पद्मपुराणम्/खण्डः ७ (क्रियाखण्डः)/अध्यायः १५
← अध्यायः १४ | पद्मपुराणम्/खण्डः ७ (क्रियाखण्डः) अध्यायः १५ वेदव्यासः |
अध्यायः १६ → |
व्यास उवाच-
नारायणस्य माहात्म्यं पुनर्वच्मि शृणु द्विज।
यच्छ्रुत्वा सर्वपापेभ्यो मुक्तो भवति मानवः १।
विष्ण्वंशभूतं सकलं जगदेतद्दिवजोत्तम।
तस्माद्विष्णुमयं धीराः पश्यंति परमार्थिनः २।
ब्रह्मशंकररुद्राद्या विष्ण्वंशाः सकलाः सुराः।
तस्मात्समस्तदेवार्चा विष्णुमेकं प्रपद्यते ३।
स्मरतां विष्णुनामानि सर्वपापहराणि च।
येनकेनाप्युपायेन विद्यते नाशुभं क्वचित् ४।
सर्वमेव द्विजश्रेष्ठ कर्मणा पापमुच्यते।
अनपायि इदं विष्णोः स्मरणं पापनाशनम् ५।
स्वपन्भुञ्जन्वदंस्तिष्ठन्नुत्तिष्ठंश्च व्रजंस्तथा।
स्मरेदविरतं विष्णुं मुमुक्षुर्वैष्णवोजनः६।
उत्तुंगैर्मुनिभिः सर्वैः स्मरणे कमलापतेः।
न कालनियमः प्रोक्तः सर्वदुःखविनाशनः ७।
नामप्रभावं विप्रर्षे केशवस्य महात्मनः।
ब्रवीम्यहं समासेन सेतिहासं निशामय ८।
आसीत्स परशुर्नाम पूर्वं कृतयुगे शुचिः।
वैश्यो वैश्यकुलश्रेष्ठः समस्तगुणपारगः ९।
स वैश्यो दैवयोगेन प्रथमे वयसि द्विज।
जगाम वशतां मृत्योः कासश्वासगदार्दितः १०।
जीवंती नाम तत्पत्नी सुमध्या नवयौवना।
मृते भर्तरि तातस्य जगाम निलयं यतः ११।
सा जीवंती द्विजश्रेष्ठ नवयौवनगर्विता।
गतिं चकार जारेषु बाध्यमानापि बांधवैः १२।
व्रतस्य नियमं वापि गृहव्यापारमेव च।
जारानुरक्तचित्ता सा तत्याज्य नवयौवना १३।
अंधीकृता सा कामेन सुश्रोणी पीवरस्तनी।
धर्ममार्गं द्विजश्रेष्ठ न कदाचिद्ददर्श ह १४।
दुःशीलां चैव तां दृष्ट्वा तत्पिता धर्मतत्परः।
अपकीर्तिभयाद्भीरुरित्याहात्यंत कोपवान् १५।
दुष्टे पापिनि मद्वंशे सर्वदोषविवर्जिते।
आसाद्य जन्म किमिति क्रियते पातकं त्वया १६।
यदि ते पातके चित्तं ह्यदितुं नैव एहि वै।
अभद्रे गच्छ सदनाज्जहीहि मम मंदिरम् १७।
तातेनेति निरुक्ता सा क्रोधारुणितलोचना।
पितुर्गेहं परित्यज्य साजगाम यथासुखम् १८।
अथ सा स्वेच्छया नारी भ्रमंती जारकांक्षया।
वेश्यावृत्तिं समाश्रित्य तस्थौ लज्जाविवर्जिता १९।
पुलिंदः शबरो वापि चाण्डालो वापि तद्गृहम्।
आयाति तस्यास्तेनापि मुदा क्रीडति साऽसती २०।
परलोकभयं विप्र कदाचिदपि चेतसा।
न चिंतयामास च सा वारनारी यथाक्रमात् २१।
कदाचिद्ब्राह्मणश्रेष्ठ कश्चिद्व्याधस्तदालये।
शुकशावं समादाय विक्रयार्थं समाययौ २२।
सापि वाराङ्गना तं च शुकशावकमुत्तमम्।
जगृहे परमप्रीत्या धनैः संपूज्य लुब्धकम् २३।
तद्योग्याहारदानेन वारस्त्री नित्यमेव सा।
शुकस्य पोषणं चक्रे तस्य जातकुतूहला २४।
वारांगनानपत्या सा तमेव शुकशावकम्।
मत्वा पुत्रमिवात्मानं चक्रे तत्प्रतिपालनम् २५।
सोऽपि पक्षी द्विजश्रेष्ठ नित्यमेव तदाज्ञया।
ज्ञातिवच्चित्तवात्सल्य व्यवहारं करोति च २६।
ततोऽसौ लब्धभावश्च शुको गणिकया तदा।
रामेति सततं नाम पाठ्यते सुंदराक्षरम् २७।
रामनाम परं ब्रह्म सर्वदेवाधिकं महत्।
समस्तपातकध्वंसि स शुकस्तु सदा पठन् २८।
रामोच्चारणमात्रेण तयोश्च शुकवेश्ययोः।
विनष्टमभवत्पापं सर्वमेव सुदारुणम् २९।
कदाचिद्वारमुख्या सा शुकोऽपि च द्विजोत्तम।
उभावपि च पंचत्वमेककाले गतौ ततः ३०।
समानेतुं ततस्तौ तु विहिताखिलपातकौ।
किंकरान्प्रेषयामास चंडाद्यान्धर्मराट्ततः ३१।
ततस्ते किंकराः सर्वे चंडाद्याः अतिवेगिनः।
यमाज्ञया समायाताः पाशमुद्गरपाणयः ३२।
आनेतुं तौ समायाताः सर्वे विष्णुपराक्रमाः।
पाशबद्धौ तु तौ दृष्ट्वा पतितौ विष्णुकिंकराः ३३।
ऊचुर्वाक्यमिदं क्रुद्धा यमदूतान्सुरासदान् ३४।
विष्णुदूता ऊचुः -
अहो चित्रमिदं वाक्यं यमदूता मुखाच्छ्रुतम् ३५।
भक्तावपि हरेरेतौ दंड्यौ भास्करसूनुना।
अहो चरित्रं दुष्टानां कदाचिदपि नोत्तमम् ३६।
यत्नादपि यतो हिंसां कुर्वंति सततं सताम्।
दुष्टानां कृतपापानां चरित्रमिदमद्भुतम् ३७।
निष्पापमपि पश्यन्ति पुण्यात्मानोऽखिलं जगत्।
पापिनस्तु न पश्यन्ति कृतपापमिवाखिलम् ३८।
श्रुत्वा पुण्यात्मनां पुण्यमभितृप्यंति धर्मिणः।
तृप्यंति पातकं श्रुत्वा पापिनां पापिनो जनाः ३९।
पापचर्चां समाकर्ण्य यथा तृप्यंति पापिनः।
न तृप्यन्ति यथा प्राप्य स्वर्णभारशतान्यपि ४०।
अहो बलवती माया महाविष्णोर्महात्मनः।
आत्मपीडाकरमपि पापं कुर्वंति ते द्विज ४१।
व्यास उवाच-
इत्युक्त्वा विष्णुदूतास्ते विष्णुभक्ति परायणाः।
छिन्नवंतस्तयोर्विप्र बंधनं चक्रधारया ४२।
ततस्तु शमनप्रेष्याः क्रुद्धास्ते वह्निसंन्निभाः।
ववर्षुः सहसा तत्र ज्वलदंगारसंचयान् ४३।
दंड उवाच-।
विहितं च मयाप्येवं शुकं वेश्यां च पापिनीम्।
नेतुं यूयं समायाता इत्यद्भुतमिवाभवत् ४४।
नूनमेतौ यदा नेतुं यूयमिच्छतसत्तमाः।
तदा कुरुत संग्राममस्माभिः सह संप्रति ४५।
इत्युक्त्वा रामदूतास्ते बलिनो विधृतायुधाः।
सिंहनादैर्दिशः सर्वे पूरयामासुरुद्धताः ४६।
विष्णुदूता महात्मानः सुप्रतीकादयस्तथा।
शङ्खनादैः सुललितैश्चक्रुः शब्दमयं जगत् ४७।
याम्यैस्ततो महादूतैर्धनुर्मुक्तैः शिलीमुखैः।
छादिता विष्णुदूतास्ते संग्रामेऽत्यंतदारुणे ४८।
शूलान्यध्यक्षिपुः केचिच्छक्तिं केचिन्महार्णवे।
केचिच्छरसहस्राणि केचिच्चक्राणि ते रुषा ४९।
तैर्मुक्तानि महास्त्राणि विष्णुदूता महामराः।
बाणान्विचूर्णयामासुर्गदाप्रहरणादिभिः ५० 7.15.50।
ततो भागवतैरेतैर्याम्यानां चक्रधारया।
केषांचिच्चरणाश्छिन्नाः केषांचिद्बाहवस्तथा ५१।
केचिद्विच्छिन्नशिरसः केचिन्निर्भिन्नवक्षसः।
अत्यद्भुत क्षताः केचिद्व्यास्याः पेतुर्गतासवः ५२।
छिन्नैकचरणाः केचित्केचिच्छिन्नैकपाणयः।
संत्यज्य सहसा याम्याः संग्रामाच्च प्रदुद्रुवुः ५३।
तानालोक्य ततो दूतान्पलायनपरायणान्।
प्रविवेश रुषा चंडः संग्रामं धृतमुद्गरः ५४।
यमदूतगणश्रेष्ठश्चंडोऽत्यंत प्रतापवान्।
ताडयामास शतशो मुद्गरैर्विष्णुकिङ्करान् ५५।
अथ भागवता दूता निशितायुधवर्षणैः।
ववर्षुस्तरसा क्रुद्धास्तं चंडं चंडविक्रमम् ५६।
मुद्गरेण ततश्चण्डो विष्णुदूतान्पृथक्पृथक्।
ताडयामास विगलद्रक्तसंसिक्तविग्रहः ५७।
चंडेन ताडितास्तेन दूता भगवतो युधि।
त्यक्तसत्वाः पृष्ठभागं सुप्रकाशस्य वै ययुः ५८।
सुप्रकाशस्ततः क्रुद्धो जपापुष्पनिभेक्षणः।
प्रविवेश रणे युद्धं गदापाणिर्महाबलः ५९।
ताडयामास संक्रुद्धो विष्णुतुल्यपराक्रमः।
मुद्गराच्चंडहस्ताच्च प्रेक्ष्य जनभयप्रदात् ६०।
समुत्तस्थौ महाभीष्मः सधूमः पूतिगन्धवान्।
स मुद्गरेण चंडेन ताडितस्तस्य वेगिना६१।
स्फुलिंगा वर्षणं सद्यो मुमोचात्यंतभीतिदम्।
ततः क्रुद्धेन चंडोऽसौ तेनैव मुद्गरेण च ६२।
ताडयामास विप्रर्षे सुप्रकाशं महाबलम्।
सुप्रकाशस्ततो विप्र व्यथां विस्मृत्य कोपवान् ६३।
गदया ताडयामास चंडं शमनकिंकरम्।
तेन प्रताडितश्चंडस्तत्र रक्तः परिप्लुतः ६४।
पपात मूर्च्छितो भूमौ बालार्क इव जैमिने।
याम्यदूतास्ततस्ते च चंडमादाय मूर्च्छितम् ६५।
हाहाकारं प्रकुर्वंतो युद्धाद्भीताः प्रदुद्रुवुः।
विष्णुदूतास्ततो विप्र सर्वे चातिप्रहर्षिताः ६६।
अथ शंखान्समादध्मुर्जैमिने द्विजसत्तम।
यमदूतास्ततस्ते च शोणितौघपरिप्लुताः ६७।
यमस्यसन्निधिं जग्मुः क्रंदंतो भयविह्वलाः ६८।
यमदूता ऊचुः-
सूर्यपुत्र महाबाहो तवाज्ञाकारिणो वयम्।
तथापि विष्णुदूतैर्नः कृता दुर्गतिरीदृशी ६९।
महापातकिनां श्रेष्ठौ प्रभो यद्यपि तौ खलु।
रामनामप्रभावेण गतौ नारायणालयम् ७०।
भवता दंडनीया ये दुरात्मानः कृतैनसः।
तेऽपि विष्णुपुरं यांति प्रभुत्वं तव किं तदा ७१।
नास्माकं विष्णुदूतात्स्तैः कृतः परिभवस्त्वयम्।
तवैव केवलं नाथ यतो वै किंकरा वयम् ७२।
यम उवाच-
दूताः स्मरंतौ तौ राम रामनामाक्षरद्वयम्।
तदा न मे दंडनीयौ तयोर्नारायणः प्रभुः ७३।
संसारे नास्ति तत्पापं यद्रामस्मरणैरपि।
न याति संक्षयं सद्यो दृढं शृणुत किंकराः ७४।
ये मानवाः प्रतिदिनं मधुसूदनस्य नामानि घोरदुरितौघविनाशनानि।
भक्त्या स्मरंति विबुधप्रवरार्चितस्य ते पापिनोऽपि हि भटा मम नैव दंड्याः ७५।
गोविन्द केशव हरे जगदीश विष्णो नारायणप्रणतवत्सलमाधवेति।
भक्त्या वदंति पुरुषाः सततं क्षितौ ये दंड्या न ते मम भटा अतिपापिनोऽपि ७६।
भक्तार्तिनाशनसुरेश्वरदीनबंधो लक्ष्मीपते सकलपापविनाशकारिन्।
एतद्वदांतसततं भुवि ये मनुष्यास्ते पापिनोऽपि न भटा मम दंडनीयाः ७७।
दामोदरेश्वरमुखामरवृन्दसेव्य श्रीवासुदेव पुरुषोत्तम माधवेति।
येषां वदंति वदनेषु सदैव शब्दा दूता नमाम्यहमपि प्रतिवासरं तान् ७८।
नारायणस्य जगदेकपतेर्मुरारेश्चर्चासु चित्तमतिहार्द्दि नृणां च येषाम्।
तेषामहं च सततं सुभटा ह्यधीनो ये ते प्रफुल्लकमलेक्षणरूपभाजः ७९।
ये विष्णुपूजनरता हरिभक्तभक्ता एकादशीव्रतरताः कपटैर्विहीनाः।
ये विष्णुपादसलिलं शिरसा वहंति ते पापिनोऽपि न भटा मम दंडनीयाः ८०।
ये भुञ्जते भगवतो मधुसूदनस्य नैवेद्यशेषमखिलौघविनाशकारि।
ये कर्णयोश्च शिरसिच्छदनं तुलस्या नित्यं वहंति च भटाः प्रणमाम्यहं तान् ८१।
ये कृष्णपादकमलार्चनतत्पराश्च ये ब्राह्मणार्चनरता गुणसेविनश्च।
ये दीनलोकहृदयातिसुखप्रदाश्च तेषामहं सततमेव भटा अधीनः ८२।
ये सत्यवाक्यकथनेषु सदानुरक्ता लोकप्रियाश्च शरणागतलोकपालाः।
पश्यंति ये च सततं विषवत्परस्वं ते मानवा मम भटा न हि दंडनीयाः८३।
ये चान्नदाननिरताः सलिलप्रदाश्च भूमिप्रदा निखिललोकहितैषिणश्च।
ये वृत्तिहीनजनतृप्तिकराः प्रशांता दूता न ते खलु कदापि च दंडनीयाः ८४।
ये ज्ञातिपोषणरताः प्रियवादिनश्च ये दम्भकोपमदमत्सरहीनचित्ताः।
ये पापदृष्टिरहिता विजितेंद्रियाश्च तेषामहं न विदधामि कदापि चर्चाम् ८५।
व्यास उवाच-
एवं प्रबोधितास्तेन यमेन यमकिंकराः।
ज्ञातवंतो जगद्भर्तुः प्रभावमतुलं हरेः ८६।
विष्णोर्नामानि विप्रेन्द्र सर्वदेवाधिकानि वै।
तेषां मध्ये तु तत्त्वज्ञा रामनामवरं स्मृतम् ८७।
रामेत्यक्षरयुग्मं हि सर्वं मंत्राधिकं द्विज।
यदुच्चारणमात्रेण पापी याति पराङ्गतिम् ८८।
रामनामप्रभावं हि सर्वदेवप्रपूजनम्।
महेश एव जानाति नान्यो जानाति जैमिने ८९।
विष्णोर्नामसहस्राणां पठनाल्लभते फलम्।
तत्फलं लभते मर्त्यो रामनामस्मरन्नपि ९०।
अहो चित्रं मनुष्याणां चरित्रमिदमुच्यते।
रामेति मुक्तिदं नाम न स्मरंति दुराशयाः ९१।
वक्तुं श्रमो न चाल्पोऽपि श्रोतुमत्यंतसुन्दरम्।
तथापि रामरामेति न वदंति दुराशयाः ९२।
अत्यंतदुःखलभ्यापि मुक्तिर्जगति मानवैः।
लभ्यते रामनाम्नैव कर्मास्ति किमतः परम् ९३।
तावत्तिष्ठंति पापानि देहेषु देहिनां वर।
रामरामेति यावद्वै न स्मरंति सुखप्रदम् ९४।
श्राद्धे च तर्पणे चैव बलिदाने तथोत्सवे।
यज्ञे दाने व्रते चैव देवताराधनेऽपि च ९५।
अन्येष्वपि च कार्येषु वैदिकेषु विचक्षणः।
स्मरेद्यस्तत्फलप्रेप्सू रामरामेति भक्तितः ९६।
नमो रामायेति विप्रेन्द्र मन्त्रमोङ्कारपूर्वकम्।
षडक्षरं जपेद्यस्तु सायुज्यं प्राप्यते हरेः ९७।
षडक्षरेण मंत्रेण हरिपूजनकृन्नरः।
सर्वान्कामानवाप्नोति प्रसादाच्चक्रपाणिनः ९८।
मृत्युकाले द्विजश्रेष्ठ रामरामेति यः स्मरेत्।
स पापिष्ठोऽपि परमं मोक्षमाप्नोति मानवः ९९।
रामेति नाम यात्रायां ये स्मरंति मनीषिणः।
सर्वसिद्धिर्भवेत्तेषां यात्रायां नात्र संशयः १०० 7.15.100।
अरण्ये प्रांतरेवापि श्मशाने यो भयानके।
रामनामस्मरेत्तस्य विद्यंते नापदो द्विज १०१।
राजद्वारे तथा दुर्गे विदेशे दस्युसंमुखे।
दुःस्वप्नदर्शने चैव ग्रहपीडासु जैमिने १०२।
औत्पातिके भये चैव वातरोगभये तथा।
रामनाम स्मरन्मर्त्यो लभते नाशुभं क्वचित् १०३।
रामनाम द्विजश्रेष्ठ सर्वाशुभनिवारणम्।
कामदं मोक्षदं चैव स्मर्तव्यं सततं बुधैः १०४।
रामनामेति विप्रर्षे यस्मिन्न स्मर्यते क्षणे।
क्षणः स एव व्यर्थः स्यात्सत्यमेव मयोच्यते १०५।
स्मरंतो हरिनामानि नावसीदंति मानवाः १०६।
जन्मकोटिदुरितक्षयमिच्छुः संपदं च लभते भुवि मर्त्यः।
विष्णुनाम सततं भुवि भक्त्या मोक्षदातिमधुरं स्मरति स्म १०७।
इति श्रीपद्मपुराणे क्रियायोगसारे पंचदशोऽध्यायः १५।