पद्मपुराणम्/खण्डः ७ (क्रियाखण्डः)/अध्यायः १४

विकिस्रोतः तः
← अध्यायः १३ पद्मपुराणम्/खण्डः ७ (क्रियाखण्डः)
अध्यायः १४
वेदव्यासः
अध्यायः १५ →

व्यास उवाच-
मार्गशीर्षे द्विजश्रेष्ठ महालक्ष्म्या समन्वितम् ।
पूजयेदव्ययं विष्णुं भक्तिभावेन वैष्णवः १।
म्लेच्छदेशे च विप्रेंद्र तथैव पतितालये ।
दुर्गंधैश्च परिव्याप्ते स्थाने विष्णुं न पूज्येत् २।
पाखंडानां समीपे च महापातकिनां तथा ।
असत्यभाषिणां चैव न कुर्याद्विष्णुपूजनम् ३।
क्रंदतां सन्निधौ चापि कलहानपि कुर्वताम् ।
तथोपहसतां स्थाने न कुर्यात्पूजनं हरेः ४।
प्रतिग्रहरतानां च स्थाने विष्णुं न पूजयेत् ।
कृपणानां गृहे चैव परवित्ताभिलाषिणाम् ५।
तथा कपटवृत्तीनां न कुर्याद्विष्णुपूजनम् ।
नारायणार्चने विप्र परं भक्तिपरायणः ६।
अन्यचित्तं परित्यज्य हरिध्यानपरो भवेत् ।
हाहाकारं च निश्वासं विस्मयं स द्विजोत्तम ७।
पाखंडजनसंभाषं न कुर्याद्धरिपूजनम् ।
अनन्यमानसो भूत्वा देवदेवं जगद्गुरुम् ८।
भस्मन्यपि च यत्पुष्पं दीयते लभते हरौ ।
चिंतागमशतश्रांतः शिलाचक्रेष्वपि द्विज ९।
पुष्पं ददाति यन्मर्त्यो न लभेदथ तत्प्रभुः ।
अनन्यमानसो भूत्वा भक्त्या विष्णुं यजेद्बुधः १०।
भ्रांतचित्तेन यत्कर्म क्रियते तच्च निष्फलम् ।
सर्वकर्म मनोधीनं मनोधीनं जगत्त्रयम् ११।
तस्मान्मनो दृढीकृत्य पूजयेत्कमलापतिम् ।
पूजान्यत्र मनोऽन्यत्र भवेद्यस्य द्विजोत्तम १२।
न च तस्य फलेत्कार्यं कल्पकोटिशतैरपि ।
यत्नाद्विहितशौचोऽपि विष्णुपूजापरोऽपि च १३।
मनःशुद्धिविहीनश्चेच्चांडाल इव गम्यते ।
अभक्त्या यत्तपस्तप्तं सुचिरं विधिना द्विज १४।
भवेन्निरर्थकं सर्वं केवलं कायशोधनम् ।
मेरुप्रमाणकं स्वर्णं ब्राह्मणाय कुटुंबिने १५।
दत्तमभ्यर्थनाशाय अभक्त्या श्रेयसेऽपि च ।
तस्मादेकमना भूत्वा भक्तिश्रद्धासमन्वितः १६।
सवास्तुकादि शाकं च दद्यात्सदसि वैष्णवे ।
नारंगस्य फलं दिव्यं सुपक्वं यस्तु यच्छति १७।
केशवाय द्विजश्रेष्ठ सोऽस्माभिरभिपूज्यते ।
यत्नेन नूतनं वस्तु प्रियं भगवतो हरेः १८।
तदेवाग्रयणे मासि भक्त्या दद्यान्मुरारये ।
पौषे मासि समायाते श्रीकृष्णं वरदं प्रभुम् १९।
देवमिक्षुरसैर्दिव्यैः स्नापयेद्वैष्णवो जनः ।
यः स्नापयति विप्रेन्द्र विष्णुमिक्षुरसैः प्रभुम् २०।
इह भुंक्ते सुखं सर्वं मृतो यातीक्षुसागरम् ।
यो दद्यादिक्षुनैवेद्यं देवदेवाय विष्णवे २१।
सोऽपि तत्फलमाप्नोति किमन्यैर्बहुभाषितैः ।
सुदुग्धपृथुकं पौषे दधिभिर्वा समन्वितम् २२।
दत्वा मुरारये मर्त्यः सर्वान्कामानवाप्नुयात् ।
सर्वैः पुरातनं वस्त्रं दूरीकृत्य मुरारये २३।
शीतस्य वारणार्थाय दद्याद्वस्त्रं च नूतनम् ।
पौषसंक्रमणे विप्र सलक्ष्मीकाय विष्णवे २४।
दद्यान्मुमुक्षुर्मनुजो दशवर्णं च पीठकम् ।
यस्तु शङ्खध्वनिं कुर्यात्संपूज्य कमलापतिम् २५।
तस्य पुण्यफलं वच्मि शृणु वत्स समाहितः ।
अगम्यागमनाद्यैश्च विमुक्तः सर्वपातकैः २६।
अंते विष्णुपुरं गत्वा विष्णुना सह मोदते ।
वैनतेयांकितां घंण्टां यस्तु वादयते हरेः २७।
पूजाकाले द्विजश्रेष्ठ तस्य पुण्यं वदाम्यहम् ।
अभक्ष्यभक्षणाद्यैश्च विमुक्तः सर्वपातकैः २८।
प्रयाति मंदिरं विष्णो रथमारुह्य शोभनम् ।
तत्र भुक्त्वाखिलान्कामान्कल्पकोटिशतावधि २९।
पुनरागत्य धरणीं चतुर्वेदी द्विजोत्तमः ।
तत्र भुक्त्वाखिलान्कामान्कल्पकोटिशतावधि ३०।
पुनर्विष्णुपुरं गत्वा मोक्षं प्राप्नोत्यनुत्तमम् ।
वीणां वादयते यस्तु पूजाकाले जगत्पतेः ३१।
पंडितानामग्रणीः स्यात्स मर्त्यः प्रतिजन्मनि ।
मृदंगवाद्यकृद्यस्तु पूजायां कैटभद्विषः ३२।
तस्य प्रसन्नो भगवान्ददात्यभिमतं फलम् ।
डमरुं डिडिमं चैव झर्झरीं मधुरीं तथा ३३।
पटहं दुंदुभिं चैव काहलं सिंधुवारकम् ।
कांस्यं च करतालं च वेणुं वादयते तु यः ३४।
पूजाकाले महाविष्णोस्तस्य पुण्यं निशामय ।
स्तेयार्थैः पातकैर्मुक्तो मंदिरं याति चक्रिणः ३५।
परमं ज्ञानमासाद्य तत्रैव परिमुच्यते ।
कलशब्दं च यः कुर्यात्पूजाकाले जगद्गुरोः ३६।
मुखवाद्यं च विप्रेन्द्र तस्य पुण्यं मयोच्यते ।
कोटिकोटिकुलैर्युक्तः प्रयाति मन्दिरं हरेः ३७।
ज्ञानमासाद्य तत्रैव मोक्षमक्षय्यमाप्नुयात् ।
विष्णोरायतने यस्तु भक्तियुक्तः प्रनृत्यति ३८।
स याति ब्राह्मणश्रेष्ठ तद्विष्णोः परमं पदम् ।
यस्तु गायति गीतानि भक्त्या नारायणाग्रतः ३९।
स नृपत्वमवाप्नोति गन्धर्वाणां पुरेषु च ।
स्तौति स्तोत्रैर्जगन्नाथं भक्त्या च वैष्णवो जनः ४०।
तस्य प्रसन्नो भगवान्सर्वान्कामान्प्रयच्छति ।
मासेमासे हरिं यस्तु विधिनानेन पूजयेत् ४१।
अचिरेणैव विप्रर्षे प्रसादयति सोऽच्युतः ४२।
जगदुदधिमिमं ये तर्तुमिच्छंति मर्त्याः प्रचुरतरगभीरं सर्वदुःखप्रदं च ।
परमपुरुषपादांभोजयुग्मं मनोज्ञं त्रिदशनिवह सेव्यंते च सर्वे यजंतु ४३।
इति श्रीपद्मपुराणे क्रियायोगसारे भगवत्पूजामाहात्म्यंनाम चतुर्दशोऽध्यायः १४ ।