तन्त्रयुक्तिः
तन्त्रयुक्तिविचारः-तन्त्रयुक्तयः च(Dr. Sujaikumar.C.K, Asst.Professor. Department of Sanskrit General, Sree Sankaracharya University of Sanskrit, Kalady) ग्रन्थानां विषयावतरणे शास्त्रसङ्केतानां उपयोग अनिवार्यः। तत्र तन्त्रगुणानं तन्त्रदोषाणां च विवेचनं करणीयमिति आचार्यवर्याः अभिप्रयन्ति। तत्र तन्त्रयुक्तीनां संख्या भट्टारहरिचन्द्र पर्यन्तं 40 भवन्ति। यद्यपि सङ्ख्या असमाना द्वात्रिंशत् तन्त्रयुक्तयः सर्वे आचार्याः अनुवर्तन्ते। ता अधिकृत्य विवेचनमत्र अधो दीयते।
1. अधिकरणम्।
तत्राधारोऽधिकरणं तात्पर्यं यत्र तिष्ठति इति नीलमेघभिषक् तन्त्रयुक्तिविचारे कथितम्। यमाधारीकृत्य प्रतिपादनं अथवा विवरणं करोति तं अधिकरणो नाम तन्त्रयुक्तिरित्यर्थः। तन्त्रे(ग्रन्थे), स्थाने, अध्याये, प्रकरणे, वाक्ये, पदे च प्रतिपाद्यमानो विषयःअधिकरणमिति वक्तुं शक्यते। तत्राधिकरणं तद् यदधिकृत्य प्रवर्तते, शास्त्रं स्थानं तथाध्यायं वाक्यं प्रकरणं च वा ।। इति पारमेश्वर्यां वयस्करः। शास्त्रे पञ्चाधिकरणं प्रसिद्धम्। उक्तम् च – विषयो विशयश्चैव पूर्वपक्षस्तथोत्तरम्, निर्णयश्चेति पञ्चाङ्गं शास्त्रे अधिकरणं स्मृतम्।।(जैमिनि, मीमांसायाम्) इति।
तन्त्राधिकरणम्
एकस्मिन् तन्त्रे(ग्रन्थे) यदि यं विषयावतरणं करोति तं तन्त्राधिकारणम् इति उच्यते। यथा चरकसंहितायां सूत्रस्थाने प्रथमाध्यायस्य नाम दीर्घञ्जीवितीयम् इति निर्देशादेव अस्य अन्तरार्थं प्रत्यभिज्ञातुं शक्यते। अयमेव तन्त्राधिकरणम् इति कथ्यते। स्वस्य ग्रन्थस्य अष्टाङ्गहृयमिति अभिधानमधिकृत्य वाग्भटो वदत्येवम्-कायबालग्रहोर्ध्वाङ्गशल्यदंषट्राजरावृषान्, अष्टावङ्गानि तस्याहुश्चिकित्सा येषु संश्रिता।। (1-5-6) कायचिकित्सा, बालचिकित्सा, ग्रहचिकित्सा, ऊर्ध्वाङ्गचिकित्सा, शल्यचिकित्सा(तृणसदृशेभ्यः वृक्षेभ्यःजात विषनिवारणशाखा), दंष्ट्रचिकित्सा(विषचिकित्सा), जराचिकित्सा, वाजीकरणचिकित्सा, च अष्टाङ्ग शब्देनोद्दिष्टः। प्रतिपाद्य विषयस्य प्रथमतया प्रतिपादनं सामाजिकाना कृते उपकारप्रदमित्यतः तन्त्रगुणमिति सङ्केतेन अयं श्लोकः स्वीक्रियते।
विषयावतरणमधिकृत्य ग्रन्थेषु सम्बन्धचतुष्टयस्य प्रतिपादनं करणीयमिति रीतिसिद्धान्तः प्राचीनग्रन्थानां मुखमुद्रा आसीत् तत्र प्रधानो भवति अधिकारी, विषयः, सम्बन्धः, प्रयोजनम् इति अनुबन्धचतुष्टयम्। तत्र एते प्रथमतया ग्रन्थादौ वक्तव्यमिति रीतिसिद्धान्तं प्राचीनग्रन्थेषु दृश्यते। अष्टाध्याय्यां अधिकरणस्य बहूनि उदाहरणानि सन्ति। आधारोऽधिकरणम् (1-4-45)इति सूत्रे कथिते कारके (1-4-23) इति अधिकारसूत्रबलादेव अधिकरणसंज्ञा विधिः। एवमेव सूत्रमित्यस्य अल्पाक्षरमसन्दिग्धं सारवद्विश्वतोमुखं अस्तोभमनवद्यं च सूत्रं सूत्रविदो विदुः इति लक्षणात् सूत्रमित्यस्य व्यवस्था कृता।
स्थानाधिकरणम्
एकस्मिन् स्थाने विषयान् सङ्गृह्य आतनुते तर्हि स्थानाधिकरणम् इति संज्ञा। आयुर्वेदग्रन्थाः सर्वे सूत्रस्थानेषु आरभअयन्ते। यथा सूत्रं, शारीरं, निदानं, उत्तरं, चिकित्सा, सिद्धिः, विमानं, कल्पः, इन्द्रियादयः स्थानानि भवन्ति। उक्तं च अष्टाङ्गहृदयसूत्रे- अत्रार्थाः सूत्रिताः सूक्ष्माः प्रतन्यन्ते हि सर्वतः(तन्त्रे) इति। सूत्रमित्यस्य अल्पाक्षरमसन्दिग्धं सारवद्विश्वतोमुखं अस्तोभमनवद्यं च सूत्रं सूत्रविदो विदुः इति लक्षणात् सूत्रमित्यस्य व्यवस्था कृता। व्याकरणशास्तरे स्थानमित्यस्य आदेशःइति स्थानिरित्यर्थे षष्ठी विभक्ति योजनया निगदितः। इकोयणचि इत्यस्मिन् सूत्रे इकः स्थाने यणादेशः इत्यत्र स्थानरूपस्य प्रसक्तिरिति वक्तुं शक्यते।
अध्यायाधिकरणम्
यमर्थमधिकृत्योच्यते तदधकरणम् (विष्णुधर्मोत्तरपुराणे-6-3) चरकसंहितायां(सिद्धिस्थानम्, उत्तरवस्तिसिद्धिरध्यायः 92) तु उक्तमेवम्- अधिकरणं नाम यमर्थमधिकृत्य प्रवर्तते कर्ता इति। यं विषयमधिकृत्य एकस्मिन्नध्याये प्रतिपादनं करोति तमेव तस्याध्यायस्य अधिकरणम् इति कथ्यते। यथा अष्टाङ्गहृदये द्वितीयाध्यायस्य प्रथमसूत्रे- अथातो दिनचर्याध्यायं व्याख्यास्याम इति। अस्यैव ग्रन्थस्य प्रथमाध्यायस्य नाम आयुष्कामीयमित्यभिधानम्।
प्रकरणाधिकरणम्
संयोगो विप्रयोगश्च साहचर्यं विरोधिता अर्थः प्रकरणं लिङ्गं शब्दस्यान्यस्य सन्निधिः।, सामर्थ्यमौचिती देशः कालोः व्यक्तिः स्वरादयः शब्दार्थस्यानवच्छेदे विशेषस्मृतिहेतवः।।(वाक्यपदीयम्, 2-317 आरभ्य)। एकस्मिन् प्रकरणे(वक्तृश्रोतृबुद्धिस्थत इति अप्पय्यदीक्षितः वृत्तिवार्त्तिके। सैन्धवमानय इति उदाहरणम्।) यं विषयमधिकृत्य प्रतिपादयति तं प्रकरणाधिकरणम् इति कथ्यते। यथा अष्टाङ्गहृदये- दशमूलसिराः हृत्स्थास्सर्वं सर्वतो वपुः इत्यवेध्यविभागार्थं प्रत्यङ्गं वर्णिताः सिराः इत्यत्र तन्त्रभागेषु प्रतिपादिताः विषयाः सिराणां धर्मः, घटना, अवेध्यसिराविवरणं च भवन्ति। अत्र सिरावेधमिति उपक्रममाधारीकृत्यैव एतेषां विवरणमिति कारणात् अत्र प्रकरणं सिरावेधो भवति।
वाक्याधिकरणम्
वाक्यं नाम - आकांक्षायोग्यासक्तियुक्तः पदोच्चयः इति विश्वनाथेन साहित्यदर्पणे उक्तम्। तत्र पदस्यापि प्रामुख्यम्। आकांक्षायोग्यताआसक्तियुक्तः पदोच्चयः इत्यत्र सुप्तिङन्तं पदमिति विवक्षा वैयाकरणाः वदन्ति। नैयायिकाः तु शक्तं पदमिति विवक्षायां अस्मात्पदादयमर्थो बोधव्य इति इच्छा सङ्केतः अथवा शक्तिरिति तेषां मतम्। प्रतीतिपर्यवसानविरह आकांक्षा इत्यभिधीयते। पदस्य पदान्तरव्यतिरेकप्रयुक्तान्वयाननुभावकत्वमाकांक्षा इति अन्न् भट्टः। पदार्थानां परस्पर सम्बन्धाभावो योग्यता इति लक्षणम्। सन्निधानं तु पदस्यासत्तिरिति विश्वनाथःसाहित्यदर्पणे। यस्मिन् वाक्ये यं विषयं प्रतिपादयति तदेव वाक्याधिकरणं नाम तन्त्रयुक्तिः। अष्टाङ्गहृदये उक्तं भवत्येवम्- रसादिसाम्ये यत्कर्म विशिष्टं तत्भावजम्(9-26) इत्यस्मिन् वाक्ये अधिकरणं प्रभावो भवति। अन्यत्र उक्तं भवति -तत्र रूक्षो लघुः शीतः खरः सूक्ष्मश्चलोऽनिलः(1-11) अस्मिन् वाक्ये अधिकरणं तु वातस्य गुणाःभवन्ति। अधातो धर्मजिज्ञासा इति जैमिनि वाक्यात् वाक्याधिकरणमिति अत्र निदर्शनं भवति इदम्। रीतिरात्मा काव्यस्य इति वामनस्य काव्यलक्षणं वाक्याधिकरणस्य अपरमुदाहरणम्।
पदाधिकरणम्
शक्तं पदम् अथवा अस्मात् पदादयमर्थो बोधव्य इति सङ्केतः शक्तिरित्यनेन नैयायिकैः कथितः। सुप्तिङन्तं पदम् इति वैयाकरणाः। एकेन पदेन यं विषयं प्रतिपादयति तं पदाधिकरणम् इति कथ्यते। यथा वातः इत्यनेन पदेन आयुर्वेदे प्रसिद्धे त्रिदोषे वातमधिकृत्य परामर्शः नैव लौकिकार्थे। एवमेव तमः मनसः दोषएव विषयः नैव अन्धकार इति लौकिकार्थस्य प्रसक्तिः। आनन्दवर्धनः ध्वनिरित्यस्य नैव लौकिकार्थे कथयति –परा-पश्यन्ता-मध्यमा वैखरी रूपेषु मध्यमायुक्तस्य स्फोटयुक्तस्य(स्फुटत्यर्थो यस्मादिति स्फोटः) अर्थान्तरं अनेन ध्वनिशब्देन परिचायनं करोति। तच्च पदाधिकरणमित्यस्य निदर्शनम्।
2. योगो नाम तन्त्रयुक्तिः
येन वाक्यं युज्यते स योगः। युज् योजने, युज्यन्ते सङ्कल्प्यन्ते संबध्यन्ते परस्परमर्था: सम्यक्तया प्राकरणिकेऽभिमतेऽर्थे इति निर्वचनयोग्यात् पदानां अर्थोपेत सन्निवेशनमेव योगमित्यस्य तन्त्रयुक्तिना उद्दिश्यते। नीलमेघभिषक्महाशयेन तन्त्रयुक्तिविचारे कथितम्- योगः पदानामेकैकमर्थौचित्येन योजना इति। रोगस्तु दोषवैषम्यमिति तेन रोगोऽपि रोगस्य हेतुः। यथा ज्वरो रक्तपित्तस्य। रक्तपित्तं वा ज्वरस्य इति मेघः। एवं योगमित्यस्य उद्देशनिर्द्देशयोः सूत्रभाष्ययोर्वा इति। यथोचितपदसन्निवेशविरहे वाक्यार्थबोधस्याप्रसक्तिः। अन्वय इति प्रक्रिया अस्य योगस्योदाहरणं भवति। अष्टाङ्गसङ्ग्रहे उच्यते- योगो नाम योगः सम्बन्धः, स च पदार्थयोर्वाक्यार्थयोर्वा। तत्र पदार्थयोः साध्यसाधनभावेन कथितः। पदार्थयोः योगःतु औचित्यपूर्णार्थयुक्त पदसन्निवेशने शाब्दबोधस्य प्रसक्तिरिति भावः। वाक्यार्थयोर्यथा जीर्णाजीर्णविशङ्कायां पुनरुष्णोदकं पिबेदित्यस्य तेनोद्गारविशुद्धिः स्यात्ततश्च लघुता रुचिरित्यनेन इति।(50-78) येन वाक्यं युज्यते स योग इति सुश्रुतसंहिता।(65-9)
चरकसंहितायामुक्तम्- योगो नाम योजना, वयस्तानां पदानामेकीकरणम्। यथा प्रतिज्ञा ह्येतूदाहरणोपनय निगमनानि। तत्र प्रतिज्ञा- मातृश्चायं गर्भः, हेतुः-मात्रमन्तरेण गर्भानुत्पत्तये, दृष्टान्तः- कूटाकारः, उपनयः नानाद्रव्यसमुदायात् कूटागारस्तथा गर्भनिर्वर्तनम्, तस्मान्मातृजश्चायमित्येषां प्रतिज्ञायोगःइति।(12, 41-44)अन्यत्र जाया इत्यस्य पदस्य जायते पुत्ररूपेण आत्मा अस्याम् , अथवा पतिर्भार्यां सम्प्रविश्य गर्भो भूत्वेह जायते इति मनुस्मृति वचत् च अस्य जायापदस्य पितुः सम्बन्धः निर्वचनात् ज्ञायते। शब्दार्थयोः परस्परसम्बन्ध एव योग इत्यस्य अर्थः।
3. हेत्वर्थो नाम तन्त्रयुक्तिः
हेत्वर्थो हेतुनैव स्यात्तत्तदर्थप्रकाशनम् इति तन्त्रयुक्तिविचारे कथितम्। व्याकरणशास्त्रे कारके इत्यधिकारसूत्रपरिधौ षड् कारकाणि तोषां विवरणं च दृश्यते।तत्र हरिः वैकुण्ठं अधिवसति इत्यत्र उदाहरणे वैकुण्ठे इति अधिकरण अविवक्षायाः कारणं तु अधिशीङ्स्थासां कर्म इति सूत्रस्य वृत्तिरेव। अधि-शीङ्-स्था धातुभिः सह प्रयुज्यमानानि अधिकरणयोग्यानि पदानि कर्मसंझ् प्राप्नोतीति अत्र हेत्वर्थस्य प्रसक्तिः। ज्योतिश्शास्त्रे तु पूर्वजन्मकृतं पापं व्याधिरूपेण जायते इतयस्मिन् प्रमाणे व्याधेः कारणत्वेन पूर्वजन्मार्जितवृत्तिविशेषानेवेति प्रतिपादयति। एवमेव गवेषणविद्यायां स्वस्य विषयावलम्बि पूर्वप्रबन्धविचिन्तनस्य प्रदर्शनपुरस्सरमेव स्वस्याभिमतस्य स्थापनमित्यत्र स्वस्याभिमतस्य हेत्वर्थरूपेण पूर्वप्रबन्थविषयो भवतीति अपरमुदाहरणम्। कार्यात्कारणप्रत्यभिज्ञानं हेत्वर्थः। तु शब्देन अस्य प्राधान्यमवगन्तुं शक्यते। यथा अष्टाङ्गहृदये रोगस्तु दोषवैषम्यम् इत्यत्र तु इत्यव्ययेन कार्यं रोगः कारणं तु दोषवैषम्यं च। शारीरिको मानसिको वा दोषवैषम्यता कारणादेव कार्यस्य रोगस्य उद्भव इति प्रत्यभिज्ञानम् हेत्वर्थो नाम तन्त्रयुक्तेर्लभ्यते। रोग इत्यस्य किं निर्वचनमित्यत्र उच्यते तत्तल्लक्षणसमष्टिबोधिताभ्यन्तर विकृतिपरम्परा एव परमार्थतो रोगः इति समाधानः। हेतुना सह यत्रोक्तिः स हेत्वर्थः प्रकीर्तितः।। हेतुना सह तन्त्रोक्तिः स हेत्वर्थ इति भावार्थः। यथा चरकसंहितायामुक्तम्- हेत्वर्थो नाम तन्त्रयुक्तिः सा यदन्यदुक्तमन्यार्थसाधकं भवति। यथा विपरीतगुणैर्द्रैव्यैर्मारुतः सम्प्रशाम्यतीत्युक्त्वा विपरीतगुणदेशमात्रा कालोपपादितैः भेषजैर्निर्वर्तन्ते विकाराः साध्यसम्मता इत्येतदुक्तदेशकालमात्राभिः प्रत्युक्त विपरीतगुणैर्भेषजः साध्यसम्मता विकारा न निवर्तन्त इत्यर्थ साधकं भवतीति।
पदार्थो नाम तन्त्रयुक्तिः
पदार्थस्तु पदैक्येऽपि भिन्नार्थं प्रकाशयेत्, पदार्थः पदभेदेऽपि न भेदः पुनरर्थतः इति तन्त्रयुक्तिविचारे कथितं भवति। एकः पदः अर्थवैलक्षण्यं सूचयति सैव पदार्थतन्त्रयुक्तिः। एवमेव पदवैजात्ये अर्थाभावोऽपि पादार्थतन्त्रयुक्तिरेव। उक्तं च -पदार्थः पदभेदेऽपि न भेदः पुनरर्थतः। अष्टाङ्गसङ्ग्रहे उक्तं यत् पदार्थो नाम पदेऩार्थोऽवगम्यते । यथा गुर्वादयो गुणश्शब्देनावगम्यन्ते। गुणश्शब्दस्य गुर्वादि गुणा इत्यर्थोऽवगन्तव्यम्। एवमेव देष शब्देन वातादिदोषा इति अवगन्तव्याः। धातुश्शब्देन रसरक्तादिसप्तधातव इति च अवगन्त्तव्याः। द्रव्यमिति शब्दश्रवणे नवद्रव्याणां तथा पञ्चभूतानां च ज्ञानं भवति। आद्यो न्यायशास्त्रस्य विषयः। द्वितीयं तु आयुर्वेदस्य च। उक्तं च अष्टाङ्गहृदये -पदार्थो नाम पदेनार्थो गम्यते। यथा द्रव्यमिति पदं तस्यार्थो भूजलादि। गुण इति पदं तस्यार्थो गुर्वादि इति।
व्याकरणशास्त्रे प्रत्याहारमिति पदेन आदिरन्त्येन सहेता इति सूत्रेण बहूनां वर्णानां बोधको भवतीति अर्थः अवगच्छेत्। तिङ् इति विवक्षा यत्र भवति तत्र क्रियापदोदयप्रत्ययानां निदर्शको भवतीति पदार्थं ग्राह्यते। ज्योतिश्शास्त्रे तु धनमिति पदेन द्वितीयभावः, सहोदरमिति पदेन तृतीयभावः, पुत्र इति पदेन पञ्चमभावः, लाभ इति पदेन एकादशभावः, कर्म इति पदेन दशमभावः च निगद्यते। आत्मा इत्यस्य अतति सन्ततभावेन सर्वास्ववस्थासु इति निर्वचनात् नित्य इत्यस्मिन्नर्थे इददं पदं व्यवह्रीयन्ते। भूतसंख्याः एवमेव पदार्थस्योदाहरणानि भवन्ति।