पद्मपुराणम्/खण्डः ७ (क्रियाखण्डः)/अध्यायः १६

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः १५ पद्मपुराणम्/खण्डः ७ (क्रियाखण्डः)
अध्यायः १६
वेदव्यासः
अध्यायः १७ →

व्यास उवाच-
भूय एव द्विजश्रेष्ठ महाविष्णोः परात्मनः
ब्रवीमि शृणु माहात्म्यं सर्वदुःखविनाशनम् १
ब्राह्मणाः क्षत्त्रिया वैश्याः शूद्राश्चान्येन्त्यजास्तथा
हरिभक्तिं प्रपन्ना ये ते कृतार्था न संशयः २
हरेरभक्तो विप्रोऽपि विज्ञेयः श्वपचाधिकः
हरिभक्तः श्वपाकोऽपि विज्ञेयो ब्राह्मणाधिकः ३
स कथं ब्राह्मणो यस्तु हरिभक्तिविवर्जितः
स कथं श्वपचो यस्तु भगवद्भक्तिमानसः ४
अव्याजेन यदा विष्णुः श्वपाकेनापि पूज्यते
तदा पश्येत्तमप्येवं चतुर्वेदद्विजाधिकम् ५
पुरासीच्चक्रिको नाम शबरो लोककर्षकृत्
सुजातिवृत्तिहीनश्च युगे द्वापरसंज्ञके ६
विप्रवादी जितक्रोधः परहिंसाविवर्जितः
दयालुर्द्दम्भहीनश्च पितृमातृपरायणः ७
न कृतो वैष्णवोलापो मोक्षशास्त्रं न च श्रुतम्
तथापि जाता तच्चित्ते हरिभक्तिरचञ्चला ८
हरे केशव गोविन्द वासुदेव जनार्दन
इत्यादीनि स्मरन्नित्यं स च नामानिचक्रिणः ९
वन्यं फलं च यत्किञ्चित्प्राप्नोति द्विजसत्तम
आदौ ददाति तद्वक्त्रे निजे शबरवंशजः १०
तन्माधुर्यं ततो ज्ञात्वा वक्त्रान्निष्कास्य तत्पुनः
ददाति हरये भक्त्या सुप्रीतः प्रतिवासरम् ११
उच्छिष्टं वाप्यनुच्छिष्टं द्वयमेव न वेत्ति सः
निजजातिस्वभावो हि सततं मूर्घ्नि वर्तते १२
कदाचित्स द्विजश्रेष्ठ काननाभ्यंतरे भ्रमन्
फलमेकं प्राप्य पक्वं प्रियालस्येति शाखिनः १३
अथासौ हर्षितस्तस्य फलमप्राप्य चक्रिकः
स संरंभेण ज्ञात्वा वै निजवक्त्रांतरे ददौ १४
स ददौ तत्फलं यावन्निजवक्त्रांतरे द्विज
प्रविवेश गलं तावत्तत्फलं शृणु जैमिने १५
तावत्सव्येन हस्तेन गलरन्ध्रं बबंध सः
यत्नाद्विधृत्य सव्येन पाणिना सकलं द्विज १६
चक्रिकश्चिन्तयामास हरिभक्तिपरायणः
फलमेतद्यदा तस्मै न ददामि मुरारये १७
न जातः कोऽपि संसारे तदाहमिव पातकी
हरिं संचिंत्य बहुधा स चकार मतिं ततः १८
तथापि तत्फलं तस्य न निष्क्रांतं गलाद्द्विज
हरेरेकांतभक्तोऽसौ छित्त्वा परशुना गलम् १९
आनीय तत्फलं पक्वं ददौ देवाय विष्णवे
तत्सन्निधिं समायातस्तमेव हृदि चिंतयन् २०
रुधिरोक्षितसर्वाङ्गः पतितः क्षितिमण्डले
तं दृष्ट्वा भगवान्विष्णुर्गतासुं व्यथितोऽभवत् २१
एतस्य सदृशो भक्तो मम कोऽपि न विद्यते
यतो निजगलं छित्त्वा मम संतोषणं कृतम् २२
यथा भक्तिमताऽनेन सात्विकं कर्म वै कृतम्
यद्दत्वानृण्यमाप्नोति तथा वस्तुकिमस्ति मे २३
धन्योऽयमतिधन्योऽयं धन्योऽयं नात्र संशयः
प्राणानपि परित्यज्य ममसंतोषणं कृतम् २४
ब्रह्मत्वं वा शिवत्वं वा चक्रित्वं वापि दीयते
तदाप्यानृण्यमेतस्य भक्तस्य न हि गम्यते २५
इत्युक्त्वात्यंत संतुष्टो भगवान्गरुडध्वजः
स्वहस्तकमलेनास्य ततो मस्तकमस्पृशत् २६
तद्धस्तकमलस्पर्शाच्छबरोऽसौ गतव्यथः
समुत्तस्थौ महासत्वो नारायणपरायणः २७
व्यास उवाच-
ततोऽस्य भक्तश्रेष्ठस्य निजवस्त्रेण केशवः
पुत्रस्येव पिता गात्ररजः प्रोक्षितवान्द्विज २८
चक्रिकस्तं समालोक्य मूर्तिमंतं जनार्दनम्
वाचा मधुरयाऽस्तौषीत्प्रह्वमस्तः कृताञ्जलिः २९
चक्रिक उवाच-
गोविन्द केशव हरे जगदीश विष्णो जानामि यद्यपि न ते स्तुतियोगवाक्यम्
स्तोतुं तथापि रसना मम वांछति त्वां स्वामिन्प्रसीद हर दोषमिमं प्रवृद्धम् ३०
त्यक्त्वा भवंतमखिलेश्वरचक्रपाणे अन्यं यजंति मनुजा जगतीह ये वै
मूढास्त एव दुरितप्रकरैकधाम सानुग्रहस्त्वमसि मय्यपि देव यस्मात् ३१
जानाति देव भवतो भवनैकनाथ भक्त्यैव यद्यपि नृणांभवबंधहर्त्रीम्
एकांतपापशबरान्वयलब्धजन्मा विष्णोस्तथापि भगवान्मयि सुप्रसन्नः ३२
यस्य प्रभो तव मनोज्ञ करारविंदं स्पर्शं चतुर्मुखमुखा अपि देववृन्दाः
न प्राप्नुवंति विदितस्य मयाद्य लब्धं त्वत्तो न कोऽपि सदयो निजसेवकेषु ३३
येन त्वया भगवता त्रिदशाद्यवैरी कंसासुरो निमिसुतः कृतसर्वपापः
सेन्द्रामरप्रकरमर्त्यहिताय पूर्वं तस्मै नमः परममंगलदाय तुभ्यम् ३४
येन त्वयातिबलिना यमलार्जुनौ तौ देवोत्तमेन निहतौ वसुदेवजेन
दुष्टश्च कालयवनो युधि धेनुकश्च तस्मै नमोऽस्तु नवमेघनिभाय तुभ्यम् ३५
श्रीकृष्णदामोदरभो ह्यनंत येन त्वयामरपतेरचला विभूतिः
पूर्वं कृता भगवता परमेश्वरेण तस्मै नमोऽस्तु यदुवंशपराय तुभ्यम् ३६
पारिजातो हृतो येन विजितोऽखंडलस्त्वया
लीलाजित महेशाय तस्मै तुभ्यं नमोनमः ३७
कृत्वा वृकोदरं हेतुं जरासंधो निपातितः
बाणासुरस्य निहता बाहवो ये त्वया हताः ३८
शिशुपालो हतो येन तस्मै नित्यं नमोनमः
भूमेरपहृतो भारस्त्वया येन महात्मना ३९
क्षत्त्रियान्मायया हत्वा तस्मै नित्यं नमोनमः
व्यास उवाच-
इति तेन स्तुतो विष्णुश्चक्रिकेन महात्मना ४०
उवाच परमप्रीतो वरं वृण्विति जैमिने
चक्रिक उवाच-
परं ब्रह्म परं धाम परमात्मन्कृपामय ४१
पश्यामि त्वामहं साक्षाद्वरैः किमपरैर्द्विज
न ध्याता भवतो मूर्तिः पूजा च न कृता तव ४२
नैवेद्यैर्दिव्यपुष्पैश्च दिव्यधूपैः प्रदीपकैः
न ते स्मृतानि नामानि कदाचिद्भवतो मया ४३
त्वत्पादसलिलं स्वामिन्विधृतं न हि मूर्द्धनि
न भुक्तं तव नैवेद्यं त्वद्व्रतं न मया कृतम् ४४
तथाप्यहमपश्यं त्वां किं करोम्यपरैर्वरैः
शबरान्वयजन्मास्मि सर्वधर्मबहिष्कृतः ४५
तथापि पादपद्मं ते दैवतैरपि दुर्ल्लभम्
तदेवाद्य मया प्राप्तं वरैः किमपरैर्मम ४६
तथापि कमलाकांत वरदित्सुर्यदा भवान्
त्वयि तिष्ठतु मे चित्तं न मज्जेत्त्वदनुग्रहात् ४७
श्रीभगवानुवाच-
वचनाऽमृतवर्षेण त्वदीयेन महाशय
संप्राप्य महतीं तुष्टिं मया सेवकपापिना ४८
यदिदं वत्स मे दत्तं त्वया कमलमुत्तमम्
अनेनात्यंततुष्टोऽस्मि भक्तिं गृह्णामि हर्षितः ४९
व्यास उवाच-
इत्युक्त्वा भगवान्विष्णुर्भक्तिग्राही दयामयः
तमालिंगितवान्भक्तं चतुर्भिर्दीर्घबाहुभिः ५० 7.16.50
श्रीभगवानुवाच-
तुष्टोऽस्मि भवतो भक्त्या वत्स चक्रिकसत्तम
यदिदं वत्स मे दत्तं क्षिप्रं भवति निश्चितम् ५१
भूयोऽपि तं महाभक्तमालिङ्ग्य परमेश्वरः
तत्रैवांतर्द्दधे विप्र विश्वात्मा विश्वपालकः ५२
स चक्रिकोऽतिसंतुष्टो हरिभक्तिपरायणः
पुत्रदारादिकं त्यक्त्वा जगाम द्वारकां पुरीम् ५३
तत्र चैवं समासाद्य कृपया कमलापतेः
आयुषोऽन्ते ययौ मोक्षं देवानामपि दुर्ल्लभम् ५४
तस्माद्भक्तवशो देवो भक्तिमात्रेण तुष्यति
न च स्तोत्रैर्न वित्तैश्च न तपोभिर्जपेन च ५५
फलं यद्यपि चोच्छिष्टं दत्तं तेन द्विजोत्तम
तथापि तुष्टवान्विष्णुर्ज्ञात्वा भक्तिमचञ्चलाम् ५६
तस्मान्नारायणो देवः संसारेऽस्मिन्मुमुक्षुभिः ५७
ये यजंति दृढया किल भक्त्या वासुदेवचरणांबुजयुग्मम्
वासवादिविबुधप्रवरेज्यं ते व्रजन्ति मनुजाः किल मोक्षम् ५८
इति श्रीपद्मपुराणे क्रियायोगसारे षोडशोऽध्यायः १६