पद्मपुराणम्/खण्डः ७ (क्रियाखण्डः)/अध्यायः १२

विकिस्रोतः तः
← अध्यायः ११ पद्मपुराणम्/खण्डः ७ (क्रियाखण्डः)
अध्यायः १२
वेदव्यासः
अध्यायः १३ →

व्यास उवाच-
फाल्गुने ब्राह्मणश्रेष्ठ श्रीकृष्णं सुरवंदितम् ।
पूजयेद्भक्तिभावेन प्रत्यहं वैष्णवो जनः १।
फाल्गुने स्नापयेद्यस्तु सर्पिषा देवकीसुतम् ।
फलं तस्य प्रवक्ष्यामि यतः सम्यङिनशामय २।
सर्वयज्ञफलं प्राप्य सर्वदानफलं तथा ।
अंते याति हरेः स्थानं सर्वपापविवर्जितः ३।
युगकोटिसहस्राणि भुक्त्त्वा भोगं हरेर्गृहे ।
तत्रैव मोक्षमाप्नोति संप्राप्य ज्ञानमुत्तमम् ४।
यस्तु यच्छति कृष्णाय शिशिरे गोपमूर्तये ।
तिलानां मोदकं दिव्यं स गच्छेद्धरिमंदिरम् ५।
यो दुग्धलड्डुकान्दद्यात्केशवाय महात्मने ।
स पिबेदमृतं स्वर्गे मन्वंतरशतावधि ६।
हरये ललितं खंडं यस्तु यच्छति जैमिने ।
तस्य विष्णुः प्रसन्नात्मा छिनत्ति भवबंधनम् ७।
विचित्रं फलितं दिव्यं दद्याद्भगवते द्विज ।
अंते शक्रपुरं गत्वा स भवेत्सुरवंदितः ८।
निर्मलां शर्करां यच्छेद्यस्तु कृष्णाय भक्तिमान् ।
स किं न लभते विप्र वासुदेवप्रसादतः ९।
सुपक्वं फाल्गुने मासि मधुरं बदरीफलम् ।
यस्तु यच्छति कृष्णाय फलं तस्य निशामय १०।
इह भुङ्क्ते सुखं सर्वं पुत्रपौत्रसमन्वितः ।
अंते हरेर्गृहं याति रथमारुह्य शोभनम् ११।
न दद्याद्गुडसंयुक्तं हरये बदरीफलम् ।
अज्ञानाद्ब्राह्मणश्रेष्ठ दद्याच्चेन्नारकीभवेत् १२।
फाल्गुने मासि यो दद्याद्धरये दाडिमीफलम् ।
सुपक्वं तत्फलं विप्र वदतो मे निशामय १३।
तत्र यावंति बीजानि तिष्ठंति दाडिमीफले ।
तावन्मन्वंतरं विष्णोर्गृहे तिष्ठति भाग्यवान् १४।
फाल्गुने मासि यो दद्याद्धरये गुडपिष्टकम् ।
स विज्ञेयो द्विजश्रेष्ठ वाजिमेधसहस्रकृत् १५।
चैत्रे मासि द्विजश्रेष्ठ मधुना मधुसूदनम् ।
स्नापयेल्लभते मर्त्यस्तद्विष्णोः परमं पदम् १६।
मधुना स्नापयेद्यस्तु नारायणमनामयम् ।
न चर्चा क्रियते तस्य कदाचिद्रविसूनुना १७।
चैत्रे किंशुकपुष्पेण योऽर्चयेत्कमलापतिम् ।
तन्नाम चित्रगुप्तेन पंजिकायां न लिख्यते १८।
चैत्रके जगतामीशं कृष्णं तिलकपुष्पकैः ।
पूजतो नास्ति वै जन्म पुनरस्मिन्महीतले १९।
कृष्णवंजुलपुष्पेण सर्वदेवशिरोमणिम् ।
पूजयन्मनुजो विप्र लभते नापदं क्वचित् २०।
वासंतीभिः सुगंधीभिर्वसंते यस्तु पूजयेत् ।
भगवंतं प्रसन्नात्मा स देवैरपि पूज्यते २१।
तथा किसलयैर्दिव्यैरखण्डैर्योऽर्चयेद्धरिम् ।
तं वंदते समुत्थाय स्वयं पीठासनोपि च २२।
धात्रीपत्रैर्नवैर्यस्तु कोमलैर्हरिमर्चयेत् ।
अचिरेणैव लभते सकलं वांछितं जनः २३।
शांडिल्या खंडपत्रैश्च धत्तूरैश्चार्कपुष्पकैः ।
योऽर्चयेद्विष्णुमीशं च स संसाराब्धिपारगः २४।
यो दद्याद्विष्णवे विप्र कदलीफलमुत्तमम् ।
शक्राद्यास्त्रिदशाः सर्वे वंदंते तमहर्निशम् २५।
यो दद्याच्चैत्रके मासि भक्त्या गोपालरूपिणे ।
गोधूमपिष्टकं विप्र सर्वपापैः प्रमुच्यते २६।
आयाते माधवे मासि पवित्रे माधव प्रिये ।
आमिषं मैथुनं तैलं विष्णुभक्तः परित्यजेत् २७।
प्राप्तः समाचरेत्स्नानं माधवे मासि वैष्णवः ।
परित्यजेत्परान्नं च न कुर्याच्च द्विभोजनम् २८।
प्रभाते पूजयेद्विष्णुंपू र्वोक्तविधिना द्विज ।
वैशाखे स्नापयेद्विष्णुं पुष्पवासितवारिणा २९।
स्नापयेच्छीततोयेषु संध्यापर्यंतमच्युतम् ।
त्रिसंध्यं पूजयेद्भक्त्या नैवेद्यैर्विविधैः प्रभुम् ३०।
वैशाखे दमनस्रग्भिर्लक्ष्मीपतिरलंकृतः ।
न किं ददाति विप्रर्षे प्रसन्नः परमेश्वरः ३१।
वैशाखे मासि यो दद्याद्यवान्नं चक्रपाणये ।
तस्य पुण्यानि संख्यातुं कः समर्थोऽस्ति पंडितः ३२।
यत्किंचिन्माधवे मासि माधवप्रीतिहेतवे ।
दीयते माधवायैव तत्सर्वमक्षयं भवेत् ३३।
यदन्यत्सुकृतं कर्म क्रियते मासि माधवे ।
माधवप्रीतये विप्र क्षयस्तस्य न विद्यते ३४।
वैशाखे मासि यः कुर्यात्प्रपां माधवतुष्टये ।
दिनेदिनेऽश्वमेधस्य फलमाप्नोति मानवः ३५।
वैशाखो दुर्ल्लभो मासः सर्वकर्मफलप्रदः ।
पूजितव्यो हरिस्तत्र हित्वा कर्मशतान्यपि ३६।
एकाहमपि यः पूजां वैशाखे कुरुते हरेः ।
षड्वर्षं हरिं पूजित्वा यत्फलं लभते स तत् ३७।
वैशाखे मासि यो नित्यं विष्णुमश्वत्थरूपिणम् ।
चतुर्वर्गफलप्राप्तिहेतवे वैष्णवो जनः ३८।
गण्डूषमात्रतो येन कुर्याद्योऽश्वत्थसेवनम् ।
सोऽपि याति परं स्थानं विमुक्तः कोटिपातकैः ३९।
अश्वत्थमूलं विप्रर्षे यो बध्नाति शिलादिभिः ।
अश्वत्थरूपी भगवान्किं किं तस्मै न यच्छति ४०।
अश्वत्थद्रुममालोक्य प्रणामं कुरुते यदि ।
सोऽपि याति परं स्थानमायुर्वृद्धिर्न संशयः ४१।
यदश्वत्थतले विप्र धर्मकर्म करोति यः ।
न्यूनातिरिक्तता न स्यात्तस्मिन्कर्मणि जैमिने ४२।
तत्र तीर्थानि सर्वाणि त्रिस्त्रोतादीनि जैमिने ।
यत्राश्वत्थतरुस्तिष्ठेदेकोपि शाखिनां वरः ४३।
अश्वत्थं पूजयेद्यस्तु स एव विष्णुपूजकः ।
अश्वत्थमूर्तिर्भगवान्स्वयमेव यतो द्विज ४४।
अवज्ञानाद्द्विजश्रेष्ठ योऽश्वत्थं हंति मूढधीः ।
संसारे नास्ति तत्कर्म यत्कृत्वा स च शुद्ध्यति ४५।
अश्वत्थो वृक्षराजोऽयं हरिमूर्तिः प्रकीर्तितः ।
तस्मादश्वत्थहंतॄणां त्राता कोऽपि न विद्यते ४६।
अश्वत्थं पश्यतो विप्र स्पृशतः परतस्तथा ।
देहस्थं पातकं सर्वं हरेत्प्रणमतो हरिः ४७।
विलोक्याश्वत्थहंतारं यः शक्तो न निवारयेत्।
तन्नेत्रयुग्मं बडिशैर्यमेनोत्पाट्यते स्वयम् ४८।
अश्वत्थच्छेदनं मूढो मा कुर्विति वदेन्न यः ।
तस्य जिह्वां छुरिकया स्वयं कृंतति प्रेतराट् ४९।
अश्वत्थशाखामेकां यः स्वल्पामपि निहंति वै ।
स कोटिब्रह्महत्यानां फलमाप्नोति मानवः ५० 7.12.50।
यत्पापं ब्रह्महत्यायां गुरुस्त्रीगमनेन च ।
सुरापाने तथास्तेये न्यासापहरणेऽपि च ५१।
यत्पापं भ्रूणहत्यायां गोहत्यायां द्विजोत्तम ।
स्त्रीहत्यायां च यत्पापं परस्त्रीगमने तथा ५२।
शरणागत हत्यायां हत्यायां सुहृदस्तथा ।
विश्वासवाक्याकथने पतिहिंसाविधौ च यत् ५३।
यत्पापं परनिंदायां हरिवासरभोजने ।
अश्वत्थच्छेदनाद्धोरं तत्पापं प्राप्यते जनैः ५४।
विष्णुमूर्त्तेर्जनो मोहादश्वत्थस्य निहंति यः ।
तत्तुल्यः पातकी कोऽपि न श्रुतः क्षितिमंडले ५५।
वदाम्यश्वत्थमाहात्म्यं सर्वपापविनाशनम् ।
सेतिहासं द्विजश्रेष्ठ शृणु वत्स समाहितः ५६।
पूर्वं धनंजयो नाम ब्राह्मणो हरिभक्तिकृत् ।
आसीत्त्रेतायुगे विप्र सर्वप्राणिहिते रतः ५७।
ज्ञातिपूजारतो नित्यं दीपदाने रतः सदा ।
सत्यवादी जितक्रोधो हिंसादंभविवर्जितः ५८।
मुमुक्षुः स द्विजश्रेष्ठ सर्वदा परमेश्वरम् ।
पूजयामास परया भक्त्या नारायणं प्रभुम् ५९।
तस्य भक्तिं ततो ज्ञात्वा महतीं सुदृढां प्रभुः ।
जहार सकलं वित्तं हेतुमात्रेण केनचित् ६०।
तथापि स द्विजश्रेष्ठः केशवस्य महात्मनः ।
पूजामनुदिने चक्रे भक्त्या परमया सुधीः ६१।
दुःखेनोपार्जितं वित्तं विनष्टं सकलं द्विज ।
दृष्ट्वापि तेन विप्रेण दुःखेनाचिंत्यचेतसा ६२।
भक्षणे वर्जनं चक्रे स विप्रः परमार्थवित् ।
महाविष्णुसपर्यायां दृढं बद्ध्वा मनो निजम् ६३।
भूयोऽपि तस्य विप्रस्य भक्तिं ज्ञात्वा जनार्दनः ।
चकार बंधुविच्छेदं सुदृढः शमदस्ततः ६४।
बांधवास्तस्य विप्रस्य विष्णुमायाविमोहिताः ।
हिंसामारेभिरे कर्तुं सर्वदैव द्विजोत्तम ६५।
ततो विप्रो हि निर्वृत्तो निर्बंधैः पुरुषोत्तमम् ।
पूजयामास सततं प्रीतः प्रचुरभक्तितः ६६।
परिकल्प्य च भूदेवो धनं केशवपूजने ।
माधवं च जगन्नाथं सबंधुशुचमत्यजत् ६७।
भूय एव महाविष्णुः कौतुकी तस्य जैमिने ।
जहार सानुकंपोऽपि पुत्रानपि दिने दिने ६८।
तथापि स द्विजश्रेष्ठः केशवं क्लेशनाशनम् ।
पूर्वद्विगुणया भक्त्या नित्यं विष्णुमपूजयत् ६९।
तस्य पत्नी ततो विप्र दुःखशोकातिदुःखिता ।
पितृगेहं गता विष्णोर्मायया परिमोहिता ७०।
अथैकाकी स भूदेवो विष्णुभक्तिपरायणः ।
विपदं चिंतयामास न कदापि सुचेतसा ७१।
एकदा स द्विजश्रेष्ठ विष्णुभक्तिमतां वरः ।
स्कंधे परशुमादाय काष्ठार्थं विपिने ययौ ७२।
वनात्काष्ठं समादाय नित्यमेव च स द्विजः ।
हिमागमे वस्त्रहीनः कुरुते शीतवारणम् ७३।
कदाचिद्विपिनं गंतुं नाशक्नोद्द्विजसत्तमः ।
जघान प्रांगणस्थस्य शाखामश्वत्थशाखिनः ७४।
अत्रांतरे महाविष्णुस्तस्मादश्वत्थ पादपात् ।
निश्चक्राम सुरश्रेष्ठो व्यथाव्यथितमानसः ७५।
ददर्श विष्णुं पुरतः स विप्रश्चतुर्भुजं पद्मदलायताक्षम् ।
पीतांबरं कुडलिनं सुकेशं दधानमब्जादि निजायुधानि ७६।
परिस्रवद्विस्तररक्तधारा संध्यासु शोणीकृतनव्यमेघम् ।
विभावसुं चैव सुखं परेशं संदृश्यते देवगणैरदृश्यम् ।
हर्षाश्रुधारा रुचिराक्षियुग्मस्तुष्टाव विप्रो मृदुलैर्वचोभिः ७७।
ब्राह्मण उवाच-
हरे मुरारे जगदेकनाथ गोविंद दामोदर माधवेति ।
लक्ष्मीपते केशवकेशिशत्रो नारायणानंत विभो प्रसीद ७८।
तवावतारं किमहं ब्रवीमि त्वया विना नास्ति भुवीह कोऽपि ।
किं वा गुणव्याप्तसमस्तलोकं किं वा दयां मित्रपरैकतुल्याम् ७९।
दत्वा स्वीयां कस्यचिदीश विष्णो भक्तिं हरस्य च्युतदेहसंस्थाम् ।
श्रियं समादाय मुदं प्रदास्ये भक्तिः प्रदत्तामहतः सुधन्या ८०।
मन्ये महात्मानमनंतमूर्त्ते पापात्मनां श्रेष्ठमिवानिशं यत् ।
तदर्थमेवांघ्रियुगं त्वदीयं न पातकी पश्यति दैवचिंत्यम् ८१।
यद्यप्यहं दुःखवतां वरिष्ठो मन्ये तथापीन्द्रमिवाद्य विष्णो ।
आत्मानमात्मा जगतां भवंतं साक्षात्समीक्षेयत ईक्षणाभ्याम् ८२।
पूजां तवाल्पामपि वेद्मि नाहं द्रव्यं कदापि न ददामि तुभ्यम् ।
तथापि चाग्रे मम मूर्तिमांस्त्वं दृष्टोसि मे केशव एक पूज्यः ८३।
दत्तस्त्वयायं ममभक्ति वृक्षो धमार्थकामत्रय एव सोऽयम् ।
त्वद्दर्शनांभो मयवृष्टिसिक्तः प्रभोऽद्यकैवल्यफलं दधार ८४।
मूर्धा मदीयोऽखिललोकमूर्ध्नां श्रेष्ठो भवेत्केशवविश्वमूर्तेः ।
त्वत्पादपाथोजयुगेमनो मे संयाति वै संप्रतिदेवदेव ८५।
व्यासउवाच-
इत्थं स्तुत्वा जगन्नाथं नारायणमनामयम् ।
कृतांजलिपुनःप्राह भक्त्या तमिति स द्विजः ८६।
ब्राह्मण उवाच-
देवदेव जगन्नाथ लोकानुग्रहकारक ।
कशाप्रहरणैरेतद्गात्रं ते रुधिरोक्षितम् ८७।
सर्वेषामेव दैत्यानां युधि वंशास्त्वया हताः ।
त्वां हंतुं कः क्षमः पृथ्व्यां प्रभोऽद्भुतमिदं महत् ८८।
भगवानुवाच-
वत्स सत्यमिदं प्रोक्तं त्वया नास्त्यत्र संशयः ।
दानवो राक्षसो वापि मां हंतुं कोऽपि न क्षमः ८९।
अश्वत्थमूतिरेवाहं कुठारेण हतस्त्वया ।
अतोऽजनि शरीरे मे रक्तपातोऽधुना द्विज ९०।
व्यास उवाच-
तस्यवाक्यमिदं श्रुत्वा स विप्रो भयविह्वलः ।
निनिंद स्वयमात्मानमात्मना बहुधा द्विजः ९१।
धिगस्तु तत्वतो भाग्यं सर्वपातकिनां वरम् ।
त्रैलोक्याधिपतेर्दाता हृदये महतीं व्यथाम् ९२।
सर्वपापहरो विष्णुः समया व्याधितः कृतः ।
एतत्पापं मया पारं कर्तुं नैकेन शक्यते ९३।
यस्मिंस्तुष्टे पापिनोऽपि भवंति सुरवंदिताः ।
मद्दत्तया स व्यथया व्यथितो हा हतोऽस्म्यहम् ९४।
प्रसादयंति यं देवा ब्रह्माद्या अतिभक्तितः ।
अहो मया पापवता तस्य दत्ता हृदि व्यथा ९५।
किं तपोभिर्जपैः किं वा किं गृहैर्जीवनैश्च मे ।
धर्मार्थकाममोक्षाणां दातैकोऽयं व्यथातुरः ९६।
इत्युक्त्वा स द्विजश्रेष्ठ तमेव परशुं निजे ।
दातुं कंठे मनश्चक्रे विष्णुप्रीणनहेतवे ९७।
तस्यभक्तिं दृढां ज्ञात्वा दयालुः कमलापतिः ।
तद्धस्तात्तत्परं निन्ये जवेन भक्तवत्सलः ९८।
श्रीभगवानुवाच-
कथं त्वमेव कुरुषे वत्स कर्मातिदारुणम् ।
आत्महत्याकृतां पुंसां तुष्टोस्मि न कदाप्यहम् ९९।
तव भक्त्यातितुष्टोऽस्मि भीतिं मा कुरुसत्तम ।
वरं वरय विप्रेन्द्र यत्ते मनसि वर्तते १०० 7.12.100।
ब्राह्मण उवाच-
मया व्यथाप्रदत्तेयं महती परमेश्वर ।
मा तिष्ठतु शरीरे ते याचे वरमिमं प्रभो १०१।
श्रीभगवानुवाच-
अज्ञानाद्भवता वत्स कर्मेदं विहितं द्विज ।
अतोऽपराधो नेतव्यो महानपि न ते यथा १०२।
नित्यं तवानुपाल्योऽस्मि भक्तश्रेष्ठो यतो भवान् ।
भवदीयानहं मन्ये दोषान्वत्स दिनेदिने १०३।
तथापि ममभक्तिस्ते ववृधे महती सदा ।
तस्माद्वत्स तवानृण्यं गंतुमिच्छामि संप्रति १०४।
विहाय सकलां भीतिं वंर वृणु ममाग्रतः ।
ब्राह्मण उवाच-
त्वयि सर्वसुरश्रेष्ठ मम जन्मनिजन्मनि १०५।
तिष्ठतां सुदृढा भक्तिर्हरे किमपरैर्वरैः ।
व्यास उवाच-
श्रुत्वा वाक्यमिदं तस्य केशवप्रणयोदितम् १०६।
निजकण्ठस्थितां मालां प्रीतस्तस्मै ददौ ततः ।
समालिङ्ग्य ततो विप्रं पिता पुत्रमिव प्रभुः १०७।
चतुर्भिर्बाहुभिर्दीर्घैरुवाच मृदुलं वचः ।
श्रीभगवानुवाच-
मद्भक्तोऽसि यदा विप्र तथा ते मत्प्रसादतः १०८।
अचिरेणैव सकलं भद्रं विप्र भविष्यति ।
अश्वत्थरूपं मां नित्यं क्रियायोगेन सत्तम १०९।
समाराधय सर्वं ते साधयिष्यामि वांछितम् ।
इत्युक्त्वा तं द्विजश्रेष्ठं भूयोऽप्यालिङ्ग्य केशवः ११०।
अभवत्सहसादृश्यस्तत्रैव करुणालयः ।
विष्णोः कंठस्रजं प्राप्य स विप्रो वैष्णवोत्तमः १११।
कृतकृत्यमिवात्मानं मत्वा तस्थौ निजेगृहे ।
ततः कुबेरो विप्रर्षे तस्य विप्रस्य सद्मनि ११२।
स्वयं ववर्ष वित्तानि बहूनि केशवाज्ञया ।
प्रासादो रचितस्तस्य शिल्पिना विश्वकर्मणा ११३।
नारायणाज्ञया तत्र वैजयंत इवोत्तमः ।
दासदासीसमायुक्तो नानावस्तुविभूषितः ११४।
गजाश्वकोटिसंकीर्णं विबभौ तस्य मन्दिरम् ।
बभुवुः संगतास्तस्य नष्टा अपि च बांधवाः ११५।
कृतावज्ञा च तत्पत्नी स्वयं तद्गृहमाययौ ।
मृतपुत्रापि तत्पत्नी केशवस्यानुकंपया ११६।
स्थिरप्रजाभवद्विप्र स्वामिभक्तिपरायणा ।
चिरं भुक्त्वाखिलान्भोगान्पुत्रपौत्रसमन्वितः ११७।
आयुषोंऽते ययौ मोक्षं सदारो विप्रसत्तमः ।
व्यास उवाच-
साक्षादेव स्वयं विष्णुरश्वत्थो वृक्षसत्तमः ११८।
तद्भक्तिं कुर्वतां पुंसां विद्यते नाशुभं क्वचित् ।
अश्वत्थं सेवते यस्तु विष्णुं ध्यात्वा नरोत्तम ११९।
तस्य प्रसन्नो भगवान्ददाति परमं पदम् १२०।
इति श्रीपद्मपुराणे क्रियायोगसारे अश्वत्थमाहात्म्ये द्वादशोऽध्यायः १२।