शतपथब्राह्मणम्/काण्डम् १४/अध्यायः ८/ब्राह्मणम् ०५

विकिस्रोतः तः

हृदयब्रह्मणः सत्यमित्युपासनाविधिब्राह्मणम्

तद्वै तदेतदेव तदास। सत्यमेव स यो हैवमेतन्महद्यक्षं प्रथमजं वेद सत्यं ब्रह्मेति जयतीमांल्लोकान्जित इन्न्वसावसद्य एवमेतन्महद्यक्षम्प्रथमजं वेद सत्यं ब्रह्मेति सत्यं ह्येव ब्रह्म - १४.८.५