पद्मपुराणम्/खण्डः ७ (क्रियाखण्डः)/अध्यायः १४

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः १३ पद्मपुराणम्/खण्डः ७ (क्रियाखण्डः)
अध्यायः १४
वेदव्यासः
अध्यायः १५ →

व्यास उवाच-
मार्गशीर्षे द्विजश्रेष्ठ महालक्ष्म्या समन्वितम्
पूजयेदव्ययं विष्णुं भक्तिभावेन वैष्णवः १
म्लेच्छदेशे च विप्रेंद्र तथैव पतितालये
दुर्गंधैश्च परिव्याप्ते स्थाने विष्णुं न पूज्येत् २
पाखंडानां समीपे च महापातकिनां तथा
असत्यभाषिणां चैव न कुर्याद्विष्णुपूजनम् ३
क्रंदतां सन्निधौ चापि कलहानपि कुर्वताम्
तथोपहसतां स्थाने न कुर्यात्पूजनं हरेः ४
प्रतिग्रहरतानां च स्थाने विष्णुं न पूजयेत्
कृपणानां गृहे चैव परवित्ताभिलाषिणाम् ५
तथा कपटवृत्तीनां न कुर्याद्विष्णुपूजनम्
नारायणार्चने विप्र परं भक्तिपरायणः ६
अन्यचित्तं परित्यज्य हरिध्यानपरो भवेत्
हाहाकारं च निश्वासं विस्मयं स द्विजोत्तम ७
पाखंडजनसंभाषं न कुर्याद्धरिपूजनम्
अनन्यमानसो भूत्वा देवदेवं जगद्गुरुम् ८
भस्मन्यपि च यत्पुष्पं दीयते लभते हरौ
चिंतागमशतश्रांतः शिलाचक्रेष्वपि द्विज ९
पुष्पं ददाति यन्मर्त्यो न लभेदथ तत्प्रभुः
अनन्यमानसो भूत्वा भक्त्या विष्णुं यजेद्बुधः १०
भ्रांतचित्तेन यत्कर्म क्रियते तच्च निष्फलम्
सर्वकर्म मनोधीनं मनोधीनं जगत्त्रयम् ११
तस्मान्मनो दृढीकृत्य पूजयेत्कमलापतिम्
पूजान्यत्र मनोऽन्यत्र भवेद्यस्य द्विजोत्तम १२
न च तस्य फलेत्कार्यं कल्पकोटिशतैरपि
यत्नाद्विहितशौचोऽपि विष्णुपूजापरोऽपि च १३
मनःशुद्धिविहीनश्चेच्चांडाल इव गम्यते
अभक्त्या यत्तपस्तप्तं सुचिरं विधिना द्विज १४
भवेन्निरर्थकं सर्वं केवलं कायशोधनम्
मेरुप्रमाणकं स्वर्णं ब्राह्मणाय कुटुंबिने १५
दत्तमभ्यर्थनाशाय अभक्त्या श्रेयसेऽपि च
तस्मादेकमना भूत्वा भक्तिश्रद्धासमन्वितः १६
सवास्तुकादि शाकं च दद्यात्सदसि वैष्णवे
नारंगस्य फलं दिव्यं सुपक्वं यस्तु यच्छति १७
केशवाय द्विजश्रेष्ठ सोऽस्माभिरभिपूज्यते
यत्नेन नूतनं वस्तु प्रियं भगवतो हरेः १८
तदेवाग्रयणे मासि भक्त्या दद्यान्मुरारये
पौषे मासि समायाते श्रीकृष्णं वरदं प्रभुम् १९
देवमिक्षुरसैर्दिव्यैः स्नापयेद्वैष्णवो जनः
यः स्नापयति विप्रेन्द्र विष्णुमिक्षुरसैः प्रभुम् २०
इह भुंक्ते सुखं सर्वं मृतो यातीक्षुसागरम्
यो दद्यादिक्षुनैवेद्यं देवदेवाय विष्णवे २१
सोऽपि तत्फलमाप्नोति किमन्यैर्बहुभाषितैः
सुदुग्धपृथुकं पौषे दधिभिर्वा समन्वितम् २२
दत्वा मुरारये मर्त्यः सर्वान्कामानवाप्नुयात्
सर्वैः पुरातनं वस्त्रं दूरीकृत्य मुरारये २३
शीतस्य वारणार्थाय दद्याद्वस्त्रं च नूतनम्
पौषसंक्रमणे विप्र सलक्ष्मीकाय विष्णवे २४
दद्यान्मुमुक्षुर्मनुजो दशवर्णं च पीठकम्
यस्तु शङ्खध्वनिं कुर्यात्संपूज्य कमलापतिम् २५
तस्य पुण्यफलं वच्मि शृणु वत्स समाहितः
अगम्यागमनाद्यैश्च विमुक्तः सर्वपातकैः २६
अंते विष्णुपुरं गत्वा विष्णुना सह मोदते
वैनतेयांकितां घंण्टां यस्तु वादयते हरेः २७
पूजाकाले द्विजश्रेष्ठ तस्य पुण्यं वदाम्यहम्
अभक्ष्यभक्षणाद्यैश्च विमुक्तः सर्वपातकैः २८
प्रयाति मंदिरं विष्णो रथमारुह्य शोभनम्
तत्र भुक्त्वाखिलान्कामान्कल्पकोटिशतावधि २९
पुनरागत्य धरणीं चतुर्वेदी द्विजोत्तमः
तत्र भुक्त्वाखिलान्कामान्कल्पकोटिशतावधि ३०
पुनर्विष्णुपुरं गत्वा मोक्षं प्राप्नोत्यनुत्तमम्
वीणां वादयते यस्तु पूजाकाले जगत्पतेः ३१
पंडितानामग्रणीः स्यात्स मर्त्यः प्रतिजन्मनि
मृदंगवाद्यकृद्यस्तु पूजायां कैटभद्विषः ३२
तस्य प्रसन्नो भगवान्ददात्यभिमतं फलम्
डमरुं डिडिमं चैव झर्झरीं मधुरीं तथा ३३
पटहं दुंदुभिं चैव काहलं सिंधुवारकम्
कांस्यं च करतालं च वेणुं वादयते तु यः ३४
पूजाकाले महाविष्णोस्तस्य पुण्यं निशामय
स्तेयार्थैः पातकैर्मुक्तो मंदिरं याति चक्रिणः ३५
परमं ज्ञानमासाद्य तत्रैव परिमुच्यते
कलशब्दं च यः कुर्यात्पूजाकाले जगद्गुरोः ३६
मुखवाद्यं च विप्रेन्द्र तस्य पुण्यं मयोच्यते
कोटिकोटिकुलैर्युक्तः प्रयाति मन्दिरं हरेः ३७
ज्ञानमासाद्य तत्रैव मोक्षमक्षय्यमाप्नुयात्
विष्णोरायतने यस्तु भक्तियुक्तः प्रनृत्यति ३८
स याति ब्राह्मणश्रेष्ठ तद्विष्णोः परमं पदम्
यस्तु गायति गीतानि भक्त्या नारायणाग्रतः ३९
स नृपत्वमवाप्नोति गन्धर्वाणां पुरेषु च
स्तौति स्तोत्रैर्जगन्नाथं भक्त्या च वैष्णवो जनः ४०
तस्य प्रसन्नो भगवान्सर्वान्कामान्प्रयच्छति
मासेमासे हरिं यस्तु विधिनानेन पूजयेत् ४१
अचिरेणैव विप्रर्षे प्रसादयति सोऽच्युतः ४२
जगदुदधिमिमं ये तर्तुमिच्छंति मर्त्याः प्रचुरतरगभीरं सर्वदुःखप्रदं च
परमपुरुषपादांभोजयुग्मं मनोज्ञं त्रिदशनिवह सेव्यंते च सर्वे यजंतु ४३
इति श्रीपद्मपुराणे क्रियायोगसारे भगवत्पूजामाहात्म्यंनाम चतुर्दशोऽध्यायः १४