बृहदारण्यक उपनिषद् 4p

विकिस्रोतः तः
Jump to navigation Jump to search

अथ चतुर्तोऽध्यायः ।

प्रथमं ब्राह्मणम्

मन्त्र १ [IV.i.1] ॐ जनको ह वैदेह आसां चक्रे ऽथ ह याज्ञवल्क्य आवव्राज । त होवाच याज्ञवल्क्य किमर्थमचारीः पशूनिच्छन्नण्वन्तानित्य् उभयमेव सम्राड् इति होवाच ॥ १ ॥

मन्त्र २[IV.i.2] यत्ते कश्चिदब्रवीत् तच्छृणवामेत्य् अब्रवीन् मे जित्वा शैलिनिर्वाग्वै ब्रह्मेति । यथा मातृमान्पितृमानाचार्यवान्ब्रूयात् तथा तच्छैलिरब्रवीद् वाग्वै ब्रह्मेत्य् अवदतो हि कि स्यादित्य् अब्रवीत्तु ते तस्याऽऽयतनं प्रतिष्ठाम् । न मेऽब्रवीदित्य् एकपाद्वा एतत् सम्राड् इति । स वै नो ब्रूहि याज्ञवल्क्य । वागेवाऽऽयतनम् आकाशः प्रतिष्ठा प्रज्ञेत्येनदुपासीत । का प्रज्ञता याज्ञवल्क्य । वागेव सम्राड् इति होवाच वाचा वै सम्राड् बन्धुः प्रज्ञायत ऋग्वेदो यजुर्वेदः सामवेदोऽथर्वाङ्गिरस इतिहासः पुराणं विद्या उपनिषदः श्लोकाः सूत्राण्यनुव्याख्यानानि व्याख्यानानीष्ट हुतमाशितं पायितमयं च लोकः परश्च लोकः सर्वाणि च भूतानि वाचैव सर्वाणि च भूतानि वाचा एव सम्राट् प्रज्ञायन्ते वाग्वै सम्राट् परमं ब्रह्म नैनं वाग्जहाति सर्वाण्येनं भूतान्यभिक्षरन्ति । देवो भूत्वा देवानप्येति य एवं विद्वानेतदुपास्ते । हस्त्यृषभ सहस्रं ददामीति होवाच जनको वैदेहः । स होवाच याज्ञवल्क्यः पिता मेऽमन्यत नाननुशिष्य हरेतेति ॥ २ ॥

मन्त्र ३[IV.i.3] यदेव ते कश्चिदब्रवीत्तच्छृणवामेत्य् अब्रवीन्म ऊदङ्कः शौल्बायनः प्राणो वै ब्रह्मेति । यथा मातृमान्पितृमानाचार्यवान्ब्रूयात् तथा तच्छौल्वायनोऽब्रवीत् प्राणो वै ब्रह्मेत्य् अप्राणतो हि कि स्यादित्य् अब्रवीत्तु ते तस्याऽऽयतनं प्रतिष्ठाम् । न मेऽब्रवीदित्य् एकपाद्वा एतत् सम्राड् इति । स वै नो ब्रूहि याज्ञवल्क्य । प्राण एवाऽऽयतनम् आकाशः प्रतिष्ठा प्रियमित्येनदुपासीत । का प्रियता याज्ञवल्क्य । प्राण एव सम्राड् इति होवाच प्राणस्य वै सम्राट् कामायायाज्यं याजयत्य् अप्रतिगृह्यस्य प्रतिगृह्णात्य् अपि तत्र वधाशङ्कं भवति यां दिशमेति प्राणस्यैव सम्राट् कामाय प्राणो वै सम्राट् परमं ब्रह्म । नैनं प्राणो जहाति सर्वाण्येनं भूतान्यभिक्षरन्ति । देवो भूत्वा देवानप्येति य एवं विद्वानेतदुपास्ते । हस्त्यृषभ सहस्रं ददामीति होवाच जनको वैदेहः । स होवाच याज्ञवल्क्यः पिता मेऽमन्यत नाननुशिष्य हरेतेति ॥ ३ ॥

मन्त्र ४[IV.i.4] यदेव ते कश्चिदब्रवीत् तच्छृणवामेत्य् अब्रवीन्मे बर्कुर्वार्ष्णश् चक्षुर्वै ब्रह्मेति । यथा मातृमान्पितृमानाचार्यवान् ब्रूयात् तथा तद्वार्ष्णोऽब्रवीत्च् चक्षुर्वै ब्रह्मेत्य् अपश्यतो हि कि स्यादित्य् अब्रवीत्तु ते तस्याऽऽयतनं प्रतिष्ठाम् । न मेऽब्रवीदित्य् एकपाद्वा एतत् सम्राड् इति । स वै नो ब्रूहि याज्ञवल्क्य । चक्षुरेवाऽऽयतनम् आकाशः प्रतिष्ठा सत्यमित्येतदुपासीत । का सत्यता याज्ञवल्क्य । चक्षुरेव सम्राड् इति होवाच चक्षुषा वै सम्राट् पश्यन्तमाहुर् अद्राक्षीरिति । स आहाद्राक्षमिति तत्सत्यं भवति चक्षुर्वै सम्राट् परमं ब्रह्म नैनं चक्षुर्जहाति सर्वाण्येनं भूतान्यभिक्षरन्ति । देवो भूत्वा देवानप्येति य एवं विद्वानेतदुपास्ते । हस्त्यृषभ सहस्रं ददामीति होवाच जनको वैदेहः । स होवाच याज्ञवल्क्यः पिता मेऽमन्यत नाननुशिष्य हरेतेति ॥४ ॥

मन्त्र ५[IV.i.5] यदेव ते कश्चिदब्रवीत् तच्छृणवामेत्य् अब्रवीन्मे गर्दभीविपीतो भारद्वाजः श्रोत्रं वै ब्रह्मेति यथा मातृमान्पितृमानाचार्यवान्ब्रूयात् तथा तद्भारद्वाजोऽब्रवीच् छ्रोत्रं वै ब्रह्मेत्य् अशृण्वतो हि कि स्यादित्य् अब्रवीत्तु ते तस्याऽऽयतनं प्रतिष्ठाम् । न मेऽब्रवीदित्य् एकपाद्वा एतत् सम्राड् इति । स वै नो ब्रूहि याज्ञवल्क्य । श्रोत्रमेवाऽऽयतनम् आकाशः प्रतिष्ठाऽनन्तमित्येनदुपासीत । काऽनन्तता याज्ञवल्क्य । दिश एव सम्राड् इति होवाच तस्माद्वै सम्राड् अपि यां काञ्च दिशं गच्छति नैवास्या अन्तं गच्छत्य् अनन्ता हि दिशो दिशो वै सम्राट् श्रोत्रश्रोत्रं वै सम्राट् परमं ब्रह्म । नैन श्रोत्रं जहाति सर्वाण्येनं भूतान्यभिक्षरन्ति । देवो भूत्वा देवानप्येति य एवं विद्वानेतदुपास्ते । हस्त्यृषभ सहस्रं ददामीति होवाच जनको वैदेहः । स होवाच याज्ञवल्क्यः पिता मेऽमन्यत नाननुशिष्य हरेतेति ॥ ५ ॥

मन्त्र ६[IV.i.6] यदेव ते कश्चिदब्रवीत् तच्छृणवामेत्य् अब्रवीन्मे सत्यकामो जाबालो मनो वै ब्रह्मेति यथा मातृमान्पितृमानाचार्यवान्ब्रूयात् तथा तज्जाबालो अब्रवीन् मनो वै ब्रह्मेत्य् अमनसो हि कि स्यादित्य् अब्रवीत्तु ते तस्याऽऽयतनं प्रतिष्ठाम् । न मेऽब्रवीदित्य् एकपाद्वा एतत् सम्राड् इति । स वै नो ब्रूहि याज्ञवल्क्य । मन एवाऽऽयतनम् आकाशः प्रतिष्ठाऽऽनन्द इत्येनदुपासीत । काऽऽनन्दता याज्ञवल्क्य । मन एव सम्राड् इति होवाच मनसा वै सम्राट् स्त्रियमभिहार्यते तस्यां प्रतिरूपः पुत्रो जायते स आनन्दो । मनो वै सम्राट् परमं ब्रह्म नैनं मनो जहाति सर्वाण्येनं भूतान्यभिक्षरन्ति । देवो भूत्वा देवानप्येति य एवं विद्वानेतदुपास्ते । हस्त्यृषभ सहस्रं ददामीति होवाच जनको वैदेहः । स होवाच याज्ञवल्क्यः पिता मेऽमन्यत नाननुशिष्य हरेतेति ॥ ६ ॥

मन्त्र ७[IV.i.7] यदेव ते कश्चिदब्रवीत् तच्छृणवामेत्य् अब्रवीन्मे विदग्धः शाकल्यो हृदयं वै ब्रह्मेति यथा मातृमान्पितृमानाचार्यवान्ब्रूयात् तथा तच्छाकल्योऽब्रवीद् धृदयं वै ब्रह्मेत्य् अहृदयस्य हि कि स्यादित्य् अब्रवीत्तु ते तस्याऽऽयतनं प्रतिष्ठां ‍ । न मेऽब्रवीदित्य् एकपाद्वा एतत् सम्राड् इति । स वै नो ब्रूहि याज्ञवल्क्य । हृदयमेवाऽऽयतनम् आकाशः प्रतिष्ठा स्थितिरित्येनदुपासीत । का स्थितिता याज्ञवल्क्य । हृदयमेव सम्राड् इति होवाच हृदयं वै सम्राट् सर्वेषां भूतानामायतन हृदयं वै सम्राट्, सर्वेषां भूतानां प्रतिष्ठा हृदये ह्येव सम्राट् सर्वाणि भूतानि प्रतिष्ठितानि भवन्ति हृदयं वै सम्राट् परमं ब्रह्म नैन हृदयं जहाति सर्वाण्येनं भूतान्यभिक्षरन्ति । देवो भूत्वा देवानप्येति य एवं विद्वानेतदुपास्ते । हस्त्यृषभ सहस्रं ददामीति होवाच जनको वैदेहः । स होवाच याज्ञवल्क्यः पिता मेऽमन्यत नाननुशिष्य हरेतेति ॥ ७ ॥

इति प्रथमं ब्राह्मणम् ॥

द्वितीयं ब्राह्मणम् ।

मन्त्र १[IV.2.1] जनको ह वैदेहः कूर्चादुपावसर्पन्नुवाच नमस्तेऽस्तु याज्ञवल्क्यानु मा शाधीति । स होवाच यथा वै सम्राण् महान्तमध्वानमेष्यन्रथं वा नावं वा समाददीतैवमेवैताभिरुपनिषद्भिः समाहितात्माऽस्य् असि एवं वृन्दारक आढ्यः सन्नधीतवेद उक्तोपनिषत्क इतो विमुच्यमानः क्व गमिष्यसीति । नाहं तद् भगवन् वेद यत्र गमिष्यामीत्य् अथ वै तेऽहं तद्वक्ष्यामि यत्र गमिष्यसीति । ब्रवीतु भगवानिति ॥ १ ॥

मन्त्र २[IV.2.2] इन्धो ह वै नामैष योऽयं दक्षिणेऽक्षन्पुरुषस् तं वा एतमिन्ध सन्तमिन्द्र इत्याचक्षते परोक्षेणैव परोक्षप्रिया इव हि देवाः प्रत्यक्षद्विषः ॥ २ ॥

मन्त्र ३[IV.2.3] अथैतद्वामेऽक्षणि पुरुषरूपम् एषाऽस्य पत्नी विराट् तयोरेष सꣳस्तावो य एषोऽन्तर्हृदय आकाशो ऽथैनयोरेतदन्नं य एषोऽन्तर्हृदये लोहितपिण्डो ऽथैनयोरेतत्प्रावरणं यदेतदन्तर्हृदये जालकमिवाथैनयोरेषा सृतिः सञ्चरणी यैषा हृदयादूर्ध्वा नाड्युच्चरति । यथा केशः सहस्रधा भिन्न एवमस्यैता हिता नाम नाड्योऽन्तर्हृदये प्रतिष्ठिता भवन्त्य् एवम् अस्य एतास् हितास् नाम नाड्यस् अन्तर्हृदये प्रतिष्ठितास् भवन्ति एताभिर्वा एतदास्रवदास्रवति तस्मादेष प्रविविक्ताहारतर इवैव भवत्यस्माच्छारीरादात्मनः ॥ ३ ॥

मन्त्र ४[IV.2.4] तस्य प्राची दिक्प्राञ्चः प्राणाः दक्षिणा दिग्दक्षिणे प्राणाः प्रतीची दिक्प्रत्यञ्चः प्राणा उदीची दिगुदञ्चः प्राणाः ऊर्ध्वा दिगूर्ध्वाः प्राणाः अवाची दिगवाञ्चः प्राणाः सर्वा दिशः सर्वे प्राणाः । स एष नेति नेत्याऽत्मागृह्यो न हि गृह्यतेऽशीर्यो न हि शीर्यते ऽसङ्गो न हि सज्यतेऽसितो न व्यथते न रिष्यत्य् व्यथते असङ्गस् न हि सज्यते असितस् न व्यथते न रिष्यति अभयं वै जनक प्राप्तोऽसीति होवाच याज्ञवल्क्यः । स होवाच जनको वैदेहोऽभयं त्वा गच्छताद् याज्ञवल्क्य यो नो भगवन्न् अभयं वेदयसे नमस्तेऽस्त्व् इमे विदेहा अयमहमस्मि ॥ ४ ॥

इति द्वितीयं ब्राह्मणम् ॥

तृतीयं ब्राह्मणम् ।

मन्त्र १[IV.3.1] जनक ह वैदेहं याज्ञवल्क्यो जगाम स मेने न वदिष्य इति स मेने न वदिष्य इत्य् अथ ह यज्जनकश्च वैदेहो याज्ञवल्क्यश्चाग्निहोत्रे समूदाते तस्मै ह याज्ञवल्क्यो वरं ददौ । स ह कामप्रश्नमेव वव्रे । त हास्मै ददौ । त ह सम्राडेव पूर्वं पप्रच्छ ॥ १ ॥

मन्त्र २[IV.3.2] याज्ञवल्क्य किञ्ज्योतिरयं पुरुष इत्य् आदित्यज्योतिः सम्राड् इति होवाचाऽऽदित्येनैवायं ज्योतिषाऽऽस्ते पल्ययते कर्म कुरुते विपल्येतीत्य् एवमेवैतद् याज्ञवल्क्य ॥ २ ॥

मन्त्र ३[IV.3.3] अस्तमित आदित्ये याज्ञवल्क्य किञ्ज्योतिरेवायं पुरुष इति । चन्द्रमा एवास्य ज्योतिर्भवतीति चन्द्रमसैवायं ज्योतिषास्ते पल्ययते कर्म कुरुते विपल्येतीत्य् एवमेवैतद् याज्ञवल्क्य ॥ ३ ॥

मन्त्र ४[IV.3.4] अस्तमित आदित्ये याज्ञवल्क्य चन्द्रमस्यस्तमिते किञ्ज्योतिरेवायं पुरुष इत्य् अग्निरेवास्य ज्योतिर्भवत्य् अग्निनैवायं ज्योतिषाऽऽस्ते पल्ययते कर्म कुरुते विपल्येतीत्य् एवमेवैतद् याज्ञवल्क्य ॥ ४ ॥

मन्त्र ५[IV.3.5] अस्तमित आदित्ये याज्ञवल्क्य चन्द्रमस्यस्तमिते शान्तेऽग्नौ किञ्ज्योतिरेवायं पुरुष इति । वागेवास्य ज्योतिर्भवतीति वाचैवायं ज्योतिषास्ते पल्ययते कर्म कुरुते विपल्येतीति । तस्माद्वै सम्राड् अपि यत्र स्वः पाणिर्न विनिर्ज्ञायते ऽथ यत्र वागुच्चरत्य् उपैव तत्र न्येतीत्य् एवमेवैतद् याज्ञवल्क्य ॥ ५ ॥

मन्त्र ६[IV.3.6] अस्तमित आदित्ये याज्ञवल्क्य चन्द्रमस्यस्तमिते शान्तेऽग्नौ शान्तायां वाचि किञ्ज्योतिरेवायं पुरुष इत्य् आत्मैवास्य ज्योतिर्भवत्य् आत्मनैवायं ज्योतिषाऽऽस्ते पल्ययते कर्म कुरुते विपल्येतीति ॥६ ॥

मन्त्र ७[IV.3.7] कतम आत्मेति । योऽयं विज्ञानमयः प्राणेषु हृद्यन्तर्ज्योतिः विज्ञानमयः प्राणेषु हृद्यन्तर्ज्योतिः पुरुषः पुरुषस् स समानः सन्नुभौ लोकावनुसञ्चरति । ध्यायतीव लेलायतीव स हि स्वप्नो भूत्वेमं लोकमतिक्रामति मृत्यो रूपाणि ॥ ७ ॥

मन्त्र ८[IV.3.8] स वा अयं पुरुषो जायमानः शरीरमभिसम्पद्यमानः पाप्मभिः ससृज्यते । स उत्क्रामन्म्रियमाणः पाप्मनो विजहाति ॥ ८ ॥

मन्त्र ९[IV.3.9] तस्य वा एतस्य पुरुषस्य द्वे एव स्थाने भवत इदं च परलोकस्थानं च सन्ध्यं तृतीय स्वप्नस्थानम् तस्मिन्सन्ध्ये स्थाने तिष्ठन्नेते उभे स्थाने पश्यतीदं च परलोकस्थानं च अथ यथाक्रमोऽयं परलोकस्थाने भवति तमाक्रममाक्रम्योभयान्पाप्मन आनन्दाश्च पश्यति । पश्यति स यत्र प्रस्वपित्य् अस्य लोकस्य सर्वावतो मात्रामपादाय स्वयं विहत्य स्वयं निर्माय स्वेन भासा स्वेन ज्योतिषा प्रस्वपित्य् अत्रायं पुरुषः स्वयं ज्योतिर्भवति ॥ ९ ॥

मन्त्र १०[IV.3.10] न तत्र रथा न रथयोगा न पन्थानो भवन्त्य् अथ रथान्रथयोगान्पथः सृजते । न तत्राऽऽनन्दा मुदः प्रमुदो भवन्त्य् अथाऽऽनन्दान्मुदः प्रमुदः सृजते । न तत्र वेशान्ताः पुष्करिण्यः स्रवन्त्यो भवन्त्य् अथ वेशान्तान्पुष्करिणीः स्रवन्तीः सृजते स हि कर्ता ॥ १० ॥

मन्त्र ११[IV.3.11] तदेते श्लोका भवन्ति स्वप्नेन शारीरमभिप्रहत्या सुप्तः सुप्तानभिचाकशीति । शुक्रमादाय पुनरैति स्थान हिरण्मयः पुरुष एकहसः ॥ ११ ॥

मन्त्र १२[IV.3.12] प्राणेन रक्षन्नपरं कुलायम् बहिष्कुलायादमृतश्चरित्वा स ईयतेऽमृतो यत्रकाम हिरण्मयः पुरुष एकहसः ॥ १२ ॥

मन्त्र १३[IV.3.13] स्वप्नान्त उच्चावचमीयमानो रूपाणि देवः कुरुते बहूनि । उतेव स्त्रीभिः सह मोदमानो जक्षदुतेवापि भयानि पश्यन् ॥ १३ ॥

मन्त्र १४[IV.3.14] आराममस्य पश्यन्ति न तं पश्यति कश्चनेति । तं नाऽऽयतं बोधयेदित्याहुः । दुर्भिषज्य हास्मै भवति यमेष न प्रतिपद्यते ॥ अथो खल्वाहुर् जागरितदेश एवास्यैष यानि ह्येव जाग्रत् पश्यति तानि सुप्त इत्यत्रायं पुरुषः स्वयं ज्योतिर्भवति । सोऽहं भगवते सहस्रं ददाम्य् अत ऊर्ध्वं विमोक्षाय ब्रूहीति ॥ १४ ॥

मन्त्र १५[IV.3.15] स वा एष एतस्मिन्सम्प्रसादे रत्वा चरित्वा दृष्ट्वैव पुण्यं च पापं च पुनः प्रतिन्यायं प्रतियोन्याद्रवति स्वप्नायैव एव स यत्तत्र किञ्चित्पश्यत्यनन्वागतस्तेन भवत्य् असङ्गो ह्ययं पुरुष इत्य् एवमेवैतद् याज्ञवल्क्य । सोऽहं भगवते सहस्रं ददाम्य् अत ऊर्ध्वं विमोक्षायैव ब्रूहीति ॥ १५ ॥

मन्त्र १६[IV.3.16] स वा एष एतस्मिन्त्स्वप्ने रत्वा चरित्वा दृष्ट्वैव पुण्यं च पापं च पुनः प्रतिन्यायं प्रतियोन्याद्रवति बुद्धान्तायैव आद्रवति बुद्धान्ताय एव स यत्तत्र किञ्चित्पश्यत्यनन्वागतस्तेन भवत्य् असङ्गो ह्ययं पुरुष इत्य् एवमेवैतद् याज्ञवल्क्य । सोऽहं भगवते सहस्रं ददाम्य् अत ऊर्ध्वं विमोक्षायैव ब्रूहीति ॥ १६ ॥

मन्त्र १७[IV.3.17] स वा एष एतस्मिन्बुद्धान्ते रत्वा चरित्वा दृष्ट्वैव पुण्यं च पापं च पुनः प्रतिन्यायं प्रतियोन्याद्रवति स्वप्नान्तायैव ॥१७ ॥

आद्रवति स्वप्नान्ताय एव

मन्त्र १८[IV.3.18] तद्यथा महामत्स्य उभे कूलेऽनुसञ्चरति पूर्वं चापरं चैवमेवायं पुरुष एतावुभावन्तावनुसञ्चरति स्वप्नान्तं च बुद्धान्तं च ॥ १८ ॥

अन्तौ अनुसञ्चरति स्वप्नान्तम् च बुद्धान्तम् च

मन्त्र १९[IV.3.19] तद्यथास्मिन्नाऽकाशे श्येनो वा सुपर्णो वा विपरिपत्य श्रान्तः सहत्य पक्षौ संलयायैव ध्रियत ध्रियते एवमेवायं पुरुष एतस्मा अन्ताय धावति यत्र सुप्तो न कं चन कामं कामयते न कं चन स्वप्नं पश्यति ॥ १९ ॥

स्वप्नम् पश्यति

मन्त्र २०[IV.3.20] ता वा अस्यैता हिता नाम नाड्यो यथा केशः सहस्रधा भिन्नस्तावताऽणिम्ना तिष्ठन्ति शुक्लस्य नीलस्य पिङ्गलस्य हरितस्य लोहितस्य पूर्णा । नीलस्य पिङ्गलस्य हरितस्य लोहितस्य पूर्णास् अथ यत्रैनं घ्नन्तीव जिनन्तीव हस्तीव विच्छाययति गर्तमिव पतति यदेव जाग्रद्भयं पश्यति तदत्राविद्यया मन्यते ऽथ यत्र देव इव राजेवाहमेवेद सर्वोऽस्मीति मन्यते सोऽस्य परमो लोकाः ॥ २० ॥

मन्त्र २१[IV.3.21] तद्वा अस्यैतदतिच्छन्दा अपहतपाप्माभय रूपम् । तद्यथा प्रियया स्त्रिया सम्परिष्वक्तो न बाह्यं किं चन वेद नाऽऽन्तरमेवमेवायं पुरुषः प्राज्ञेनाऽऽत्मना सम्परिष्वक्तो न बाह्यं किं चन वेद नाऽऽन्तरम् । सम्परिष्वक्तस् न बाह्यम् किम् चन वेद न अन्तरम् तद्वा अस्यैतदाप्तकाममात्मकाममकामं रूपम् शोकान्तरम् ॥ २१ ॥

मन्त्र २२[IV.3.22] अत्र पिताऽपिता भवति माताऽमाता लोका अलोका देवा अदेवा वेदा अवेदा अत्र स्तेनोऽस्तेनो भवति भ्रूणहाऽभ्रूणहा चाण्डालोऽचण्डालः पौल्कसोऽपौल्कसो श्रमणोऽश्रमण स्तापसोऽतापसोऽनन्वागतं पुण्येनानन्वागतं पापेन अश्रमणस् तापसस् अतापसस् अनन्वागतस् पुण्येन अनन्वागतस् पापेन तीर्णो हि तदा सर्वाञ्छोकान्हृदयस्य भवति ॥ २२ ॥

मन्त्र २३[IV.3.23] यद्वै तन्न पश्यति पश्यन्वै तन्न पश्यति न हि द्रष्टुर्दृष्टेर्विपरिलोपो विद्यतेऽविनाशित्वान् न तु तद्द्वितीयमस्ति ततोऽन्यद्विभक्तं यत्पश्येत् ॥ २३ ॥

मन्त्र २४[IV.3.24] यद्वै तन्न जिघ्रति जिघ्रन्वै तन्न जिघ्रति न हि घ्रातुर्घ्रातेर्विपरिलोपो विद्यतेऽविनाशित्वान् न तु तद्द्वितीयमस्ति ततोऽन्यद्विभक्तं यज्जिघ्रेत् ॥ २४ ॥

मन्त्र २५[IV.3.25] यद्वै तन्न रसयते रसयन्वै तन्न रसयते न हि रसयितू रसयितेर्विपरिलोपो विद्यतेऽविनाशित्वान् न तु तद्द्वितीयमस्ति ततोऽन्यद्विभक्तं यद्रसयेत् ॥ २५ ॥

मन्त्र २६[IV.3.26] यद्वै तन्न वदति वदन्वै तन्न वदति न हि वक्तुर्वक्तेर्विपरिलोपो विद्यतेऽविनाशित्वान् न तु तद्द्वितीयमस्ति ततोऽन्यद्विभक्तं यद्वदेत् ॥ २६ ॥

मन्त्र २७[IV.3.27] यद्वै तन्न शृणोति शृण्वन्वै तन्न शृणोति न हि श्रोतुः श्रुतेर्विपरिलोपो विद्यतेऽविनाशित्वान् न तु तद्द्वितीयमस्ति ततोऽन्यद्विभक्तं यच्छृणुयात् ॥ २७ ॥

मन्त्र २८[IV.3.28] यद्वै तन्न मनुते मन्वानो वै तन्न मनुते न हि मन्तुर्मतेर्विपरिलोपो विद्यतेऽविनाशित्वान् न तु तद्द्वितीयमस्ति ततोऽन्यद्विभक्तं यन्मन्वीत ॥ २८ ॥

मन्त्र २९[IV.3.29] यद्वै तन्न स्पृशति स्पृशन्वै तन्न स्पृशति न हि स्प्रष्टुः स्पृष्टेर्विपरिलोपो विद्यतेऽविनाशित्वान् न तु तद्द्वितीयमस्ति ततोऽन्यद्विभक्तं यत्स्पृशेत् ॥ २९ ॥

मन्त्र ३०[IV.3.30] यद्वै तन्न विजानाति विजानन्वै तन्न विजानाति न हि विज्ञातुर्विज्ञातेर्विपरिलोपो विद्यतेऽविनाशित्वान् न तु तद्द्वितीयमस्ति ततोऽन्यद्विभक्तं यद्विजानीयात् ॥ ३० ॥

मन्त्र ३१[IV.3.31] यत्र वा अन्यदिव स्यात् तत्रान्योऽन्यत्पश्येद् अन्योऽन्यज्जिघ्रेद् अन्योऽन्यद्रसयेद् अन्योऽन्यद्वदेद् अन्योऽन्यच्छृणुयाद् अन्योऽन्यन्मन्वीता न्योऽन्यत्स्पृशेद् अन्योऽन्यद्विजानीयात् ॥ ३१ ॥

मन्त्र ३२[IV.3.32] सलिल एको द्रष्टाद्वैतो भवत्य् एष ब्रह्मलोकः सम्राड् इति हैनमनुशशास याज्ञवल्क्य। एषास्य परमा गतिर् एषास्य परमा सम्पद् एषोऽस्य परमो लोक एषोऽस्य परम आनन्द एतस्यैवाऽऽनन्दस्यान्यानि भूतानि मात्रामुपजीवन्ति ॥ ३२ ॥

मन्त्र ३३[IV.3.33] स यो मनूष्याणा राद्धः समृद्धो भवत्यन्येषामधिपतिः सर्वैर्मानुष्यकैर्भोगैः सम्पन्नतमः अन्येषाम् सम्पन्नतमस् स मनुष्याणां परम आनन्दो ऽथ ये शतं मनुष्याणामानन्दाः स एकः पितृणां जितलोकानामानन्दो ऽथ ये शतं पितृणां जितलोकानामानन्दाः स एको गन्धर्वलोक आनन्दो ऽथ ये शतं गन्धर्वलोक आनन्दाः स एकः कर्मदेवानामानन्दो ये कर्मणा देवत्वमभिसम्पद्यन्ते ऽथ ये शतं कर्मदेवानामानन्दाः स एक आजानदेवानामानन्दो यश्च श्रोत्रियोऽवृजिनोऽकामहतो ऽथ ये शतमाजानदेवानामानन्दाः स एकः प्रजापतिलोक आनन्दो यश्च श्रोत्रियोऽवृजिनोऽकामहतो अथ ये शतं प्रजापतिलोक आनन्दाः स एको ब्रह्मलोक आनन्दो यश्च श्रोत्रियोऽवृजिनोऽकामहतो ऽथैष एव परम आनन्द एष ब्रह्मलोकः सम्राड् इति होवाच याज्ञवल्क्यः । सोऽहं भगवते सहस्रं ददाम्य् अत ऊर्ध्वं विमोक्षायैव ब्रूहीत्य् अत्र ह याज्ञवल्क्यो बिभयांचकारः मेधावी राजा सर्वेभ्यो माऽन्तेभ्य उदरौत्सीदिति ॥ ३३ ॥

मन्त्र ३४[IV.3.34] स वा एष एतस्मिन्स्वप्नान्ते रत्वा चरित्वा दृष्ट्वैव पुण्यं च पापं च पुनः प्रतिन्यायं प्रतियोन्याद्रवति बुद्धान्तायैव ॥३४ ॥

मन्त्र ३५[IV.3.35] तद्यथाऽनः सुसमाहितमुत्सर्जद्यायादेवमेवाय शारीर आत्मा प्राज्ञेनाऽऽत्मनाऽन्वारूढ उत्सर्जन्याति यत्रैतदूर्ध्वोच्छ्वासी भवति ॥ ३५ ॥

उत्सर्जम् याति यत्र एतद् ऊर्ध्वोच्छ्वासी भवति

मन्त्र ३६[IV.3.36] स यत्रायमणिमानं न्येति जरया वोपतपता वाऽणिमानं निगच्छति तद्यथाऽऽम्रं वोदुम्बरं वा पिप्पलं वा बन्धनात्प्रमुच्यत एवमेवायं पुरुष एभ्योऽङ्गेभ्यः सम्प्रमुच्य पुनः प्रतिन्यायं प्रतियोन्याद्रवति प्राणायैव ॥ ३६ ॥

प्राणाय एव

मन्त्र ३७[IV.3.37] तद्यथा राजानमायन्तमुग्राः प्रत्येनसः सूतग्रामण्योऽन्नैः पानैरवसथैः प्रतिकल्पन्ते अयमायात्ययमागच्छतीत्य् एव हैवंविद सर्वाणि भूतानि प्रतिकल्पन्त इदं ब्रह्माऽऽयातीदमागच्छतीति ॥ ३७ ॥

मन्त्र ३८[IV.3.38] तद्यथा राजानं प्रयियासन्तमुग्राः प्रत्येनसः सूतग्रामण्योऽभिसमायन्त्य् एवमेवेममात्मानमन्तकाले सर्वे प्राणा अभिसमायन्ति यत्रैतदूर्ध्वोच्छ्वासी भवति ॥ ३८ ॥

इति तृतीयं ब्राह्मणम् ॥

चतुर्थं ब्राह्मणम् ।

मन्त्र १[IV.iv.1] स यत्रायमात्माऽबल्यं न्येत्य सम्मोहमिव न्येत्य् अथैनमेते प्राणा अभिसमायन्ति स एतास्तेजोमात्राः समभ्याददानो हृदयमेवान्ववक्रामति स यत्रैष चाक्षुषः पुरुषः पराङ्पर्यावर्तते ऽथारूपज्ञो भवति ॥ १ ॥

मन्त्र २[IV.iv.2] एकीभवति न पश्यतीत्याहुर् एकीभवति न जिघ्रतीत्याहुर् एकीभवति न रसयतीत्याहुर् एकीभवति न वदतीत्याहुर् एकीभवति न शृणोतीत्याहुर् एकीभवति न मनुत इत्याहुर् एकीभवति न स्पृशतीत्याहुर् एकीभवति न विजानातीत्याहुस् तस्य हैतस्य हृदयस्याग्रं प्रद्योतते तेन प्रद्योतेनैष आत्मा निष्क्रामति चक्षुष्टो वा मूर्ध्नो वाऽन्येभ्यो वा शरीरदेशेभ्यस् तमुत्क्रामन्तं प्राणोऽनूत्क्रामति प्राणमनूत्क्रामन्त सर्वे प्राणा अनूत्क्रामन्ति । सविज्ञानो भवति सविज्ञानमेवान्ववक्रामति । तं विद्याकर्मणी समन्वारभेते पूर्वप्रज्ञा च ॥ २ ॥

मन्त्र ३[IV.iv.3] तद्यथा तृणजलायुका तृणस्यान्तं गत्वाऽन्यमाक्रममाक्रम्यात्मानमुपसहरत्य् एवमेवायमात्मेद शरीरं निहत्याविद्यां गमयित्वाऽन्यमाक्रममाक्रम्याऽऽत्मानमुपसहरति ॥ ३ ॥

मन्त्र ४[IV.iv.4] तद्यथा पेशस्कारी पेशसो मात्राम् अपादायान्यन्नवतरं कल्याणतर रूपं तनुत एवमेवायम् आत्मेद शरीरं निहत्याविद्यां गमयित्वाऽन्यन्नवतरं कल्याणतर रूपं कुरुते पित्र्यं वा गान्धर्वं वा दैवं वा प्राजापत्यं वा ब्राह्मं वाऽन्येषां वा भूतानाम् ॥ ४ ॥

ब्राह्मम् वा प्राजापत्यम् वा दैवम् वा अन्येभ्यस् वा भूतेभ्यस्k गान्धर्वम् वा दैवम् वा प्राजापत्यम् वा ब्राह्मम् वान्येषाम् वा भूतानाम्

मन्त्र ५[IV.iv.5] स वा अयमात्मा ब्रह्म विज्ञानमयो मनोमयः प्राणमयश्चक्षुर्मयः श्रोत्रमयः पृथिवीमय आपोमयो वायुमय आकाशमयस्तेजोमयोऽतेजोमयः काममयोऽकाममयः क्रोधमयोऽक्रोधमयो धर्ममयोऽधर्ममयः सर्वमयस् श्रोत्रमयस् आकाशमयस् वायुमयस् तेजोमयस् आपोमयस् पृथिवीमयस् क्रोधमयस् अक्रोधमयस् हर्षमयस् अहर्षमयस् k श्रोत्रमयस् पृथिवीमयस् आपोमयस् वायुमयस् आकाशमयस् तेजोमयस् अतेजोमयस् काममयस् अकाममयस् क्रोधमयस् अक्रोधमयस् धर्ममयस् अधर्ममयस् सर्वमयः तद्यदेतदिदम्मयोऽदोमय इति यथाकारी यथाचारी तथा भवति । साधुकारी साधुर्भवति पापकारी पापो भवति पुण्यः पुण्येन कर्मणा भवति पापः पापेन । अथो खल्वाहुः काममय एवायं पुरुष इति स यथाकामो भवति तत्क्रतुर्भवति यत्क्रतुर्भवति तत्कर्म कुरुते यत्कर्म कुरुते तदभिसम्पद्यते ॥ ५ ॥

मन्त्र ६[IV.iv.6] तदेष श्लोको भवति । तदेव सक्तः सह कर्मणैति लिङ्गं मनो यत्र निषक्तमस्य । प्राप्यान्तं कर्मणस्तस्य यत्किञ्चेह करोत्ययम् । तस्माल्लोकात्पुनरैत्य् अस्मै लोकाय कर्मण् इति नु कामयमानो ऽथाकामयमानो योऽकामो निष्काम भवति आप्तकाम आत्मकामो न तस्य प्राणा उत्क्रामन्ति k तस्य प्राणास् उत्क्रामन्ति ब्रह्मैव सन्ब्रह्माप्येति ॥ ६ ॥

मन्त्र ७[IV.iv.7] तदेष श्लोको भवति यदा सर्वे प्रमुच्यन्ते कामा येऽस्य हृदि श्रिताः । अथ मर्त्योऽमृतो भवत्य् अत्र ब्रह्म समश्नुत इति ॥ तद्यथाऽहिनिर्व्लयनी वल्मीके मृता प्रत्यस्ता शयीतैवमेवेद शरीर शेते ऽथायमशरीरोऽमृतः प्राणो ब्रह्मैव तेज एव k तेजस् एव सोऽहं भगवते सहस्रं ददामीति होवाच जनको वैदेहः ॥ ७ ॥

मन्त्र ८[IV.iv.8] तदेते श्लोका भवन्ति । अणुः पन्था विततः पुराणो माꣳ स्पृष्टोऽनुवित्तो मयैव । तेन धीरा अपियन्ति ब्रह्मविदः स्वर्गं लोकमित ऊर्ध्वं विमुक्ताः ॥ ८ ॥

मन्त्र ९[IV.iv.9] तस्मिञ्छुक्लमुत नीलमाहुः पिङ्गल हरितं लोहितं च । एष पन्था ब्रह्मणा हानुवित्तस् तेनैति ब्रह्मवित्पुण्यकृत्तैजसश्च ॥ ९ ॥

मन्त्र १०[IV.iv.10] अन्धं तमः प्रविशन्ति येऽविद्यामुपासते । ततो भूय इव ते तमो य उ विद्याया रताः ॥ १० ॥

मन्त्र ११[IV.iv.11] अनन्दा नाम ते लोका अन्धेन तमसाऽऽवृताः तास्ते प्रेत्याभिगच्छन्त्य् अविद्वासोऽबुधो जनाः ॥ ११ ॥

मन्त्र १२[IV.iv.12] आत्मानं चेद्विजानीयाद् अयमस्मीति पूरुषः किमिच्छन्कस्य कामाय शरीरमनुसञ्ज्वरेत् ॥ १२ ॥

मन्त्र १३[IV.iv.13] यस्यानुवित्तः प्रतिबुद्ध आत्मा ऽस्मिन्सन्देह्ये गहने प्रविष्टः । स विश्वकृत् स हि सर्वस्य कर्ता तस्य लोकः स उ लोक एव ॥ १३ ॥

मन्त्र १४[IV.iv.14] इहैव सन्तोऽथ विद्मस्तद्वयं न चेदवेदिर्महती विनष्टिः । ये तद्विदुरमृतास्ते भवन्त्य् अथेतरे दुःखमेवापियन्ति ॥ १४ ॥

मन्त्र १५[IV.iv.15] यदैतमनुपश्यत्य् आत्मानं देवमञ्जसा । ईशानं भूतभव्यस्य न ततो विजुगुप्सते ॥ १५ ॥

मन्त्र १६[IV.iv.16] यस्मादर्वाक्संवत्सरो ऽहोभिः परिवर्तते । तद्देवा ज्योतिषां ज्योतिर् आयुर्होपासतेऽमृतम् ॥ १६ ॥

मन्त्र १७[IV.iv.17] यस्मिन्पञ्च पञ्चजना आकाशश्च प्रतिष्ठितः । तमेव मन्य आत्मानं विद्वान्ब्रह्मामृतोऽमृतम् ॥ १७ ॥

मन्त्र १८[IV.iv.18] प्राणस्य प्राणमुत चक्षुषश्चक्षुर् उत श्रोत्रस्य श्रोत्रं मनसो ये मनो विदुः । ते निचिक्युर्ब्रह्म पुराणमग्र्यम् ॥ १८ ॥

मन्त्र १९[IV.iv.19] मनसैवानुद्रष्टव्यं नेह नानाऽस्ति किं चन । मृत्योः स मृत्युमाप्नोति य इह नानेव पश्यति ॥ १९ ॥

मन्त्र २०[IV.iv.20] एकधैवानुद्रष्टव्यम् एतदप्रमयं ध्रुवम् । विरजः पर आकाशाद् अज आत्मा महान्ध्रुवः ॥ २० ॥

मन्त्र २१[IV.iv.21] तमेव धीरो विज्ञाय प्रज्ञां कुर्वीत ब्राह्मणः । नानुध्यायाद्बहूञ्छब्दान् वाचो विग्लापन हि तद् इति ॥ २१ ॥

मन्त्र २२[IV.iv.22] स वा एष महानज आत्मा योऽयं विज्ञानमयः प्राणेषु य एषोऽन्तर्हृदय आकाशस् तस्मिञ्छेते सर्वस्य वशी सर्वस्येशानः सर्वस्याधिपतिः स न साधुना कर्मणा भूयान्नो एवासाधुना कनीयानेष सर्वेश्वर एष भूताधिपतिरेष भूतपाल एष सेतुर्विधरण एषां लोकानामसम्भेदाय । तमेतं वेदानुवचनेन ब्राह्मणा विविदिषन्ति यज्ञेन दानेन तपसाऽनाशकेनैतमेव विदित्वा मुनिर्भवत्य् ब्रह्मचर्येन यज्ञेन दानेन तपसाऽनाशकेन एतम् एव विदित्वा मुनिस् भवति एतमेव प्रव्राजिनो लोकमिच्छन्तः प्रव्रजन्त्य् एतद्ध स्म वै तत्पूर्वे विद्वासः प्रजां न कामयन्ते किं प्रजया करिष्यामो येषां नोऽयमात्माऽयं लोक इति । ते ह स्म पुत्रैषणायाश्च वित्तैषणायाश्च लोकैषणायाश्च व्युत्थायाथ भिक्षाचर्यं चरन्ति या ह्येव पुत्रैषणा सा वित्तैषणा या वित्तैषणा सा लोकैषणोभे ह्येते एषणे एव भवतः । स एष नेति नेत्यात्माऽगृह्यो न हि गृह्यते ऽशीर्यो न हि शीर्यते ऽसङ्गो न हि सज्यते ऽसितो न व्यथते न रिष्यत्य् एतमु हैवैते न तरत इत्य् अतः पापमकरवमित्यतः कल्याणमकरवमित्युभे उ हैवैष एते तरति नैनं कृताकृते तपतः ॥ २२ ॥

मन्त्र २३[IV.iv.23] तदेतदृचाभ्युक्तम् । एष नित्यो महिमा ब्राह्मणस्य न वर्धते कर्मणा नो कनीयान् । तस्यैव स्यात् पदवित्तं विदित्वा न लिप्यते कर्मणा पापकेनेति । तस्मादेवंविच्छान्तो दान्त उपरतस्तितिक्षुः समाहितो भूत्वाऽऽत्मन्येवाऽऽत्मानं पश्यति सर्वमात्मानं पश्यति नैनं पाप्मा तरति सर्वं पाप्मानं तरति नैनं पाप्मा तपति सर्वं पाप्मानं तपति विपापो विरजोऽविचिकित्सो ब्राह्मणो भवति एष ब्रह्मलोकः सम्राड् इति होवाच याज्ञवल्क्यः । सोऽहं भगवते विदेहान्ददामि माम् चापि सह दास्यायेति ॥ २३ ॥

मन्त्र २४[IV.iv.24] स वा एष महानज आत्माऽन्नादो वसुदानो विन्दते वसु य एवं वेद ॥ २४ ॥

मन्त्र २५[IV.iv.25] स वा एष महानज आत्माऽजरोऽमरोऽमृतोऽभयो ब्रह्माभयं वै ब्रह्माभय हि वै ब्रह्म भवति य एवं वेद ॥ २५ ॥

इति चतुर्थं ब्राह्मणम् ।

पञ्चमं ब्राह्मणम्

मन्त्र १[IV.v.1] अथ ह याज्ञवल्क्यस्य द्वे भार्ये बभूवतुर्मैत्रेयी च कात्यायनी च तयोर्ह मैत्रेयी ब्रह्मवादिनी बभूव स्त्रीप्रज्ञैव तर्हि कात्यायन्य अथ ह याज्ञवल्क्योऽन्यद्वृत्तमुपाकरिष्यन् ॥ १ ॥

मन्त्र २[IV.v.2] मैत्रेयीति होवाच याज्ञवल्क्यः प्रव्रजिष्यन्वा अरेऽहमस्मात्स्थानादस्मि । हन्त तेऽनया कत्यायान्याऽन्तं करवाणीति ॥ २ ॥

मन्त्र ३[IV.v.3] सा होवाच मैत्रेयी यन्नु म इयं भगोः सर्वा पृथिवी वित्तेन पूर्णा स्यात् स्यां न्वहं तेनामृताऽऽहो३ नेति नेति होवाच याज्ञवल्क्यो यथैवोपकरणवतां जीवितं तथैव ते जीवित स्याद् अमृतत्वस्य तु नाऽऽशाऽस्ति वित्तेनेति ॥ ३ ॥

मन्त्र ४[IV.v.4] सा होवाच मैत्रेयी येनाहं नामृता स्यां किमहं तेन कुर्याम् । यदेव भगवान्वेद तदेव मे ब्रूहीति ॥ ४ ॥

मन्त्र ५[IV.v.5] स होवाच याज्ञवल्क्यः प्रिया वै खलु नो भवती सती प्रियमवृधद् धन्त तर्हि भवत्य् एतद् व्याख्यास्यामि ते व्याचक्षाणस्य तु मे निदिध्यासस्वेति ॥ ५ ॥

मन्त्र ६[IV.v.6] स होवाच न वा अरे पत्युः कामाय पतिः प्रियो भवत्य् आत्मनस्तु कामाय पतिः प्रियो भवति । न वा अरे जायायै कामाय जाया प्रिया भवत्य् आत्मनस्तु कामाय जाया प्रिया भवति । न वा अरे पुत्राणां कामाय पुत्राः प्रिया भवन्त्य् आत्मनस्तु कामाय पुत्राः प्रिया भवन्ति । न वा अरे वित्तस्य कामाय वित्तं प्रियं भवत्य् आत्मनस्तु कामाय वित्तं प्रियं भवति ॥ न वा अरे पशूनां कामाय पशवः प्रिया भवन्ति आत्मनस्तु कामाय पशवः प्रिया भवन्ति । न वा अरे ब्रह्मणः कामाय ब्रह्म प्रियं भवत्य् आत्मनस्तु कामाय ब्रह्म प्रियं भवति । न वा अरे क्षत्रस्य कामाय क्षत्रं प्रियं भवत्य् आत्मनस्तु कामाय क्षत्रं प्रियं भवति । न वा अरे लोकानां कामाय लोकाः प्रिया भवन्त्य् आत्मनस्तु कामाय लोकाः प्रिया भवन्ति । न वा अरे देवानां कामाय देवाः प्रिया भवन्त्य् आत्मनस्तु कामाय देवाः प्रिया भवन्ति । न वा अरे वेदानां कामाय वेदाः प्रिया भवन्त्य् आत्मनस्तु कामाय वेदाः प्रिया भवन्ति । न वा अरे भूतानां कामाय भूतानि प्रियाणि भवन्त्य् आत्मनस्तु कामाय भूतानि प्रियाणि भवन्ति । न वा अरे सर्वस्य कामाय सर्वं प्रियं भवत्य् आत्मनस्तु कामाय सर्वं प्रियं भवत्य् आत्मा वा अरे द्रष्टव्यः श्रोतव्यो मन्तव्यो निदिध्यासितव्यो मैत्रेय्य् आत्मनि खल्वरे दृष्टे श्रुते मते विज्ञात इद सर्वं विदितम् । ॥ ६ ॥

मन्त्र ७[IV.v.7] ब्रह्म तं परादाद् योऽन्यत्राऽऽत्मनो ब्रह्म वेद क्षत्रं तं परादाद् योऽन्यत्राऽऽत्मनः क्षत्रं वेद लोकास्तं परादुः योऽन्यत्राऽऽत्मनो लोकान्वेद देवास्तं परादुः योऽन्यत्रात्मनो देवान्वेद वेदास्तं परादुर् योऽन्यत्रात्मनो वेदान्वेद भूतानि तं परादुर् योऽन्यत्राऽऽत्मनो भूतानि वेद सर्वं तं परादाद् योऽन्यत्राऽऽत्मनः सर्वं वेद् एदं ब्रह्मेदं क्षत्रमिमे लोका इमे देवा इमे वेदा इमानि भूतानीद सर्वं यदयमात्मा ॥ ७ ॥

मन्त्र ८[IV.v.8] स यथा दुन्दुभेर्हन्यमानस्य न बाह्याञ्छब्दाञ्छक्नुयाद् ग्रहणाय दुन्दुभेस्तु ग्रहणेन दुन्दुभ्याघातस्य वा शब्दो गृहीतः ॥ ८ ॥

मन्त्र ९[IV.v.9] स यथा शङ्खस्य ध्मायमानस्य न बाह्याञ्छब्दाञ्छक्नुयाद् ग्रहणाय शङ्खस्य तु ग्रहणेन शङ्खध्मस्य वा शब्दो गृहीतः ॥ ९ ॥

मन्त्र १०[IV.v.10] स यथा वीणायै वाद्यमानायै न बाह्याञ्छब्दाञ्छक्नुयाद्ग्रहणाय वीणायै तु ग्रहणेन वीणावादस्य वा शब्दो गृहीतः ॥ १० ॥

मन्त्र ११[IV.v.11] स यथाऽऽर्द्रैधाग्नेरभ्याहितस्य पृथग्धूमा विनिश्चरन्त्य् एवं वा अरेऽस्य महतो भूतस्य निःश्वसितमेतद्यदृग्वेदो यजुर्वेदः सामवेदोऽथर्वाङ्गिरस इतिहासः पुराणं विद्या उपनिषदः श्लोकाः सूत्राण्यनुव्याख्यानानि व्याख्यानानि इष्ट हुतमाशितं पायितमयं च लोकः परश्च लोकः सर्वाणि च भूतान्यस्यैवैतानि सर्वाणि निःश्वसितानि सामवेदस् अथर्वाङ्गिरसस् इतिहासस् पुराणम् विद्यास् उपनिषदस् श्लोकास् सूत्राणि अनुव्याख्यानानि व्याख्याननि दत्तम् इष्टम् हुतम् आशितम् पायितम् अयम् च लोकस् परस् च लोकस् सर्वाणि च भूतानि अस्य एव एतानि सर्वाणि निश्वसितानि निःश्वसितानि ॥ ११ ॥

मन्त्र १२[IV.v.12] स यथा सर्वासामपा समुद्र एकायनम् एव सर्वेषा स्पर्शानां त्वगेकायनम् एव सर्वेषां गन्धानां नासिकैकायनम् एव सर्वेषा रसानां जिह्वैकायनम् एव सर्वेषा रूपाणां चक्षुरेकायनम् एव सर्वेषं शब्दानां श्रोत्रमेकायनम् एव सर्वेषा सङ्कल्पानां मन एकायनम् एव सर्वासां विद्याना हृदयमेकायनम् एव सर्वेषां कर्मणा हस्तावेकायनम् एव सर्वेषामानन्दानामुपस्थ एकायनम् एव सर्वेषां विसर्गाणां पायुरेकायनम् एव सर्वेषामध्वनां पादावेकायनम् एव सर्वेषां वेदानां वागेकायनम् ॥ १२ ॥

मन्त्र १३[IV.v.13] स यथा सैन्धवघनोऽनन्तरोऽबाह्यः कृत्स्नो रसघन एवै वं वा अरेऽयमात्मानन्तरोऽबाह्यः कृत्स्नः प्रज्ञानघन एवैतेभ्यो भूतेभ्यः समुत्थाय तान्येवानुविनयष्यतिति प्रज्ञानघनस् एव एतेभ्यस् भूतेभ्यस् समुत्थाय तानि एव अनुविनयति न प्रेत्य सञ्ज्ञाऽस्तीत्यरे ब्रवीमीति होवाच याज्ञवल्क्यः ॥ १३ ॥

मन्त्र १४[IV.v.14] सा होवाच मैत्रेय्य् अत्रैव मा भगवान्मोहान्तमापीपिपन् न वा अहमिमं विजानामीति स होवाच न वा अरेऽहं मोहं ब्रवीम्य् अविनाशी वा अरेऽयमात्माऽनुच्छित्तिधर्मा ॥ १४ ॥

मन्त्र १५[IV.v.15] यत्र हि द्वैतमिव भवति तदितर इतरं पश्यति तदितर इतरं जिघ्रति तदितर इतर रसयते तदितर इतरमभिवदति तदितर इतर शृणोति तदितर इतरं मनुते तदितर इतर स्पृशति तदितर इतरं विजानाति । यत्र त्वस्य सर्वमात्मैवाभूत् तत्केन कं पश्येत् तत्केन कं जिघ्रेत् तत्केन क रसयेत् तत्केन कमभिवदेत् तत्केन क शृणुयात् तत्केन कं मन्वीत तत्केन क स्पृशेत् तत्केन कं विजानीयाद्येनेद सर्वं विजानाति तं केन विजानीयात् स एष नेति नेत्याऽत्मागृह्यो न हि गृह्यते ऽशीर्यो न हि शीर्यते ऽसङ्गो न हि सज्यते ऽसितो न व्यथते न रिष्यति । विज्ञातारमरे केन विजानीयादित्युक्तानुशासनासि मैत्रेय्य् एतावदरे खल्वमृतत्वमिति होक्त्वा याज्ञवल्क्यो विजहार ॥ १५ ॥

इति पञ्चमं ब्राह्मणम् ॥

षष्ठं ब्राह्मणम् ।

मन्त्र १[IV.vi.1] अथ वशः पौतिमाष्यो गौपवनाद् गौपवनः पौतिमाष्यात् पौतिमाष्यो गौपवनाद् गौपवनः कौशिकात् कौशिकः कौण्डिन्यात् कौण्डिन्यः शाण्डिल्याच् छाण्डिल्यः कौशिकाच्च गौतमाच्च गौतमः ॥ १ ॥

मन्त्र २[IV.vi.2] आग्निवेश्याद् अग्निवेश्यो गार्ग्याद् गार्ग्यो गार्ग्याद् गार्ग्यो गौतमाद् गौतमः सैतवात् सैतवः पाराशर्यायणात् पाराशार्यायणो गार्ग्यायणाद् गार्ग्यायण उद्दालकायनाद् उद्दालकायनो जाबालायनाज् जाबालायनो माध्यन्दिनायनान् माध्यन्दिनायनः सौकरायणात् सौकरायणः काषायणात् काषायणः सायकायनात् सायकायनः कौशिकायनेः कौशिकायनिः ॥ २ ॥

मन्त्र ३[IV.vi.3] घृतकौशिकाद् घृतकौशिकः पाराशर्यायणात् पाराशर्यायणः पाराशर्यात् पाराशर्यो जातूकर्ण्याज् जातूकर्ण्य आसुरायणाच्च यास्काच्चा ऽऽसुरायणस्त्रैवणेस् त्रैवणिरौपजन्धनेर् औपजन्धनिरासुरेर् आसुरिर्भारद्वाजाद् भारद्वाज आत्रेयाद् आत्रेयो माण्टेर् माण्टिर्गौतमाद् गौतमो गौतमाद् गौतमो वात्स्याद् वात्स्यः शाण्डिल्याच् छाण्डिल्यः कैशोर्यात्काप्यात् कैशोर्यः काप्यः कुमारहारितात् कुमारहारितो गालवाद् गालवो विदर्भीकौण्डिन्याद् विदर्भीकौण्डिन्यो वत्सनपातो बाभ्रवाद् वत्सनपाद्बाभ्रव पथः सौभरात् पन्थाः सौभरोऽयास्यादाङ्गिरसाद् अयास्य आङ्गिरस आभूतेस्त्वाष्ट्राद् आभूतिस्त्वाष्ट्रो विश्वरूपात्त्वाष्ट्राद् विश्वरूपस्त्वाष्ट्रोऽव्श्विभ्याम् अश्विनौ दधीच आथर्वणाद् दध्यङ्ङाथर्वणोऽथर्वणो दैवाद् अथर्वा दैवो मृत्योः प्राध्वसनान् मृत्युः प्राध्वसनः प्रध्वसनात् प्रध्वसन एकर्षेर् एकर्षिर्विप्रचित्तेः विप्रचित्तिर्व्यष्टेर् व्यष्टिः सनारोः सनारुः सनातनात् सनातनः सनगात् सनगः परमेष्ठिनः परमेष्ठी ब्रह्मणो ब्रह्म स्वयम्भु ब्रह्मणे नमः ॥ ३ ॥

इति षष्ठं ब्राह्मणम् ॥

॥ इति बृहदारण्यकोपनिषदि चतुर्थोऽध्यायः ॥

तृतीयोध्यायः (previous chapter)

पञ्चमोऽध्यायः (next chapter)