पद्मपुराणम्/खण्डः ७ (क्रियाखण्डः)/अध्यायः १३

विकिस्रोतः तः
← अध्यायः १२ पद्मपुराणम्/खण्डः ७ (क्रियाखण्डः)
अध्यायः १३
वेदव्यासः
अध्यायः १४ →

व्यास उवाच-
ज्येष्ठे मासि द्विजश्रेष्ठ भगवंतं जनार्दनम् ।
पूजयेद्भक्तिभावेन जलैः संस्नाप्य शीतलैः १।
उद्वर्तनं च दातव्यं सुगन्ध्यामलकं तथा ।
तैलं सुंगंधं हरये ग्रीष्मकाले दिनेदिने २।
सुवासिते शीतले च मन्दिरेऽतिमनोरमे ।
प्रत्यहं कमलाकांतं स्थापयेज्जनमंडपे ३।
न रौद्रदेशे विप्रेन्द्र सधूमे इंधनालये ।
न सूतिकागृहे चैव स्थापयेत्कमलापतिम् ४।
चामरैर्वीजितः श्वेतैः सुदीर्घैः कमलापतिम् ।
ज्येष्ठे मासि द्विजश्रेष्ठ सुप्रीतः किं न यच्छति ५।
मयूरपुच्छव्यजनैर्निदार्घैर्वीजितो हरिः ।
ददात्यभिमतं सर्वमचिरेणैव सत्तम ६।
तालवृंतकवातेन पवित्रांबरवायुना ।
यै ग्रीष्मे वीज्यते विष्णुस्ते सर्वे स्वर्गगामिनः ७।
यो गात्रलेपनं कुर्यात्सुगन्धीयैश्च कर्दमैः ।
ग्रीष्मे हरिं चंदनैश्च स विशेन्माधवीं तनुम् ८।
उष्मागमे द्विजश्रेष्ठ स मुक्तो नात्र संशयः ।
प्रफुल्लकुसुमोद्याने तुलसीकानने तथा ९।
संध्यायां स्थापयेद्विष्णुं देशे धीरसमीरणे ।
स्रग्भिः पाटलपुष्पाणां येन विष्णुरलंकृतः १०।
ज्येष्ठे मासि स विज्ञेयो अश्वमेधसहस्रकृत् ।
यस्तु मुक्तावलिं दद्याद्ग्रीष्मे वै श्रीपतेर्जनः ११।
भूपालत्वं हरिस्तस्मै यच्छेज्जन्मनि जन्मनि ।
यस्तु मण्डयति ग्रीष्मे श्रीकृष्णं मणिमालया १२।
तस्य पुण्यफलं विप्र वदतो मे निशामय ।
यावद्ब्रह्मा सृजत्येतज्जैमिने सकलं जगत् १३।
तिष्ठेद्विष्णुपुरे तावन्मणिमालाविभूषितः ।
सुवर्णाभरणैर्यस्तु रजताभरणैस्तथा १४।
कृष्णं मंडयति ग्रीष्मे सोऽपि तत्फलमाप्नुयात् ।
विचित्रं यस्तु पर्यंकं सगंडूकं प्रयच्छति १५।
हरये देवदेवाय न स दुःखी कदाचन ।
ग्रीष्मकाले न देयानि गुरूणि वसनानि च १६।
हरये ब्राह्मणश्रेष्ठ देयं तन्वंशुंकं शुचि ।
यस्त्वच्युतफलैर्दिव्यैः सुगंधैः पूजयेद्धरिम् १७।
अंते शक्रपुरं गत्वा सपिबेदमृतं मुदा ।
प्रियालानां फलैर्दिव्यैर्योऽर्चयेत्कमलापतिम् १८।
सोऽपि तत्फलमाप्नोति किमन्यैर्बहुभाषितैः ।
निदाघे हरये यस्तु यवागूमतिशीतलाम् १९।
नानाव्यंजनसंयुक्तां श्रद्धया वैष्णवो जनः ।
आषाढे मासि विप्रेन्द्र देवदेवं जगद्गुरुम् २०।
दधिभिः स्नापयित्वा च पूजयेद्भक्तितो बुधः ।
मातुः पयोधरपयः पुनस्तेन न पीयते २१।
घनागमे घनश्यामं कदंबकुसुमैर्हरिम् ।
आराधयति विप्रर्षे पराङ्गतिमवाप्नुयात् २२।
कदम्बपुष्पमालाभिर्मण्डपं ज्वलनोपमम् ।
यस्तस्य ब्राह्मणश्रेष्ठ वाजिमेधफलं भवेत् २३।
सुगन्धैः केतकीपुष्पैः पूजितः कमलापतिः ।
सर्वदुःखं हरत्येव मानवानां द्विजोत्तम २४।
पनसानां फलैर्दिव्यैः सुपक्वैर्घृतमिश्रितैः ।
पूजितो भगवान्विष्णुर्दद्यादैश्वर्यमुत्तमम् २५।
आषाढे मासि दध्यन्नं हरये प्रतिवासरम् ।
श्रद्धया वैष्णवो दद्यान्मुक्तिमिच्छन्द्विजोत्तम २६।
कृष्णाय नवनीतं यो ददाति वैष्णवो जनः ।
विशुद्धः सकलैः पापैर्ब्रह्मलोकं स गच्छति २७।
शेफालिकाप्रसूनैश्च यूथिकाकुसुमैस्तथा ।
योऽर्चयेत्परमात्मानं सगच्छेत्परमं पदम् २८।
प्रफुल्लमालतीपुष्पैः सुगन्धैर्योऽर्चयेद्धरिम् ।
तत्पुण्येनास्य तत्पुण्यं येन नो भविता द्विज २९।
कंदपुष्पैश्च बकुलैर्जगद्बंधुं जनार्दनम् ।
अर्चयन्सकलं कामं प्राप्नोति भुवि मानवः ३०।
महामहाप्रसूनैश्च तथा कुरुबकैर्हरिम् ।
प्रफुल्लैः पूजयेद्यस्तु तस्य तुष्टः सदा हरिः ३१।
सैरीयकैश्च यो विष्णुं प्रसूपुष्पैश्च योऽर्चयेत् ।
करवीरप्रसूनैश्च स याति हरिसन्निधिम् ३२।
श्रावणे चैव यो दद्याल्लाजान्घृतसमन्वितान् ।
हरये तस्य विप्रर्षे गृहे श्रीःस र्वतोमुखी ३३।
भाद्रे मासि द्विजश्रेष्ठ नारायणमनामयम् ।
श्रद्धया पूजयेत्प्राज्ञश्चतुर्वर्गप्रदायकम् ३४।
निर्मिते नूतनागारे सर्वोपद्रववर्जिते ।
स्थापयेत्पुण्डरीकाक्षं भगवंतं जनार्दनम् ३५।
दंशैश्च मशकैश्चापि प्रकीर्णे मक्षिकादिभिः ।
हरिं पुरातनागारे स्थापयेन्न हि मानवः ३६।
सकर्दमे पतद्द्वारे गलद्भित्तौ गृहे तथा ।
हरिं न स्थापयेत्प्राज्ञो वर्षासु परमेश्वरम् ३७।
विष्ण्वाल्ये द्विजश्रेष्ठ प्रकुर्याद्यस्तु मानवः ।
चन्द्रातपं विचित्रं च चन्द्रलोकं स गच्छति ३८।
रात्रौ नानाविधैर्धूपैर्मन्दिरे जगतीपतेः ।
दंशाश्च मशकाश्चैव पूजाकाले निवारयेत् ३९।
मंसारिकाभिः प्रावृत्य मंचशायिनमच्युतम् ।
प्रावृषि स्थापयेद्विष्णुं निशायां दिव्यमंदिरे ४०।
कह्लारपत्रैर्देवेशं सुगंधैर्नूतनैस्तथा ।
मुमुक्षुः पूजयेन्मर्त्यो भाद्रे मासि दिनेदिने ४१।
न भाद्रे केतकीपुष्पैः पूजितव्यो जनार्दनः ।
यतो भाद्रपदेमासि केतकी स्यात्सुरा समा ४२।
पक्वैस्तालफलैर्दिव्यैर्योऽर्चयेद्यदुनंदनम् ।
गर्भवासमहादुःखं स भूयो लभते न च ४३।
संयुक्तं घृतदुग्धाभ्यां पक्वतालं मुरारये ।
यो दद्याच्छ्रद्धया मर्त्यः स गच्छेन्मन्दिरं हरेः ४४।
भाद्रे मासि द्विजश्रेष्ठ हरये तालपिष्टकम् ।
सघृतं वैष्णवो दद्यात्केवलप्राप्तिहेतवे ४५।
मासि भाद्रपदे विप्र न कुर्याच्छाकभक्षणम् ।
न रात्रौ भोजनं कुर्यान्मुमुक्षुर्वैष्णवो जनः ४६।
आश्विने मासि विप्रेन्द्र केशवं क्लेशनाशनम् ।
यत्तोयं दीयते विप्र पूर्वाह्णे हरये जनैः ४७।
पीयूषमिव तत्तोयं गृह्णाति कमलापतिः ।
मध्याह्ने दीयते यच्च तत्तोयं चक्रपाणये ४८।
तत्तोयमिव वेत्तव्यं तद्गृह्णाति द्विजोत्तम ।
अपराह्णे च यत्तोयं गोविन्दाय प्रदीयते ४९।
तत्तोयं रक्ततुल्यं स्यान्न गृह्णाति ततो हरिः ।
अतएव द्विजश्रेष्ठ पूर्वाह्णे हरिमर्चयेत् ५० 7.13.50।
समस्तं लभते कामं केशवस्यानुकंपया ।
एकवस्त्रेण विप्रेन्द्र न कुर्यात्पूजनं हरेः ५१।
कुर्याद्वापि तथा पूजां न गृह्णाति च केशवः ।
अधौतेन च वस्त्रेण यः पूजां कुरुते हरेः ५२।
विफला सा च पूजा स्यान्न च विष्णुः प्रसीदति ।
यैस्त्वबद्धशिखैः पूजा क्रियते चक्रिणो जनैः ५३।
पूजाफलं नाप्नुवंति बलिग्राह्या च सा भवेत् ।
असंस्कृतगृहे पूजा क्रियते जगतीपतेः ५४।
सा पूजा ब्राह्मणश्रेष्ठ बलिग्राह्या भवेत्खलु ।
स्नानं देवार्चनं चैव दानं च पितृपूजनम् ५५।
तिलकेन विना विप्र कुरुते न विचक्षणः ।
तिलकान्यगृहीत्वा यत्पुण्यकर्म विधीयते ५६।
भस्मीभवति तत्सर्वं कर्ता च नारकी भवेत् ।
शङ्खचक्रगदापद्मैरङ्कितं यस्य दृश्यते ५७।
शरीरं ब्राह्मणश्रेष्ठ विज्ञेयः सोऽच्युतः स्वयम् ।
यो लिखेद्दक्षिणे बाहौ शङ्ख पद्मे च वैष्णवः ५८।
सव्ये चक्रं गदां चैव स विष्णुर्नात्र संशयः ।
पङ्कजं दक्षिणे बाहौ शङ्खस्योपरि यो लिखेत् ५९।
पातकं सकलं तस्य क्षणादेव तु नश्यति ।
चक्रोपरि गदां यस्तु लिखेत्सव्ये भुजे द्विज ६०।
तं वंदंते द्विजश्रेष्ठ शक्राद्या अपि निर्जराः ।
मुरारिपादयुग्मं च स्वललाटे लिखेद्बुधः ६१।
पापात्मापि च तं दृष्ट्वा मुक्तो भवति पातकात् ।
अष्टाक्षरं महामंत्रं मत्स्यं कूर्मं च यो हृदि ६२।
लिखेत्स वैष्णवश्रेष्ठः पुनाति भुवनत्रयम् ।
कृष्णायुधांकितं यस्य शरीरं स्याद्दिनेदिने ६३।
तस्य कृष्णो जगन्नाथो ददाति परमं पदम् ।
कृष्णायुधांकिततनुर्यत्कर्म कुरुते नरः ६४।
शुभं वाप्यशुभं वापि तत्सर्वमक्षयं भवेत् ।
दानवा राक्षसाश्चैव भूतवेतालकास्तथा ६५।
पिशाचाः पन्नगाश्चापि यक्षविद्याधरास्तथा ।
किन्नरा गुह्यकाश्चैव ग्रहा बालग्रहास्तथा ६६।
कूष्माण्डाश्चैव डाकिन्यस्तथान्ये विघ्नकारकाः ।
सर्वे भीत्या पलायंते दृष्ट्वा कृष्णायुधाङ्कितम् ६७।
द्वीपाश्च द्वीपिनश्चैव तथान्ये वनवासिनः ।
दृष्ट्वैव प्रपलायंते भयात्कृष्णायुधांकितम् ६८।
कामलाद्या महारोगा देहदेहावपातिनः ।
कृष्णायुधांकिततनुं भक्त्या पश्यति यो जनः ६९।
कृष्णदर्शनतुल्यस्य फलं प्राप्नोति मानवः ।
त्रिपत्रीकृतदूर्वाभिरश्विने योऽर्चयेद्धरिम् ७०।
दूर्वावत्संततिस्तस्य अविच्छिन्ना प्रवर्तते ।
आश्विने मासि यो दद्याद्धरये कर्कटीफलम् ७१।
शोको न जायते तस्य कदाचिद्धृदये द्विज ।
कार्तिके च समायाते सर्वमासोत्तमे शुभे ७२।
दामोदरं देवदेवं भक्त्या प्राज्ञः प्रपूजयेत् ।
कार्तिके मासि विप्रेन्द्र विष्णुप्रीणनहेतवे ७३।
यथोक्तविधिना प्राज्ञः प्रातःस्नानं समाचरेत् ।
आमिषं मैथुनं चैव कार्तिके मासि यस्त्यजेत् ७४।
जन्मान्तरार्जितैः पापैर्मुक्तो याति पराङ्गतिम् ।
तुलाराशिगते सूर्ये प्रातःस्नानं द्विजोत्तम ७५।
हविष्यं ब्रह्मचर्यं च महापातकनाशनम् ।
आमिषं मैथुनं चैव कार्तिकेमासि सेवते ७६।
जन्मजन्मनि विप्रेन्द्र स भवेद्ग्रामशूकरः ।
द्विभोजनं परान्नं च तैलं च वैष्णवो जनः ७७।
आयाते कार्तिके मासि यत्नादपि परित्यजेत् ।
दामोदराय नभसि दीपं यस्तु प्रयच्छति ७८।
फलं तस्य प्रवक्ष्यामि समासेन शृणु द्विज ।
ब्रह्महत्यादिभिः पापैर्विमुक्तः क्लेशदायकैः ७९।
दामोदरपुरं गत्वा तिष्ठेत्कोटियुगावधि ।
दीपं ज्वलंतं नभसि त्रिदशा वासवादयः ८०।
विलोक्य हर्षिताः सर्वे वदंतीति परस्परम् ।
असौ पुण्यात्मनां श्रेष्ठः केशवार्चनतत्परः ८१।
प्रदीपं कार्तिके मासि यतो यच्छति चक्रिणे ।
कार्तिके मासि विप्रेन्द्र तस्य तुष्टः सदा हरिः ८२।
दद्यादक्षयदीपं यः कार्तिके हरिमंदिरे ।
दिनेदिनेऽश्वमेधस्य फलं प्राप्नोति मानवः ८३।
तुलसीदललक्षैर्यः कार्तिके पूजयेद्धरिम् ।
लक्षैकवाजिमेधस्य मानवो लभते फलम् ८४।
बिल्वस्य दललक्षेण योऽर्चयेद्विष्णुमव्ययम् ।
परमं मोक्षमाप्नोति प्रसादाज्जगतीपते ८५।
यत्किञ्चित्कार्तिकेमासि विष्णुमुद्दिश्य दीयते ।
तदक्षयं भवेत्सर्वं सत्यमेतन्मयोच्यते ८६।
घृताक्तं सुरपत्रं यः कार्तिके मासि वैष्णवे ।
दद्याद्दिनेदिने विप्र तस्य विष्णोः पुरे स्थितिः ८७।
प्रफुल्लपद्मपत्रेण सितेनाप्यसितेन वा ।
योऽर्चयेत्कमलाकांतं तस्य किं भुवि दुर्ल्लभम् ८८।
द्विजाग्र्यः कार्तिके मासि हरये येन पङ्कजम् ।
न दत्तं तेन किं विप्र विष्णवे दैत्यजिष्णवे ८९।
एकमेवांबुजं हृत्वा ददाति कैटभारये ।
तस्मै किं भगवान्विष्णुर्न ददाति श्रियः पतिः ९०।
कमलैः कार्तिके मासि येन नाराधितो हरिः ।
जन्मजन्मनि तद्गेहे कमला न हि तिष्ठति ९१।
पद्मबीजानि यो दद्यात्केशवाय महात्मने ।
स जायते विप्रकुले शुद्धे च प्रतिजन्मनि ९२।
ब्राह्मणस्य कुले जातश्चतुर्वेदसुहृद्भवेत् ।
धनवान्बहुपुत्रश्च कुटुंबानां च पोषकः ९३।
नास्ति पद्मसमं पुष्पं जैमिने सत्यमुच्यते ।
येन संपूज्य गोविन्दं पापात्मापि च मोक्षभाक् ९४।
पद्मपुष्पस्य माहात्म्यं विशेषादुच्यते मया ।
सेतिहासं द्विजश्रेष्ठ सावधानं निशामय ९५।
आसीदेकः प्रजा नाम ब्राह्मणः सर्वशास्त्रवित् ।
हरिपादांबुजे यस्य मनोभृङ्ग सदा स्थितिः ९६।
देवानां ब्राह्मणानां च गुरूणां चैव सर्वदा ।
कृता पूजा द्विजश्रेष्ठ कार्याकार्यशतान्यपि ९७।
परद्रव्यं विषं चैव परस्त्रीषु स्वमातृवत् ।
कृतं तेनैव यच्चैवं तथा मित्रे च शात्रवे ९८।
आयांतमतिथिं दृष्ट्वा स विप्रः परमार्थवित् ।
भृशं मानं न चाप्नोति याचकं च द्विजोत्तमम् ९९।
सर्वयज्ञाः कृतास्तेन व्रतानि सकलानि च ।
संसारसागरं घोरमपारंच तितीर्षुणा १०० 7.13.100।
एकदा स द्विजश्रेष्ठो हरिभक्तिपरायणः ।
स्वमृत्युं च निजां जातिं चिंतयामास चेतसा १०१।
अहं पूर्वं स्थितः को वा किं वा कर्म कृतं पुरा ।
कथं वा जन्म संप्राप्तं गमिष्यामि क्व वा पुनः १०२।
इति संचिंत्य विप्रोऽसौ निःश्वस्य च पुनः पुनः ।
विज्ञातुं पूर्ववृत्तांतं शिवक्षेत्रं जगाम ह १०३।
तत्र बद्धाञ्जलिर्विप्रो भक्त्या परमया युतः ।
तुष्टाव शंकरं देवं वाचा मधुरया शिवम् १०४।
ब्राह्मण उवाच-
नमस्तुभ्यं महादेव नमस्ते परमेश्वर ।
नमस्ते शंकरेशान नमस्ते वरद प्रभो १०५।
नमस्ते ज्ञानरूपाय नमस्ते ज्ञानदायिने ।
नमस्ते सर्वभूतानां हृदम्बुजनिवासिने १०६।
जगत्स्रष्ट्रे नमस्तुभ्यं जगत्पित्रे नमो नमः ।
नमः संहराकर्त्रे च पशूनां पतये नमः १०७।
मनस्ते वह्निनेत्राय नमस्ते वह्निचक्षुषे ।
नमस्ते चन्द्रनेत्राय सूर्यनेत्राय वै नमः १०८।
नमस्ते भस्मभूषाय नमस्ते कृत्तिवाससे ।
नमोऽस्थिमालिने तुभ्यं नीलकंठाय वै नमः १०९।
नमस्ते पंचक्त्राय नमस्ते शूलपाणिने ।
कन्दर्पदर्पविध्वंसकारिणे भीममूर्तये ११०।
नमस्ते देवदेवाय नमस्ते त्रिपुरारये ।
पार्वतीपतये तुभ्यं नमस्ते भीममूर्तये १११।
बाणभक्त्यातिसंतुष्ट मानसाय नमोस्तु ते ।
बहुरूपाय वै तुभ्यं विश्वरूपाय वै नमः ११२।
गङ्गाधराय वै तुभ्यं दक्षयज्ञविनाशिने ।
प्रेतानां पतये तुभ्यं नमस्तुभ्यं पिनाकिने ११३।
ईशानाय नमस्तुभ्यं मनीषाय नमो नमः ।
तुभ्यं नमोऽस्तु दृश्याय अदृश्याय नमो नमः ।
नमश्चिन्त्याय वै तुभ्यमचिन्त्याय नमोनमः ११४।
ब्रह्मा त्वमेव त्रिदशैकनाथस्त्वमेव विष्णुस्तपनस्त्वमेव ।
त्वमेव सोमः सकलार्त्तिहारी नमो नमस्ते परमेश्वराय ११५।
तस्यस्तवं समाकर्ण्य शंकरो लोकशंकरः ।
आविर्बभूव सहसा प्रसन्नः परमेश्वरः ११६।
आविर्भूतं समालोक्य सर्वदेवनमस्कृतम् ।
ववंदे चरणौ तस्य स विप्रोऽत्यंतभक्तिमान् ११७।
भूयोऽपि स द्विजश्रेष्ठो हर्षनिर्भरमानसः ।
कृताञ्जलिर्महादेवं तुष्टाव वरदं प्रभुम् ११८।
ब्राह्मण उवाच-
यं न पश्यंति देवेशं देवा अपि सवासवाः ।
पश्यामि तमहं साक्षान्महाभाग्यमिदं मम ११९।
ध्यानावस्थितचित्तेन योऽदृश्यः परमेश्वरः ।
पश्यामि तमहं साक्षान् साध्यं किमपरं मम १२०।
त्वन्नामस्मरणादेव महापातकिनोऽपि च ।
गच्छंति परमं स्थानं समीक्षे तमहं प्रभुम् १२१।
कृतार्थोऽस्मि कृतार्थोऽस्मि कृतार्थोऽस्मि च भाग्यवान् ।
नमस्तुभ्यं नमस्तुभ्यं प्रसीद परमेश्वर १२२।
महादेव उवाच-।
भवतोऽनेन वाक्येन तुष्टोऽस्मि द्विजसत्तम ।
वरं वृणु महाभाग वरं दित्सुरहं खलु १२३।
ब्राह्मण उवाच-
भवंतं परमात्मानमदृश्यं दैवतैरपि ।
साक्षात्पश्याम्यहं नाथ किं कार्यमपरैर्वरैः१२४।
तथापि त्वं महादेव वरं दित्सुः कृपामयः ।
पृच्छामि यदहं किंचित्तद्ब्रूहि परमेश्वर १२५।
कोऽहं तस्थौ पुरा देव किं वा कार्यं कृतं पुरा ।
संसारसागरे नाथ पतितोऽस्मि कथं प्रभो १२६।
कर्मणा प्राप्यते देहो देही पापेन लिप्यते ।
पुनः पापप्रभावेण प्राप्यते विषमा गतिः १२७।
प्रभावैः कर्मणां केषां जन्म प्राप्तमिदं मया ।
नानादुःखप्रदं नाथ प्रसन्नो ब्रूहि शंकर १२८।
पापमूलमिदं जन्म जन्म दुःखस्य कारणम् ।
ज्ञातुमिच्छाम्यहं तस्मात्पूर्ववृत्तांतमात्मनः १२९।
स्थितोऽहं जननी कुक्षौ जनठरानलतापितः ।
मूत्रविष्ठाप्रकीर्णे च विपाकेन च कर्मणाम् १३०।
गर्भवाससमं दुःखं संसारे न हि मन्यते ।
कथं मयानुभूतं तत्प्रभो भक्तार्तिनाशन १३१।
संसारेऽस्मिन्महाघोरे नानादुःखसमन्विते ।
असारे मायया विष्णोर्मोहिते पातकाश्रये १३२।
दुस्तरे बंधुहीने च कामक्रोधादिसंयुते ।
शोकरोगप्रदे चैव जन्ममृत्युप्रदे तथा १३३।
अपारे जगतामीश पतितोऽस्मि कथं शिव ।
एतत्सर्वं विभो ब्रूहि यदि ते मय्यनुग्रहः १३४।
महादेव उवाच-
यद्यप्येतद्दिवजश्रेष्ठ गुह्याद्गुह्यतरं महत् ।
अप्रकाश्यं तथापि त्वां भक्तं प्रतिवदाम्यहम् १३५।
पुरा त्वं ब्राह्मणः श्रेष्ठ शबरान्वयसंभव ।
दण्डपाणिरिति ख्यातः स्थितः सल्लोकदुःखदः १३६।
परलोकभयं त्यक्त्वा विवेकैः परिवर्जितः ।
दस्युवृत्तिं प्रपन्नार्ति परमक्लेशदायिनीम् १३७।
दस्युवृत्तिगतं दृष्ट्वा भवंतमतिनिर्दयम् ।
अपरे भ्रातरः सर्वे बभूवुस्ते च दस्यवः १३८।
तेषां नामानि विप्रेन्द्र भातॄणां निगदाम्यहम् ।
यैः सार्द्धं भवता पूर्वं भ्रातृभिर्दस्युता कृता १३९।
दंडी दंडायुधश्चैव दत्तवान्दत्तभूस्तथा ।
सुंदडो दंडकेतुश्च भ्रातरः षट्प्रकीर्तिताः १४०।
तैर्भ्रातृभिर्महाघोरैर्दयाभिः परिवर्जितः ।
दंडेन भवता नित्यं सर्वे व्यग्रीकृता जनाः १४१।
धनलोभेन भवता दुष्टैस्तैर्भ्रातृभिः सह ।
अरण्ये प्रांतरो विप्र हताः शतसहस्रशः १४२।
हत्वा च सायकैस्तीक्ष्णैर्वनस्थेन त्वया सदा ।
गवां क्रव्याणि भुक्त्वा च मदिराभिः सह द्विज १४३।
ततो यानविधिं सर्वे वणिजस्त्वद्भयात्तथा ।
तत्यजुर्विपिने तस्मिन्ननर्थः पतितः सदा १४४।
यस्य वित्तं न तद्वित्तं गृहं यस्य न तद्गृहम् ।
यस्य भार्या न तद्भार्या त्वयि दस्युत्वमागते १४५।
एवं स्वभ्रातृभिस्तैस्तु तस्मिन्नेव महावने ।
गतो वर्त्मश्रमश्रांतः स्नानार्थं सरसीं प्रति १४६।
तत्र स्नानं समाचर्य क्षुधितेन द्विजोत्तम ।
भक्षितानि मृणालानि भ्रातृभिस्तैर्जलानि च १४७।
अथ त्वया द्विजश्रेष्ठ कौतुकात्तत्र सत्तम ।
भुक्तानि पद्मपुष्पाणि प्रफुल्लानि बहूनि च १४८।
तस्मिन्नेव ततः काले ब्राह्मणो विपिनेचरः ।
सर्ववेदा इति ख्यातस्तत्र स्नानार्थमागतः १४९।
तत्र स्नात्वा स धर्मात्मा भगवंतं जनार्दनम् ।
यष्टुं त्वामकमंभोजं ययाचे विनयान्वितः १५० 7.13.150।
अथ त्वया च विप्रेन्द्र पद्ममेकं सुनिर्मलम् ।
दत्तं परमया भक्त्या पूजार्थं कमलापतेः १५१।
त्वया दत्तेन पद्मेन स च प्रीतो द्विजोत्तमः ।
पूजयामास तत्रैव विष्णुं सकलकारकम् १५२।
विष्णुपूजा परं दृष्ट्वा तं विप्रं सर्ववेदसम् ।
त्वमपि प्रहसन्विष्णुं ननन्थ च सुकामदम् १५३।
अथाभ्यर्च्य परात्मानं चतुर्वर्गफलप्रदम् ।
यथोक्तविधिना विप्र स जगाम यथागतः १५४।
तेनाम्बुजप्रदानेन प्रणामेन च सत्तम ।
विष्णुपूजादर्शनेन नष्टं ते सर्वपातकम् १५५।
ततः कियद्भिर्दिवसैस्तस्मिन्नेव महावने ।
संप्राप्तकालः पंचत्वं गतोऽसि त्वं द्विजोत्तम १५६।
तेनैव कर्मणा तुष्टो भगवान्करुणालयः ।
ददौ तुभ्यं परं स्थानं देवैरपि सुदुर्ल्लभम् १५७।
मन्वंतरसहस्राणि मन्वंतरशतानि च ।
भुक्तं नानासुखं तत्र कृपया कमलापतेः १५८।
ततः कर्मावसाने तु कर्मभूमिमिमां द्विज ।
आगत्य तैः पुण्यफलैर्जातोऽसि द्विजसंततौ १५९।
ब्राह्मणस्य कुले शुद्धे जन्म संप्राप्य सत्तम ।
सर्वगुणाश्रया लब्धा हरिभक्तिरचंचला १६०।
आराधितो महाविष्णुः क्रियायोगैस्त्वया प्रभुः ।
तुभ्यं दास्यति विज्ञानं ज्ञानान्मुक्तो भविष्यति १६१।
गच्छ ब्राह्मण भद्रं ते सुप्रीतो निजमंदिरम् ।
मद्दर्शनं त्वया प्राप्तं मुक्तोऽसि भवबंधनात् १६२।
व्यास उवाच-
इत्युक्त्वांतर्दधे विप्र तत्रैव जगदीश्वरः ।
कृतार्थो ब्राह्मणः सोऽपि जगाम भवनं स्वकम् १६३।
अथ स त्रिदिनं विष्णुं पद्मपुष्पैर्मनोरमैः ।
यत्नादाराधयामास स्तुत्यर्थं परमेश्वरम् १६४।
विष्णुं समाराध्य चिरं प्रसुप्तः पद्मप्रसूनैर्विचित्रैः सुपुष्पैः ।
ज्ञानं समासाद्य जगाम मोक्षं प्रसादतः श्रीगरुडध्वजस्य १६५।
अनिच्छयापि कमलं यच्छतः फलमीदृशम् ।
विष्णवे यच्छतो भक्त्या न जाने किं भवेदिति १६६।
सत्यं सत्यं पुनः सत्यं सत्यमेव मयोच्यते ।
कमलैर्हरिमभ्यर्च्य प्राप्यते परमं पदम् १६७।
एकमेवारविंदं यः प्रददाति मुरारये ।
तस्य नास्ति पुनर्जन्म संसारेषु भयावहे १६८।
नारायणं ये च प्रफुल्लवारिजैर्दयामयं कामदमर्चयंति ।
एकाहमप्युत्कटपापयुक्तास्ते यांति मुक्तिं प्रति पापिनोऽपि १६९।
इति श्रीपद्मपुराणे क्रियायोगसारे त्रयोदशोऽध्यायः १३।