पद्मपुराणम्/खण्डः ७ (क्रियाखण्डः)/अध्यायः ११

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः १० पद्मपुराणम्/खण्डः ७ (क्रियाखण्डः)
अध्यायः ११
वेदव्यासः
अध्यायः १२ →

व्यास उवाच-
जैमिने विधिना येन पूजितव्यो हरिः सदा
तमहं वच्मि विप्रर्षे शृणु वत्स समाहितः १
कल्य उत्थाय पर्यंकाद्गृहीत्वा पात्रमंभसाम्
बहिर्देशं व्रजेत्प्राज्ञः शीर्षमाच्छाद्य वाससा २
तत्रोदीच्यां दिशि मौनी यज्ञसूत्राणि कर्णयोः
कृत्वोपविष्टः प्राज्ञस्तु मलमूत्रं विसर्जयेत् ३
देवतायतने मार्गे गोष्ठेषु चत्वरेषु च
रथ्यायां कृष्टभूमौ च दर्भमूले तथांगणे ४
तटिनी पुलिने चैत्त्यवृक्षमूले तथा वने
तडागवापीगर्भेषु मलमूत्रं च न त्यजेत् ५
रविं चंद्रमसं चैव द्विजान्गाश्च दिशो दश
मलमूत्रं त्यजेद्यावत्तावत्प्राज्ञो न पश्यति ६
खनितां मूषिकाद्यैश्च बिलाभ्यंतरवर्तिनीम्
फालकृष्टां मृदं चैव न गृह्णीयाच्छौचहेतवे ७
जलाज्जलं समानीय शौचं कुर्याद्विचक्षणः
पादं जलेषु वै दत्वा न शौचं कुरुते बुधः ८
दक्षिणाभिमुखो रात्रौ कुर्यात्प्राज्ञो बहिःक्रियाम्
शिरः प्रावृत्य वस्त्रेण ततः शौचं समाचरेत् ९
मृत्तिकैका प्रदातव्या लिंगे तिस्रस्तु वै गुदे
सप्त सव्ये करे प्राज्ञैर्हस्तयोरुभयोर्दश १०
पादयोः षट्प्रदातव्या मृत्तिका च विचक्षणैः
कृतशौचक्रियः प्राज्ञः कुर्याद्दंतस्य धावनम् ११
जिह्वपामार्जनं चैव दशनाच्छादनादिभिः
दक्षिणाभिमुखो भूत्वा पश्चिमाभिमुखस्तथा १२
न दंतधावनं कुर्यात्कुर्याच्चेन्नारकी भवेत्
मध्यमानामिकाभ्यां च वृद्धांगुष्ठेन च द्विज १३
दंतस्य धावनं कुर्यान्न तर्जन्या कदाचन
अश्वत्थवटवृक्षाणां धात्र्या कैथिकया बुधः १४
न दंतधावनं कुर्यात्तथेंद्रस्यसुरस्य च
नित्यं क्रियाफलं तस्य सर्वमेव विनश्यति १५
यः स्नानसमये कुर्याज्जैमिने दंतधावनम्
निराशाः पितरो यांति तस्य देवाः सुरर्षयः १६
दंतस्य धावनं कुर्याद्यो मध्याह्नापराह्णयोः
तस्य पूजां न गृह्णंति देवताः पितरो जलम् १७
स्नानकाले पुष्करिण्यां यः कुर्याद्दंतधावनम्
ततो ज्ञेयः स चांडालो यावद्गंगां न पश्यति १८
भगवत्युदिते सूर्ये यः कुर्याद्दंतधावनम्
तद्दंतकाष्ठं पितरो भुक्त्वा गच्छंति दुःखिनः १९
उपवासदिने विप्र पितृश्राद्धदिने तथा
न तत्फलमवाप्नोति दंतधावनकृन्नरः २०
प्रभाते मार्जयेद्दंतान्वाससा रसनां तथा
कुर्याद्द्वादश विप्रेंद्र कल्लोलानि जलैर्बुधः २१
उपवासे पितृश्राद्धे विधिनाऽनेन जैमिने
दंतधावनकृन्मर्त्यः संपूर्णं लभते फलम् २२
अनेन विधिना कृत्वा दीर्घदर्शी बहिः क्रियाम्
ततो निजगृहं गत्वा रात्रिवस्त्रं परित्यजेत् २३
ततो देवगृहद्वारे चोपविष्टो बुधः शुचिः
स्मरेन्नारायणं देवमनंतं परमेश्वरम् २४
रामश्यामतनो विष्णो नारायण दयामय
जनार्दन जगद्धाम पापं मे हर केशव २५
पीतांबरधरानंत पद्मनाभ जगन्मय
वामन प्रणतस्येश विभो त्वं शरणं भव २६
दामोदर यदुश्रेष्ठ श्रीकृष्ण करुणार्णव
कमलेक्षण देवेंद्र वासुदेव कृपां कुरु २७
गरुडध्वज गोविंद विश्वंभर गदाधर
शंखपाणे चक्रपाणे पद्महस्त हरापदः २८
लक्ष्मीविलास वैकुंठ हृषीकेश सुरोत्तम
पुरुषोत्तम कंसारे कैटभारे भयं हर २९
श्रीपते श्रीधर विभो श्रीद श्रीकर माधव
परंब्रह्म परंधाम शरणं मे भवाव्यय ३०
इत्थं कृत्वा द्विजश्रेष्ठ श्रीविष्णुस्मरणं बुधः
बद्धांजलिरिति ब्रूते प्रविश्य निलयं गतः ३१
ईश्वर श्रीपते कृष्ण देवकीनंदन प्रभो
निद्रां मुंच जगन्नाथ प्रभातसमयोऽभवत् ३२
अथोस्थितमिव प्राज्ञः पर्यंके देवकीसुतम्
निद्रां त्यक्त्वा सलक्ष्मीकं चिंतयेन्निज चेतसा ३३
ततः कृतच्छदं दिव्यं पात्रं च जलपूरितम्
मुखप्रक्षालनार्थाय दद्यात्कृष्णाय वैष्णवः ३४
ईश्वरं वर्तनार्थाय सेवंते सेवका यथा
तथैव मतिमंतोपि सेवंते परमेश्वरम् ३५
यस्तु सेवकरूपेण सेवते जगदीश्वरम्
अचिरेणैव विप्रर्षे तस्य सिध्यति वांछितम् ३६
यथेश्वरस्य सभयाः सेवां कुर्वंति चेटकाः
प्राज्ञास्तथैव सेवंते सर्वदैव हरिं प्रभुम् ३७
निजेच्छयानया विष्णुं निर्भयः पूजयेन्नरः
कुसेवकः स एवास्ति तदा नहि भवेद्द्विज ३८
अतएव द्विजश्रेष्ठ त्वरया कमलापतेः
कर्त्तव्या सर्वदा सेवा पुंसा कैवल्यमिच्छुना ३९
निर्माल्यं रात्रिवस्त्रं च गंधं पर्युषितं तथा
हरेरुत्तारयेदंगात्प्रभाते वैष्णवो जनः ४०
ततो देवालये तस्मिन्स्वयमेव हि मार्जयेत्
कुर्याच्छनैःशनैः प्राज्ञः संमार्जन्या परिष्क्रियाम् ४१
यावंतो निलयात्तस्माद्गच्छंति रेणवो बहिः
तावन्मन्वंतरशतं तिष्ठेद्विष्णुगृहे नरः ४२
यस्तु संमार्जनं कुर्याद्ब्रह्महापि हरेर्गृहे
सोपि याति परं धाम किमन्यैर्बहुभाषितैः ४३
तथोपलेपनं कुर्यादूर्णकैर्गोमयैर्द्विज
तस्मिन्विष्णुगृहे प्राज्ञः स्मरेन्नारायणं प्रभुम् ४४
यस्तूपलेपनं कुर्यात्केशवस्य च मंदिरे
तस्य पुण्यमहं वच्मि संक्षेपाच्छृणु जैमिने ४५
रजांसि तत्र यावंति विनश्यंति द्विजोत्तम
तावत्कल्पसहस्राणि तिष्ठेद्विष्णुगृहे सुखी ४६
संमार्जनं विष्णुगृहे जनः कृत्वोपलेपनम्
लभते परमं धाम किं पूजाफलवित्प्रभोः ४७
देव राज विरोधेन न शक्नोति यदा स्वयम्
तदा विष्णुगृहे चापि धर्मपत्नीं नियोजयेत् ४८
अथवा तनयं भक्तं सुचरित्रं तथात्मनः
भ्रातरं भगिनीं वापि देवागारे नियोजयेत् ४९
हरेः सपर्यावस्तूनि सप्तधा शुद्धवारिभिः
प्रक्षालयेत्त्रिधा वापि स्वयमेवातियत्नतः ५० 7.11.50
अम्लेन ताम्रपात्राणि कांस्यपात्राणि भस्मना
वह्निना लोहपात्राणि शुध्यंति नात्र संशयः ५१
धनाढ्यो लोहपात्रस्थैर्यः स्नापयति वारिभिः
नारायणं जगन्नाथं तस्य तुष्टो न केशवः ५२
अज्ञानाद्वापि चेत्तर्हि गंगास्नानेन शुद्ध्यति
संपदि ब्राह्मणश्रेष्ठ कर्त्तव्यो नियमः सदा ५३
विपत्त्यां नियमो नास्ति शास्त्रेष्विति विनिश्चयः
यत्नात्प्रक्षालितः शङ्खो यदा भूमिं स्पृशेत्पुनः ५४
तदा स शङ्खो विप्रेंद्र शतधौतेन शुध्यति
इत्थं प्रक्षाल्य यत्नेन पूजाद्रव्याणि चक्रिणः ५५
गृहीत्वा स्नानवस्तूनि स्नानार्थं सरसीं व्रजेत्
अकृत्वा स्नानकर्माणि गृहमायाति यः पुनः ५६
तस्मिन्दिने पितृगणस्तस्य नाप्नोति तर्पणम्
स्नानार्थं भोजनार्थं वा गच्छतो विघ्नकृद्भवेत् ५७
यस्तु मोहाद्द्विजश्रेष्ठ स नूनं नारकी भवेत्
स्नानार्थं सरसीं गत्वा मलमूत्रं करोति यः ५८
पितरस्तस्य विण्वमूत्रभोजिनः स्युर्न संशयः
ततः कृत्वा विधानेन स्नानं च तर्पणादिकम् ५९
स्वकीयं गृहमागच्छेत्स्मरेन्नारायणं बुधः
ततश्च प्रांगणे विप्र प्रक्षाल्य चरणद्वयम् ६०
प्रविशेद्देवतागारं शुचिर्ब्राह्मणसत्तमः
अप्रक्षालितपादो यः प्रविशेन्निलयं जनः ६१
संवत्सरकृतं पुण्यं तस्य नश्यति तत्क्षणात्
स्नानं कृत्वा समागत्य प्रांगणेषु विचक्षणः ६२
तस्मात्प्रक्षाल्य चरणौ प्रविशेद्देवतागृहम्
उपविश्य पादयुग्मं बुधः सव्येन पाणिना ६३
यत्नात्प्रक्षालयेद्विप्र तथा पाणिद्वयं पुनः
पादेन पादं विप्रेंद्र तथा दक्षिणपाणिना ६४
यश्च प्रक्षालयेन्मूढस्तं लक्ष्मीस्त्यजति ध्रुवम्
अथोपविष्टो मतिमान्केशवार्चनमारभेत् ६५
अनन्यमानसो भूत्वा सर्वकामफलप्रदम्
मृगचर्मासने शुद्ध व्याघ्रचर्मासनेऽपि वा ६६
वस्त्रासने केवले च तथा कुशमयासने
पुष्पासने चोपविष्टः पूजयेत्कमलापतिम् ६७
काष्ठासने द्विजो विद्वान्न कुर्य्याद्विष्णुपूजनम्
विष्णुना त्वं धृता पृथ्वि सर्वेलोकास्त्वया धृताः ६८
अतः सर्वसहे देहि वस्तुं मे स्थानमुत्तमम्
इत्युक्त्वासनमास्तीर्य वसेन्नारायणार्चकः ६९
दक्षिणाभिमुखो भूत्वा न कुर्याद्विष्णुपूजनम्
शङ्खे कृत्वा तु पानीयं मंत्रपूतं सुवासितम् ७०
स्नापयेत्कमलाकांतं कमलासहितं प्रभुम्
शङ्खेन स्नापयेद्यस्तु भगवंतं जनार्दनम् ७१
तत्फलं तस्य वक्ष्यामि शृणु विप्रेंद्र जैमिने
विप्र गो स्त्री भ्रूणहत्या सुरापानादिपातकैः ७२
विमुक्तो याति वैकुंठं भुंक्ते हि सकलं सुखम्
यदि दृष्ट्वा हृषीकेशं पूजयेन्मानवो द्विज ७३
लभते तत्तदेवाशु प्रसादात्कमलापतेः
शंखाभावे तु विप्रेंद्र सुगंधितोयकं बुधः ७४
कृत्वा च तुलसीं पात्रे स्नापयेत्केशवं बुधः
ततो देवं स्नापयित्वा संस्थाप्य च वरासने ७५
सुगन्धैश्चंदनैस्तस्य कुर्यात्सर्वांगलेपनम्
तुलसीकाष्ठपंके च चक्रिणो देहपालनम् ७६
यः करोति जनस्तस्य प्रसन्नः सततं हरिः
तुलसीपत्रमालेयं निजगन्धसुखप्रदा ७७
दीयते ते जगन्नाथ सुप्रीतो भव सर्वदा
मंत्रेणानेन विप्रेंद्र तुलसीपत्रमालया ७८
अलंकृतो महाविष्णुः प्रसन्नो न ददाति किम्
ततस्तु वैदिकैर्मंत्रैः कर्तव्यं स्वस्तिवाचनम् ७९
दिग्बंधनं च कर्तव्यं मंत्रैः पौराणिकैर्बुधैः
कृष्णो रक्षतु पूर्वस्यामाग्नेय्यां देवकीसुतः ८०
याम्यां रक्षतु दैत्यारिर्नैरृत्यां मधुसूदनः
विदिक्षु रक्षतु श्रीमानूर्ध्वं च श्रीधरः प्रभुः ८१
अधो रक्षतु विश्वात्मा कूर्ममूर्तिः कृपामयः
ये विघ्नकारकाः सर्वे पूजाकाले भवंति ह ८२
दूरं गच्छंतु ते सर्वे हरिनामास्त्रताडिताः
इत्थं दिग्बंधनं कृत्वा ततः प्रह्वः कृतांजलि ८३
वक्ष्यमाणेन मंत्रेण संकल्पं कुरुते दृढम्
मयारब्धामिमां पूजां देवदेव जनार्दन ८४
सिंद्धिं प्रापय निर्विघ्नां प्रसीद परमेश्वर
ततस्तु कृतसंकल्पो वैष्णवः सर्वतत्ववित् ८५
अंगन्यासादिकं कृत्वा ध्यायेन्नारयणं हृदा
नवीनमेघसंकाशं पुंडरीकनिभेक्षणम् ८६
पीतांबरधरं देवं स्मितचारुतराननम्
कदंबपुष्पमालाभिर्भूषितं सुमहाभुजम् ८७
बर्हिबर्ह(?)श्रेणिबद्धशिखंडधृतकुंडलम्
वंशी मधुरनादेन मोहयंतं दिशो दश ८८
आवृतं गोपनारीभिश्चारुवृंदावने स्थितम्
एवं संचिंत्य देवेशं गोविंदं सर्वकामदम् ८९
ततश्चावाहनं कुर्याद्भक्तिभावेन वैष्णवः
आवाहिताय कृष्णाय चतुर्वर्गप्रदायिने ९०
पाद्यार्घ्याचमनीयानि तत्र दद्याद्विचक्षणः
कोमलैस्तुलसीपत्रै रम्यैर्वा कुसुमैर्बुधः ९१
पूजयेत्सर्वदेवेशं श्रीकृष्णं देवकीसुतम्
नमो मत्स्याय कूर्माय वराहाय नमोनमः ९२
नमोऽस्तु हरये तुभ्यं वामनाय नमोनमः
नमो रामाय रामाय रामाय बलिने नमः ९३
नमो बुद्धाय शुद्धाय सकृपाय नमोनमः
नमोस्तु कल्किने तुभ्यं नमस्ते बहुमूर्त्तये ९४
नारायणाय कृष्णाय गोविंदाय च शार्ङ्गिणे
दामोदराय देवाय देवदेवाय ते नमः ९५
हृषीकेशाय शांताय व्योमपादाय वै नमः
नमोस्तु पद्मापतये नमस्ते पद्मचक्षुषे ९६
अनंताय नमस्तुभ्यं गदाहस्ताय वै नमः
तार्क्ष्यध्वजाय वै तुभ्यं नमस्ते चक्रपाणये ९७
पद्महस्ताय वै तुभ्यमच्युताय नमो नमः
नमो दैत्यारये तुभ्यं सर्वकामप्रदायिने ९८
माधवाय सुरेशाय विष्णवे परमात्मने
किरीटिने कुण्डलिने नमोऽस्तु हरये सदा ९९
नमो भगवते तुभ्यं वाहनं गरुडाह्वयम्
ॐनमो गरुडायेति मंत्रेणैव विचक्षणः १०० 7.11.100
नमः शंखाय चक्राय गदायै च नमोनमः
नमः पद्माय खड्गाय नंदकाय नमोनमः १०१
इति संपूज्य देवेशं सदारं च सवाहनम्
सायुधं च ततो मंत्रं जपेदष्टाक्षरं बुधः १०२
निजभक्त्या ततो जप्त्वा मंत्रमष्टाक्षरं बुधः
गोविंदाय ततो दद्यान्नानानैवेद्यमुत्तमम् १०३
धूपं दीपं च तांबूलं देवदेवाय विष्णवे
अन्यान्यप्युपहाराणि प्रदद्याद्वैष्णवो जनः १०४
यस्तु धूपं द्विजश्रेष्ठ चंदनागरुवासितम्
दद्यान्मुरारये तस्य द्रुतं सिध्यति वांछितम् १०५
धूपं यच्छति यो विप्र हरये घृतवासितम्
स गच्छेद्विष्णुभवनं विमुक्तः पापकोटिभिः १०६
नारायणाय यो धूपं दद्याद्गुग्गुलुवासितम्
स याति परमं धाम दुर्ल्लभं यत्सुरैरपि १०७
घृतेन दीपं यो दद्यात्तिलतैलेन वा पुनः
निमेषात्सकलं तस्य पापं हरति केशवः १०८
कर्पूरवासितं यस्तु तांबूलं चक्रपाणये
दद्यात्तस्य द्विजश्रेष्ठ मुक्तिर्भवति जैमिने १०९
यस्तु यच्छति तांबूलं खदिरेण समन्वितम्
इह भुक्त्वाखिलान्भोगानंते याति हरेः पदम् ११०
षष्ठी मधुरिकायुक्तं तथा जातिफलादिभिः
तांबूलं हरये दत्वा स्वर्गमाप्नोति मानवः १११
शङ्खे कृत्वा तु पानीयं कुर्याद्विष्णुप्रदक्षिणाम्
वक्ष्यमाणेन मंत्रेण जैमिने वैष्णवो जनः ११२
जनार्दन जगद्बंधो शरणागतपालक
त्वद्दासदासदासत्वं दासस्य देहि मे प्रभो ११३
मंत्रेणानेन यः कुर्यान्नारायणप्रक्षिणाम्
तस्य पुण्यफलं वच्मि संक्षेपाच्छृणु जैमिने ११४
ब्रह्महत्यादिपापानि यानि यानि महांति च
तानि तानि प्रणश्यंति प्रदक्षिणपदे पदे ११५
यावत्पादं नरो भक्त्या गच्छेद्विष्णुप्रदक्षिणे
तावत्कल्पसहस्राणि विष्णुना सह मोदते ११६
हरिप्रदक्षिणे यावत्पदं गच्छेच्छनैः शनैः
पदेपदेऽश्वमेधस्य फलं प्राप्नोति मानवः ११७
प्रदक्षिणीकृत्य सर्वं संसारे यत्फलं भवेत्
हरिं प्रदक्षिणीकृत्य तस्मात्कोटिगुणं फलम् ११८
अंगं प्रदक्षिणीकृत्य यस्तु नारायणाग्रतः
सोऽपि तत्फलमाप्नोति किमन्यैर्बहुभाषितैः ११९
न लंघयेत्सोमसूत्रं धीमाञ्शंभुप्रदक्षिणे
लंघयित्वा यदा विप्र सा पूजा निष्फला भवेत् १२०
प्रदक्षिणा कारतया वारैकं यो हरिं व्रजेत्
जन्मजन्मनि विप्रेंद्र सार्वभौमो भवेद्ध्रुवम् १२१
यस्तु वारद्वयं विप्र कुर्याद्विष्णुप्रदक्षिणाम्
ऐंद्रं पदमवाप्नोति त्रिदिनेनात्र संशयः १२२
विष्णुप्रदक्षिणं यस्तु कुर्याद्वारद्वयं जनः
विमुक्तः सकलैः पापैः प्रविशेन्माधवीं तनुम् १२३
भ्रामयेत्सोदकं शङ्खं केशवोपरि जैमिने
अंते देवालयं गत्वा सभवेत्सुरवंदितः १२४
प्रणमेद्दंडवद्भूमौ सप्तधा यस्तु केशवम्
पातकं तच्छरीरस्थं भस्मीभवति तत्क्षणात् १२५
शिरस्यंजलिमाधाय प्रणमेद्यो जनार्दनम्
तस्मै लक्ष्मीपतिर्विष्णुर्ददाति परमं पदम् १२६
भूमौ निपात्य सर्वांगं हरिं प्रणमतां नृणाम्
पुण्यप्रभावं विप्रर्षे वदतो मे निशामय १२७
यावद्भूरेणुभिर्नृणां भूषितं स्यात्कलेवरम्
तावत्कल्पसहस्राणि तिष्ठंति हरिसंनिधौ १२८
ततः केशवनिर्माल्यं वैष्णवेभ्यः प्रदीयते
वैष्णवांस्तान्प्रवक्ष्यामि शृणु सत्तम जैमिने १२९
शुकः सूतस्तथा व्यासो नारदः कपिलो मुनिः
प्रह्लादश्चांबरीषश्च तथाक्रूरोद्धवावपि १३०
बिभीषणो हनूमांश्च तथैवान्येऽपि वैष्णवाः
निर्माल्यं वासुदेवस्य गृह्णंतु सर्वकामदम् १३१
इत्युक्त्वा विष्णुनिर्माल्यं निक्षिपेद्भुवि वैष्णवः
ततस्तु हरिनिर्माल्यं स्वयं गृह्णाति भक्तितः १३२
मस्तके दृश्यते यस्य हरिनिर्माल्यमुत्तमम्
स विज्ञेयो द्विजश्रेष्ठ साक्षादेव हरिः स्वयम् १३३
दुर्लभं विष्णुनैवेद्यं निर्माल्यं पापनाशनम्
गृह्णंति त्रिदशाः सर्वे मनुष्याणां च का कथा १३४
जैमिने तुलसीपत्रं यस्तु जिघ्रति वैष्णवः
तस्य देहांतरस्थं हि सर्वं पापं विनश्यति १३५
तुलसीपत्रगंधस्तु प्रविशेद्यस्य नासिकाम्
आपदस्तच्छरीरस्थाः सद्यो गच्छंति संक्षयम् १३६
तुलसीछदनघ्राणमाघ्राय योऽभिनंदति
तस्यालये भवेन्नित्यमानंदो द्विजसत्तम १३७
स्तवैः स्तुत्वा जगन्नाथं कमलाप्रियमच्युतम्
कृतांजलिस्ततः प्राज्ञ इमं मंत्रमुदीरयेत् १३८
नारायण जगद्रूप गच्छ धाम जगत्पते
गच्छ देव निजस्थानं प्रसन्नो भव सर्वदा १३९
येयं स्वशक्त्या देवेंद्र तव पूजा कृता मया
अच्छिद्रास्तु जगन्नाथ त्वत्प्रसादाज्जगन्मय १४०
ततः पादोदकं प्राज्ञो महाविष्णोः परात्मनः
समस्तपातकध्वंसि गृह्णीयाद्भक्तिभावतः १४१
कणमात्रं वहेद्यस्तु विष्णोः पादोदकं शुभम्
स स्नातः सर्वतीर्थेषु जैमिने सत्यमुच्यते १४२
स्पृशेत्पादोदकं विष्णोर्गंगास्नानफलं भवेत्
गांगेयं सलिलं विप्र विष्णुपादोदकं यतः १४३
अकालमरणं नास्ति नास्ति व्याधिभयं तथा
यः स्पृशेत्पादसलिलं केशवस्य महात्मनः १४४
पापव्याधिविनाशार्थं विष्णुपादोदकौषधम्
पापिनोऽपि नरास्ते च पिबंतु प्रतिवासरम् १४५
विष्णुपादोदकं विप्र यः पिबेद्वैष्णवो जनः
पातकं तच्छरीरस्थं क्षणादेव तु नश्यति १४६
यथौषधेन देहस्थं हन्यते देहिनो भृशम्
तथैव पातकं सर्वं विष्णुपादोदकेन च १४७
विष्णुपादोदकं शुद्धं तुलसीपत्रसंयुतम्
यो वहेच्छिरसा विप्र तस्य पुण्यं वदाम्यहम् १४८
ब्रह्महत्यादिभिः पापैर्विमुक्तो विष्णुरूपधृक्
अंते विष्णुपुरं गत्वा विष्णुना सह मोदते १४९
मेरुप्रमाण हेमानि दत्वा भवति यत्फलम्
विष्णुपादोदकं स्पृष्ट्वा तद्भवेदधिकं फलम् १५० 7.11.150
अश्वकोटिप्रदानेन तत्फलं प्राप्यते जनैः
सप्तद्वीपां महीं दत्वा द्विजेभ्यो यत्फलं लभेत् १५१
तत्फलं लभते मर्त्यो विष्णुपादोदकं स्पृशन्
अश्वमेधसहस्राणि कृत्वा भवति यत्फलम् १५२
विष्णुपादोदकं स्पृष्ट्वा तद्भवेदधिकं फलम्
दीर्घिकाशतदानेन यत्पुण्यं परिकीर्तितम् १५३
तस्मादप्यधिकं पुण्यं लभेत्पादोदकं स्पृशन्
बहुनात्र किमुक्तेन संक्षेपादुच्यते मया १५४
विष्णुपादोदकस्पर्शान्मुक्तो भवति मानवः
भूयोभूयोपि विप्रेंद्र सुदृढं कथ्यते मया १५५
पुनर्न लभते जन्म स्पृशन्पादोदकं हरेः
विष्णुनैवेद्यशेषं यः सर्वपापविनाशनम् १५६
योऽश्नाति भक्तिभावेन स गच्छेत्परमं पदम्
दुर्लभं विष्णुनैवेद्य भुंजते द्विजसत्तम १५७
देहं त्यजति पापानि ब्रह्महत्यामुखान्यपि
भुंजतो हरिनैवेद्यं दासीव वशगा भवेत् १५८
मुक्तिभूमिः सुरश्रेष्ठ दैवतैरपि दुर्लभा
संपूज्य कमलाकांतं किंचिन्नैवेद्यमत्यजन् १५९
अचिरेणैव तं विष्णुर्नयति स्वां तनुं प्रति
नैवेद्यस्य महाविष्णोर्गुणं किं कथयाम्यहम् १६०
यद्भुंजतः केशवोऽपि स्यादधीनो द्विज प्रभो
अनेन विधिना विप्र प्रतिमासे जनार्दनम् १६१
विधिहीनामपि श्रेष्ठां पूजां श्रीकमलापतेः
यः कुर्याद्भक्तिभावेन सोऽपि स्यात्केशवप्रियः १६२
विधिज्ञो विधिना विष्णुमभ्यर्च्य यत्फलं लभेत्
यथोक्तविधिना विप्र नैवेद्यैर्बहुभिः प्रभो १६३
पूजितोऽपि न तुष्टः स्याद्यदि भक्तिर्न तिष्ठति
यस्य वै यावती भक्तिर्देवदेवे जनार्दने १६४
तावदेव फलावाप्तिस्तस्य नास्त्यत्र संशयः
अभक्त्याया हरेः पूजा क्रियते भुवि मानवैः १६५
सा पूजा ब्राह्मणश्रेष्ठ पूजाकाले भवेत्किल
ज्ञानमूलं हरेर्भक्तिर्भक्तिमूलं जगत्पतेः १६६
पूजा मोक्षद्रुमोत्पत्तौ मूलमाराधनं हरेः
अल्पमात्रमपि प्राज्ञ श्रद्धया कुरुते हि यत् १६७
तदक्षयं भवेत्सर्वं श्रद्धायुक्ताखिला क्रिया
भक्त्या यः पूजयेद्विष्णुं वारिमात्रमपि द्विज १६८
संस्थानं लभते विष्णोर्यतो भक्तवशो हरिः १६९
असारमेतद्भुवनं समस्तं सारं हरेः पूजनमेव विप्र
तस्मान्मनुष्यो निजमंगलैषी भक्त्या यजेत्कृष्णमनंतमूर्तिम् १७०
इति श्रीपद्मपुराणे क्रियायोगसारे हरिपूजाविधिर्नाम एकादशोऽध्यायः ११