पद्मपुराणम्/खण्डः ७ (क्रियाखण्डः)/अध्यायः ०९

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः ०८ पद्मपुराणम्/खण्डः ७ (क्रियाखण्डः)
अध्यायः ०९
वेदव्यासः
अध्यायः १० →

जैमिनिरुवाच-
भूय एव गुरो ब्रूहि गङ्गामाहात्म्यमुत्तमम्
गङ्गाकथामृतं पातुं माधुर्यात्पुनरिष्यते १
व्यास उवाच-
तदप्यहं ब्रवीमि त्वां गङ्गाभक्तो यतो भवान्
तौ पादौ सफलौ नॄणां जाह्नवीतटगामिनौ २
गङ्गाकल्लोलनिनदश्राविणौ श्रवणौ च तौ
सा जिह्वा या च जानाति स्वादुभेदं तदंभसः ३
ते नेत्रे जाह्नवी चारुतरंगदर्शने च ते
तल्ललाटमिति प्रोक्तं गङ्गामृत्पुण्ड्रधारि यत् ४
तौ हस्तौ जाह्नवी तीरे हरि पूजापरायणौ
शरीरं सफलं तच्च विमले जाह्नवी जले ५
पतितं तद्द्विजश्रेष्ठ चतुर्वर्गफलप्रदम्
स्वर्गस्थाः पितरः सर्वे गच्छंतो जाह्नवीतटे ६
संदृश्य हृष्टाः शंसंति वदंत इति जैमिने
तत्पुण्यं कृतमस्माभिः सद्गतिप्राप्तये पुरा ७
भविष्यत्यक्षयं तच्च यतः पुत्रोऽयमीदृशः
अनेन गाङ्गैः सलिलैर्वयं संप्रति तर्पिताः ८
यास्यामः परमं धाम दुर्ल्लभं यत्सुरैरपि
गङ्गायां यानि द्रव्याणि दास्यत्यस्माकमात्मजः ९
अस्मभ्यं तानि सर्वाणि भविष्यंत्यक्षयाणि वै
नरकस्थाश्च पितरः सर्वदुःखसमन्विताः १०
वदंतीति सुतं दृष्ट्वा गच्छंतं जाह्नवीतटम्
कृतानि यानि पापानि नरकक्लेशदानि वै ११
यास्यंति संक्षयं तानि पुत्रस्यापि प्रसादतः
विमुक्ता नरकक्लेशैर्वयं सर्वे सुदुःसहैः १२
अथ पुत्रप्रसादेन यास्यामः परमां गतिम्
यात्रां विधाय यो मर्त्यो गृहं मोहान्निवर्तते १३
निराशाः पितरस्तस्य यांति सर्वे यथा गताः
आमिषं मैथुनं चैव दोलामश्वं गजं तथा १४
उपानहं चातपत्रं गंगायात्रासु वर्जयेत्
अध्वश्रमोद्भवं दुःखं दुष्करं न हि मन्यते १५
गृहे पद्मसुखं तत्र गङ्गास्नाने स्मरेन्न च
असत्यभाषणं चैव पाखंडसंगमेव च १६
द्विर्भोजनं च कलहं गंगायात्रासु वर्जयेत्
परनिंदां च लोभं च गर्वं च क्रोधमत्सरौ १७
अत्यंतहास्यशोकं च गंगायात्रासु वर्जयेत्
मंचसुप्तमिवात्मानं चिंतयेद्भूमिशायिनम् १८
गंगानाम सुनामानि वदेद्गच्छञ्जनः पथि
माहात्म्यं जाह्नवी देव्याः सर्वपापप्रणाशनम् १९
सुखदं मोक्षदं चैव कथयन्पथि गच्छति
गङ्गे देवि जगन्मातर्देहि संदर्शनं मम २०
वचोभिः कोमलैरेभिः कुर्याच्छ्रमनिवारणम्
हा कथं सदनं त्यक्तमागतं वा कथं मया २१
श्रमैरिति वदेद्यस्तु संपूर्णं तत्फलं नहि
क्व पर्यंङ्कः क्व मे पत्नी क्व च मे च सुहृद्गृहम् २२
स्वपामि प्रांतरे भूमौ कथं वाहं समागतः
धनधान्यादिवस्तूनां का गतिर्वा गृहे मम २३
कियद्भिर्दिवसैर्भूयो गमिष्याम्यहमालयम्
इति चिंताकुला ये च पथि गच्छंति मानवाः २४
गंगास्नानफलं तेषां संपूर्णं न भवेद्द्विज
गङ्गे गंतुं प्रतीतीरे यात्रेयं विहिता तव २५
निर्विघ्नां सिद्धिमाप्नोमि त्वत्प्रसादात्सरिद्वरे
इमं मंत्रं समुच्चार्य यात्राकाले विशेषतः २६
हर्षितो निलयाद्गच्छेद्वैष्णवैः सह जैमिने
नातिवेगेन गंतव्यं न तथा च शनैः शनैः २७
गङ्गायात्रासु कर्त्तव्यं नान्यत्कर्म विचक्षणैः
गंगातीरे प्रयागे तु वाणिज्यप्रमुखानि च २८
कार्याणि कुरुते यस्तु तत्पुण्यार्द्धं विनश्यति
जन्मजन्मार्जितं पापं स्वल्पं वा यदि वा बहु २९
गंगादेवीप्रसादेन सर्वं मे यास्यति क्षयम्
इत्युक्त्वा परमप्रीतः प्राज्ञो गङ्गातटं व्रजेत् ३०
दृष्ट्वा च मातरं गङ्गामिमं मंत्रमुदीरयेत्
अद्य मे सफलं जन्म जीवितं च सुजीवितम् ३१
साक्षाद्ब्रह्मस्वरूपां त्वामपश्यमिति चक्षुषा
देवि त्वद्दर्शनादेव महापातकिनो मम ३२
विनष्टमभवत्पापं जन्मकोटिसमुद्भवम्
इत्युक्त्वा सकलं देहं निपात्य पृथिवीतले ३३
प्रणमेज्जाह्नवीं देवीं भक्तिभावसमन्वितः
ततः स्रोतःसमीपे च बद्धाञ्जलिरिमं पुनः ३४
पठेन्मंत्रं भक्तिभावैः सुप्रीतो द्विजसत्तम
गंगे देवि जगद्धात्रि पादाभ्यां सलिलं तव ३५
स्पृशामीत्यपराधं मे प्रसन्ना क्षंतुमर्हसि
स्वर्गारोहणसोपानं त्वदीयमुदकं शुभे ३६
अतः स्पृशामि पादाभ्यां गंगे देवि नमो नमः
ततस्तु मस्तके धृत्वा गांगेयं वारि भक्तितः ३७
स्नानार्थं प्रविशेत्स्रोतः प्राज्ञो गंगेति कीर्तयन्
त्वत्कर्दमैरतिस्निग्धैः सर्वपापप्रणाशनैः ३८
मया संलिप्यते गात्रं मातर्मे हर पातकम्
गङ्गाकर्दमलिप्ताङ्गो गङ्गागङ्गेति कीर्तयन् ३९
सर्वकल्मषनाशिन्यां गङ्गायां स्नानमाचरेत्
भूयः पूर्वोक्तमन्त्रेण गृहीत्वा मृत्तिकां ततः ४०
वक्ष्यमाणेन मन्त्रेण गृहीत्वा मृत्तिकां पुनः
वक्ष्यमाणेन मंत्रेण भक्तितः स्नानमाचरेत् ४१
ब्रह्मस्वरूपे हे गङ्गे स्नानमाचर्यते मया
त्वदीये निर्मले तोये यथोक्तफलदा भव ४२
ततो निजेच्छया विप्र गङ्गायां लोकमातरि
स्नानं समाचरेत्प्राज्ञो गङ्गानारायणं स्मरन् ४३
एवं स्नात्वा तु गङ्गायां गात्रं वस्त्रेण मार्जयेत्
परिधेयांबरांबूनि गङ्गास्रोतसि न त्यजेत् ४४
न दंतधावनं कुर्याद्गङ्गागर्भे विचक्षणः
कुर्याच्चेन्मोहतः पुण्यं न गङ्गास्नानजं लभेत् ४५
प्रभातेऽन्यत्र तां कृत्वा दंतकाष्ठादिकक्रियाम्
रात्रिवासं परित्यज्य गङ्गायां स्नानमाचरेत् ४६
बाह्यभूमिमगत्वा यो गङ्गायां स्नानमाचरेत्
गङ्गास्नानफलं सोऽपि संपूर्णं च लभेन्नहि ४७
स्नात्वा च गङ्गामृत्पुंड्रं स्थाने स्थाने नयेद्बुधः
ततः स्थिरमनाः कुर्याद्विधिना तर्पणादिकम् ४८
गाङ्गेयैरुदकैर्यस्तु कुरुते पितृतर्पणम्
पितरस्तस्य तृप्यंति वर्षकोटिशतावधि ४९
गङ्गायां कुरुते यस्तु पितृश्राद्धं द्विजोत्तम
पितरस्तस्य तिष्ठंति संतुष्टास्त्रिदशालयम् ५० 7.9.50
समाप्य स्नानकर्माणि गङ्गायां समुपोषितः
दानं देवार्चनं चैव जयोऽन्याश्च क्रियास्तथा
कृतास्तु यास्तु गङ्गायां क्षयस्तासां न विद्यते ५१
समाप्य स्नानकर्माणि गंगायां समुपोषितः
कृतपंचमहायज्ञो गंगापूजां समाचरेत् ५२
गंगायाः प्रतिमां देव्याः श्रीविष्णोः प्रतिमां तथा
नालिकेरोदकैर्दिव्यैः स्नापयेद्भक्तितो बुधः ५३
जाह्नवीप्रतिमाभावान्नालिकेरोदकानि वै
निक्षिपेज्जाह्नवीतोये जाह्नवीं हृदि संस्मरन् ५४
दिव्यैर्गंधैश्च दीपैश्च घृतपूर्णसमुज्ज्वलैः
धूपैः सुवासितैश्चैव नानापुष्पमनोहरैः ५५
नानाफलैः सुपक्वैश्च नैवेद्यैरुत्तमास्तथा
पाद्यार्घाचमनीयैश्च तांबूलैः खादिरान्वितैः ५६
अन्यैरप्युपहारैश्च विशिष्टैर्निजभक्तितः
स्तवैर्नाना च नैवेद्यैर्गङ्गां विष्णुं च पूजयेत् ५७
ततः संपूजितां देवीं विष्णुं च परमेश्वरम्
अंगप्रदक्षिणां कुर्याद्भक्त्या वारत्रयं बुधः ५८
अथ स्थित्वा निराहारोऽपरेहनि सरिद्वरे
भोक्ष्यामि जह्नुतनये शरणं मे भवानघे ५९
एवं संकल्प्य मतिमान्कर्मणा मनसा गिरा
रात्रौ जागरणं कुर्याज्जितनिद्रो ऽतिहर्षितः ६०
अशक्त्या च द्विजश्रेष्ठ फलाहारो भवेदधः
अन्नमात्रं न भुंजीत न च कुर्याद्धि भोजनम् ६१
प्रातर्गङ्गां च विष्णुं च पुनरभ्यर्च्य जैमिने
विप्राय दक्षिणां दद्याद्विभवस्यानुरूपतः ६२
अर्चनं जागरं चैव यत्कृतं पुरतस्तव
अच्छिद्रमस्तु तत्सर्वं त्वत्प्रसादात्सरिद्वरे ६३
इत्युक्त्वा तां नमस्कृत्य कृतनित्यक्रियो द्विजः
ततः सबंधुभिः सार्द्धं पारणं स्वयमाचरेत् ६४
तीर्थोपवासमेवं यः कुरुते जाह्नवीतटे
तस्य पुण्यफलं वत्स वदतो मे निशामय ६५
जन्मांतरार्जितैः पापैर्विमुक्तो विष्णुरूपधृक्
विष्णोः पुरं समासाद्य विष्णुना सह मोदते ६६
कल्पकोटिसहस्राणि कल्पकोटिशतानि च
स्थित्वा विष्णुपुरं सर्वं सुखं भुंक्ते सुदुर्ल्लभम् ६७
ततो नारायणादेशाद्ब्रह्मलोकं स गच्छति
ब्रह्मलोके सुखं भुंक्ते दुर्ल्लभं यत्सुरैरपि ६८
तावत्कालं ब्रह्मलोके स्थित्वा ब्रह्मक्षयात्ततः
महादेवं ततो गच्छेद्रथमारुह्य शोभनम् ६९
सुखं नानाविधं तत्र भुङ्क्तेऽत्यन्तसुदुर्ल्लभम्
गाणपत्यमवाप्नोति किमन्यैर्बहुभाषितैः ७०
तावत्कालं शिवपुरे स्थित्वा वै पुण्यवान्नरः
इन्द्रलोकं ततो गच्छेद्द्वितीय इव वासवः ७१
तेन पुण्यात्मना सार्द्धं वसेदेकासने ततः
तत्र भुक्त्वाखिलान्कामान्कल्पकोटिशतावधि ७२
सूर्यलोकं ततो गच्छेद्द्वितीय इव चन्द्रमाः
तत्रामृतानि भुक्त्वा वै चिरं चन्द्रस्य सन्निधौ ७३
पुनरागत्य पृथिवीं चक्रवर्ती नृपो भवेत्
पालयित्वा चिरं पृथ्वीं जित्वा वै सकलान्रिपून् ७४
आयुषोंऽते च गङ्गायां सुखं मृत्युमवाप्नुयात्
भूयः स एवमारुह्य विमानं सुमहायशाः ७५
पुरं भगवतो याति दैवतैरपि दुर्ल्लभम्
तत्र भुक्त्वाखिलान्भोगान्मन्वंतरचतुष्टयम् ७६
परमं ज्ञानमासाद्य दुर्ल्लभं मोक्षमाप्नुयात्
जाह्नवीतीरयात्रायां दैवाद्यस्य भवेत्पथि ७७
पंचता सोऽपि परमं धाम गच्छेन्न संशयः
सत्यधर्मो नाम राजा धार्मिकश्च प्रियंवदः ७८
त्रेताद्वापरसंधौ च बभूव क्षितिमण्डले
विजया नाम महिषी तस्य भूमिपतेरभूत् ७९
सुंदरी शीलयुक्ता सा पतिसेवापरायणा
सप्तवर्षसहस्राणि भुक्त्वा वसुमतीमिमाम् ८०
कदाचित्प्राप्तकालोऽसौ सदारः पंचतां गतः
ततो यमभटैर्बद्धौ दंपती तौ भयंकरौ ८१
दुःखप्रदेन मार्गेण जग्मतुर्यममंदिरम्
तौ दृष्ट्वा धर्मराजोऽपि चित्रगुप्तमुवाच ह ८२
एतयोः सर्वकर्माणि चित्रगुप्त विचारय
तेनाज्ञप्तश्चित्रगुप्तस्तयोः कर्माणि जैमिने ८३
मूलाद्विचारयामास प्राह चेति कृताञ्जलि
चित्रगुप्त उवाच-
एतयोः सकलं कर्म शृणु राजन्वदाम्यहम् ८४
शुभं वाप्यशुभं कर्म यदेताभ्यां कृतं भुवि
किंचिदस्या नयोपायं वदामि तदहं शृणु ८५
एकादा त्रासितो व्याघ्रैः कश्चिदेको मृगः प्रभो
वनाज्जीवनरक्षार्थमागतोऽस्य सभां प्रति ८६
तमायांतं समालोक्य भूयोऽयं प्राप्तकौतुकः
जघने स्वयमुत्थाय खड्गेन तरसा मृगम् ८७
जघान ह मृगं राजा शरणागतमप्यमुम्
तस्मात्सदारोभूपोऽयं दंडनीयस्त्वया प्रभो ८८
यावंति तस्य रोमाणि संस्थितानि कलेवरे
मन्वंतरसहस्राणि मन्वंतरशतानि च ८९
कोटिकोटिकुलैर्युक्ता नारकी स्यान्न संशयः
शरणागतरक्षां यः प्राणैरपि धनैरपि ९०
कुरुते यो नरो ज्ञानी तस्य पुण्यं निशामय
सर्वपापैर्विनिर्मुक्तो ब्रह्महत्यामुखैरपि ९१
आयुषोऽन्ते व्रजेन्मोक्षं योगिनामपि दुर्ल्लभम्
यमाज्ञया ततो दूतैः सदारोऽसौ महीपतिः ९२
असिपत्रवने घोरे स्थापितोऽत्यंतदुःखदे
असितुल्यानि पत्राणि यतस्तेषां च शाखिनाम् ९३
असिपत्रवनं प्राहुरतस्तद्वै मनीषिणः
स्थित्वासिपत्रविपिने युगकोटिशतानि च ९४
सदारो नरकं भेजे व्याघ्रभक्ष्याह्वयं ततः
निरयं तं प्रविशति सर्वोपद्रवसंयुतम् ९५
भवेच्च भक्ष्यो व्याघ्रेण व्याघ्रभक्ष्यस्ततः स्मृतः
युगकोटिसहस्राणि स्थित्वा तत्र स भूपतिः ९६
सदारोऽजनि पापांते भेकयोनिं गतः क्षितौ
जातिस्मरौ ततस्तौ तु भेकीभेकौ सुदुःखितौ ९७
तीरे तस्थतुरेकस्मिन्सततं कीटभोजिनौ
अथैकदा तेन पथा पुण्याहं प्राप्य मानवाः ९८
गच्छंति जाह्नवीतीरं तांस्तौ ददृशतुर्द्विज
भेक उवाच-
वर्षाभ्वि मोहाद्यत्सर्वं पापं कर्म कृतं मया ९९
अद्यापि कर्मणा तेन दुःखमावां न मुंचति
त्यक्त्वा शरीरं गंगायां मुक्ताः स्युः पापिनोऽपि च १०० 7.9.100
तथाप्येवं विधं दुःखमनुभूयावहे कथम्
गंगायां त्यक्तुमिच्छामि संप्रत्येतत्कलेवरम् १०१
का युक्तिर्ब्रूहि तां कांते तितीर्षुर्दुःखसागरम्
वर्षाभ्वी तद्वचः श्रुत्वा प्राहेति विनयान्विता १०२
वर्षाभ्व्युवाच-
दुःखं न शक्यते सोढुं स्वामिन्नेतद् द्रुतं कुरु
ततस्तौ दंपती विप्र स्मृत्वा गंगां शुभप्रदाम् १०३
सहसा चक्रतुर्यात्रां मरणायोपहर्षितौ
अथैतौ पथि गच्छंतौ चिरकालं बुभुक्षितौ १०४
अपश्यत्पापकृत्क्ष्वेडः कालसर्पो भयंकरः
कालसर्प्प उवाच-
दर्दुरौ पापिनौ येथाः प्राप्तकालौ युवां ततः १०५
अथ नूनं भक्षितव्यौ क्षुधितेन मया युवाम्
ततस्तावतिसंत्रस्तौ दंपती दुःखभागिनौ १०६
इत्यूचतुर्वचो भक्त्या कालसर्पं पुरोगतम्
नास्ति मृत्युभयं सर्प स्वल्पमप्यावयोर्हृदि १०७
अहमासं पुरा राजा सत्यधर्माह्वयः क्षितौ
इयं च विजया नाम महिषी संस्थिता मम १०८
मया दुरात्मना मोहान्नितः शरणं गतः ?
तेनैव कर्मणा भुक्तं चिरं दुःखं यमालये १०९
भोक्तुं स्वकर्मणः शेषं भेकयोनौ स्त्रिया सह
सोऽहं यातोऽस्मि पापेन कृतं कर्म न मुंचति ११०
सत्यमावां जिगमिषू परमं धाम पन्नग
व्रजावो जाह्नवीतीरं शरीरत्यागहेतवे १११
त्यजाविवेकतां सर्प नरकक्लेशदायिनीम्
आवां संखाद्य भवतो भविष्यति सुखं कियत् ११२
आवयोर्हृदये विष्णुस्तवापि हृदये हरिः
अतएव त्वया सार्द्धं शत्रुता का भुजंगम ११३
प्राणिहिंसा न कर्तव्या कदापि च विचक्षणैः
क्रियतेऽपि च तद्धिंसां विदधाति स्वयं विधिः ११४
आयुः पुत्राश्च दाराश्च संपदश्च यशांसि च
हिंसां दत्वा मनुष्याणां हरेद्दुष्टो विधिः स्वयम् ११५
किं जपैः किं तपोभिर्वा किं दानैः किमु चाध्वरैः
हिंसेति वर्णद्वितयं यस्यास्ति हृदये सदा ११६
यः प्राणिहिंसको मर्त्यः स एव हरिहिंसकः
सर्वप्राणिशरीरस्थो भगवान्कमलापतिः ११७
आत्मानं बहुधा सृष्ट्वा भगवान्भूतभावनः
संसारकौतुकागारे क्रीडेच्छिशुरिव स्वयम् ११८
शरीरिणः शरीरं हि निलयः परमात्मनः
परमात्मा स्वयं विष्णुरतो हिंसां विवर्जयेत् ११९
परप्राणविनाशेन चात्मतुष्टिर्विधीयते १२०
क्षणं स्यादात्मनस्तुष्टिरन्यस्य प्राणसंक्षयः
चरित्रमेतल्लोकानामत्यद्भुतमिव क्षितौ १२१
आत्मतृप्तिं प्रकुर्वंति परं हत्वातियत्नतः
धीमान्नात्मपरिज्ञानं कदाचित्कुरुते नहि १२२
अहं विष्णुरसौविष्णुरिति चेतसि भावयेत्
परदुःखेन यो दुःखी सुखी यश्च परश्रिया १२३
संसारेऽस्मिन्स विज्ञेयः साक्षादेव हरिः स्वयम्
धिगस्तु तत्सुखं नॄणां मोहवंचितचेतसाम् १२४
परहिंसाविधानेन सुखं यत्स्याद्भुजंगम
सुखानि वापि दुःखानि दीयंते यानि जंतवे १२५
अचिरेणैव तानि स्म लभंते भुवि मानवाः
तस्माद्धिंसां परित्यज्य भुजंगम सुखी भव १२६
त्वयि प्रसन्ने गच्छावः पारं दुःखमहोदधेः
सर्प उवाच-
यदा स्यात्परहिंसायां नूनं मे नातिपातकम् १२७
तदा कथमहो सृष्टै वेधसा भक्ष्यभक्षकौ
परहिंसा न कर्तव्या सत्यमेतत्त्वयोदितम् १२८
किंतु सर्वेषु भक्ष्येषु हिंसा संभाव्यते नहि
नारायणो विश्वरूपः सत्यमेतन्न संशयः १२९
भक्ष्यभक्षकसंयुक्तं स्वयमेव ससर्ज ह
सृजति स्वयमात्मानमात्मानं रक्षति स्वयम् १३०
आत्मानं स्वयमेवात्ति सृष्टिरेवंविधा हरेः
शक्तोऽहं किं युवां हंतुं कालरूपी स्वयं विधिः १३१
संप्रति प्रेषयामास कार्येस्मिन्मां स्वयं हरिः
युवां ससर्ज यो देवो यश्च रक्षति वां सदा १३२
कालरूपी स एवाद्य हंति हेतुं विधाय माम्
व्यास उवाच-
ततस्तेन भुजंगेन भक्षितौ तौ च दंपती १३३
गङ्गा गंगेति जल्पंतौ महत्या क्षुधया पथि
जाह्नवीतीरयात्रायां पादेपादे जनाविमौ १३४
अश्वमेधाख्य यज्ञानां प्राप्तवंतौ महाफलम्
तस्मादेनौ महात्मानौ बह्वश्वमेधधारिणौ १३५
एतयोः सदृशो नास्ति शतक्रतुरहं यतः
निजाधिकारेणैवान्यमवलंब्य पुरंदरः १३६
अर्घ्यहस्तः पादचारी वृतो देवैः समाययौ
अथ रम्भोर्वशी चैव सुंदर्योऽन्याश्च हर्षिताः १३७
अन्योन्यं कथयामासुर्निजयौवनगर्विताः
अयं पुण्यात्मनां श्रेष्ठो रसज्ञोऽत्यंतसुन्दरः १३८
आयातोऽमुं करिष्यामि स्ववशं सेवितैः स्वकैः
काचित्कांचिद्वदत्येतज्जानामि सकलां कलाम् १३९
अतएव भविष्यामि कांताहमस्य भूपतेः
काचित्कांचिदिति ब्रूयात्ते शक्रोपि वशो मम १४०
किमत्र चित्रं वशगो भूपालोऽयं भविष्यति १४१
भर्त्ता ममायं च पतिर्ममायं स्वामी ममायं मम नाथ एषः
इतीव सर्वाः परमप्रमोदैर्वदंति नार्योखिलसद्गुणज्ञाः १४२
उच्चावचं विप्र निशम्य तासां जगाद काचिद्गुणिनी रसज्ञा
सौदास्यकांतां नृपतिः स्वयं यां भजत्ययं किं कलहेन नार्यः १४३
सुन्दर्य्यस्तास्ततः सर्वाः संत्यज्य कलहं द्विज
आजग्मुर्हृदयोत्साहैः सर्वाभरणभूषिताः १४४
अथ तं नृपतिश्रेष्ठ सदारं गतकल्मषम्
पाद्याद्यैः पूजयामासुः प्राहेति च पुरंदरः १४५
रथे निवेशयामास पुष्पके स्त्रीसमन्वितम्
भेरीमृदंगमधुरी डिंडिमानकनिःस्वनैः १४६
करकं कणनादैश्च करतालस्वनैस्तथा
जयशब्दैश्च देवानां नाकः शब्दमयोऽभवत् १४७
देवाङ्गना चारुहस्त श्वेतचामरमारुतैः
वीजितः सरथारूढः सदारस्त्रिदिवं ययौ १४८
ततः शक्रः स्वयं तस्मै सत्यधर्माय भूभुजे
दत्तवान्निजासनार्द्धं शुभो वै क्षयशंकया १४९
शक्रेण सह भूपोऽसौ वसन्नेकासने सदा
शक्रत्वमकरोत्स्वर्गे केशवस्यानुकंपया १५० 7.9.150
युगकोटिसहस्राणि दिवि भुक्त्वाखिलं सुखम्
रथमारुह्यवैकुंठं ययौ भगवदाज्ञया १५१
तत्र मन्वंतरं भुक्त्वा सर्वभोगमनोरमम्
परमं ज्ञानमासाद्या सदारो मोक्षमाप्तवान् १५२
जाह्नवीतीरयात्रायां शरीरं त्यजतः पथि
फलमेवंविधं विप्र मया सर्वं प्रकीर्तितम् १५३
जाह्नवीतीरगमने मुनिभिस्तत्वदर्शिभिः
न कालनियमः प्रोक्तो नारदाद्यैर्महर्षिभिः १५४
यदायदा द्विजश्रेष्ठ गङ्गायां स्नानमाचरेत्
तदातदाऽक्षयं पुण्यं लभते मानवो ध्रुवम् १५५
गंगा सर्वाणि पापानि नाशयंतीति निश्चयः
कुर्यात्पुनःपुनः पापं न च गंगा पुनाति तम् १५६
पापबुद्धिं परित्यज्य गंगायां लोकमातरि
स्नानं कुरुत हे लोका यदि सद्गतिमिच्छथ १५७
यत्पुण्यं गंगास्नानात्तु मानवानां भवेद्दिवज
तत्पुण्यं प्राप्यते विप्र कर्मभिः कैः सुदुस्तरैः १५८
आसाराणां भूमिरेणोः संख्यां कर्तुं तु शक्यते
भागीरथीगुणास्ते न शक्या वक्तुं न च द्विज १५९
विचार्य सर्वशास्त्राणि त्वदीयानि मयोच्यते
गंगांभसि सकृत्स्नात्वा मोक्षमाप्नोति मानवः १६०
स्नानं कूपजलेऽपि यस्तु कुरुते गंगां विचिंत्य प्रभुं देवानां सकलार्त्तशोकदुरितत्रासौघविध्वंसिनीम्
मुक्तः सोऽपि समस्तपातकचयैर्गोविप्रहत्यादिभिर्गच्छेद्विष्णुपुरं समस्तसुखदं-
गंगाप्रसादाद्दिवज १६१
इति श्रीपद्मपुराणे क्रियायोगसारे गंगामाहात्म्ये नवमोऽध्यायः ९