सामग्री पर जाएँ

पद्मपुराणम्/खण्डः ७ (क्रियाखण्डः)/अध्यायः १७

विकिस्रोतः तः
← अध्यायः १६ पद्मपुराणम्/खण्डः ७ (क्रियाखण्डः)
अध्यायः १७
वेदव्यासः
अध्यायः १८ →

जैमिनिरुवाच-
पुनरेव गुरो ब्रूहि माहात्म्यं कमलापतेः ।
हरेः कथामृतं पीत्वा तृप्तिर्वै कस्य जायते १।
श्रीव्यास उवाच-
त्वत्तुल्यः कोऽपि संसारे सुकृती न हि विद्यते ।
यतः केशवमाहात्म्यं श्रोतुमिच्छसि भक्तितः २।
नारायणकथा रम्या पुनात्येवं जगत्त्रयम् ।
श्रोतारं पृच्छकं चैव वक्तारं च द्विजोत्तम ३।
शृणु लक्ष्मीपतेर्वत्स माहात्म्यं पापनाशनम् ।
कथयामि समासेन चतुर्वर्गफलप्रदम् ४।
भक्त्या परमया विष्णुमेकाहमपि योऽर्चयेत् ।
जन्मकोटिकृतं पापं सद्यस्तस्य हरेद्धरिः ५।
पुण्यात्मा स कथं मर्त्यो येन नाराधितो हरिः ।
स कथं पातकी यस्य भक्तिर्नारायणे प्रभौ ६।
अस्ति सर्वपुरश्रेष्ठं पुरुषोत्तमसंज्ञकम् ।
पुरं सर्वगुणैर्युक्तं सर्वदेव गणाश्रयम् ७।
सर्वेषामेव तीर्थानां वरिष्ठं तन्निगद्यते ।
यतस्तस्मिन्पुरे रम्ये साक्षाद्वसति केशवः ८।
तत्र भद्रतनुर्नाम पूर्वमेकोऽभवद्द्विजः ।
सुन्दरः प्रियवादी च पवित्रकुलसंभवः ९।
संप्राप्तयौवनो विप्रः सुंदरः काममोहितः ।
परलोकभयं त्यक्त्वा वारस्त्रीनिरतोऽभवत् १०।
न वेदाध्ययनं चक्रे पुराणानि च सर्वशः ।
तत्याजोत्तमसंज्ञां च पाखंडजनसङ्गमात् ११।
अयाज्यदानग्राही च परद्रव्यापहारकः ।
अभवद्धर्मनिन्दी च स विप्रः पापतत्परः १२।
तत्याज ब्राह्मणाचारं तथैव सत्यभावनम् ।
गुरूणामतिथीनां च पूजनं ब्राह्मणाधमः १३।
यद्यत्पापतरं कर्म तत्तदेव विधीयते ।
न च पुण्यतमं कर्म कदाचित्तेन जैमिने १४।
एकदा कृतपापोऽसौ लोकलज्जाभयान्वितः ।
श्राद्धं चकार विप्रो वै श्राद्धभक्तिविवर्जितः १५।
वारनारीमिति प्राह गतः स निशि तद्गृहम् ।
ब्राह्मण उवाच-
एतद्विशालजघने पितृश्राद्धदिनं मम १६।
आयातस्त्वद्गुणैर्बद्धस्तथापि निलयं तव ।
पश्य रात्रिमिमां कांते सर्वलोकभयावहाम् १७।
स्रवदंबुदसंघातं परिव्याप्तं नभःस्थलात् ।
नवांबुलुप्तमार्गायां त्वद्गुणाकृष्टमानसः १८।
अस्यामपि विभावर्यां तवाहं गृहमागतः ।
मेघविद्युत्प्रतीपेन कामेनार्थोपदेशिना १९।
त्वद्गुणाध्यानविश्वास आगतोऽहं निशि प्रिये ।
त्वामदृष्ट्वा क्षणमपि प्रीतिर्मे नहि जायते २०।
अपि दुःखेन हे तन्वि त्वां द्रष्टुमहमागतः ।
तीर्थतोयाभिषेकेन कांते किं मे प्रयोजनम् २१।
त्वत्प्रेमतीर्थतोयेन सिक्तः प्राप्तोऽस्म्यहं दिवि ।
परत्र सुखदां सेवामाराध्य मम किं फलम् २२।
जीवतैव मया स्वर्गः प्राप्यते त्वत्प्रसादतः ।
अपकीर्तिभयात्कांते श्राद्धकर्मकृतं गृहे २३।
अस्मिञ्छ्राद्धे मम श्रद्धा स्वल्पापि न हि गम्यते ।
त्वं मे जपस्तपस्त्वं मे त्वं मे नीतिश्च सुन्दरि २४।
त्वामेकामेव संसारे सर्वभावेन सुन्दरि ।
प्रपन्नोऽसि सदाऽहं ते आज्ञापय करोमि किम् २५।
सुमध्यमोवाच-
त्वया पुत्रेण तातस्तु पुत्रहीन इवाभवत् ।
पितृश्राद्धदिनेऽपि त्वं मैथुनं कर्त्तुमिच्छसि २६।
दुर्मते मैथुनं यस्तु कुरुते पितृवासरे ।
रेतोभोजिन एव स्युः पितरस्तस्य सोऽपि च २७।
कुरुते मैथुनं मूढो मोहात्पितृदिने यदि ।
तच्छ्राद्धं राक्षसग्राह्यं भवेन्नास्त्यत्र संशयः २८।
मय्यद्धा गदितं यत्ते यथा स्नेहेन मानसम् ।
तथा यदि भवेद्विष्णौ तदा प्राप्नोति किं नहि २९।
यमदंडांतरस्थायि जीवितं च शरीरिणाम् ।
तथापि पातकं मूढ कुरुषे निर्भयः सदा ३०।
जलबुद्बुदवन्मूढः क्षणविध्वंसि जीवितम् ।
किमर्थं शाश्वतधिया कुरुषेच्छुरितं सदा ३१।
ललाटे लिखितं यस्य मृत्युरित्यक्षरद्वयम् ।
स कथं कुरुते पापं समस्तक्लेशदायकम् ३२।
अहो माया महाविष्णोरेका बलवती क्षितौ ।
यतः पापं प्रकुर्वाणः सततं हर्षितो द्विज ३३।
स्थानं पापाय मे देहि निजदेहे दुराश्रये ।
दहत्याश्रममेधो हि वीतिहोत्र इव ज्वलन् ३४।
व्यास उवाच-
दैवप्रेरितपापाच्च तयेत्युक्तं सुवेश्यया ।
मनसा चिंतयामास ब्राह्मणः कृतपातकः ३५।
धिग्धिङ्मां च महापापं मूढं पातकिनां वरम् ।
वेश्याया एव तज्ज्ञानं तन्मे नास्ति दुरात्मनः ३६।
ब्राह्मणस्य कुले शुद्धे जन्म संप्राप्य वै मया ।
आत्मघातकरं पापं नित्यमेव कृतं महत् ३७।
जातो यदा ध्रुवो मृत्युर्मृते स्वामी यदा यमः ।
अविवेकतया पापं कथं तर्हि करोम्यहम् ३८।
जपस्तपस्तथा होमो वेदाध्ययनमेव च ।
विप्राचारोऽतिथेः पूजा गुरुभक्तिर्द्विजार्चनम् ३९।
पितृयज्ञादिकं कर्म पूजा च कमलापतेः ।
मया न चक्रे कस्माद्वै भविष्यत्युत्तमा गतिः ४०।
मार्कंडेयं महात्मानं सर्वधर्मविदां वरम् ।
तुष्टाव स द्विजो वाचा प्रणम्य भुवि दण्डवत् ४१।
ब्राह्मण उवाच-
नमस्तुभ्यं द्विजश्रेष्ठ दीर्घजीवनमोऽस्तुते ।
नारायणस्वरूपाय नमस्तुभ्यं महात्मने ४२।
नमो मृकण्डपुत्राय सर्वलोकहितैषिणे ।
ज्ञानार्णवाय वै तुभ्यं निर्विकाराय वै नमः ४३।
स्तुतस्तेनेति विप्रेण मार्कंडेयो महातपाः ।
उवाच परमप्रीतः सर्वशास्त्रार्थपारगः ४४।
मार्कंडेय उवाच-।
तव भक्त्याऽतितुष्टोऽस्मि महाभाग वरं वृणु ।
तवाभिलषितं सद्यः साधयिष्यामि नान्यथा ४५।
ब्राह्मण उवाच-
अहं पापात्मनां श्रेष्ठो द्विजाचारविवर्जितः ।
परहिंसान्वितो नित्यं परस्त्रीनिरतः सदा ४६।
मया मूढेन विप्रेन्द्र सदा पापं कृतं महत् ।
नामुत्रापि कृतं पुण्यं कदाचिदपि सादरम् ४७।
संसारसागरे घोरे दुःखदेऽत्यंत भैरवे ।
कथं भवति निस्तारो महापातकिनो मम ४८।
मार्कंडेय उवाच-
कृतपापोऽपि विप्रेन्द्र त्वं हि पुण्यात्मनां वरः ।
यतो बुद्धिरियं जाता त्वयि संसारदुर्ल्लभा ४९।
पुण्यात्मनां पुण्यदृष्टिर्वर्धते प्रतिवासरम् ।
पापात्मनां पापदृष्टिर्वर्द्धते तु दिनेदिने ५० 7.17.50।
पापत्मनापि भवता पापदृष्टिर्निवार्यते ।
अतस्तुभ्यं जगन्नाथः प्रसन्न इव लक्ष्यते ५१।
पापं कृत्वापि यो मर्त्यः पापाद्भूयो निवर्तते ।
तमुत्तरं नरं प्राहुः पूर्वजन्मार्चिताच्युतम् ५२।
निजभक्तं महाविष्णुर्दृष्ट्वा पापरतं प्रभुः ।
ददाति विपुलां बुद्धिं यथा भवति सद्गतिः ५३।
अतस्त्वं ब्राह्मणश्रेष्ठ प्रतिजन्माच्युतार्चकः ।
अचिरेणैव भद्रं ते भविष्यति न संशयः ५४।
यद्यत्पृष्टं त्वया विप्र मत्तः श्रोष्यसि तं नहि ।
यतो नित्यक्रियाकालो मम संप्रति वर्तते ५५।
दांतोनाम द्विजः कश्चिदस्ति सर्वार्थतत्ववित् ।
कथयिष्यति तत्सर्वं स च तस्याश्रमं व्रज ५६।
तेनोपदिष्टोऽसौ विप्रो मार्कंडेयेन धीमता ।
दांताश्रमं ययौ क्षिप्रं पवित्रमतिसुन्दरम् ५७।
अश्वत्थैश्चंपकैश्चैव बकुलैः प्रियकैस्तथा ।
अन्यैश्च पुष्पितैर्वृक्षैः शोभितं सुमनोहरम् ५८।
प्रफुल्लकुसुमामोदं परिव्याप्तदिगंतरम् ।
गुञ्जद्भ्रमरसंघातं फलशब्दातिशब्दितम् ५९।
मन्दंमन्दं वहद्वायुशीतलं चैव वारि च ।
शतश्वापदसंकीर्णं शिष्योपशिष्यसंकुलम् ६०।
तस्याश्रमं ततो विप्रः प्रविश्यातिमनोहरम् ।
ददर्श दांतं तत्वज्ञं सर्वशिष्यगणैर्वृतम् ६१।
स्तुत्वा तं ब्राह्मणश्रेष्ठ दांतं नारायणात्मकम् ।
ववंदे चरणौ तस्य शिरसा स द्विजोत्तमः ६२।
दांत उवाच-
कस्त्वं भद्र समायातः किमस्त्यत्र प्रयोजनम् ।
ब्रूहि तत्त्वं तु मां स्तौषि हेतुना केन सांप्रतम् ६३।
भद्रतनुरुवाच-।
ब्राह्मणोऽहं महाभाग ब्राह्मणाचारवर्जितः ।
नाम्ना भद्रतनुः ख्यातो विहिताखिलपातकः ६४।
संसारपापविच्छेदः कथं मे पापिनो भवेत् ।
एतन्मे कथय ब्रह्मन्यतस्त्वं सर्वतत्ववित् ६५।
दांत उवाच-
शृणु विप्र परं गुह्यं तवस्नेहान्मयोच्यते ।
येन संसारपाशस्य विच्छेदो भवते नृणाम् ६६।
त्यज पाखंडसंसर्गं संगं भज सतां सदा ।
कामं क्रोधं च मोहं च लोभं च दर्पमत्सरौ ६७।
असत्यं परहिसां च त्यज यत्नादपि द्विज ।
स्मरन्नामानि सततं महाविष्णोर्महात्मनः ६८।
संमार्जनं द्विजश्रेष्ठ तथोपलेपनं पुनः ।
मार्गशोभां च दीपं च केशवायतने कुरु ६९।
कुरु ब्राह्मणसेवां च ज्ञातिसेवां च सर्वदा ।
कुर्वन्न तोयदानं च नित्यं पंचमहाध्वरान् ७०।
कथां शृणु हरेर्मंत्रं जप त्वं द्वादशाक्षरम् ।
कर्माण्येतानि सवाणि कुर्वतस्तव सत्तम ७१।
भविष्यत्युत्तमं ज्ञानं ज्ञानान्मोक्षमवाप्स्यसि ७२।
ब्राह्मण उवाच-
यान्येतानि त्वया ब्रह्मन्प्रोक्तानि शुभदानि वै ।
तेषां विवरणं ब्रूहि किं मोहो दंभमत्सरौ ७३।
किमसत्यं च का हिंसा दयाशांतिर्दमश्च कः ।
समदृष्टिश्च का प्रोक्ता का पूजा कमलापतेः ७४।
अहोरात्रश्च कः प्रोक्तः किं विष्णुस्मरणं तथा ।
के वा पंचमहायज्ञाः को मंत्रो द्वादशाक्षरः ७५।
एषां विवरणं सर्वं ब्रूहि ब्राह्मणसत्तम ।
तथा तव प्रसादेन प्राप्नोमि परमं पदम् ७६।
दांत उवाच-।
ये वेदसंमतं कार्यं त्यक्त्वान्यत्कर्म कुर्वते ।
निजाचारविहीना ये पाखंडास्ते प्रकीर्तिताः ७७।
निजाचारग्राहिणो ये कुर्वते वेदसंमतम् ।
पापाभिलाषरहिताः सज्जनास्ते प्रकीर्तिताः ७८।
योऽभिलाषः सदा स्त्रीषु विभवोपार्जनादिषु ।
वर्त्तते ब्राह्मणश्रेष्ठ स काम इति कथ्यते ७९।
समाकर्ण्यात्मनो निन्दां यस्तापो हृदि जायते ।
स क्रोध इति विज्ञेयः सर्वधर्मावघातकः ८०।
परवित्तादिकं दृष्ट्वा नेतुं यो हृदि जायते ।
अभिलाषो द्विजश्रेष्ठ स लोभ इति कीर्तितः ८१।
मम माता मम पिता ममेयं गृहिणी गृहम् ।
एतदन्यन्ममत्वं हि स मोह इति कीर्तितः ८२।
अहं महात्मा धनवान्न तुल्यः कोऽपि भूतले ।
इदं यज्जायते चित्ते मदः प्रोक्तः स कोविदैः ८३।
निंदंति मां सदा लोका धिगस्तु मम जीवनम् ।
इत्यात्मानं वदेद्यस्तु धिक्कारः स च मत्सरः ८४।
यथार्थकथनं यच्च सर्वलोकसुखप्रदम् ।
तत्सत्यमिति विज्ञेयमसत्यं तद्विपर्ययम् ८५।
ऐश्वर्यं दारपुत्राद्या यान्त्यमुष्यकदा क्षयम् ।
इति या जायते चित्ते सा हिंसा परिकीर्तिता ८६।
यत्नादपि परक्लेशं हर्तुं यद्धृदि जायते ।
इच्छाभूमिर्द्विजश्रेष्ठ सा दया परिकीर्तिता ८७।
या तुष्टिर्जायते चित्ते शान्तिः सा गद्यते बुधैः ।
कुत्सितात्कर्मणोऽन्यत्र यच्चित्ताविनिवारणम् ८८।
संकीर्तितो दमः प्राज्ञैः संमतस्तत्वदर्शिभिः ।
दुःखे सुखे च विप्रेन्द्र या तुष्टिर्वर्तसे सदा ८९।
तथा शत्रौ च मित्रे च समदृष्टिर्हि सा स्मृता ।
नैवेद्यगंधपुष्पाद्यैः श्रद्धया पुरुषो हरेः ९०।
योऽर्चनं कुरुते विप्र सा पूजा परिकीर्तिता ।
मध्याह्ने चैव रात्रौ च लंघनं यद्विधीयते ९१।
तद्विज्ञेयमहोरात्रं पूर्वापरदिनाशनम् ।
आत्मनः केशवस्यापि द्वयोरपि च सत्तम ९२।
यदेकीकरणं तच्च विष्णुस्मरणमुच्यते ।
ब्रह्मयज्ञो नृयज्ञश्च देवयज्ञश्च सत्तम ९३।
पितृयज्ञो भूतयज्ञः पंचयज्ञाः प्रकीर्तिताः ।
नमो भगवते वासुदेवायोङ्कारपूर्वकम् ९४।
महामंत्रमिमं प्राहुस्तत्वज्ञा द्वादशाक्षरम् ।
इति ते कथितं सर्वं पृष्टं ब्राह्मणसत्तम ९५।
यज्ज्ञात्वा मानवाः सर्वे लभंते ज्ञानमुत्तमम् ।
ततः प्रतिदिनं विप्र नाम्नामष्टोत्तरं शतम् ९६।
पठित्वा कमलाभर्तुर्दुर्ल्लभं मोक्षमाप्स्यसि ।
भद्रतनुरुवाच-
ब्रूहि लक्ष्मीपतेर्विष्णोर्नाम्नामष्टोत्तरं शतम् ९७।
दांत उवाच-
शृणु विप्र प्रवक्ष्यामि नाम्नामष्टोत्तरं शतम् ।
सहस्रनाम चाकृष्य सारं विष्णोः परात्मनः ९८।
अष्टोत्तरशतं नाम्नां महापातकनाशनम् ।
पठितव्यं यथा ध्यात्वा शृणु ध्यानं मयोच्यते ९९।
अतसीकुसुमाकारं प्रफुल्लकमलेक्षणम् ।
गवांचरणधूलीभिर्भूषिताखिलविग्रहम् १०० 7.17.100।
गोपुच्छवालपाशेन मंडितोत्तममस्तकम् ।
वंशीध्वनिपरिन्यस्तरुचिरौष्ठपुटं प्रभुम् १०१।
गोगोष्ठवासिभिः स्निग्धैः शिशुभिः परिवारितम् ।
पीतांबरं स्मरमुखं ध्यायेत्कृष्णास्यमुत्तमम् १०२।
ॐनमोऽस्य कृष्णाष्टोत्तरशतनाम्नां वेदव्यासऋषिरनुष्टुप्छंदः ।
श्रीकृष्णो देवता श्रीकृष्णप्रीत्यर्थे जपे विनियोगः १०३।
नमः कृष्णः केशवश्च केशिशत्रुः सनातनः ।
कंसारिर्धेनुकारिश्च शिशुपालरिपुः प्रभुः १०४।
देवकीनन्दनः शौरिः पुण्डरीकनिभेक्षणः ।
दामोदरो जगन्नाथो जगत्कर्ता जगन्मयः १०५।
नारायणो बलिध्वंसी वामनोऽदितिनन्दनः ।
विष्णुर्यदुकुलश्रेष्ठो वासुदेवो वसुप्रदः १०६।
अनंतः कैटभारिश्च मल्लजिन्नरकांतकः ।
अच्युतः श्रीधरः श्रीमाञ्छ्रीपतिः पुरुषोत्तमः १०७।
गोविन्दो वनमाली च हृषीकेशोऽखिलार्तिहा ।
नृसिंहो दैत्यशत्रुश्च मत्स्यदेवो जगन्मयः १०८।
भूमिधारी महाकूर्मो वराहः पृथिवीपतिः ।
वैकुण्ठः पीतवासाश्च चक्रपाणिर्गदाधरः १०९।
शंखभृत्पद्मपाणिश्च नन्दकी गरुडध्वजः ।
चतुर्भुजो महासत्वो महाबुद्धिर्महाभुजः ११०।
महोत्सवो महातेजा महाबाहुप्रियः प्रभुः ।
विष्वक्सेनश्च शार्ङ्गी च पद्मनाभो जनार्दनः १११।
तुलसी वल्लभोऽपारः परेशः परमेश्वरः ।
परमक्लेशहारी च परत्र सुखदः परः ११२।
हृदयस्थोंऽबरस्थो यो मोहदो मोहनाशनः ।
समस्तपातकध्वंसी महाबलबलांतकः ११३।
रुक्मिणीरमणो रुक्मिप्रतिज्ञाखण्डनो महान् ।
दामबद्धः क्लेशहारी गोवर्द्धनधरो हरिः ११४।
पूतनारिर्मुष्टिकारिर्यमलार्जुनभञ्जनः ।
उपेन्द्रो विश्वमूर्तिश्च व्योमपादः सनातनः ११५।
परमात्मा परब्रह्म प्रणतार्तिविनाशनः ।
त्रिविक्रमो महामायो योगविद्विष्टरश्रवाः ११६।
श्रीनिधिः श्रीनिवासश्च यज्ञभोक्ता सुखप्रदः ।
यज्ञेश्वरो रावणारिः प्रलंबघ्नोऽक्षयोऽव्ययः ११७।
सहस्रनाम्नां चैतत्ते नाम्नामष्टोत्तरं शतम् ।
विष्णुप्रीतिकरं सर्वं सर्वपापविनाशनम् ११८।
दुःस्वप्ननाशनं चैव ग्रहपीडाविनाशनम् ।
सर्वरोगक्षयकरं परमैश्वर्यदं तथा ११९।
सर्वोपद्रवविध्वंसि सर्वकर्मफलप्रदम् ।
मया प्रोक्तं द्विजश्रेष्ठ वैष्णवप्रीतिहेतवे १२०।
त्रिसंध्यं यः पठेन्नित्यं भक्तितः पुरतो हरेः ।
शतमष्टोत्तरशतं नाम्नां तुष्टः सदा हरिः १२१।
श्राद्धे च यःपठेदेतद्भक्तिमान्वैष्णवो जनः ।
संतुष्टाः पितरस्तस्य प्रयांति परमं पदम् १२२।
यज्ञकाले पठेद्यस्तु देवताराधने तथा ।
दानकाले च यात्रायां स वै तत्फलमाप्नुयात् १२३।
अपुत्रो लभते पुत्रं धनार्थी लभते धनम् ।
विद्यार्थी लभते विद्यां स्तवस्यास्य प्रकीर्तनात् १२४।
ये पठंति हरेर्भक्त्या नाम्नामष्टोत्तरं शतम् ।
नाशुभं विद्यते तेषां कदाचिदपि भूतले १२५।
दांत उवाच-
गच्छ ब्राह्मण भद्रं ते प्रोक्तेन विधिना मया ।
समाराध्य हरिं भक्त्या परमं क्षेममाप्स्यसि १२६।
एवं प्रबोधितस्तेन दांतेन परमार्थिना ।
तस्मिन्क्षेत्रवरे पुण्ये हरिपूजापरोऽभवत् १२७।
नित्यं तु भक्त्या विप्रोऽसौ पंचाहानि च जैमिने ।
दांतप्रोक्तेन विधिना चकार हरिपूजनम् १२८।
ज्ञात्वा भक्तिं हरिस्तस्य सुदृढां करुणामयः ।
आविर्बभूव सहसा कोटिसूर्यइवांशुमान् १२९।
तं दृष्ट्वा जगतामीशं कमलाप्रियमच्युतम् ।
ववंदे शिरसा विप्रस्तत्पादकमलद्वये १३०।
अथासौ ब्राह्मणश्रेष्ठो हर्षनिर्भरमानसः ।
कृताञ्जलिर्जगन्नाथमस्तौषीत्कमलापतिम् १३१।
दृष्टिं हरे दुरितगामपि मे कृपालां भक्तिं निजां प्रति विभो शुभदामनैषीः ।
तस्मादहं विहितविस्तरपातकोऽपि ग्राम्यस्त्वयाकारि पुमानिवाद्य १३२।
रुष्टे त्वयि त्रिदशवंदितपादयुग्मे दृष्टिः प्रयाति दुरितं खलु मानवस्य ।
तुष्टे च याति सुकृतं प्रति सैव दृष्टिर्ज्ञातं मयैव परमेश्वर केवलं च १३३।
त्वां वच्मि नाथ भवतः स्मरणं प्रभावं यस्माद्व्रजामि निखिलार्जितपातकोऽपि ।
स्थानं जगाम परमं त्रिदशैकलभ्यमारुह्य शुद्धकनकच्छुरितं विमानम् १३४।
त्वत्पादपद्मसलिलस्य सदागुणाढ्यो व्याधः स वेत्ति कनिकः कृतसर्वपापः ।
त्वद्वेश्ममार्जनफलं जगदेकनाथ यज्ञध्वजः क्षितिपतिः सुरवंदितश्च १३५।
वेश्मोपलेपनफलं भवतो मुरारे सृष्टिस्थितिप्रलयकारण ईश्वरस्य ।
जानाति पन्नग रिपुध्वज यज्ञमाली भ्राता च तस्य कृतपापभयः सुमाली १३६।
हरिं प्रदक्षिणीकृत्य भवंतं यत्फलं भवेत् ।
धर्म एव स जानाति नान्यः कश्चिज्जगत्त्रये १३७।
तव चित्तं दयां नाथ गदितुं भुवि कः क्षमः ।
त्वां विद्ध्वापि शरैर्व्याधो जगाम परमं पदम् १३८।
निंदित्वापि जगन्नाथ भवंतं त्रिदशेश्वरम् ।
शिशुपालो ययौ मोक्षं तव भक्तस्य का कथा १३९।
ब्रह्मरूपेण येनासौ त्वया सृष्टमिदं जगत् ।
त्वयि तस्मिन्महाविष्णो रमतां मम मानसम् १४०।
सर्वो विष्णो त्वयानेन क्रियते जगतः क्षयः ।
रुद्र रूपेण संसारे तस्मै तुभ्यं नमोऽस्तु मे १४१।
यस्मादल्पतमं नास्ति यस्मान्नास्ति महत्तमम् ।
येन व्याप्तं जगत्सर्वं त्वया तस्मै नमोऽस्तु ते १४२।
नेत्राभ्यां यस्यदेवस्य सूर्योऽजनि दिवाकरः ।
मुखादग्निश्च जायेत तव तस्मै नमोऽस्तु ते १४३।
यस्य श्रोत्राद्वायवोऽपि जाताः प्राणाश्च केशव ।
तव तस्मै सुरश्रेष्ठ नमोऽस्तु मम सर्वदा १४४।
लक्ष्मीर्यस्य सदा क्रोडे श्यामाङ्गस्य सुनिर्वृता ।
सौदामिनीव मेघस्य तव तस्मै नमोऽस्तु ते १४५।
गंतुं महिम्नां सीमानं ब्रह्माद्या अपि निर्जराः ।
न शक्नुवंति वै यस्य तव तस्मै नमोऽस्तु ते १४६।
धर्माणां स्थापनार्थाय विनाशाय च पापिनाम् ।
युगेयुगे यः प्रभवेत्तस्मै तुभ्यं नमोऽस्तु मे १४७।
मायया मोहितं येन जगदेतन्महात्मना ।
क्षिणोति मायया शंभुर्यस्तस्मै ते नमोऽस्तु मे १४८।
भक्तिमात्रेण यस्तुष्टो न धनैर्न स्तवैस्तथा ।
न दानैर्न तपोभिश्च तस्मै तुभ्यं नमोऽस्तु मे १४९।
गवां च ब्राह्मणानां च साधूनां च हितं तथा ।
कृपां च कुरुते यस्तु तस्मै तुभ्यं नमोऽस्तु मे १५० 7.17.150।
अनाथानां च बंधूनां योगिनां दुःखिनां तथा ।
दुःखं हरति यो देवस्तस्मै तुभ्यं नमोऽस्तु मे १५१।
मनुष्येषु च देवेषु गजेषु सकलेषु च ।
वर्तते यः समत्वेन तस्मै तुभ्यं नमोऽस्तु मे १५२।
यस्मिंस्तुष्टे पर्वतोऽपि सद्य एव तृणायते ।
शैलीयते तृणं रुष्टे तस्मै तुभ्यं नमोऽस्तु मे १५३।
पुण्यानां च यथा पुण्ये निजे पुत्रे यथा पितुः ।
यथा पत्यौ सतीनां च तथा त्वयि ममास्तु वै १५४।
यूनां चित्तं यथा स्त्रीषु लुब्धानां च यथा धने ।
क्षुधितानां यथा चान्ने तथा त्वयि ममास्तु वै १५५।
घर्मार्तानां यथा चन्द्रे शीतार्तानां रवाविति ।
तृषार्तानां यथा तोये तथा त्वयि ममास्तु वै १५६।
यन्मया बुद्धिहीनेन गुरुस्त्रीगमनं कृतम् ।
तत्पातकं क्षयं यातु भवंतं पश्यतो मम १५७।
अवध्यानां वधो यस्तु मायामोहवता कृतः ।
तत्पातकं क्षयं यातु भवंतंपश्यतो मम १५८।
अपेयपानं च मया विहितं परमेश्वर ।
तत्पातकं क्षयं यातु भवं तं पश्यतो मम १५९।
अप्सुयोनौ तथा तोये यद्रेतः सेचनं कृतम् ।
तत्पातकं क्षयं यातु भवंतं पश्यतो मम १६०।
भ्रूणहत्या कृता या च रेतसां सेचनं भुवि ।
तत्पातकं क्षयं यातु भवंतं पश्यतो मम ६११।
विश्वासघातकं यञ्च अज्ञात्वा मा यया कृतम् ।
तत्पातकं क्षयं यातु भवंतं पश्यतो मम १६२।
असत्यवचनं यच्च मया प्रोक्तं क्षणे क्षणे ।
तत्पातकं क्षयं यातु भवंतं पश्यतोमम १६३।
सतां निंदा कृता या च परहिंसा च सर्वदा ।
तत्पातकं क्षयंयातु भवंतं पश्यतो मम १६४।
श्लेष्मा च कफकं चैव यद्वक्त्रे च मया कृतम् ।
तत्पातकं क्षयं यातु भवंतं पश्यतो मम १६५।
वनस्पतिगते सोमे यत्कृतं तरुघातनम् ।
तत्पातकं क्षयं यातु भवंतं पश्यतो मम १६६।
पथि देवालये गोष्ठे मूलमंत्रं च यत्कृतम् ।
तत्पातकं क्षयं यातु भवंतं पश्यतो मम १६७।
अभक्तिर्वितता या च पितुर्मातुश्च केशव ।
तत्पातकं क्षयं यातु भवंतं पश्यतो मम १६८।
स्नानार्थं भोजनार्थं च गच्छन्यस्तु निवारितः ।
तत्पातकंक्षयंयातुभवंतंपश्यतोमम १६९।
एकादश्यांसुरश्रेष्ठयन्मयाभोजनंकृतम् ।
तत्पातकं क्षयं यातु भवंतं पश्यतो मम १७०।
अतिथिर्गृहमागच्छन्पूजितो न मया प्रभो ।
तत्पातकं क्षयं यातु भवंतं पश्यतो मम १७१।
द्वादश्यां च दशम्यां च कृतं यच्च द्विभोजनम् ।
तत्पातकं क्षयं यातु भवंतं पश्यतो मम १७२।
निवारणं कृतं यच्च पानार्थं धावती गवाम् ।
तत्पातकं क्षयं यातु भवंतं पश्यतो मम १७३।
असमाप्य परित्यक्तं व्रतमारभ्य यन्मया ।
तत्पातकं क्षयं यातु भवंतं पश्यतो मम १७४।
कूटसाक्ष्यं निरुक्तं यन्मित्रवात्सल्यतो मया ।
तत्पातकं क्षयं यातु भवंतं पश्यतो मम १७५।
ऋतुकालाभिगमनं निजपत्न्यां कृतं न यत् ।
तत्पातकं क्षयं यातु भवंतं पश्यतो मम १७६।
असंस्कृते गृहे यच्च भोजनं विहितं मया ।
तत्पातकं क्षयं यातु भवंतं पश्यतो मम १७७।
ग्रामयाचकवृत्तिश्च या मया नृहरे कृता ।
तत्पातकं क्षयं यातु भवंतं पश्यतो मम १७८।
दण्ड्यमाने मया भूपे प्रभुत्वं यत्कृतं प्रभो ।
तत्पातकं क्षयं यातु भवंतं पश्यतो मम १७९।
पौराणिककथामध्ये यो विघ्नो विहितो मया ।
तत्पातकं क्षयं यातु भवंतं पश्यतो मम १८०।
आदरेण मया या च परपाककथा श्रुता ।
तत्पातकं क्षयं यातु भवंतं पश्यतो मम १८१।
अश्वत्थच्छेदनं यच्च धात्र्याश्च च्छेदनं कृतम् ।
तत्पातकं क्षयं यातु भवंतं पश्यतो मम १८२।
दधिदुग्धघृतानां च विक्रयो यः कृतो मया ।
तत्पातकं क्षयं यातु भवंतं पश्यतो मम १८३।
आशां दत्वा परेभ्यश्च कृता सा निष्फला मया ।
तत्पातकं क्षयं यातु भवंतं पश्यतो मम १८४।
द्विजाश्च याचकाश्चैव कोपदृष्ट्या मयेक्षिताः ।
तत्पातकं क्षयं यातु भवंतं पश्यतो मम १८५।
जीवनोपायदातारः कोपान्निर्भर्त्सिता मया ।
तत्पातकं क्षयं यातु भवंतं पश्यतो मम १८६।
बहुनात्र किमुक्तेन बहुजन्मार्जितानि च ।
क्षयं गतानि पापानि भवंतं पश्यतो मम १८७।
कृतार्थोऽस्मि कृतार्थोऽस्मि कृतार्थोऽस्मि न संशयः ।
नमस्तुभ्यं नमस्तुभ्यं नमस्तुभ्यं जगत्पते १८८।
इत्युक्त्वाऽसौ द्विजो भक्त्या पुलकांचितविग्रहः ।
पपात जैमिने विष्णोश्चारुपादांबुजद्वये १८९।
श्रीभगवानुवाच-
उत्तिष्ठोत्तिष्ठ ते विप्र तुष्टोऽस्मि तव भक्तितः ।
किंतेऽभिलषितं ब्रूहि तत्ते दास्याम्यहं ध्रुवम् १९०।
भद्रतनुरुवाच-
परमेश्वरगोविन्द दयालो परमाच्युत ।
यत्संप्रति मया प्राप्तं तत्केन भुवि लभ्यते १९१।
तथाप्येकं वरं याचे मुरारे तव सन्निधौ ।
जन्मजन्मनिमे भक्तिस्त्वय्यस्तु सुदृढा प्रभो १९२।
मया कृतमिदं स्तोत्रं यः पठेद्भक्तितो नरः ।
तस्याभिलषितं सर्वं प्रसन्नस्त्वं प्रदास्यसि १९३।
श्रीभगवानुवाच-
दत्तोऽयं ते वरः कोऽपि विप्र नास्त्यत्र संशयः ।
किंतु त्वया सह प्राज्ञ सख्यं कर्तुं मयेष्यते १९४।
न मे सेवकयोग्यास्ते भवानहमिह द्विज ।
अतः सख्यं प्रविवृतं त्वया सह मयाधुना १९५।
व्यास उवाच-
ततो नारायणो देवो दयालुर्भक्तवत्सलः ।
चकार जैमिने सख्यं तेन पुण्यात्मना सह १९६।
निजकण्ठगतां मालां ददौ तस्मै मुदा हरिः ।
सोऽपि विप्रो ददौ भक्त्या हरेस्तुलसिकास्रजम् १९७।
प्रसार्य चतुरो बाहूंस्तमालिंगितवान्हरिः ।
स विप्रोऽपि मुदा विष्णुं तमालिंगितवान्प्रभुः १९८।
इत्थं कृत्वा हरिः सख्यं तेनाग्रजन्मना सह ।
भक्तिग्राही दयालुः स तत्रैवांतरधीयत १९९।
ततः प्रतिदिनं तत्र क्षेत्रे च पुरुषोत्तमे ।
आरेभे कंदुकक्रीडां हरिस्तेनाग्रजन्मना २०० 7.17.200।
कदाचिद्दुर्बलं दृष्ट्वा तं विप्रं करुणामयः ।
उवाच वाचं विप्रर्षेमित्रवात्सल्यतो हरिः २०१।
श्रीभगवानुवाच-
सखे कथं दुर्बलस्त्वं हृतं केन धनं तव ।
हृदि का वा च ते चिन्ता सखे तद्वक्तुमर्हसि २०२।
भद्रतनुरुवाच-
त्वत्प्रीतये जगन्नाथ नित्यमेव मया तपः ।
क्रियते तेन मे गात्रं याति दुर्बलतां प्रभो २०३।
श्रीभगवानुवाच-
यथा त्वयि प्रसन्नोऽस्मि कस्मिंश्च न तथा सखे ।
कायक्लेशं पुनः कस्मात्करोषि द्विजसत्तम २०४।
दुर्बलं त्वां समालोक्य हृदि मे जायते व्यथा ।
कायक्लेशमतः सर्वं जहीहि द्विजसत्तम २०५।
निजोत्तरीयैर्निजवस्त्रभूषण्सुचारुचामीकरकुड्मलाभ्याम् ।
स्वहस्तराजद्वलयैश्च विप्रः स्वयं सुरेशेन च मंडितोऽसौ २०६।
किरीटमानीय निजाल्ललाटात्पादाच्च पादांगदयुग्ममीशः ।
सुवर्णहारं निजकंठदेशात्तस्मै ददौ विप्रवराय कृष्णः २०७।
तैर्भूषणैः श्रीहरिणा प्रदत्तैर्विभूषितोऽयं सुकृती द्विजन्मा ।
क्रीडेत्सदा कंदुककेलिवेत्ता कृष्णेन कृष्णांबुजसुंदरेण २०८।
तमेकदा भूषणभूषिताड्गं तांबूलरागारुचिरोष्ठयुग्मम् ।
दिव्यांबरं चारुतरोत्तरीयं स्मेराननं तत्र ददर्श दांतः २०९।
दांत उवाच-
भद्र भद्रतनोऽद्यापि पापदृष्टिं न मुंचसि ।
दृष्ट्वापि भवतः कार्यं निंदितं सकलैर्जनैः २१०।
शिष्यः कृतस्त्वं यस्मान्मे सर्वमेव हि भूषणम् ।
अहंयुश्चापि दुःशीलो निर्दयः पापतत्परः २११।
गुरुकीर्तिविनाशी च पंचैते शिष्यपांसुलाः ।
अभक्तो बहुभाषी च तथा चंचलमानसः २१२।
परोक्षगुरुनिंदाकृत्प्रोक्ताः शिष्याधमा इमे ।
चरित्रमुत्तमं ज्ञात्वा शिष्यः कार्यो विचक्षणैः २१३।
यतो दुर्जनगा विद्या गुरूणां चापि दुःखदा ।
कीर्तिदास्तैश्च या विद्या निरुक्तास्तत्वदर्शिभिः २१४।
ता वै दुर्जनगाः सद्यो गुरोर्घ्नंति यशस्तरुम् ।
पापेभ्यः पुण्यकर्माणि न रोचंते कदापि च २१५।
न रोचते मक्षिकाभ्यः सुगन्धिचंदनं यथा ।
यथा मिष्टान्नपानेन न हि तृप्यंति गर्दभा २१६।
दुर्जना न हि तृप्यंति यथा धर्मस्य चिंतया ।
अपकीर्तिभयाल्लक्ष्मीर्धर्मश्च सर्वकामदः २१७।
कदाचिन्न भजेद्दुष्टं भजेद्वा गच्छति क्षयम् ।
प्रतिजन्मनि या विद्या भाग्येन लभते परा २१८।
कदाचिल्लभते वापि तदा त्वं तरते विधिः २१९।
भद्रतनुरुवाच-
सत्यं ब्रवीषि विप्रर्षे नास्मि शास्त्रविशारदः ।
मया शिष्येण ते क्वापि नापकीर्तिर्भविष्यति २२०।
त्वत्प्रसादाद्दिवजश्रेष्ठ सर्वाभिलषितं मम ।
सिद्धिं प्रतिगतं यस्मात्त्वमेको भुवि दुर्ल्लभः २२१।
दांत उवाच-
किं तेऽभिलषितं विप्र सिद्धिं प्रतिगतं वद ।
अचिरेणैव तपसां कथमुद्यापनं कृतम् २२२।
भद्रतनुरुवाच-
स्वल्पश्रमैरपि प्राप्तं मया संदर्शनं हरेः ।
यस्याज्ञया गुरो त्यक्तं मया नित्यक्रियादिकम् २२३।
निजोत्तरीयं वस्त्रं च सुवर्णकलशद्वयम् ।
स्वहस्तवलयं चापि स्वललाटकिरीटकम् २२४।
निजपादतुलाकोटिं निजमुक्तावलीं ददौ ।
तथा मे भगवान्विष्णुः सुप्रीतो द्विजसत्तम २२५।
मया सह स कृत्वास्ते सख्यं सेवकदुःखहा ।
करोमि कंदुकाक्रीडां गुरो तेन सहानिशम् २२६।
एतन्मे वचनं श्रुत्वा गच्छामि न हि यद्यपि ।
प्रतीत्या च मया प्रोक्तं तथापि तव सन्निधौ २२७।
दांत उवाच-
सप्तवर्षसहस्राणि भक्त्या परमया मया ।
आराधितोऽपि मे विष्णुर्दर्शनं न ददौ विभुः २२८।
अहो विष्णुं समाराध्य पंचाहान्येव सत्तम ।
त्वया संदर्शनं प्राप्तं दैवतैरपि दुर्ल्लभम् २२९।
धन्योऽसि त्वं कृतार्थोऽसि साक्षाद्देवस्त्वमुच्यते ।
यतस्त्वया सह स्वामी प्रेम्णा सख्यं चकार ह २३०।
यदा मयि तव स्नेहो विद्यते द्विजसत्तम ।
कथं कथय मे विप्र दुर्ल्लभं विष्णुदर्शनम् २३१।
व्यास उवाच-
इत्युक्तो गुरुणा विप्रो विपिने निजमाश्रमम् ।
जगाम विस्मितो धीमान्विष्णुभक्तिपरायणः २३२।
अथान्यस्मिन्दिने गत्वा कंदुकक्रीडनं कृतम् ।
उवाचेति जगन्नाथं दयालुं विनयान्वितः २३३।
भद्रतनुरुवाच-
गुरुर्हि मम देवेंद्र तव दर्शनमिच्छति ।
काज्ञा ते तिष्ठतो ब्रूहि दयालो कमलापते २३४।
एकांतभक्तो विप्रोऽसौ तव पद्मनिभेक्षण ।
अतस्तस्मै सुरश्रेष्ठ दर्शनं दातुमर्हसि २३५।
श्रीभगवानुवाच-
अनेकजन्म विप्रेन्द्र भक्त्या परमया त्वया ।
पूजितोऽहमतो दत्तं दर्शनं ते मयाऽधुना २३६।
कतिचिद्दिवसांतेन मामभ्यर्च्य द्विजः स च ।
मां द्रष्टुमिच्छति प्राज्ञस्त्वदृश्यं दैवतैरपि २३७।
मम सोऽपि महाभक्तो मत्सपर्यापरायणः ।
मम संदर्शनं तस्मात्कदाचिद्द्विज लप्स्यति २३८।
व्यास उवाच-
इति तस्य वचः श्रुत्वा स विप्रः कमलापतिम् ।
इत्युवाच पुनर्भक्त्या केशवं क्लेशनाशनम् २३९।
भद्रतनुरुवाच-
अनुग्रहोस्ति देवेश यदा मयि जगत्पते ।
तदा मे संमुखे देहि दर्शनं भक्तवत्सल २४०।
अयाचत गुरुर्देव तव दर्शनदक्षिणाम् ।
अहो मे गुरवे दत्वा दर्शनं पाहि मां प्रभो २४१।
श्रीभगवानुवाच-
यदा नूनं त्वयोत्सृष्टा मत्संदर्शनदक्षिणा ।
तदा गुरुं समानीय दर्शनं मम कारय २४२।
इत्याज्ञप्तस्ततस्तेन गुरोराश्रममुत्तमम् ।
ययौ भद्रतनुः प्रीत्या पुनः स्वगुरुरागतः २४३।
तस्मिन्विप्रे समायाते दान्ते दातृवरे हरिः ।
आत्मानं दर्शयामास सर्वलक्षणसंयुतम् २४४।
ततो हरिं समालोक्य स विप्रो हरिभक्तिकृत् ।
बद्धाञ्जलिस्तमस्तौषीद्धर्षबाष्पविलोचनः २४५।
दांत उवाच-
दयालो कमलाकांत शरणागतपालक ।
नमस्तुभ्यं नमस्तुभ्यं नमस्तुभ्यं नमोनमः २४६।
अद्य मे सफलं जन्म अद्य मे सफलं तपः ।
अद्य मे सफलं सर्वं प्राप्तं त्वद्दर्शनं मया २४७।
पूर्वमालोचितं यद्यद्वचनं श्रीपते प्रभो ।
सिंधुकोटिगभीरस्य प्रसृतं पुरतस्तव २४८।
स्तोत्रं तन्नास्ति संसारे वागीशस्य जगत्पतेः ।
येन स्तोत्रेण ते प्रीतिं जनयिष्यामि चेतसि २४९।
रक्षरक्ष प्रभो रक्ष मां प्रसीद जगत्पते ।
त्वद्दासदासदासानां दासत्वेनापि मां वृणु ।
व्यास उवाच-
ततः प्रहस्य देवेशो भक्तिग्राही दयामयः ।
करारविंदं तन्मूर्ध्नि दत्वा प्राहेति जैमिने २५० 7.17.250।
श्रीभगवानुवाच-
मद्भक्तोऽसि द्विजश्रेष्ठ प्राप्तं मद्दर्शनं त्वया ।
मत्प्रसादेन भद्रं ते सर्वमेव भविष्यति २५१।
व्यास उवाच-
तमालिङ्ग्य ततो दांतं प्रेम्णा भद्रतनुं च तम् ।
तत्रैवांतर्दधे विप्र सहसा परमेश्वर २५२।
तस्मिन्क्षेत्रवरे पुण्ये दुर्ल्लभे पुरुषोत्तमे ।
क्रियायोगैर्हरिन्दृष्ट्वा दांतो धाम परं ययौ २५३।
सोऽपि भद्रतनुर्विप्रो हरिभक्तिपरायणः ।
आयुषोंते ययौ मोक्षं देवानामपि दुर्ल्लभम् २५४।
एकाहमपि यो भक्त्या पूजयेत्परमेश्वरम् ।
बहुजन्मकृतं पापं प्रीतिः संवर्द्धते हरौ २५५।
अद्यापि त्रिदशाः सर्वे ब्रह्माद्या अपि जैमिने ।
प्रभावं न हि जानंति हरिभक्तस्य भूतले २५६।
कर्मभूमिरियं विप्र स्वर्गादपि च दुर्ल्लभा ।
यत्र विष्णुं समभ्यर्च्य मर्त्याः स्युः सुरवंदिताः २५७।
शक्राद्यास्त्रिदशाः सर्वे सुपुण्यक्षयभीरवः ।
अन्योन्यमपि जल्पंतोऽनिशं च द्विजसत्तम २५८।
भूय एव गमिष्यामः कर्मभूमिं कदा वयम् ।
कदा तत्र करिष्यामः पूजां श्रीकमलापतेः २५९।
अतिधन्या इमे लोका अस्मत्तोऽपि महत्तराः ।
दुर्ल्लभे भारते वर्षे पूजयंति हरिं प्रभुम् २६०।
अहो भारतवर्षस्य कः शक्तो गुणभाषणे ।
यत्राराध्य हरिं पूर्वं वयं देवत्वमागताः २६१।
इत्थं देवगणाः सर्वे वासवाद्या द्विजोत्तम ।
नित्यं भारतभूभागं प्रशंसंति शुभप्रदम् २६२।
तत्र जन्म समासाद्य येन नाराधितो हरिः ।
तत्तुल्यः कोऽपि संसारे कोऽपि दृष्टः श्रुतो न च २६३।
सत्यं सत्यं पुनरपि गद्यते सत्यमेव तत् ।
विश्वात्मानं सकृदपि मानवा येऽर्चयंति च २६४।
अप्यश्रांतं द्विज सुदृढया कर्मभूमौ च भक्त्या ।
मुक्ताः पापैः सुकररचितैर्यांति कैवल्यमाशु २६५।
इति श्रीपद्मपुराणे क्रियायोगसारे पुरुषोत्तमक्षेत्रे भद्रतनुवरप्रदानंनाम सप्तदशोऽध्यायः १७ ।