तन्त्रयुक्तिः/श्रीदासव्याख्या

विकिस्रोतः तः
← इन्दुव्याख्या तन्त्रयुक्तिः
श्रीदासव्याख्या
[[लेखकः :|]]

युक्ति शब्दः खलूपायवाची। नह्येता युक्तीः प्रत्याख्याय शक्यते तन्त्रं प्रणेतुम्। तत्र काश्चिद् युक्तयः वाक्यप्रयोजना उद्देशनिर्देशादयः। काश्चिदर्थप्रयोजना अधिकरणपदार्थादयः। तत्राधिकरणं नाम यदधिकृत्य प्रवर्तते शास्त्रं स्थानमध्ययः प्रकरणं वाक्यं वा। तत्र शास्त्राधिकरणं यदधिकृत्य शास्त्रं प्रवर्तते। यथा अष्टावङ्गान्यधिकृत्य हृदयाख्यं सर्वशास्त्रं प्रवृत्तम्। यथोक्तं कायबालेत्यादि। स्थानाधिकरणं यथा- अत्रार्थाः सूत्रिताः सूक्ष्माः प्रतन्यन्ते हीत्यादि। एवमध्यायादिष्वपि वेद्यम्।

योगो नाम योजना उद्देशनिर्देशयोस्तत्र न्त्र भाष्ययोर्वा। अथातोऽङ्गविभागं शारीरमित्युद्दिश्याङ्गानि विभजते शिरोऽन्तराधिरित्यादिना। युक्तिर्वा योगः प्रतिज्ञा हेतुर्दृष्टान्तोपनयो निगमनमिति पञ्चविधम् धः। यथाग्निः शरीरमूलम्। तं वि तद्विपक्वे आहारे सति तत्स्थितेरिति हेतुः। आहारान्न ह्यपक्वद्रसादय इति वचनात्। यथा शाल्यङ्कुरस्य बीजमिति दृष्टान्तः। उपनयो यथा चिकित्साशास्त्रस्य सप्रयोजनत्वसाधनाय बहुधा दृष्टान्तोपनयनं कृतवान् तन्त्रकृत् कस्यासिद्धोऽग्नितोयादिरित्यादयः। तस्मात् सप्रयोजनमेव चिकित्साशास्त्रं प्रत्यक्षफलत्वादित्युपनयः। तस्मदारम्भणीयमिति प्रमाणफलोपदर्शनमुखेन निगमनम्।यथोक्तं चतुष्पाद्गुणसम्पन्नेत्यादि चिकित्सायां संशयानुपपत्त्या प्रतिपादितया प्रमाणफलोपसंहारकरणम्।
हेत्वर्थो नामान्यप्रस्तावोक्तमन्यत्रपि तथैवोपपद्यते। ततैकैकत्र शाखायामित्यादि। तथा अवेध्याः संङ्कीर्णा ग्रथिता इत्यादि। तदेतेभ्यो विशेषवचनेभ्योऽनुमीयते शेषा वेध्या इति। अन्यथैतानि वचांसि निरर्थकानि स्युरिति।
पदार्थो नाम पदेनार्थो गम्यते। यथा द्रव्यमिति पदं तस्य भूजलादिः। गुणमिति पदं तस्यार्थो गुरुवादिः।
प्रदेशो नाम येषामर्थानामतिबहुत्वात् साकल्येनाभिधातुमशक्यत्वात् स्तोकमात्रमुच्यते यथोक्तम् इति द्रव्यैकदेश इत्यादि।
उद्देशो नाम संक्षेपाभिधानं यथा वायुः पित्तमित्यादि दोषसंक्षेपः।
निर्देशो नाम तस्यैव विस्तरोक्तिः यथोक्तं तत्र रूक्षो लघुरित्यादि।
वाक्यशेषो नाम यस्मिन् सूत्रे लाघविकेनार्थाद् गम्यमानमनुक्तं पूरणार्थमध्याह्रियते यथा तत्र खात्खानि देहेऽस्मिन् सम्भवन्तीति वाक्यशेषः। आप्या जिह्वा रसक्लेदा इत्युत्तरत्र भवार्थे तद्धितग्रहणात्।
प्रयोजनं नाम यदर्थं शास्त्रादि प्रवर्तते। यथा आतङ्कपङ्कमग्नानां हस्तालम्बो भिषग्जितमिति।
उपदेशो नामाप्तवचनम्। यथा स्नेहक्लोन्नाः कोष्ठागा इत्यादि।
अपदेशो नामाचार्यः कञ्चिदर्थं प्रतिज्ञाय हेतुमुपदिशति। यथा जीवितं म्रियमाणानां सर्वेषामेव नौषधादिति प्रतिज्ञा। हेतुमाह- नह्युपायमपेक्षन्ते सर्वे रोगा इति।
अतिदेशो नामातीतेन देशः अतिदेशः यत् किञ्चिदेवार्थमुक्त्वानुक्तार्थसाधनाय एवमन्यदपि प्रत्येतव्यमिति परिभाषायां ज्ञापयति। यथा महतः पञ्चमूलस्य काष्ठात् क्षौमेण वेष्टितम्। योज्यश्चैवं भद्रकाष्ठादि त्यादि।
अर्थापत्तिर्नाम येनार्थेनोक्तेन ततोऽन्योऽप्यर्थो गदित इव ज्ञायते। यथा - नैवाद्यानिशि नैवोष्णमित्युक्तम्। न तूक्तं दिवा भुञ्जीतेति। एतच्चार्थापत्त्या गम्यते।
निर्णयो नाम यदनिर्धारितस्यार्थस्य प्रतिष्ठापनम्। यथा दृश्यन्ते भगवन् केचिदित्यादिन चिकित्साशास्त्रं प्रति संशयकरणे पश्चान्निर्णयार्थमुत्तरं यथा न चिकित्सा च तुल्या भवितुमर्हतीत्यादि।
प्रसङ्गो नाम पूर्वाभिहितस्य सतोऽर्थस्य सतोऽर्थस्य केनचित् सम्बन्धान्तरेण पुनरभिधानम्। यथा सिराव्यधविधौ - लोहितं प्रभवं वदेत् शुद्धं तनोस्तेनैव स्थितिरित्युक्त्वा पुनः शारीरं शुद्धार्तवप्रसङ्गेनोक्तम्। न च पुनरुक्तिदोषः यस्मात् सिराव्यधे शरीरप्रभवत्वमेव रक्तस्योक्तं नतु क्रमो वर्णितः। शारीरे तु ययापूर्व्या शरीरहेतुः स्यात् तद् विस्तरणोक्तमिति।
एकान्तो नाम एकमेव पक्षमव्यभिचारेणाश्रयति नान्यत् न्यम्। तद्यथा ये भूते त्यादिना भूतादिजास्त्वागन्तव इति।
नैकान्तो नामान्यतरपक्षानवधारणम्। यथा जीवितं म्रियमाणानां सर्वेषामेव नौषधादित्यादि।
अपवर्गो नाम साकल्येनोपसृष्टस्य यत् पुनस्तदेकदेशापकर्षणम्। यथा शीतोष्णस्निग्धरूक्षाद्यैरुपक्रान्तश्चेत्यारभ्य तेषु स्रावयितुं रक्तमुद्रिक्तं व्यथ ध येत् सिरामितित्युत्सर्गमभिधायैकदेशापवादं वक्ति नतूनषोडशेत्यादिना।
विपर्ययो नाम यथोपदिष्टविपर्ययेण लक्षणादिकरणम्। यथा वातानुलोम्यमित्यादि सम्यक् स्निग्धे लक्षणमुक्त्वा रूक्षे विपर्यय इति।
पूर्वपक्षो नाम प्रतिज्ञातार्थसन्दूषकं वाक्यम्। यथा हिताहितं प्रत्याचिख्यासन्नाह यथा दृश्यन्ते भगवन् केचिदित्याभ्य हिताहित विभागस्य फलं तस्मादनिश्चतमित्यादि।
विधानं नाम यत् प्रकरणानुपूर्वं विधानमाचक्षते।
अनुमतं नाम यथा उष्णं शीतं द्विविधैवान्ये वीर्यमाचक्षतेऽपि च। नानात्मकमपीत्यादिना ह्यनुमतं न तु विघातकृत्।
व्याख्यानं नाम यमादृशेभ्यो विशिष्टतरबुद्धिगम्यम्। यथा सप्ताहात् कललं भवेदित्यादि। नह्यस्य गर्भस्य भावाः शक्या विज्ञातुं योगदृष्टिं मुक्त्वा।
संशयो नाम साकाङ्क्षितमनिश्चितवस्तुविज्ञानम्। यथा संशयप्राप्तमात्रे यो जीवितं तस्य मन्यत इत्यादि।
अतीतावेक्षणं नाम यदतिक्रान्तमवेक्ष्य प्रकृतस्य साधनमुच्यते। यथा रास्नाजीवकेत्यादौ महास्नेहं विपाचयेदिति। अत्र च न ज्ञायते कतमो महास्नेहविद्युक्तमवेक्ष्य व्याख्याते।
अनागातावेक्षणं नाम यत्रानागतं विधिमवेक्ष्य पूर्वोर्थः साध्यते। यथा मद्यैः कल्पोदितानि वा वमनानि प्रयुञ्जीतेति।
स्वसंज्ञा नाम तन्त्रकारैः स्वतन्त्रव्यवहारार्थं प्रणीता परतन्त्रेषु न व्यवहरति ह्रियते। यथा शाखा रक्तादयस्त्वक् चेति।
ऊह्यं नाम यदनुपनिबद्धं ग्रन्थेऽस्मिन् यथा वर्गास्तेषु त्वलाभतः। युञ्ज्यात् तद्विधमित्यादि।
समुच्चयो नाम यथा पेयां विलेपीमकृतं कृतं चापि समुच्चिनोति।
निदर्शनं नाम यन्निदर्शयितव्यं सूक्ष्मप्यर्थं स्वर्धमसादृश्यात् स्पष्टीकरोत्यादर्श इव मुखम्। यथा कुसुम्भादि युता त तोयादि त्यादि।
निर्वचनं नाम निरुक्तम्। यथा जगद्विषाद्विषमित्यादि।
नियोगो नाम विविधं कल्पनं इदं वा कार्यमिदं वेति। यथा प्राग्रूपेषु ज्वरादौ वा लघ्वशनमपतर्पणं वेति।
प्रत्युत्सारो नाम यत्रोपपत्तिं दर्शयन्तः परस्परमतानि विवरयन्ति। तद्यथा - अस्थ्नां शतानि षष्ट्या चेत्यादि ग्रन्थे पूर्वमतात् षष्टिं प्रत्युत्सारयति सन्धिसहस्रद्वयं साधयन्।
उद्धारो नाम शास्त्रारम्भप्रत्याख्यानादिचोद्यस्य समाधानम्। यथा दृश्यन्ते भगवन् केचिदित्यारभ्य हिताहितविभागस्य फलं तस्मादनिश्चितमिति कृते चोद्ये न चिकित्साचिकित्सा च तुल्या भवितुमर्हतीति परिहारः।
सम्भवो नाम उत्पत्तिःयद्यस्मिन्नुत्पद्यतेऽनुपदिष्टम्। यथा दुष्टरक्तापगमनात् सद्यो रागरुजां शमः इत्युक्तम्। तदान्यत्रापि सम्भवत्येव श्रृङ्गजडायुकाप्रभृतिष्वपीति।