पद्मपुराणम्/खण्डः ७ (क्रियाखण्डः)/अध्यायः १८

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
← अध्यायः १७ पद्मपुराणम्/खण्डः ७ (क्रियाखण्डः)
अध्यायः १८
वेदव्यासः
अध्यायः १९ →

जैमिनिरुवाच-
तीर्थश्रेष्ठमिति प्रोक्तं यत्त्वया पुरुषोत्तमम् ।
तन्माहात्म्यं गुरो ब्रूहि यदि ते मय्यनुग्रहः १।
व्यास उवाच-
पुरुषोत्तमस्य माहात्म्यं समासेन शृणु द्विज ।
सम्यग्वक्तुं जगत्यस्मिन्कः शक्तो विष्णुना विना २।
लवणांभोनिधेस्तीरं पुरुषोत्तमसंज्ञितम् ।
पुरं तद्ब्राह्मणश्रेष्ठ स्वर्गादपि च दुर्ल्लभम् ३।
स्वयमस्ति पुरे तस्मिन्यतः श्रीपुरुषोत्तमः ।
पुरुषोत्तममित्युक्तं तस्मात्तन्नामकोविदैः ४।
क्षेत्रं तद्दुर्ल्लभं विप्र समंताद्दशयोजनम् ।
तत्रस्थदेहिनो देवैर्दृश्यंते च चतुर्भुजाः ५।
प्रविशन्वै तु तत्क्षेत्रं सर्वे स्युर्विष्णुमूर्तयः ।
तस्माद्विचारणा तत्र न कर्त्तव्या विचक्षणैः ६।
चाण्डालेनापि संस्पृष्टं ग्राह्यं तत्रान्नमग्रजैः ।
साक्षाद्विष्णुर्यतस्तत्र चाण्डालो द्विजसत्तम ७।
तत्रान्नपाचिका लक्ष्मीः स्वयं भोक्ता जनार्द्दनः ।
तस्मात्तत्रौदनं विप्र दैवतैरपि दुर्ल्लभम् ८।
हरिभुक्तावशिष्टं यत्पवित्रं भुवि दुर्ल्लभम् ।
अन्नं ये भुञ्जते लोकास्तेषां मुक्तिर्न दुर्ल्लभा ९।
ब्रह्माद्यास्त्रिदशाः सर्वे तदन्नमतिदुर्ल्लभम् ।
भुञ्जते नित्यमागत्य मानुषाणां च का कथा १०।
न यस्य रमते चित्तं तस्मिन्नन्ने सुदुर्ल्लभे ।
तमेव विष्णुद्वेष्टारं प्राहुः सर्वमहर्षयः ११।
पवित्रं भुवि सर्वत्र यथा गङ्गाजलं द्विज ।
तथा पवित्रं सर्वत्र तदन्नं पापनाशनम् १२।
तदन्नं कोमलं दिव्यं यद्यपि द्विजसत्तम ।
कृकचस्योदरप्रायं तथाप्यघविदारणे १३।
पूर्वार्जितानि पापानि क्षयं यास्यंति यस्य वै ।
भक्तिः प्रवर्तते यस्य तस्मिन्नन्ने सुदुर्ल्लभे १४।
बहुजन्मार्जितं पुण्यं यस्य यास्यति संक्षयम् ।
तस्मिन्नन्ने द्विजश्रेष्ठ तस्य भक्तिर्न जायते १५।
इन्द्रद्युम्नस्य सरसि मार्कंडेयह्रदे तथा ।
रोहिण्यां च समुद्रे च श्वेतगङ्गाजलेषु च १६।
स्नानं ये कुर्वते मर्त्या भक्तिभावसमन्विताः ।
तेषां न विद्यते जन्म पुनरस्मिन्महीतले १७।
लवणांभोनिधेस्तोयैः पितरस्तर्पिता द्विज ।
सर्वदुःखविनिर्मुक्ता व्रजंति हरिमंदिरम् १८।
तीर्थराजः समुद्रो ऽसौ कीर्तितस्तत्वदर्शिभिः ।
तस्मात्तत्र कृतं कर्म सर्वमेवाक्षयं भवेत् १९।
पित्रर्चनं तथा दानं भगवच्चरणार्चनम् ।
जप यज्ञं तथान्यच्च तस्मिन्क्षेत्रे मनोरमे २०।
यत्कर्म कुरुते मर्त्यो विष्णुप्रीणनहेतवे ।
सर्वमेवाक्षयं तच्च भवेन्नास्त्यत्र संशयः २१।
बलभद्रं सुभद्रां च कृष्णं च कमलेक्षणम् ।
ये मानवाः प्रपश्यंति तेषां किंचिन्न दुर्ल्लभम् २२।
अदृष्ट्वा श्रीजगन्नाथं सुभद्रां च बलं तथा ।
मोक्षं न लभते मर्त्यः कुर्वन्पुण्यशतान्यपि २३।
तत्र वेत्रप्रहारेण शरीरं यस्य लोहितम् ।
तं वंदंते द्विजश्रेष्ठ देवाः शक्रादयोऽखिलाः २४।
स्थित्वांतरिक्षे शक्राद्याः सर्वदेवगणा द्विज ।
विमानचारिणोऽन्योन्यं प्रवदंतीति हर्षिताः २५अं।
कदा मानुष्यमस्मभ्यं दास्यते कमलापतिः ।
मनुष्य इव गच्छामस्तदा द्रष्टुं हरिं प्रभुम् २६।
कदा वेत्रप्रहारेण क्षेत्रे श्रीपुरुषोत्तमे ।
भविष्यंत्यस्मदीयानि लोहितानि वपूंषि च २७।
वासवाद्याः सुराः सर्वे तस्मिन्क्षेत्रे वरप्रदे ।
सदा वेत्रप्रहारांश्च वांछंति द्विजसत्तम २८।
तत्राक्षयवटं ये तु भक्त्या पश्यंति मानवाः ।
कोटिजन्मार्जितैः पापैर्मुक्ता यांति परां गतिम् २९।
सुभद्रां बलभद्रं च जगन्नाथमनामयम् ।
श्वेतं माधवदेवेशं मार्कंडेयह्रदं तथा ३०।
ज्यामेश्वरं हनूमंतं तत्राक्षय्यं वटं द्विज ।
पश्यंति भक्त्या ये मर्त्यास्तेषां मुक्तिर्हि शाश्वती ३१।
दोलायमानं गोविन्दं फाल्गुनेमासि तत्र ये ।
पश्यंति मानवा भक्त्या तेषां पुण्यं निशामय ३२।
विमुक्ताः सकलैः पापैरंते यांति हरेर्गृहम् ।
ज्ञानं संप्राप्य तत्रैव मोक्षं यांति सुदुर्ल्लभम् ३३।
चेत्रके मासि वारुण्यां यो जगन्नाथमीक्षते ।
स मृतः प्रविशेद्देहं जगन्नाथस्य जैमिने ३४।
वैशाखे चैव शुक्लायामेकादश्यां जगत्पतिम् ।
तृतीयायां च यः पश्येन्मुक्त एव स मानवः ३५।
प्रविशेद्यस्तु मनुजो महास्नानं जगत्पतेः ।
तस्य सिद्ध्यंति विप्रर्षे सर्व एव मनोरथाः ३६।
ब्रह्माद्यास्त्रिदशाः सर्वे स्थित्वाकाशे जगत्पतेः ।
महास्नानं प्रपश्यंति भक्तिभावसमन्विताः ३७।
महाज्येष्ठ्यां च विप्रर्षे जगन्नाथमनामयम् ।
आलोक्य लभते मर्त्यो विष्णोस्तत्परमं पदम् ३८।
गुंडिकामण्डपं यांतमाषाढे कमलापतिम् ।
बलभद्रं च यः पश्येत्स मुक्तो नात्र संशयः ३९।
यः पश्यति जगन्नाथं रथस्थं कमलेक्षणम् ।
तस्य नास्ति पुनर्जन्म संसारे सर्वदुःखदे ४०।
रथारूढां सुभद्रां च भक्त्या पश्यंति मानवाः ।
छिनत्ति भगवांस्तस्य दुःखदं भवबंधनम् ४१।
अपुत्रा मृतपुत्रा च या सुभद्रां प्रपश्यति ।
बह्वपत्या जीववत्सा सा नारी भवति द्विज ४२।
दुर्भगा काकवंध्या वा सुभद्रां या प्रपश्यति ।
सा स्वामिसुभगा नारी बह्वपत्या भवेत्खलु ४३।
गुंडिकामंडपस्थं च कृष्णं पश्यति यः पुमान् ।
बलभद्रं सुभद्रां च स याति परमं पदम् ४४।
रोगी दुःखी च यः पश्येद्गुण्डिकामंडपे हरिम् ।
रोगाच्छोकाच्च सहसा जैमिने स प्रमुच्यते ४५।
यस्त्वपुत्रो जगन्नाथं गुंडिकामण्डपे स्थितम् ।
पश्येत्स च द्विजश्रेष्ठ पुत्रं प्राप्नोति वैष्णवम् ४६।
विद्यार्थी लभते विद्यां धनार्थी लभते धनम् ।
दारार्थी लभते दारान्मोक्षार्थी मोक्षमाप्नुयात् ४७।
भ्रष्टराज्यो नृपो यस्तु हरिं पश्यति भक्तितः ।
गुंडिकामंडपे विप्र निजराज्यं लभेत सः ४८।
शत्रुभिर्वर्जितो यस्तु गुंडिकामंडपे हरिम् ।
भक्त्या पश्यति विप्रर्षे तस्य नश्यंति शत्रवः ४९।
गुंडिकामंडपे पश्येद्यो राजपीडितो भृशम् ।
स सद्य एव राजानं स्वकीयं वशमानयेत् ५० 7.18.50।
सर्वासामेव यात्राणां गुंडिका प्रवरा मता ।
तस्मात्स मानवैः कार्या त्यक्त्वा कार्यशतान्यपि ५१।
शयने च तथोत्थाने तस्मिन्क्षेत्रे मनोरमे ।
हरिं पश्यति यो मर्त्यः स देवैरपि पूज्यते ५२।
पुरुषोत्तममाहात्म्यं वक्तुं शक्नोति कः क्षितौ ।
यस्य प्रवेशमात्रेण नरो नारायणो भवेत् ५३।
बहुनात्र किमुक्तेन संक्षेपादुच्यते मया ।
सर्वेषामेव तीर्थानां वरिष्ठं पुरुषोत्तमम् ५४।
संसारसिन्धुमतिनिम्नमिमं तितीर्षुः क्लेशप्रदं विषमपापगणाश्रयं यः ।
क्षेत्रे समस्तसुखदे पुरुषोत्तमाख्ये पश्येदमुं सुरवरं पुरुषोत्तमं च ५५।
इति श्रीपद्मपुराणे क्रियायोगसारे पुरुषोत्तममाहत्म्यंनाम अष्टादशोऽध्यायः १८ ।