पद्मपुराणम्/खण्डः ७ (क्रियाखण्डः)/अध्यायः ०८

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः ०७ पद्मपुराणम्/खण्डः ७ (क्रियाखण्डः)
अध्यायः ०८
वेदव्यासः
अध्यायः ०९ →

व्यास उवाच-
पुनर्वक्ष्यामि विप्रेन्द्र गङ्गामाहात्म्यमुत्तमम्
गङ्गाकथासुधापानं कुरु मुक्तिं यदीच्छसि १
दानं दत्तं तेन सर्वं तेन सर्वे मखाः कृताः
तेन प्रपूजितो विष्णुर्यद्भक्तिर्भीष्म मातरि २
गङ्गायां धर्मकर्माणि क्रियंते यानि कानि च
अक्षयानि भवंत्यस्य तानि सर्वाणि जैमिने ३
वहंतं जलमालोक्य गाङ्गेयानि जलानि यः
भक्त्या गच्छेत्समुत्थाय सोऽश्वमेधसहस्रकृत् ४
गङ्गाजलेष्वागतेषु यो नो तिष्ठति भक्तितः
पशुता शाश्वती तस्य जन्मजन्मनि जैमिने ५
गाङ्गेयं जलमासाद्य यो न गृह्णाति भक्तितः
जन्मकोट्यर्जितं पुण्यं क्षणादेव तु नश्यति ६
गङ्गातीरं जिगमिषुं यस्तु वारयते द्विज
स कोटिकुलसंयुक्तो रौरवं नरकं व्रजेत् ७
मूत्रं वाथ पुरीषं वा गंगातीरे करोति यः
न दृष्टा निष्कृतिस्तस्य कल्पकोटिशतैरपि ८
श्लेष्माणं वापि निष्ठीवं दूषिकां वाश्रु वा मलम्
गंगातीरे त्यजेद्यस्तु स नूनं नारकी भवेत् ९
उच्छिष्टं कफकं चैव गङ्गागर्भे च यस्त्यजेत्
स याति नरकं घोरं ब्रह्महत्यां च विंदति १०
गङ्गारोधसि यः पापं कुरुते मूढधीर्नरः
तदक्षय भवेन्नूनं नान्यतीर्थेषु शाम्यति ११
अन्यतीर्थे कृतं पापं गङ्गायां च विनश्यति
गङ्गायां यत्कृतं पापं तत्कुत्रापि न शाम्यते १२
तस्मात्पापं न कर्तव्यं गङ्गायां शास्त्रकोविदैः
कर्मणा मनसा वाचा कर्तव्यो धर्मसंग्रहः १३
न ते देशा न ते शैला न च तानि वनानि च
पापविध्वंसिनी यत्र न तिष्ठेत्सुरनिम्नगा १४
गङ्गातीरं परित्यज्य मुहूर्तमपि जैमिने
न च स्थातव्यमन्यत्र यदि कार्यशतान्यपि १५
भिक्षान्नमपि भुक्त्वा च स्थातव्यं जाह्नवीतटे
न चान्यत्र क्षणमपि प्राप्य भूपालतामपि १६
संत्यज्य देहं गङ्गायां ब्रह्महापि विमुच्यते
अन्यत्र मुक्तये न स्यादश्वमेधसहस्रकृत् १७
गङ्गातीरे वसन्यस्तु हरिपूजापरो भवेत्
जन्मजन्मांतरे येन कदाचिन्नार्चितो हरिः १८
भक्तिर्भवति नैतस्य गङ्गायां लोकमातरि
श्रूयतां मानवाः सर्वे भूयोभूयो ब्रवीम्यहम् १९
स्नानं विधाय गङ्गायां गम्यतां परमं पदम्
मृत्युकाले भजेद्यस्तु गङ्गागङ्गेति मानवः २०
विमुक्तःपातकैः सर्वैर्दिवि देवयुगायुतम्
यस्य गङ्गाकथारम्भो मृत्युकाले भवेद्द्विज २१
स गच्छेद्विष्णुभवनं गलिताखिल कल्मषः
यस्तु स्मरति वै प्राज्ञो मृत्युकाले द्विजोत्तम २२
गङ्गेति मुक्तिदं नाम तस्य तुष्टो भवेद्धरिः
मृत्युकाले भवेद्यस्तु गङ्गामृत्पुण्ड्रमुत्तमम् २३
गङ्गास्नायिनमालोक्य त्यजेद्यस्तु कलेवरम्
श्मशानेऽपि द्विजश्रेष्ठ स गङ्गामरणं लभेत् २४
तिष्ठंत्यस्थीनि गङ्गायां यावत्कालं शरीरिणः
तावत्कल्पसहस्राणि विष्णुलोके महीयते २५
यस्य मज्जन्ति गङ्गायां भस्मास्थीनि नखानि च
शिरोरुहाण्यपि प्राज्ञः स विष्णोर्भुवनं वसेत् २६
स्थितेष्वस्थिषु गङ्गायां यत्कर्म लभते नरः
ब्रवीमि तत्फलं सर्वं शृणु नान्यमना द्विज २७
एकदा भगवाञ्छक्रो नानालंकारभूषितः
क्रीडागृहं ययौ कामी युवत्या पद्मगंधया २८
पद्मगंधा रसज्ञा सा संप्राप्त नवयौवना
नानारसप्रदानेन चकार सुरसं प्रति २९
सपत्न्याः स्वर्णपर्यंके तस्याः शिशुमृगीदृशः
प्रीतः पादतले जिष्णुरुवास स्मरमोहितः ३०
अथ तस्यै स्वयं शक्रो निर्माय स्वर्णवीटिकाम्
ददाति परमप्रीतस्तद्गुणाकृष्टमानसः ३१
एतस्मिन्नेव काले तु पौलोमी वरसुन्दरी
भूषणैर्भूषिता सर्वैः स्वयं तद्गृहमाययौ ३२
दृष्ट्वा तथाविधं शक्रं सर्वदेवाधिपं प्रभुम्
भृशं चुकोप पौलोमी प्राहेति च सुलक्षणा ३३
शच्युवाच-
देव किं कुरुषे कांत त्वं समस्तसुराधिप
मम दासीस्वरूपायै ददासि स्वर्णवीटिकाम् ३४
स्पृशंति त्रिदशाः सर्वे शिरसा चरणौ तव
त्वं कथं पद्मगन्धाया दास्याः पादतले प्रभोः ३५
याचितश्च सुगन्धित्वाद्भृंगः स्यानचतद्यशः
सुंदरी कोटिभर्त्ता त्वं समस्तरसवित्प्रभो ३६
कथमेवंविधं कर्म करोष्यत्यंतकुत्सितम्
निर्गुणे पद्मगन्धेहे दासिदूरं परिव्रज ३७
त्वमीश्वरी च पर्यंके शक्रः पादतले तव
व्यास उवाच-
तया निर्भर्त्सिता साध्वी पौलोम्या बहुधा ततः ३८
उवाच पद्मगन्धा सा क्रोधादिति वरांगना
पद्मगंधोवाच-
गुणं च मम दोषं च स्वयं स्वाम्येव वेत्ति वै ३९
केनाधिकारेणागत्य त्वं मां निंदसि निर्गुणे
अन्ये नेत्रद्वयेनापि पश्यंति गुणदोषकौ ४०
सहस्रनेत्रैरप्येष न पश्येत्किं दुराशये
यथा दोषो हि लोकानां प्रचरेन्न गुणं तथा ४१
आदौ कलंकश्चन्द्रस्य दृश्यते गुणवज्जनैः
अनर्थभाषिणी क्रूरा कुमूर्त्तिर्गुणवर्जिता ४२
यदाहं नास्मि गुणिनी भजतु त्वां तदा पतिः
व्यास उवाच-
इत्युक्त्वा पद्मगंधा सा क्रोधात्कोकनदेक्षणा ४३
उत्तस्थौ स्वर्णपर्यङ्कात्कुर्वंती करुणं महत्
इन्द्र उवाच-
प्रिये प्राणेश्वरि श्रेष्ठे मां विहाय क्व गच्छसि ४४
मया किमपराद्धं ते मम तद्वद सुंदरि
कांते दासोऽस्म्यहं नूनं दासकर्म करोमि ते ४५
दासपत्नी भवेद्दासी वाक्यं त्वं न शृणोषि कम्
समुत्थाय ततः शक्रस्तन्मोहाकुलमानसः ४६
अंके निवेशयामास भूयस्तां वरसुंदरीम्
शच्युवाच-
क्रौंचित्वज्जीवनं धन्यं व्यर्थं मज्जीवनं ध्रुवम् ४७
त्वं स्वामिसुभगा नित्यं दुर्भगाहं वरांगना
यावत्पुण्यक्षयं क्रौंचि तत्पुण्यं यास्यते क्षयम् ४८
क्रौंचवंशसमुत्पन्ना दुःखंभूयोऽपि भोक्ष्यसि
देवेन्द्रेणसमं तावत्कुरु केलि यथासुखम् ४९
कियद्भिर्दिवसैः क्रौंचि न भवेत्तव निर्गुणे
अत्यद्भुतं वचस्तस्याः पद्मगन्धा निशम्य सा ५० 7.8.50
द्वन्द्वभावं परित्यज्य प्रणम्योवाच तां सतीम्
पद्मगंधोवाच-
पुलोमजे वरारोहे चित्रमेतत्त्वयोदितम् ५१
क्रौंची कथमहं ब्रूहि श्रोतुमिच्छामि यत्नतः
काहं कुत्रस्थिता चापि कथमत्रागता सती ५२
कालैः कियद्भिर्मत्पुण्यं क्षीणत्वं प्रतियास्यति
शच्युवाच-
पद्मगन्धे पुरा त्वं हि क्रौंची पक्षिसमुद्भवा ५३
अमेध्यमामिषं कीटान्भक्षयंती क्षितौ स्थिता
न्यग्रोधतरुरेकोऽस्ति गङ्गातीरे मनोरमे ५४
तत्र नीडं विनिर्माय भवत्या वसतिः कृता
एकदा कृष्णसर्पेण तस्मिन्न्यग्रोधपादपे ५५
नीडं प्रविश्य दष्टा त्वं सहसा पंचतां गता
क्रव्याणि तव सर्वाणि स सर्पो भक्षयत्क्रुधा ५६
स्थितानि तत्रैवास्थीनि निर्मांसानि वरानने
कदाचित्पवनैर्भद्रे महद्भिः स च पातितः ५७
भग्नः पपात गङ्गायां समूलोऽपि वरांगने
गङ्गायां पतिते तस्मिन्न्यग्रोधे धरणीरुहे ५८
गङ्गाजलैः प्लावितानि तान्यस्थीनि तवोत्तमे
यावदस्थीनि गङ्गायां तावत्तिष्ठंति तानि च ५९
तावत्त्वं स्वामिसुभगा भविष्यसि सदैव हि
इति ते कथितं सर्वं पद्मगंधे मयाधुना ६०
येन पुण्यप्रभावेण शक्रोऽपि वशगस्तव
धन्या तु जाह्नवी देवी क्रौंची यस्याः प्रसादतः ६१
त्वमस्पृश्यासि चाण्डालैरंकेस्वपिषि वज्रिणः
तेनापमानिता साध्वी शक्रेणापि पुलोमजा ६२
परिम्लानमुखांभोजा सा जगाम यथागता
शक्रांक एव सा तस्थौ पद्मगन्धा वरांगना ६३
तद्वाक्यं हृदये तस्या जागरूकमिवस्थितम्
अथैकदा सुराधीशः सुप्रीतस्तद्गुणैर्द्विज ६४
वरं वरय सुश्रोणि स्वयं तामित्युवाच ह
पद्मगंधोवाच
त्वं सर्वदेवताधीशो नारीकोटिपतिस्थता ६५
तथाप्यसि ममाधीनः स्वामिन्किमपरैर्वरैः
तथापि त्वं वरं दित्सुर्यदा नूनं सुरोत्तम ६६
कर्मणा मनसा वाचा प्रतिज्ञां कुरु मत्पुरः
इंद्र उवाच-
जीवितं च धनं चैव राज्यं चैव परिच्छदम् ६७
आज्ञापय किमेतद्वै तुभ्यं दास्यामि सुंदरि
सत्यं सत्यं पुनः सत्यं संदेहो नात्र विद्यते ६८
यदीच्छसि मृगीनेत्रे तत्ते दास्याम्यहं ध्रुवम्
पद्मगंधोवाच-
नूनमेव प्रसन्नोऽसि यदि त्वं त्रिदशेश्वर ६९
जन्म मे हस्तियोनौ च भूयो देहीति मे वरम्
इंद्र उवाच-
कृतप्रतिज्ञः सुश्रोणि वरं तेऽहं ददामि वै ७०
किंतु दुःखानि यातानि बहूनि हृदये मम
त्वामदृष्ट्वा वरारोहे प्रीतिर्न प्राप्यते क्षणम् ७१
कथं ते चिरविच्छेदं सोढुं शक्नोमि दुःसहम्
यदा मय्यनुकंपास्ति तव पीनपयोधरे ७२
तदा कियद्दिनं तिष्ठ मया सह वराङ्गने
ततो देवाधिराजस्य वदंती बहुसंपदम् ७३
वर्षाणामयुतं तस्थौ सा देवनिलये सती
पद्मगन्धोवाच-
आज्ञां देहि सुराधीश साधितुं सुमनोरथम् ७४
व्रजाम्यहं कर्मभूमिं वंदे पादद्वयं तव
इन्द्र उवाच-
त्वत्प्रेमसिंधुमानेन मया चन्द्रनिभानने ७५
स्थित्वा कतिदिनं पश्चाद्गमिष्यसि यथासुखम्
ततस्तुकौतुकागारे तेन सार्द्धमहर्निशम् ७६
क्रीडंती पद्मगंधा सा तस्थौ वर्षायुतत्रयम्
सुराधीशं ततः सेति तदा प्राह मुदान्विता ७७
आदेशं कुरु गच्छामि पृथिवीं प्रति संप्रति
इंद्र उवाच-
जाड्यं जहीहि सुश्रोणि तिष्ठात्रैव मया सह ७८
त्वां त्यक्तुं न हि शक्नोमि प्राणेभ्योऽपि गरीयसीम्
पद्मगन्धोवाच-
पुण्यक्षये सुराधीश यदा यास्याम्यहं भुवि ७९
तदा चिरं ते विच्छेदो भविष्यति मया सह
यद्विच्छेदे मया नाथ पुनर्गंतुं भुवं प्रति ८०
इच्छाम्यहं पुनर्द्यौश्च पुण्योपार्जनहेतवे
कर्मभूमिमहं गत्वा येनोपायेन वासव ८१
तत्करिष्यामि विच्छेदः कदाचित्स्यात्त्वया न मे
इन्द्र उवाच-
भद्रे त्वया यदा नूनं कर्मेदं कर्तुमिच्छितम् ८२
तदा गच्छ पुनः शीघ्रमागमिष्यसि सुंदरि
सह नेत्राद्धि विगलद्वाष्पसिक्ततनुस्ततः ८३
दोर्भ्यामालिङ्ग्य तां शक्रो गच्छेत्याह प्रिये वदन्
तदादेशात्ततः साध्वी कर्मभूमिं समागता ८४
जाता च हस्तिनी योनौ भूत्वा जातिस्मरा द्विज
स्मरंती निजवृत्तांतं सा कियद्भिर्दिनैस्ततः ८५
जगाम जाह्नवीतीरं हस्तियोनिसु संभवा
गङ्गायां स्नानमासाद्य गङ्गाकर्दमभूषिता ८६
गंगागंगेति जल्पंती ह्रदं निम्नं विवेश सा
तस्मिन्गंगाह्रदे गत्वा हस्तिनी पर्वताकृतिः ८७
निजां जातिं स्मरंती सा जगाम पंचतां पुनः
तस्याः साहसमालोक्य हस्तिनीं सर्वदेवताः ८८
ववर्षुः पारिजाताद्यैः कुसुमैरुत्तमैर्मुदा
तामानेतुं ततः शक्रः सर्वदेवगणैर्वृतः ८९
वेगात्तच्चिरविच्छेदात्कृष्णांगीं सुमना ययौ
पुष्पकेतां समालोक्य दिव्यदेहां सुराधिपः ९०
कथयन्निजदुःखानि निजावासं जगाम ह
पुलोमजा च रंभा च प्रम्लोचा चोर्वशी तथा ९१
सुंदर्योऽन्याश्च युवतीस्तस्यास्त्यक्त्वा मुदा गताः
शक्रस्य हृदयोत्साहं तन्वंती सा वरांगना ९२
पुरंदरपुरे तस्थौ सुभगा प्रीतिवल्लभा
यस्यास्तिष्ठंति गङ्गायां यावदस्थीनि जैमिने ९३
कुलकोटिशतं तावत्तस्थावास सुरालये
राजानो दिविराज्येषु ये ये भूतास्तपोबलात् ९४
तेषांतेषां स्नेहभूमिर्भवत्यमरसुंदरी
गंगास्थिमज्जनादेव जैमिने फलमीदृशम् ९५
गंगायां त्यजतो देहं फलं वक्तुं न शक्यते
मृतं शरीरं गंगायां यावदस्थीनि जैमिने ९६
कल्पकोटिशतं तावत्तस्या वासः सुरालये
मृतं शरीरं गंगायां स्रोतोभिश्चलितं द्विज ९७
दृश्यते देहिनस्तस्य तत्फलं शृणु जैमिने
स्वर्गे देवांगना त्रस्तचारुचामरवायुभिः ९८
वीजितः स्वर्णपर्यंके सुप्तस्तिष्ठति कौतुकी
जाह्नवीसैकते यस्य शरीरं दृश्यते मृतम् ९९
दिवाकरकरैस्तप्तं कुलं तस्य वदाम्यहम्
सुगन्धैश्चंदनैर्दिव्यैर्लिप्तसर्वकलेवरः १०० 7.8.100
दिव्याङ्गनाभिः सहितो दिवि क्रीडतिसर्वदा
काकैर्गृध्रैश्च कंकैश्च शकुंतैर्भीष्ममातरि १०१
वपुर्विदलितं यस्य दृश्यते तत्फलं शृणु
दिवि दिव्यांगनापीनप्रोत्तुङ्गरुचिरस्तनैः १०२
श्लिष्टवक्षाश्च पर्यंके निद्राति नित्यमेव सः
पिपीलिकाभिः कीटैश्च मक्षिकाभिश्च वेष्टितः १०३
गंगायां यस्य दृश्यंते अस्थीनि पतितानि च
तस्याक्षयं फलं विप्र वदतो मे निशामय १०४
प्रणमत्त्रिदशव्यूह शिरोमुकुटभूषणैः
हतपादरजाः स्वर्गे स च शक्रायते चिरम् १०५
अनिच्छयापि गङ्गायां यद्देहपतनं भवेत्
स विमुक्तोऽखिलैः पापैर्नरो नारायणो भवेत् १०६
यस्यांगाराश्च दृश्यंते गङ्गायां चलिता जलैः
अङ्गारसङ्ख्यया स्वर्गे तिष्ठेत्कल्पशताधिकम् १०७
सर्वेषामेव पुण्यानां कदाचित्क्षयमीक्षते
गङ्गायां पतिते देहे भवेत्पुण्यक्षयो न हि १०८
बहुनात्र किमुक्तेन निश्चितं कथ्यतेऽधुना
गङ्गायां त्यक्तदेहस्य महिमा ज्ञायते नहि १०९
विषमदुरितराशीनाशि गाङ्गं नरो यः स्पृशति भुवि कदाचिद्भावुको भक्तिभावैः
जगदुदधिजलं विलंघ्य घोरं व्रजति स पारमपारतुष्टि नावा ११०
इति श्रीपद्मपुराणे क्रियायोगसारे गङ्गामाहात्म्येऽष्टमोऽध्यायः ८