पद्मपुराणम्/खण्डः ७ (क्रियाखण्डः)/अध्यायः १०
← अध्यायः ०९ | पद्मपुराणम्/खण्डः ७ (क्रियाखण्डः) अध्यायः १० वेदव्यासः |
अध्यायः ११ → |
जैमिनिरुवाच-
माहात्म्यमेतद्गङ्गायास्त्वत्प्रसादाच्छ्रुतं मया ।
इदानीं श्रोतुमिच्छामि विष्णुपूजाफलं गुरो १।
व्यास उवाच-
शृणु लक्ष्मीपतेर्वत्स सपर्या फलमुत्तमम् ।
यच्छ्रुत्वा मानवाः सर्वे लभंते ज्ञानमुत्तमम् २।
विप्र द्वादशमासेषु माघादिषु सनातनः ।
पूजितव्यो विधानैर्यैः शृणु तानि वदाम्यहम् ३।
माघेमासि समायाते सर्वमासोत्तमे शुभे ।
आमिषं मैथुनं चैव त्याजयेद्वैष्णवोत्तमः ४।
प्रातःस्नायी भवेन्नित्यं तैलान्यपि च वर्जयेत् ।
द्विर्भोजनं परान्नं च माघेमासि परित्यजेत् ५।
प्रातः शुक्लांबरधरः कृतपंच महाध्वरः ।
सपर्यामारभेद्विष्णोः स्थिरचित्तो हि मानवः ६।
ईषदुष्णजलैः शुद्धैः स्नापयेद्विष्णुमव्ययम् ।
अतिश्लथैश्चंदनैश्च विष्णोरङ्गानि लेपयेत् ७।
पूजयेज्जगदीशस्य देवदेवस्य चक्रिणः ।
प्रक्षालितानि पात्राणि जलहीनानि कारयेत् ८।
स्नापयित्वा जगन्नाथमीषदुष्णेन वारिणा ।
प्रोक्षितव्यं तच्छरीरं दिव्यवस्त्रेण यत्नतः ९।
सलिलैरीषदुष्णैश्च प्रस्नापयति केशवम् ।
माघेमासि द्विजश्रेष्ठ फलं तस्य मयोच्यते १०।
विमुक्तः पातकैः सर्वैर्जन्मजन्मांतरार्जितैः ।
इह भुंक्ते सुखं सर्वं शेषे याति हरेर्गृहम् ११।
यत्नात्प्रक्षाल्य पात्राणि कृत्वाशुद्धानिवारिभिः ।
यः पूजयेज्जगन्नाथं तस्य पुण्यं निशामय १२।
इह भुक्त्वाखिलान्कामान्सर्वव्याधिविवर्जितः ।
अंते युगसहस्राणि तिष्ठेत्केशवमंदिरम् १३।
प्रभाते विश्वसंध्यायां पुरतश्चक्रपाणिनः ।
ज्वलंतं स्थापयेद्वह्निं निर्द्धूमं वैष्णवो जनः १४।
शीतस्य वारणार्थाय सायंप्रातश्च वैष्णवः ।
माघे विष्ण्वग्रतो वह्निं ज्वालयेत्तत्फलंशृणु १५।
इह भुक्त्वाखिलान्कामान्पुत्रपौत्रसमन्वितः ।
अंते विष्णुपुरं याति दैवतैरपि दुर्ल्लभम् १६।
यथैवात्मा तथा विष्णुः संदेहोनात्र विद्यते ।
स्वपंतं देवदेवेशं पर्यंकोपरि केशवम् १७।
आत्मनः कुरुते मर्त्यो यथा शीतनिवारणम् ।
क्षीरेण स्नापयेद्यस्तु माघे मासि जनार्दनम् ।
तस्मै देवोत्तमो विष्णुः संतुष्टो न ददाति किम् १८।
तथा शीतक्षयं कुर्याद्दिव्यवस्त्रेण चक्रिणः १९।
यः पूजयेत्सकृन्माघे स्नापयित्वा चतुर्भुजम् ।
नालिकेरोदकैर्दुग्धैः फलं तस्य वदाम्यहम् २०।
नरकाब्धौ मज्जमानान्दुस्तरे स्वेन कर्मणा ।
उद्धृत्य कोटिपुरुषान्स याति चक्रिणः पदम् २१।
माघे मासे च शुक्लायां पंचम्यां द्विजसत्तम ।
एकादश्यां च पंचम्यां हरिपूजा विशेषतः २२।
दातव्यो देवदेवाय सपद्माय मुरारये ।
पायसो धूपसहितो माघेमासि दिने दिने २३।
सधूपपायसं यस्तु माघे यच्छति चक्रिणे ।
तस्य पुण्यफलं वच्मि शृणु वैष्णव जैमिने २४।
अंते विष्णुपुरं गत्वा मन्वंतरचतुष्टयम् ।
भुंक्ते मनोरमान्भोगान्प्रसादाच्चक्रपाणिनः २५।
पुनरागत्य धरणीं चक्रवर्ती नृपो भवेत् ।
भुंक्ते च भोगं सुचिरं मृतो याति हरेर्गृहम् २६।
पंचम्यां वापि सप्तम्यामेकादश्यां च जैमिने ।
अशक्तो वैष्णवो दद्यात्परमान्नं मुरारये २७।
कृष्णपक्षाद्दिवजश्रेष्ठ शुक्लपक्षे विशेषतः ।
शुक्लपक्षे तिथिष्वेषु दद्यादन्नं मुरारये २८।
एकाहमपि यो माघे विष्णवे दैत्यजिष्णवे ।
सपूपंपायसं दद्यान्न तस्य दुर्ल्लभो हरिः २९।
यत्किच्चिद्दिवजतुष्ट्यर्थं माघेमासि प्रदीयते ।
तदक्षयं भवेत्पुंसः कोऽपि नास्त्यत्र संशयः ३०।
माघे मासि कृतं कर्म शुभं वाशुभमेव वा ।
तस्य नास्ति क्षयं विप्र मन्वंतरशतैरपि ३१।
माघे चंपकपुष्पेण योऽर्चयेत्कमलापतिम् ।
स गच्छेत्परमं धाम विमुक्तः सर्वपातकैः ३२।
यावंति स्वर्णपुष्पाणि दीयंते चक्रपाणये ।
तावद्युगसहस्राणि स्थीयते विष्णुमंदिरम् ३३।
मेरुतुल्यसुवर्णानि दत्वा भवति यत्फलम् ।
एकेन स्वर्णपुष्पेण हरिं संपूज्य तत्फलम् ३४।
सुवर्णपुष्पं विप्रेन्द्र सर्वदा केशवप्रियम् ।
माघेमासि विशेषेण पवित्रं केशवप्रियम् ३५।
सुवर्णकुसुमैर्दिव्यैर्येन नाराधितो हरिः ।
रत्नैर्हीनः सुवर्णाद्यैः स भवेज्जन्मजन्मनि ३६।
फलं चंपकपुष्पस्य ब्रवीम्यहं विशेषतः ।
आकर्णय द्विजश्रेष्ठ सेतिहासमनुत्तमम् ३७।
सुवर्णो नाम भूपालो बलवान्सर्वशास्त्रवित् ।
आर्यावर्तेषु सर्वेषु बभूव विप्रवर्चसा ३८।
राजश्रिया विद्यया च वयसा च स भूपतिः ।
अतिप्रमत्तो विप्रर्षे सदा पापरतोऽभवत् ३९।
पाखंडमंत्रिणां वाक्यैर्विनादोषैरपि द्विज ।
धनलोभात्तेन राज्ञा दंड्यंते साधवो जनाः ४०।
अन्यायोपार्जितं वित्तं गीतवाद्यादिभिर्वृतः ।
समस्तं नाशयामास यज्ञदानविवर्जितः ४१।
न ज्ञातिपोषणं चक्रे न देवद्विजभोजनम् ।
न च याचकसंतुष्टिं सर्वदा पापमोहितः ४२।
न चकारातिथेः पूजां सदा पापपरायणः ।
ययौ च मंदिरान्नित्यं स भूपः पापमंदिरः ४३।
कृतानि तेन पापानि यान्यन्यान्यविवेकिनाम् ।
अपि वर्षशतैः शक्तः संख्यातुं जनितानि किम् ४४।
एकदा स महीपालः कामेन परिमोहितः ।
जगाम वेश्यानिलयं निशीथे दुरिताशयः ४५।
तमायांतं ततो दृष्ट्वा भूपालमुज्ज्वलाह्वया ।
सहसोत्थाय पर्यंके चक्रे तत्पादवंदनम् ४६।
प्रक्षाल्य तत्पादयुगं भृंगारसलिलैश्च सा ।
मंचे निवेशयामास दोर्भ्यामालिङ्ग्य तं नृपम् ४७।
तत्प्रेमामृतधाराभिः सिक्तोऽसौ पृथिवीपतिः ।
तस्मिन्नुवास पर्यंके तया सह कुतूहली ४८।
ततः सा गणिका प्रीत्या हसंती नवयौवना ।
ददौ चंपकपुष्पाणां तस्मै भूमिभुजे स्वयम् ४९।
पुष्पमाला पुष्पमेकं तस्माद्भूपति हस्ततः ।
पपात धरणीपृष्ठे गन्धव्याप्तदिगंतरम् ५० 7.10.50।
तच्च्युतं कुसुमं दृष्ट्वा स राजाऽत्यतसंभ्रमात् ।
नमोनारायणायेति जगादोङ्कारपूर्वकम् ५१।
नारायणायेति वाक्यात्सर्वाणि पातकानि च ।
स्वर्णपुष्पप्रदानेन तस्य नष्टानि भूभुजः ५२।
ग्रामीणा अथ सर्वेऽपि समागत्यातिदुर्जये ।
तस्यामेव निशायां तं जघ्नुर्वेश्यागृहे स्थितम् ५३।
नेतुं तमथ भूपालं सर्वपातकिनां वरम् ।
किंकरान्प्रेषयामास क्रुद्धो वैवस्वतो भृशम् ५४।
तेनाज्ञप्तास्ततो दूताः पाशमुद्गरपाणयः ।
अतिवेगात्समायाताः क्रोधसंरक्तलोचनाः ५५।
उद्यमं चक्रिरे नेतुं यमदूताः स्वमालयम् ।
ततो नारायणप्रेष्याः शङ्खचक्रगदाधराः ५६।
आयाता गरुडारूढास्तं नेतुं पृथिवीपतिम् ।
पाशे नियंत्रितं दृष्ट्वा तं भूपं विष्णुकिंकराः ५७।
जघ्नुश्चक्रैर्गदाभिश्च यमदूतान्महाबलाः ।
समारोप्य रथे दिव्ये शंखान्दध्मुरनुत्तमान् ५८।
तथा राजा रथारूढस्तुलसीमाल्यभूषितः ।
पीतकौशेयवासाश्च स्वर्णालंकारभूषितः ५९।
स्तूयमानो मुनिगर्णैर्वेदवेदाङ्गपारगैः ।
विष्णुदूतैः परिवृतो हरेः सालोक्यमाययौ ६०।
अथोत्थाय स्वयं विष्णुश्चतुर्भिर्दीर्घबाहुभिः ।
तमालिंगितवान्भूपं प्रोक्तवांश्च द्विजोत्तम ६१।
श्रीभगवानुवाच-
नृपते कुशलं ब्रूहि सर्वपुण्यात्मनां वर ।
किमस्ति साध्यं भवतस्तदाज्ञापय संप्रति ६२।
नमोनारायणायेति वारैकमपि यो वदेत् ।
नित्यं तस्यानुपाल्योऽहं स मे भ्राता स मे पिता ६३।
नारायणेति मन्नाम कदाचिद्यः स्मेरन्नरः ।
साधयाम्यखिलं तस्य पितुः पुत्र इवेप्सितम् ६४।
भक्तोऽसि नृपतिश्रेष्ठ तस्मान्निजमनोरथम् ।
प्रकाशयाद्भुतं तात किं ते दास्यामि चाधुना ६५।
राजोवाच-
सर्वमेव दयासिन्धो त्वया दत्तं न संशयः ।
पापिनापि मया प्राप्तं तव स्थानं सुदुर्ल्लभम् ६६।
तस्यानेन तु वाक्येन प्रसन्नः कमलापतिः ।
स्नेहान्निवेशयामास भूपालं तन्निशामय ६७।
ततः सुवर्णालंकारैर्विश्वकर्मविनिर्मितैः ।
चकार मण्डलं तस्य स्वयमेव दयामया ६८।
अथ नानाविधैर्भक्ष्यैर्दिव्यैरपि सुदुर्ल्लभैः ।
तोषितः स महीपालो विष्णुनाति सहिष्णुना ६९।
एवं प्रतिदिनं तस्थौ स राजा विष्णुमंदिरम् ।
मन्वन्तरसहस्राणि नव वर्ष शतानि च ७०।
प्रजानां पालनं चक्रे स राजा धर्मतत्परः ।
पूजयामास सततं भक्त्या परमया हरिः ७१।
चारु चंपकपुष्पैश्च नैवेद्यैर्विविधैश्च सः ।
आयुःशेषे स भूपालो मरणं जाह्नवी जले ७२।
समासाद्य ययौ मोक्षं प्रसादाच्चक्रपाणिनः ।
व्यास उवाच-
विप्र चंपकपुष्पस्य प्रभावोऽयं प्रकीर्तितः ७३।
चपंकैर्हरिमभ्यर्च्य मुक्ताः स्युः पापिनो जनाः ।
स्फुटचंपकपुष्पेण पूजितो भगवान्हरिः ७४।
अचिरेणैव विप्रर्षे ददाति परमं पदम् ।
ये यजंति परात्मानमिच्छया वाप्यनिच्छया ७५।
तेऽपि यांति परं धाम विमुक्ताः सर्वपातकैः ७६।
हरौ प्रसन्ने दुरितानिकोऽपि यतः स राजा कृतपातकोऽपि ।
जगाम मोक्षं कृपयामुरारेर्विश्वार्णवं निम्नमिमं वितीर्य ७७।
दिव्यैः सुगन्धैः कनकप्रसूनैर्नारायणं पद्मदलायताक्षम् ।
भक्त्या यजेद्यः परमादरेण मर्त्यो व्रजेत्तत्तु विहाय पापम् ७८।
इति श्रीपद्मपुराणे क्रियायोगसारे चंपकपुष्पमहिमानाम दशमोऽध्यायः १०।