पूर्व उपयन्ति ।
स होपायनकीर्त्योवास ॥ ६,२.७ ॥


स होवाच तथा नस्त्वं गौतम मापराधास्तव च पितामहाः ।
यथेयं विद्येतः पूर्वं न कस्मिंश्चन ब्राह्मन उवास ।
तां त्वहं तुभ्यं वक्ष्यामि ।
को हि त्वैवं ब्रुवन्तमर्हति प्रत्याख्यातुमिति ॥ बृह. ६,२.८ ॥


असौ वै लोकोऽग्निर्गौतम ।
तस्यादित्य एव समित् ।
रश्मयो धूमः ।
अहरर्चिः ।
दिशोऽङ्गाराः ।
अवान्तरदिशो विष्फुलिङ्गाः ।
तस्मिन्नेतस्मिन्नग्नौ देवाः श्रद्धां जुह्वति ।
तस्या आहुत्यै सोमो राजा संभवति ॥ ६,२.९ ॥


पर्जन्यो वा अग्निर्गौतम ।
तस्य संवत्सर एव समित् ।
अभ्राणि धूमः ।
विद्युदर्चिः ।
अशनिरङ्गाराः ।
ह्रादुनयो विष्फुलिङ्गाः ।
तस्मिन्नेतस्मिन्नग्नौ देवाः सोमं राजानं जुह्वति ।
तस्या आहुत्यै वृष्टिः संभवति ॥ बृह. ६,२.१० ॥


अयं वै लोकोऽग्निर्गौतम ।
तस्य पृथिव्येव समित् ।
अग्निर्धूमः ।
रात्रिरर्चिः ।
चन्द्रमा अङ्गाराः ।
नक्षत्राणि विष्फुलिङ्गाः ।
तस्मिन्नेतस्मिन्नग्नौ देवा वृष्टिं जुह्वति ।
तस्या आहुत्या अन्नं संभवति ॥ ६,२.११ ॥


पुरुषो वा अग्निर्गौतम ।
तस्य व्यात्तमेव समित् ।
प्राणो धूमः ।
वागर्चिः ।
चक्षुरङ्गाराः ।
श्रोत्रं विष्फुलिङ्गाः ।
तस्मिन्नेतस्मिन्नग्नौ देवा अन्नं जुह्वति ।
तस्या आहुत्यै रेतः संभवति ॥ बृह. ६,२.१२ ॥


योषा वा अग्निर्गौतम ।
तस्या उपस्थ एव समित् ।
लोमानि धूमः ।
योनिरर्चिः ।
यदन्तः करोति तेऽङ्गाराः ।
अभिनन्दा विष्फुलिङ्गाः ।
तस्मिन्नेतस्मिन्नग्नौ देवा रेतो जुह्वति ।
तस्या आहुत्यै पुरुषः संभवति ।
स जीवति यावज्जीवति ।
अथ यदा म्रियते ॥ ६,२.१३ ॥


अथैनमग्नये हरन्ति ।
तस्याग्निरेवाग्निर्भवति ।
समित्समित् ।
धूमो धूमः ।
अर्चिरर्चिः ।
अङ्गारा अङ्गाराः ।
विष्फुलिङ्गा विष्फुलिङ्गाः ।
तस्मिन्नेतस्मिन्नग्नौ देवाः पुरुषं जुह्वति ।
तस्या आहुत्यै पुरुषो भास्वरवर्णः संभवति ॥ बृह. ६,२.१४ ॥


ते य एवमेतद्विदुर्ये चामी अरण्ये श्रद्धां सत्यमुपासते तेऽर्चिरभिसंभवन्ति ।
अर्चिषोऽहः ।
अह्न आपूर्यमाणपक्षम् ।
आपूर्यमाणपक्षाद्यान् षण्मासानुदङ्ङादित्य एति ।
मासेभ्यो देवलोकम् ।
देवलोकादादित्यम् ।
आदित्याद्वैद्युतम् ।
तान् वैद्युतान् पुरुषो मानस एत्य ब्रह्मलोकान् गमयति ।
ते तेषु ब्रह्मलोकेषु पराः परावतो वसन्ति ।
तेषां न पुनरावृत्तिः ॥ बृह. ६,२.१५ ॥


अथ ये यज्ञेन दानेन तपसा लोकाञ्जयन्ति ते धूममभिसंभवन्ति ।
धूमाद्रात्रिम् ।
रात्रेरपक्षीयमाणपक्षम् ।
अपक्षीयमाणपक्षाद्यान् षण्मासान् दक्षिणादित्य एति ।
मासेभ्यः पितृलोकम् ।
पितृलोकाच्चन्द्रम् ।
ते चन्द्रं प्राप्यान्नं भवन्ति ।
तांस्तत्र देवा यथा सोमं राजानमाप्यायस्वापक्षीयस्वेत्येवमेनांस्तत्र भक्षयन्ति ।
तेषां यदा तत्पर्यवैत्यथेममेवाकाशमभिनिष्पद्यन्ते ।
आकाशाद्वायुम् ।
वायोर्वृष्टिम् ।
वृष्टेः पृथिवीम् ।
ते पृथिवीं प्राप्यान्नं भवन्ति ।
ते पुनः पुरुषाग्नौ हूयन्ते ततो योषाग्नौ जायन्ते ।
लोकान् प्रत्युथायिनस्त एवमेवानुपरिवर्तन्ते ।
अथ य एतौ पन्थानौ न विदुस्ते कीटाः पतङ्गा यदिदं दन्दशूकम् ॥ ६,२.१६ ॥


तृतीयं ब्राह्मणम् (ज्येष्ठब्राह्मणं वा प्राणविद्याब्राह्मणम्)

स यः कामयेत महत्प्राप्नुयामित्युदगयन आपूर्यमाणपक्षस्य पुण्याहे द्वादशाहमुपसद्व्रती भूत्वौदुम्बरे कंसे चमसे वा सर्वौषधं फलानीति संभृत्य परिसमुह्य परिलिप्याग्निमुपसमाधाय परिस्तीर्यावृताज्यं संस्कृत्य पुंसा नक्षत्रेण मन्थं संनीय जुहोति
यावन्तो देवास्त्वयि जातवेदस्तिर्यञ्चो घ्नन्ति पुरुषस्य कामान् ।
तेभ्योऽहं भागधेयं जुहोमि ते मा तृप्ताः सर्वैः कामैस्तर्पयन्तु स्वाहा ।
या तिरश्ची निपद्यसेऽहं विधरणी इति ।
तां त्वा घृतस्य धारया यजे संराधनीमहं स्वाहा ॥ बृह. ६,३.१ ॥


ज्येष्ठाय स्वाहा श्रेष्ठाय स्वाहेत्यग्नौ हुत्वा मन्थे संस्रवमवनयति ।
प्राणाय स्वाहा वसिष्ठायै स्वाहेत्यग्नौ हुत्वा मन्थे संस्रवमवनयति ।
वाचे स्वाहा प्रतिष्ठायै स्वाहेत्यग्नौ हुत्वा मन्थे संस्रवमवनयति ।
चक्षुषे स्वाहा संपदे स्वाहेत्यग्नौ हुत्वा मन्थे संस्रवमवनयति ।
श्रोत्राय स्वाहायतनाय स्वाहेत्यग्नौ हुत्वा मन्थे संस्रवमवनयति ।
मनसे स्वाहा प्रजात्यै स्वाहेत्यग्नौ हुत्वा मन्थे संस्रवमवनयति ।
रेतसे स्वाहेत्यग्नौ हुत्वा मन्थे संस्रवमवनयति ॥ बृह. ६,३.२ ॥


अग्नये स्वाहेत्यग्नौ हुत्वा मन्थे संस्रवमवनयति ।
सोमाय स्वाहेत्यग्नौ हुत्वा मन्थे संस्रवमवनयति ।
भूः स्वाहेत्यग्नौ हुत्वा मन्थे संस्रवमवनयति ।
भुवः स्वाहेत्यग्नौ हुत्वा मन्थे संस्रवमवनयति ।
स्वः स्वाहेत्यग्नौ हुत्वा मन्थे संस्रवमवनयति ।
भूर्भुवः स्वः स्वाहेत्यग्नौ हुत्वा मन्थे संस्रवमवनयति ।
ब्रह्मणे स्वाहेत्यग्नौ हुत्वा मन्थे संस्रवमवनयति ।
क्षत्राय स्वाहेत्यग्नौ हुत्वा मन्थे संस्रवमवनयति ।
भूताय स्वाहेत्यग्नौ हुत्वा मन्थे संस्रवमवनयति ।
भविष्यते स्वाहेत्यग्नौ हुत्वा मन्थे संस्रवमवनयति ।
विश्वाय स्वाहेत्यग्नौ हुत्वा मन्थे संस्रवमवनयति ।
सर्वाय स्वाहेत्यग्नौ हुत्वा मन्थे संस्रवमवनयति ।
प्रजापतये स्वाहेत्यग्नौ हुत्वा मन्थे संस्रवमवनयति ॥ बृह. ६,३.३ ॥


अथैनमभिमृशति भ्रमदसि ।
ज्वलदसि ।
पूर्णमसि ।
प्रस्तब्धमसि ।
एकसभमसि ।
हिङ्कृतमसि ।
हिङ्क्रियमानमसि ।
उद्गीथमसि ।
उद्गीयमानमसि ।
श्रावितमसि ।
प्रत्याश्रावितमसि ।
आर्द्रे संदीप्तमसि ।
विभूरसि ।
प्रभूरसि ।
अन्नमसि ।
ज्योतिरसि ।
निधनमसि ।
संवर्गोऽसीति ॥ ६,३.४ ॥


अथैनमुद्यच्छत्यामंस्यामं हि ते महि ।
स हि राजेशानोऽधिपतिः ।
स मां राजेशनोऽधिपतिं करोत्विति ॥ बृह. ६,३.५ ॥

अथैनमाचामति
तत्सवितुर्वरेण्यम् ।
मधु वाता ऋतायते मधु क्षरन्ति सिन्धवः ।
माध्वीर्नः सन्त्वोषधीः ।
भूः स्वाहा ।
भर्गो देवस्य धीमहि
मधु नक्तमुतोषसो मधुमत्पार्थिवं रजः ।
मधु द्यौरस्तु नः पिता ।
भुवः स्वाहा ।
धियो यो नः प्रचोदयात् ।
मधुमान्नो वनस्पतिर्मधुमां अस्तु सूर्यः ।
माध्वीर्गवो भवन्तु नः ।
स्वः स्वाहा ।
सर्वां च सावित्रीमन्वाह ।
सर्वाश्च मधुमतीरहमेवेदं सर्वं भूयासं भूर्भुवः स्वः स्वाहेति अन्तत आचम्य पाणी प्रक्षाल्य जघनेनाग्निं प्राक्शिराः संविशति ।
प्रातरादित्यमुपतिष्ठते ।
दिशामेकपुण्डरीकमसि ।
अहं मनुष्याणामेकपुण्डरीकं भूयासमिति ।
यथेतमेत्य जघनेनाग्निमासीनो वंशं जपति ॥ बृह. ६,३.६ ॥


तं हैतमुद्दालक आरुणिर्वाजसनेयाय याज्ञवल्क्यायान्तेवासिन उक्त्वोवाच अपि य एनं शुष्के स्थाणौ निषिञ्चेज्जायेरञ्छाखाः प्ररोहेयुः पलाशानीति ॥ ६,३.७ ॥


एतमु हैव वाजसनेयो याज्नवल्क्यो मधुकाय पैङ्ग्यायान्तेवासिन उक्त्वोवाच अपि य एनं शुष्के स्थाणौ निषिञ्चेज्जायेरञ्छाखाः प्ररोहेयुः पलाशानीति ॥ ६,३.८ ॥


एतमु हैव मधुकः पैङ्ग्यश्चूलाय भागवित्तयेऽन्तेवासिन उक्त्वोवाच अपि य एनं शुष्के स्थाणौ निषिञ्चेज्जायेरञ्छाखाः प्ररोहेयुः पलाशानीति ॥ ६,३.९ ॥


एतमु हैव चूलो भागवित्तिर्जानकय आयःस्थूणायान्तेवासिन उक्त्वोवाच अपि य एनं शुष्के स्थाणौ निषिञ्चेज्जायेरञ्छाखाः प्ररोहेयुः पलाशानीति ॥ ६,३.१० ॥


एतमु हैव जानकिरायस्थूणः सत्यकामाय जाबालायान्तेवासिन उक्त्वोवाच अपि य एनं शुष्के स्थाणौ निषिञ्चेज्जायेरञ्छाखाः प्ररोहेयुः पलाशानीति ॥ ६,३.११ ॥


एतमु हैव सत्यकामो जाबालोऽन्तेवासिभ्य उक्त्वोव अचापि य एनं शुष्के स्थाणौ निषिञ्चेज्जायेरञ्छाखाः प्ररोहेयुः पलाशानीति ।
तमेतं नापुत्राय वानन्तेवासिने वा ब्रूयात् ॥ बृह. ६,३.१२ ॥

चतुरौदुम्बरो भवति ।
औदुम्बरः स्रुव औदुम्बरश्चमस औदुम्बर इध्म औदुम्बर्या उपमन्थन्यौ ।
दश ग्राम्याणि धान्यानि भवन्ति ।
व्रीहियवास्तिलमाषा अणुप्रियंगवो गोधूमाश्च मसूराश्च खल्वाश्च खलकुलाश्च ।
तान् पिष्टान् दधनि मधुनि घृत उपसिञ्चति ।
आज्यस्य जुहोति ॥ ६,३.१३ ॥


इति तृतीयं ब्राह्मणम् ॥

चतुर्थं ब्राह्मणम् (पुत्रमन्थकर्मब्राह्मणम्)

एषां वै भूतानां पृथिवी रसः ।
पृथिव्या आपः ।
अपामोषधयः ।
ओषधीनां पुष्पाणि ।
पुष्पाणां फलानि ।
फलानां पुरुषः ।
पुरुषस्य रेतः ॥ बृह. ६,४.१ ॥


स ह प्रजापतिरीक्षां चक्रे हन्तास्मै प्रतिष्ठां कल्पयानीति स स्त्रियं ससृजे ।
तां सृष्ट्वाध उपास्त ।
तस्मात्स्त्रियमध उपासीत ।
स एतं प्राञ्चं ग्रावाणमात्मन एव समुदपारयत् ।
तेनैनामभ्यसृजत ॥ ६,४.२ ॥


तस्या वेदिरुपस्थः ।
लोमानि बर्हिश् ।
चर्माधिषवणे ।
समिद्धो मध्यतस्तौ मुष्कौ ।
स यावान् ह वै वाजपेयेन यजमनस्य लोको भवति तावानस्य लोको भवति ।
य एवं विद्वानधोपहासं चरत्यासां स्त्रीणां सुकृतं वृङ्क्ते ।
अथ य इदमविद्वानधोपहासं चरत्यास्य स्त्रियः सुकृतं वृञ्जते ॥ बृह. ६,४.३ ॥


एतद्ध स्म वै तद्विद्वानुद्दालक आरुणिराह ।
एतद्ध स्म वै तद्विद्वान्नाको मौद्गल्य आह ।
एतद्ध स्म वै तद्विद्वान् कुमारहारित आह बहवो मर्या ब्राह्मनायना निरिन्द्रिया विसुकृतोऽस्माल्लोकात्प्रयन्ति य इदमविद्वांसोऽधोपहासं चरन्तीति ।
बहु वा इदं सुप्तस्य वा जाग्रतो वा रेतः स्कन्दति ॥ ६,४.४ ॥

तदभिमृशेदनु वा मन्त्रयेत यन्मेऽद्य रेतः पृथिवीमस्कान्त्सीद्यदोषधीरप्यसरद्यदपः ।
इदमहं तद्रेत आददे ।
पुनर्मामैतु इन्द्रियं पुनस्तेजः पुनर्भगः ।
पुनरग्निर्धिष्ण्या यथास्थानं कल्पन्ताम् ।
इत्यनामिकाङ्गुष्ठाभ्यामादायान्तरेण स्तनौ वा भ्रुवौ वा निमृज्यात् ॥ ६,४.५ ॥


अथ यद्युदक आत्मानं पश्येत्तदभिमन्त्रयेत मयि तेज इन्द्रियं यशो द्रविणं सुकृतमिति ।
श्रीर्ह वा एषा स्त्रीणां यन्मलोद्वासाः ।
तस्मान्मलोद्वाससं यशस्विनीमभिक्रम्योपमन्त्रयेत ॥ बृह. ६,४.६ ॥


सा चेदस्मै न दद्यात्काममेनामवक्रिणीयात् ।
सा चेदस्मै नैव दद्यात्काममेनां यष्ट्या वा पाणिना वोपहत्यातिक्रामेत् ।
इन्द्रियेन ते यशसा यश आदद इति ।
अयशा एव भवति ॥ ६,४.७ ॥


सा चेदस्मै दद्यादिन्द्रियेण ते यशसा यश आदधामीति ।
यशस्विनावेव भवतः ॥ ६,४.८ ॥


स यामिच्छेत् कामयेत मेति तस्यामर्थं निष्ठाय मुखेन मुखं संधायोपस्थमस्या अभिमृश्य जपेत्
अङ्गादङ्गात्संभवसि हृदयादधिजायसे ।
स त्वमङ्गकषायोऽसि दिग्धविद्धामिव मादयेमाममूं मयीति ॥ ६,४.९ ॥


अथ यामिच्छेन्न गर्भं दधीतेति तस्यामर्थं निष्ठाय मुखेन मुखं संधायाभिप्राण्यापान्यात् ।
इन्द्रियेण ते रेतसा रेत आदद इति ।
अरेता एव भवति ॥ बृह. ६,४.१० ॥


अथ यामिच्छेद्दधीतेति तस्यामर्थं निष्ठाय मुखेन मुखं संधायापान्याभिप्राण्यात् ।
इन्द्रियेण ते रेतसा रेत आदधामीति ।
गर्भिण्येव भवति ॥ ६,४.११ ॥


अथ यस्य जायायै जारः स्यात्तं चेद्द्विष्यादामपात्रेऽग्निमुपसमाधाय प्रतिलोमं शरबर्हिः स्तीर्त्वा तस्मिन्नेताः शरभृष्टीः प्रतिलोमाः सर्पिषाक्ता जुहुयात् ।
मम समिद्धेऽहौषीः ।
प्राणापानौ त आददेऽसाविति ।
मम समिद्धेऽहौषीः ।
पुत्रपशूंस्त आददेऽसाविति ।
मम समिद्धेऽहौषीः ।
इष्टासुकृते त आददेऽसाविति ।
मम समिद्धेऽहौषीः ।
अशापराकाशौ त आददेऽसाविति ।
स वा एष निरिन्द्रियो विसुकृतोऽस्माल्लोकाद्प्रैति यमेवंविद्ब्राह्मणः शपति ।
तस्मादेवंवित्श्रोत्रियस्य दारेण नोपहासमिच्छेत् ।
उत ह्येवंवित्परो भवति ॥ बृह. ६,४.१२ ॥


अथ यस्य जायामार्तवं विन्देत्त्र्यहं कंसे न पिबेत् ।
अहतवासाः ।
नैनां वृषलो न वृषल्यपहन्यात् ।
त्रिरात्रान्त आप्लुत्य व्रीहीनवघातयेत् ॥ ६,४.१३ ॥


स य इच्छेत् पुत्रो मे शुक्लो जायेत वेदमनुब्रुवीत सर्वमायुरियादिति क्षीरौदनं पाचयित्वा सर्पिष्मन्तमश्नीयाताम् ।
ईश्वरौ जनयितवै ॥ ६,४.१४ ॥


अथ य इच्छेत् पुत्रो मे कपिलः पिङ्गलो जायेत द्वौ वेदावनुब्रुवीत सर्वमायुरियादिति दध्योदनं पाचयित्वा सर्पिष्मन्तमश्नीयाताम् ।
ईश्वरौ जनयितवै ॥ ६,४.१५ ॥


अथ य इच्छेत् पुत्रो मे श्यामो लोहिताक्षो जायेत त्रीन् वेदाननुब्रुवीत सर्वमायुरियादिति उदौदनं पाचयित्वा सर्पिष्मन्तमश्नीयाताम् ।
ईश्वरौ जनयितवै ॥ ६,४.१६ ॥


अथ य इच्छेद् दुहिता मे पण्डिता जायेत सर्वमायुरियादिति तिलौदनं पाचयित्वा सर्पिष्मन्तमश्नीयाताम् ।
ईश्वरौ जनयितवै ॥ बृह. ६,४.१७ ॥


अथ य इच्छेत् पुत्रो मे पण्डितो विगीतः समितिंगमः शुश्रूषितां वाचं भाषिता जायेत सर्वान् वेदाननुब्रुवीत सर्वमायुरियादिति मांसौदनं पाचयित्वा सर्पिष्मन्तमश्नीयाताम् ।
ईश्वरौ जनयितवाइ ।
औक्षेण वार्षभेण वा ॥ ६,४.१८ ॥


अथाभिप्रातरेव स्थालीपाकावृताज्यं चेष्टित्वा स्थालीपाकस्योपघातं जुहोत्यग्नये स्वाहानुमतये स्वाहा देवाय सवित्रे सत्यप्रसवाय स्वाहेति ।
हुत्वोद्धृत्य प्राश्नाति ।
प्राश्येतरस्याः प्रयच्छति ।
प्रक्षाल्य पाणी उदपात्रं पूरयित्वा तेनैनां त्रिरभ्युक्षति
उत्तिष्ठातो विश्वावसोऽन्यामिच्छ प्रपूर्व्याम् ।
सं जायां पत्या सहेति ॥ ६,४.१९ ॥


अथैनामभिपद्यते अमोऽहमस्मि सा त्वम् ।
सा त्वमस्यमोऽहम् ।
सामाहमस्मि ऋक्त्वम् ।
द्यौरहं पृथिवी त्वम् ।
तावेहि संरभावहै सह रेतो दधावहै ।
पुंसे पुत्राय वित्तय इति ॥ बृह. ६,४.२० ॥


अथास्या ऊरू विहापयति विजिहीथां द्यावापृथिवी इति ।
तस्यामर्थं निष्ठाय मुखेन मुखं संधाय त्रिरेनामनुलोमामनुमार्ष्टि
विष्णुर्योनिं कल्पयतु त्वष्टा रूपाणि पिंशतु ।
आ सिञ्चतु प्रजापतिर्धाता गर्भं दधातु ते ।
गर्भं धेहि सिनीवालि गर्भं धेहि पृथुष्टुके ।
गर्भं ते अश्विनौ देवावाधत्तां पुष्करस्रजौ ॥ ६,४.२१ ॥


हिरण्मयी अरणी याभ्यां निर्मन्थतामश्विनौ ।
तं ते गर्भं हवामहे दशमे मासि सूतये ।
यथाग्निगर्भा पृथिवी यथा द्यौरैन्द्रेण गर्भिणी ।
वायुर्दिशां यथा गर्भ एवं गर्भं दधामि तेऽसाविति ॥ ६,४.२२ ॥


सोष्यन्तीमद्भिरभ्युक्षति
यथा वायुः पुष्करिणीं समिङ्गयति सर्वतः ।
एवा ते गर्भ एजतु सहावैतु जरायुणा ।
इन्द्रस्यायं व्रजः कृतः सार्गलः सपरिश्रयः ।
तमिन्द्र निर्जहि गर्भेण सावरां सहेति ॥ बृह. ६,४.२३ ॥

जातेऽग्निमुपसमाधायाङ्क आधाय कंसे पृषदाज्यं संनीय पृषदाज्यस्योपघातं जुहोति
अस्मिन्सहस्रं पुष्यासमेधमानः स्वे गृहे ।
अस्योपसन्द्यां मा छैत्सीत्प्रजया च पशुभिश्च स्वाहा ।
मयि प्राणांस्त्वयि मनसा जुहोमि स्वाहा ।
यत्कर्मणात्यरीरिचं यद्वा न्यूनमिहाकरम् ।
अग्निष्टत्स्विष्टकृद्विद्वान् स्विष्टं सुहुतं करोतु नः स्वाहेति ॥ ६,४.२४ ॥


अथास्य दक्षिणं कर्णमभिनिधाय वाग्वागिति त्रिः ।
अथ दधि मधु घृतं संनीयानन्तर्हितेन जातरूपेण प्राशयति ।
भूस्ते दधामि भुवस्ते दधामि स्वस्ते दधामि भूर्भुवः स्वः सर्वं त्वयि दधामीति ॥ ६,४.२५ ॥


अथास्य नाम करोति वेदोऽसीति ।
तदस्यैतद्गुह्यमेव नाम भवति ॥ बृह. ६,४.२६ ॥


अथैनं मात्रे प्रदाय स्तनं प्रयच्छति यस्ते स्तनः शशयो यो मयोभूर्यो रत्नधा वसुविद्यः सुदत्रः ।
येन विश्वा पुष्यसि वार्याणि सरस्वति तमिह धातवे करिति ॥ ६,४.२७ ॥


अथास्य मातरमभिमन्त्रयते इलासि मैत्रावरुणी वीरे वीरमजीजनत् ।
सा त्वं वीरवती भव यास्मान् वीरवतोऽकरदिति ।
तं वा एतमाहुः अतिपिता बताभूः ।
अतिपितामहो बताभूः ।
परमां बत काष्ठां प्राप श्रिया यशसा ब्रह्मवर्चसेन ।
य एवंविदो ब्राह्मणस्य पुत्रो जायत इति ॥ बृह. ६,४.२८ ॥


इति चतुर्थं ब्राह्मणम् ॥

पञ्चमं ब्राह्मणम्

अथ वंशः ।
पौतिमाषीपुत्रः कात्यायनीपुत्रात् ।
कात्यायनीपुत्रो गौतमीपुत्रात् ।
गौतमीपुत्रो भारद्वाजीपुत्रात् ।
भारद्वाजीपुत्रः पाराशरीपुत्रात् ।
पाराशरीपुत्र औपस्वस्तीपुत्रात् ।
औपस्वस्तीपुत्रः पाराशरीपुत्रात् ।
पाराशरीपुत्रः कात्यायनीपुत्रात् ।
कात्यायनीपुत्रः कौशिकीपुत्रात् ।
कौशिकीपुत्र आलम्बीपुत्राच्च वैयाघ्रपदीपुत्राच्च ।
वैयाघ्रपदीपुत्रह्काण्वीपुत्राच्च कापीपुत्राच्च ।
कापीपुत्रः ॥ बृह. ६,५.१ ॥


आत्रेयीपुत्रात् ।
आत्रेयीपुत्रो गौतमीपुत्रात् ।
गौतमीपुत्रो भारद्वाजीपुत्रात् ।
भारद्वाजीपुत्रः पाराशरीपुत्रात् ।
पाराशरीपुत्रो वात्सीपुत्रात् ।
वात्सीपुत्रः पाराशरीपुत्रात् ।
पाराशरीपुत्रो वार्कारुनीपुत्रात् ।
वार्कारुणीपुत्रो वार्कारुणीपुत्रात् ।
वार्कारुणीपुत्र आर्तभागीपुत्रात् ।
आर्तभागीपुत्रः शौङ्गीपुत्रात् ।
शौङ्गीपुत्रः सान्कृतीपुत्रात् ।
साङृतीपुत्र आलम्बायनीपुत्रात् ।
आलम्बायनीपुत्र आलम्बीपुत्रात् ।
आलम्बीपुत्रो जायन्तीपुत्रात् ।
जायन्तीपुत्रो माण्डूकायनीपुत्रात् ।
माण्डूकायनीपुत्रो माण्डूकीपुत्रात् ।
माण्डूकीपुत्रः शाण्डिलीपुत्रात् ।
शाण्डिलीपुत्रो राथीतरीपुत्रात् ।
राथीतरीपुत्रो भालुकीपुत्रात् ।
भालुकीपुत्रः क्रौञ्चिकीपुत्राभ्याम् ।
क्रौञ्चिकीपुत्रौ वैदभृतीपुत्रात् ।
वैदभृतीपुत्रः कार्शकेयीपुत्रात् ।
कार्शकेयीपुत्रः प्राचीनयोगीपुत्रात् ।
प्राचीनयोगीपुत्रः साञ्जीवीपुत्रात् ।
साञ्जीवीपुत्रः प्राश्नीपुत्रादासुरिवासिनः ।
प्राश्नीपुत्र आसुरायणात् ।
आसुरायण आसुरेः ।
आसुरिः। बृह. ६,५.२ ॥


याज्ञवल्क्यात् ।
याज्ञवल्क्य उद्दालकात् ।
उद्दालकोऽरुणात् ।
अरुण उपवेशेः ।
उपवेशिः कुश्रेः ।
कुश्रिर्वाजश्रवसः ।
वाजश्रवा जीह्वावतो बाध्योगात् ।
जीह्वावान् बाध्योगोऽसिताद्वार्षगणात् ।
असितो वार्षगणो हरितात्कश्यपात् ।
हरितः कश्यपः शिल्पात्कश्यपात् ।
शिल्पः कश्यपः कश्यपान्नैध्रुवेः ।
कश्यपो नैध्रुविर्वाचः ।
वागम्भिण्याः ।
अम्भिण्यादित्यात् ।
आदित्यानीमानि शुक्लानि यजूंषि वाजसनेयेन याज्ञवल्क्येनाख्ययन्ते ॥ बृह. ६,५.३ ॥


समानमा साञ्जीवीपुत्रात् ।
सञ्जिवीपुत्रो माण्डूकायनेः ।
माण्डूकायनिर्माण्डव्यात् ।
माण्डव्यः कौत्सात् ।
कौत्सो माहित्थेः ।
माहित्थिर्वामकक्षायणात् ।
वामकक्षायणः शाण्डिल्यात् ।
शाण्डिल्यो वात्स्यात् ।
वात्स्यः कुश्रेः ।
कुश्रिर्यज्ञवचसः राजस्तम्बायनात् ।
यज्ञवचा राजस्तम्बायनः तुरात्कावषेयात् ।
तुरः कावषेयः प्रजापतेः ।
प्रजापतिर्ब्रह्मणः ।
ब्रह्म स्वयंभु ।
ब्रह्मणे नमः ॥ बृह. ६,५.४ ॥


इति पञ्चमं ब्राह्मणम् ॥

इति बृहदारण्यकोपनिषदि षष्ठोऽध्यायः ॥

इति वाजसनेयके बृहदारण्यकोपनिषत्समाप्ता ॥

प्रथमोऽध्यायः

द्वितीयोऽध्यायः

तृतीयोऽध्यायः

चतुर्थोऽध्यायः

पञ्चमोऽध्यायः

षष्ठोऽध्यायः

"https://sa.wikisource.org/w/index.php?title=बृहदारण्यक_उपनिषद्_6p&oldid=300812" इत्यस्माद् प्रतिप्राप्तम्