पद्मपुराणम्/खण्डः ७ (क्रियाखण्डः)/अध्यायः ०७

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः ०६ पद्मपुराणम्/खण्डः ७ (क्रियाखण्डः)
अध्यायः ०७
वेदव्यासः
अध्यायः ०८ →

श्रीव्यास उवाच-
भूय एव प्रवक्ष्यामि गङ्गामाहात्म्यमुत्तमम्
तच्छ्रुत्वा मानवाः सर्वे सर्वान्कामानवाप्नुयुः १
येन नाचरितं स्नानं गङ्गायां लोकमातरि
आलोक्य तन्मुखं सद्यः कर्त्तव्यं सूर्यदर्शनम् २
प्रभाते यः स्मरेद्भक्त्या गङ्गा इत्यक्षरद्वयम्
तस्य नश्यंति पापानि तमोवदरुणोदये ३
न दृष्टा येन सरितां प्रवरा जह्नुकन्यका
तस्याग्राह्याणि सर्वाणि अन्नादि सलिलानि च ४
शरीराणि परित्यज्य गङ्गास्नानं प्रकुर्वताम्
गात्राण्यायान्ति पापानि गङ्गास्नानमकुर्वताम् ५
अहो चित्रमहो चित्रमहोचित्रमिदं पुनः
पतंति नरके मूढा गङ्गानाम्निस्थिते सति ६
शिरसा यो वहेद्भक्त्या गङ्गाम्भः कणिकामपि
स मुच्यते महापापैर्ब्रह्महत्यादिभिर्द्विजः ७
ललाटे दृश्यते यस्य गङ्गासैकतमुत्तमम्
स पुण्यात्मा जगत्सर्वं पुनाति नात्र संशयः ८
गङ्गातीरात्समायांतं यः पश्येत्परमादरैः
सोऽश्वमेधसहस्राणि फलं प्राप्नोति मानवः ९
गङ्गातीरमहं यामि त्वमागच्छेति वक्ति यः
तस्य विष्णुः प्रसन्नात्मा सर्वान्कामान्प्रयच्छति १०
गंगेति नाम संस्मृत्य यस्तु कूपजलेऽपि च
करोति मानवः स्नानं गङ्गास्नानफलं लभेत् ११
गङ्गाम्भः शीकरं यस्तु संमितं सर्षपस्य च
प्राप्नोति मृत्युकालेषु स गच्छेत्परमं पदम् १२
अत्रैव शृणु विप्रर्षे इतिहासं पुरातनम्
यस्य श्रवणमात्रेण गङ्गादेवी प्रसीदति १३
आसीत्त्रेतायुगे विप्रो धर्मस्वो नाम धार्मिकः
शांतो दांतो दयायुक्तो वेदवेदाङ्गपारगः १४
सत्यवादी क्रोधहीनो हिंसाहीनो जितेन्द्रियः
सर्वभूतहितैषी च योगाभ्यसरतः सदा १५
संसारसागरं तर्त्तुं स विप्रो वैष्णवो जनः
पूजयामास देवेशं क्रियायोगेन केशवम् १६
कदाचित्प्राप्य पुण्याहं स च विप्रर्षभो द्विज
जगाम जाह्नवीतीरं मुमुक्षुः स्नानहेतवे १७
तत्र गंगांभसि स्नात्वा कृत्वा च तर्पणादिकम्
गृहं गंतुं मनश्चक्रे गंगांभः कर्त्तरीं वहन् १८
तस्मिन्काले ततो विप्र वैश्यो रत्नकराह्वयः
कृत्वा वाणिज्यमायांतं सकलैः किंकरैर्वृतः १९
तस्यैकः किंकरो विप्रः कालकल्प इति स्मृतः
दंडहस्तः समायातो विहिताखिलपातकः २०
अथवर्त्मश्रमश्रांतस्तस्य रत्नकरस्य च
सुष्वापैको बलीवर्द्दः पथि ब्राह्मणसत्तम २१
पथि स्वपंतं तं दृष्ट्वा कालकल्पो वृषं ततः
दण्डेन ताडयामास बाहुधाऽत्यंतनिर्द्दयः २२
तद्दण्डघातजनितक्रोधेन वृषभेन सः
विषाणाभ्यां सुतीक्ष्णाभ्यां समुत्थाय विदारितः २३
तच्छृङ्गद्वयनिर्भिन्नवक्षाः स गतलोचनः
तत्सन्निधिं दयायुक्तो धर्मस्तु त्वरितो ययौ २४
ततः कर्णात्समादाय तुलसीपत्रमुत्तमम्
गङ्गाम्भः शीकरैर्दिव्यैः सिक्तोसौ तेन धीमता २५
गतप्राणं समालोक्य स विप्रः परमार्थवित्
विस्मितः स्वगृहं गंतुं मनश्चक्रे द्विजोत्तम २६
अथ गच्छन्पथि प्राज्ञो गङ्गानामानि कीर्तयन्
यमदूतान्ददर्शाग्रे कोटिकोटि सहस्रशः २७
छिन्नैकपादाः केचिच्च केचिच्छिन्नैकपाणयः
केऽपि केऽपि च्छिन्नकर्णाः केऽप्येकनयनास्तथा २८
केचिच्च च्छिन्ननासाश्च च्छिन्नजिह्वाश्च केचन
भग्नदंताः केऽपि केऽपि केऽपि दंतविवर्जिताः २९
केऽपि शोणितधाराभिर्लिप्तसर्वकलेवराः
विमुक्तकैशिकाः केऽपि केऽपि वक्त्रविवर्जिताः ३०
केऽपि केऽपि तथा नग्नाः केऽपि निर्भिन्नवक्षसः
केऽपि जर्जरितांगाश्च महातीक्ष्णैः शिलीमुखैः ३१
निषिद्धांगुलिहस्ताश्च दृढपाशैस्तथापरे
क्रंदंतो व्यथया केऽपि पलायनपरायणाः ३२
एवंभूतान्यमप्रेष्यान्स विलोक्य द्विजोत्तमः
सकंपहृदयो भीत्या ततः स्तब्धइवाभवत् ३३
अवलंब्य ततो धैर्यं स विप्रो हरिभक्तिकृत्
इत्यपृच्छन्मधुरया किरातान्यमकिंकरान् ३४
धर्म उवाच-
के यूयं विकृताकाराः पाशमुद्गरपाणयः
दंष्ट्राकरालवदना अंगारसदृशप्रभाः ३५
यूयं सर्वे महावीर ज्वलत्पावकलोचनाः
कृता तथापि युष्माकमियं केनापि दुर्गतिः ३६
यमदूता ऊचुः -
यमदूता वयं सर्वे यमाज्ञाहारिणः सदा
सदंडोऽयं द्विजास्माकं सुमहान्कदनोदयः ३७
धर्मस्व उवाच-
अकस्मादागता यूयं महाबलपराक्रमाः
एतावत इयं केन कथं वा दुर्गतिः कृता ३८
यमदूता ऊचुः-
भयं मुंच द्विजश्रेष्ठ वृत्तांतं सकलं शृणु
यथास्माकमिदं दुःखं बभूवात्यंतदुःसहम् ३९
योऽसौ वृषेण शृङ्गाभ्यां कालकल्पो विदारितः
तं नेतुं धर्मराजेन प्रेरिताः किंकरा वयम् ४०
तेनाज्ञप्ता वयं सर्वे समस्तायुधपाणयः
बद्ध्वा तं पापिनां श्रेष्ठं नेतुमिह समागताः ४१
अथासौ प्राप्तकालश्च कालकल्पो दुराशयः
वृषेणहेतुभूतेन विषाणाभ्यां विदारितः ४२
सदयेन तथा तत्र गङ्गापानीयसीकरैः
सिक्तः पातकिनां श्रेष्ठो गङ्गानामानि जल्पता ४३
गङ्गाम्भः कणिकासेकैर्गतकल्मषमप्यमुम्
बद्ध्वा पाशैर्दृढं नेतुमुद्यमं प्रतिचक्रिरे ४४
नेतुं तमपि देवेशः शरणागतपालकः
स्वदूतान्प्रेषयामास महाबलपराक्रमान् ४५
केऽपि दूताः समागत्य ततो नारायणाज्ञया
सकोपाः प्राहुरित्यस्मान्पथि ब्राह्मणसत्तम ४६
विष्णुदूता ऊचुः
के भवंतो महात्मानः कथमेनं महाशयम्
बद्ध्वा नयथ पाशेन यूयं वा कस्य किंकराः ४७
विहायैनं महात्मानं पलायध्वं यथासुखम्
न चेच्छिरांसि युष्माकं छेत्स्यामश्चक्रधारया ४८
तेषामेतानि वाक्यानि गर्वितानि द्विजोत्तम
संश्रुत्याच्युतदूतानां तेऽस्माभिरतिजल्पिताः ४९
दण्डपाणेर्वयंदूताः सर्वे प्राणाधिपस्य वै
नीत्वैनं पापिनां श्रेष्ठं प्रयामः शमनालयम् ५० 7.7.50
यूयं सर्वे महात्मानस्तुलसीमाल्यभूषिताः
स्फुटपद्मपलाशाक्षाबलिनो गरुडध्वजाः ५१
दिव्यांबरधरा यूयं मयूरगलसुंदराः
शंखचक्रगदापद्मधारणाश्च चतुर्भुजाः ५२
के यूयमीदृशाः सर्वे सर्वलक्षणसंयुताः
इमं पातकिनां श्रेष्ठं कथं वा नेतुमिच्छथ ५३
विष्णुदूता ऊचुः-
वयं सर्वे विष्णुदूताः पुण्यात्मानमिमं नरम्
नेतुमत्र समायाता वैकुंठं प्रति संप्रति ५४
इमं श्रीभगवद्भक्तं स्वजनं गतकल्मषम्
मुंचताशु यमप्रेष्या यदि जीवितुमिच्छथ ५५
भूयस्तेषामिदं वाक्यं श्रुत्वा सर्वगतं द्विज
कोपाद्यदुक्तमस्माभिस्तदाकर्णय कथ्यते ५६
अयं पापी दुराचारो ब्रह्महत्यासहस्रकृत्
कृतघ्नश्चैव गोघ्नश्च मित्रघ्नश्च दुराशयः ५७
मेरुप्रमाणहेमानि हृतानि सुबहूनि च
परदारा हृता नित्यमनेनातिदुरात्मना ५८
कोटिकोटिसहस्राणि जंतूनां विष्णुकिंकराः
कृताश्च बहुधा हत्याः स्त्रीहत्या च तथैव च ५९
अयं न्यासापहरणं स्वमातृगमनं तथा
गोमांसभक्षणं चैव चकार प्रतिवासरम् ६०
परहिंसाकृतानेन दाहश्च परवेश्मनः
सभायां परनिंदा च विधवागर्भपातनम् ६१
गृहमायांतमतिथिं धनलोभेन सत्तम
अहनन्निशितैः खङ्गैर्निशायां यवनोपमः ६२
एतान्यन्यानि पापानि महान्त्यगणितानि च
चकार नीचो मूढोऽसौ नाल्पमात्रं शुभावहम् ६३
तस्मादयं महापापी नीयते यातनागृहम्
ज्ञेया हि पापिनो दंड्या धर्मराजस्य सत्तमाः ६४
यूयं वै देवदेवस्य दूता भगवतो यदि
तदा कथमिमं नेतुं पापिनां श्रेष्ठमिच्छथ ६५
विष्णुदूता ऊचुः
भविद्भः सत्यमेवोक्तं कोऽपि नास्त्यत्र संशयः
दण्ड्याः पातकिनः सर्वे जीविताधिपतेः सदा ६६
अयं पापविनिर्मुक्तो गङ्गाशीकरसेचनात्
तस्मादेनं वयं सर्वे नेष्यामो हरिमंदिरम् ६७
तावत्तिष्ठंति देहेषु पातकानि शरीरिणाम्
गङ्गाम्भः शीकरा यावन्न स्पृशंति सुदुर्ल्लभम् ६८
चंद्रैककलया सर्वं तिमिरं हन्यते यथा
गङ्गाम्भः शीकरेणापि पातकं हन्यते तथा ६९
गंगानामानि संस्मृत्य पापी मुच्येत पातकात्
साक्षात्तत्सलिलं दृष्ट्वा मुच्यतेऽत्र किमद्भुतम् ७०
शीतमप्युदकं गाड्गं वह्निवत्पापकानने
यथाग्निवत्पद्मवने शीतं तोयं च दाहकृत् ७१
तस्मादयं पुण्यकर्मा द्वितीय इव केशवः
गच्छध्वं शमनप्रेष्या यदि कल्याणमिच्छत ७२
तेषां केशवदूतानां श्रुत्वास्माभिरिदं वचः
भूय एव निरुक्तं यद्विहस्योच्चैः शृणुष्व तत् ७३
अहो चित्रमहो चित्रमयं कल्मषमंदिरः
गङ्गाम्भः सेचनादेव विमुक्तः सर्वपातकैः ७४
स्वहस्तोपार्जितं कर्म शुभं वा यदि वाशुभम्
नाभुक्त्वा मुच्यते मर्त्यः कल्पकोटिशतैरपि ७५
यमाज्ञया नेतुमिमं वयं सर्वे समागताः
कस्यायं वचसास्माभिस्त्यज्यते पापिनां वरः ७६
विष्णुदूता ऊचुः
यूयं पापधियो नूनं विवेकपरिवर्जिताः
युष्माभिर्जह्नुकन्याया न ज्ञायंते यतो गुणाः ७७
कार्यं वेदे निषिद्धं यत्तत्पातकमिति स्मृतम्
यद्वेदसंमतं कार्यं तदेव धर्म्यमुच्यते ७८
देवो नारायणः साक्षात्स्वयंभूरिति शुश्रुम
यथा विष्णुस्तथा गंगा गंगैव सर्वपापहा ७९
अशुभं वा शुभं कर्म स्वहस्तरचितं हरिः
हरौ प्रसन्ने पापानि कुत्र तिष्ठंति देहिनाम् ८०
जन्मान्तरार्जितैः पापैर्गता यूयमिमां गतिम्
अद्यापि पापकर्माणः किमर्थं पापमिच्छथ ८१
गङ्गानिन्दाकरा यूयं विष्णुनिंदाकरास्तथा
अतो युष्मान्हनिष्यामः पापिनश्चक्रधारया ८२
इत्युक्त्वा विष्णुदूतास्ते कोपादरुणलोचनाः
चक्रिरे समरारंभमस्माभिः सह सत्तम ८३
जीवेश दूता हन्यंतामिति प्रोचुश्च ते रुषा
भूयोभूयो वदंतोऽस्मान्निजघ्नुश्चक्रधारया ८४
इत्युक्त्वा विष्णुदूतास्ते संग्रामेत्यंतदारुणाः
सर्वे शंखान्समादध्मुः सहसा हृष्टमानसाः ८५
ततोऽस्माकं सिंहनादैः पयोदस्तनितैरिव
कोदंडानां च विस्तारैर्व्याप्तं विप्र जगत्त्रयम् ८६
अथ वृक्षैः शिलाभिश्च तथा पर्वतवृष्टिभिः
अस्माभिर्विष्णुदूतास्ते बाणैश्च विदलीकृताः ८७
ऋष्टिभिर्भिंदिपालैश्च बाणैश्च परिघैस्तथा
कुठारैश्छुरिकाभिश्च दंडैश्च शंकुभिस्तथा ८८
खङ्गैश्च शक्तिभिश्चैव निशितैश्च शिलीमुखैः
गदाभिश्चक्रधाराभिर्नाराचैश्च सुभीषणैः ८९
एतैरन्यैश्च विषमैरस्त्रैस्ते विष्णुकिंकराः
निजघ्नुर्बहुधा कोपाद्वज्रकल्पैर्महार्णवे ९०
तदास्त्रजर्जराः सर्वे वयं भीत्या पलायिताः
निपेतुः केऽपि संग्रामे गतप्राणाः सहस्रशः ९१
ततोऽस्मांस्ते समालोक्य पलायनपरायणान्
मुदा कंबून्समादध्मुर्बलिनो विष्णुकिंकराः ९२
अथ च्छित्त्वा द्विजश्रेष्ठ कालकल्पस्य बंधनम्
विमाने तं समारोप्य जग्मुर्भगवतः पुरम् ९३
गङ्गाशीकरसेकस्य प्रभावेनैव सत्तम
जगाम हरिसालोक्यं कालकल्पोऽति पातकी ९४
स्थित्वा कल्पशतं तत्र भुक्त्वा भोगान्मनोहरान्
ज्ञानमासाद्य तत्रैव परमं मोक्षमाप्तवान् ९५
गङ्गाप्रभावैरस्माकमेतद्दुःखं गतं प्रभो
गच्छ ब्राह्मण भद्रं ते सुप्रीतो निजमंदिरम् ९६
इत्युक्त्वा यमदूतास्ते ययुर्यमपुरं द्विज
भूय एव स धर्मस्वः प्रीतो गङ्गातटं ययौ ९७
गंगायां स्नानमाचर्य सर्वलोकस्य मातरि
बद्धाञ्जलिः स विप्रस्तां तुष्टाव परमेश्वरीम् ९८
धर्मस्व उवाच-
गंगे समस्तजगदंब चलत्तरंगेऽनगादिचारुतरमस्तकपुष्पमाले
कंसारिचारुचरणद्वयरेणुहन्त्रि भक्त्या नमामि दुरितक्षयकारिणीं त्वाम् ९९
मातः समस्तसुखदे प्रवरे नदीनां व्यासादिविप्रचयगीतगणे गुणाढ्ये
संसारभैरवमहार्णवमध्यनौके वंदेत वांघ्रियुगलं दुरितापहारि १०० 7.7.100
यस्यास्तवांबुकणिकामपि जह्नुकन्ये सौदासनामनृपतिर्द्विजकोटिहत्याम्
संप्राप्य मुक्तिमगमत्त्रिसुरैरलभ्यां तां त्वां नमामि शिरसा वरदे प्रसीद १०१
नारायणाच्युतजनार्द्दनकृष्णराम गङ्गादि नाम गदतो मम देवि मातः
संसारपातकनिवारिणि देहपातस्त्वद्वारिणीह भवतु त्वदनुग्रहेण २
किं वा तपोभिरखिलेश्वरि किं जपैर्वा दानैश्च किं तुरगमे द्युमखैश्च किंवा
त्वन्नीरशीकरमवाप्य सुरैरलभ्यां मुक्तिं व्रजंति मनुजा अतिपापिनोऽपि ३
स्वाहा त्वमेव परमेश्वरि या स्वधा त्वं गीर्वाणवृंदपितृलोकसुतृप्तिहेतोः
सत्वं रजस्तम इति त्रिगुणस्वरूपां सृष्टिस्थितिप्रलयकारिणि नौमि तां त्वाम् ४
धत्ते ललाटफलके तव सैकतं यः पुण्ड्रं च देवि तव तीरमृदा सदैवम्
त्वन्नाम सर्वरसधामवदेच्च भक्त्या त्वत्पादरेणुरखिलोस्तु ममैव मूर्ध्नि ५
त्वद्रोधसि त्रिपथगे वसतिं विधाय पीत्वा च वारि तव पातकनाशकारि
स्मृत्वा च नाम तव वीचिरसं च दृष्ट्वा संसारबंधनहरे मम जातु जन्म ६
नाकं शुभे सुमहदुल्लसिता मनुष्याः कुर्वंति भीतिरतिदुर्गमवर्त्म मत्वा
व्यर्थेव सा किल यतोऽमृतदे त्वदीयं सोपानभूतमुदकं त्रिदिवप्रयाणे ७
पापानि रोगनिकराश्च शरीरदेहे तिष्ठंति तावदखिलेश्वरि भुक्तिदात्रि
कुर्वंति यावदमलेषु तवोदकेषु स्नानं न हि त्रिपथगे सरितां प्रधाने ८
यस्यास्तवाच्युत विरंचि शिवादयोऽपि शक्रादिदेवनिकरा व्रजितुं महिम्नाम्
पारं परे परममोक्षपदप्रदात्रीं तां त्वां वदंति तटिनीमितिकेऽपि मोहात् ९
गङ्गे समस्तसुखदायिनि किंचिदेव जानाति ते पशुपतिर्भगवान्महत्त्वम्
यस्मादसौ सुमनसां प्रवरोऽतिभक्त्या धत्ते सदैव शिरसा जगदीश्वरीं त्वाम् ११०
गंगे देवि जगन्मातः प्रसीद परमेश्वरि
परिपाहि नमस्तुभ्यं रक्ष मां सेवकं स्वकम् ११
परब्रह्मस्वरूपां त्वां सर्वलोकैकमातरम्
शक्नोमि किमहं स्तोतुं भ्रांतचित्तोऽत्र मोक्षदे १२
व्यास उवाच-
इति स्तुता जगद्धात्री तेन विप्रेण धीमता
आविर्बभूव सहसा गङ्गा मूर्तिमती द्विज १३
ददर्श पुरतो गङ्गां द्विभुजां मकरासनाम्
कुन्देन्दुशङ्खधवलां सर्वालङ्कारभूषिताम् १४
तां दृष्ट्वा पुरतो गङ्गां गङ्गागङ्गेति कीर्तयन्
ववंदे चरणौ तस्याः शिरसालिङ्ग्य मेदिनीम् १५
मोहयंती स्मिता लोकैः सुप्रीता परमेश्वरी
तमुवाच ततो विप्र वरं वृण्विति जैमिने १६
धर्मस्व उवाच-
मातस्त्वत्सलिलस्पर्शाद्ब्रह्महापि च मोक्षभाक्
मया त्वं दृश्यते साक्षात्साध्यं किमपरं मम ११७
तथाप्येकं वरं याचे त्वन्नीरे परमेश्वरि
मृत्युर्भवतु मे देवि त्वन्नामस्मरतो मम ११८
मया कृतेन स्तोत्रेण यस्त्वां स्तौति सदेश्वरि
सोऽपि भुक्त्वाखिलान्कामानंते यास्यति सद्गतिम् ११९
गङ्गोवाच-
अनया भवतो भक्त्या संतुष्टास्मि द्विजोत्तम
शीघ्रं ते कुशलं सर्वं भविष्यति न संशयः १२०
त्वया कृतमिदं स्तोत्रं त्रिसंध्यं यः पठेन्नरः
तस्याहमपि संतुष्टा दास्यामि मुक्तिमुत्तमाम् १२१
व्यास उवाच-
इति दत्वा वरं तस्मै सा देवी भक्तवत्सला
धर्मस्वनाम्ने विप्रेन्द्र तत्रैवांतरधीयत १२२
स च विप्रो वरं प्राप्य कृतकृत्य इवाभवत्
गङ्गारोधसि तत्रैव तस्थौ विप्र मनोरमे १२३
ततः कालेन महता विमले जाह्नवीजले
सुखमृत्युं समासाद्य जगाम पदमुत्तमम् १२४
कालकल्पोऽपि पापात्मा सिक्तो गङ्गाम्बुशीकरैः
प्राप्तवानुत्तमं मोक्षमन्येषां का कथा द्विज १२५
अनिच्छयापि गाङ्गेयं जलं स्पृष्ट्वा फलान्वितम्
स्पृशतां भक्तिभावेन किं भवेन्नहि वेद्मि तत् १२६
गङ्गासमं नास्ति तीर्थं भूयोभूयो मयोच्यते
यदम्बुकणिकां स्पृष्ट्वा परमं धाम लभ्यते १२७
ये भक्तिभावेन सरिद्वरायाः स्पृशंति येंऽभकणिकामपीह
ते यांति नूनं पदमच्युतस्य पापैर्विमुक्ताः सकलैर्महोग्रैः १२८
इति श्रीपद्मपुराणे क्रियायोगसारे गङ्गाशीकरमाहात्म्ये सप्तमोऽध्यायः ७