तन्त्रयुक्तिः/अरुणदत्तव्याख्या

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
तन्त्रयुक्तिः
अरुणदत्तव्याख्या
[[लेखकः :|]]
चक्रपाणीव्याख्या →

तन्त्र्यते -धार्यते शरीरमनेनेति तन्त्रम् तस्य गुणास्तन्त्रगुणाः यैस्तन्त्रमलंक्रियते तन्त्रयुक्त्यादयः तैरेवं प्रकारैर्युक्तम्। तथा चोक्तं सङ्ग्रहे उ अ ५०- अलङ्कृतं युक्तिपदैः सद्रत्नैरिव काञ्चनम्।षट्त्रिंशताऽर्थदुर्गेषु भिषजां सङ्क्रमैरिव।
तत्राधिकरणं योगो हेत्वर्थोऽर्थः पदस्य च।
प्रदेशोद्देशनिर्देशवाक्यशेषाः प्रयोजनम्॥
उपदेशापदेशातिदेशार्थापत्तिनिर्णयाः।
प्रङ्गैकान्तनैकान्ताः सापवर्गो विपर्ययः॥
पूर्वपक्षविधानानुमतव्याख्यानसंशयाः।
अतीतानागतापेक्षास्वसंज्ञोह्यसमुच्चयाः॥
निदर्शनं निर्वचनं नियोगोऽथ विकल्पनम्।
प्रत्युत्सारस्तथोद्धारः सम्भवस्तन्त्रयुक्तयः॥ इति ।
1)तत्र अधिकरणं नाम- यदधिकृक्त्य प्रवर्तते शास्त्रं स्थानमध्यायः प्रकरणं वाक्यं वा। तत्र शास्त्राधिकरणं - यदधिकृत्य शास्त्रं प्रवर्तते । यथा- अष्टावङ्गान्यधिकृत्य हृदयाख्यं सर्वं शास्त्रं प्रवृत्तं। यथोक्तं कायबाल १ ५ इत्यादि। स्थानाधिकरणं यथा- अत्रार्थाः सूत्रिताः सूक्ष्माः प्रतन्यन्ते हि सर्वतः।३० ५३ इति । अध्यायोऽपि यदधिकृत्य प्रवर्तते तत् प्रकरणाधिकरणम्। यथा- अथातो दिनचर्याध्यायं व्याख्यास्यामः। इति प्रकरणं यदधिकृत्य प्रवर्तते तत् प्रकरणाधिकरणम्। यथा- दशमूलसिरा हृत्स्थास्ताः सर्वं सर्वतो वपुः। इत्यादि यावत् इत्यवेध्यविभागार्थं प्रत्यङ्गं वर्णिताः सिराः। इत्यादि। एवं वाक्यमपि यदधिकृत्य प्रवर्तते तद्वाक्याधिकरणं वेद्यम् ॥
2)योगो नाम योजना उद्देशनिर्देशयोः सूत्रभाष्ययोर्वा। यथा - अथतोऽङ्गविभागं शारीरं व्याख्यास्यामः । हृ शा ३ इत्युद्दिश्याङ्गानि विभजते- शिरोऽन्तराधिर्द्वौ बाहू सक्थिनी च समासतः। षडङ्गम् इत्यादि । युक्तिर्वा योगः प्रतिज्ञाहेतुर्दृष्टान्त उपनयो निगमनमिति पञ्चविधः। यथा- अग्निः शरीरस्थितेर्मूलमिति प्रतिज्ञा । अग्निपक्वाहारे सति तत्स्थितेरिति हेतुः । तत्राग्निर्हेतुराहारान्नह्यपक्वाद्रसादयः। हृ शा ३ ५५ इति वचनात्। यथा शाल्यङ्कुरस्य बीजमिति दृष्टान्तः। उपनयो यथा- चिकित्साशास्त्रस्य प्रयोजनत्वसाधनाय बहुधा दृष्टान्तोपनयं कृतवांस्तन्त्रकृत् कस्यासिद्धोऽग्नितोयादिः उ ४० ६८ इत्यादयः। तस्मात् सप्रयोगनमेव चिकित्साशास्त्रं प्रत्यक्षफलत्वादित्युपनयः। तस्मादारम्भणीयमिति प्रमाणपदोपदर्शनमुखेन निगमनम् । यथोक्तं चतुष्पाद् दगुणसम्पन्ने सम्यगालोच्य योजिते । मा कृथा व्याधिनिर्घातं विचिकित्सां चिकित्सिते ॥ साध्यव्याधिचिकित्सायां संशयानुपपत्त्या प्रतिपादितया प्रमाणफलोपसंहरकरणम् ।
३-हेत्वर्थो नाम - यदन्यप्रस्तावोक्तमन्यत्रापि तथैवोपपद्यते । यथा- ततेकैकं च शाखायां शतं तस्मिन्न वेधयेत्। सिरां जालन्धरां नाम तिस्रश्चाभ्यन्तराश्रिताः ॥ इत्यादि हृ शा ३ २०। तथा - अवेध्याः सङ्कीर्णा ग्रथिता क्षुद्राः इत्यादि । तदेतेभ्यो विशेषवचनेभ्योऽनुमीयते शेषा वेध्या इति । अन्यथैतानि वचांसि निरर्थकानि स्युरिति ।
४-पदार्थो नाम - पदेनर्थो गम्यते। यथा द्रव्यमिति पदं तस्यार्थो भूजलादिः। गुण इति पदं तस्यार्थो गुर्वादिः।
५) प्रदेशो नाम - येषामर्थानामतिबहुत्वात् साकल्येनाभिधानस्याशक्यत्वात् स्तोकमुच्यते। यथोक्तं - इति द्रवैकदेशोऽयं यथास्थूलमुदाहृतः।हृ सू ५ ८४ इति ।
६) उद्देशो नाम - संङ्क्षेपाभिधानम्। यथा - वायुः पित्तं कफश्चेति त्रयो दोषाः समासतः। इत्यादि ।
७) निर्देशो नाम - तस्यैव विस्तारोक्तिः। यथोक्तं - तत्र रूक्षो लघु शीतः खरः सूक्ष्मश्चलोऽनिलः। इति
८) वाक्यशेषो नाम- यस्मिन् सूत्रे लाघविकेनार्थाद्गम्यमानमनुक्तपूरणार्थमध्याह्रियते। यथा- तत्र खात् खानि देहेऽस्मिन् भवन्ति इति वाक्यशेषः। आप्या जिह्वारसक्लेदाः शा ३ ४ इत्युत्तरत्र भावार्थो तद्धितश्रवणात्।
९) प्रयोजनं नाम- यदर्थं शास्त्रादि प्रवर्तते। यथा - आतङ्कपङ्कमग्नानां हस्तालम्बो भिषग्जितम् । उ ४० ६४ । अनेन प्रयोजनेन चिकित्साशास्त्रमध्येयमित्यादि ।
१०) उपदेशो नाम - आप्तवचनम्। यथा - स्नेहक्लिन्नाः कोष्ठगा धातुगा वा स्त्रोतोलीना ये च शाखास्थिसंस्थाः। दोषाः स्वेदैस्ते द्रवीकृत्य कोष्ठं नीताः सम्यक्शुद्धिर्निर्ह्रियन्ते। इतादि।
११) अपदेशो नाम -यदाचार्यः किञ्चिदर्थं प्रतिज्ञाय हेतुमुपदिशति। यथा- जीवितं म्रियमाणानां सर्वेषामेवनौधात् । इति प्रतिज्ञाय हेतुमाह उ ४० ६५ - न ह्युपायमपेक्षन्ते सर्वे रोगाः सर्वरोगाणामुपायापेक्षाभावात् ।
१२) अतिदेशो नाम - यत् किञ्चिदेवार्थजातमुक्तार्थ साधनाय एवमन्यदपि प्रत्येतव्यमिति परिभाषायां स्थापयति । यथोक्तं कर्णरोगप्रतिषेधे उ १८ ४- महतः पञ्चमूलस्य काष्ठात् क्षौमेण वेष्टितात् । तैलसिक्तात्प्रदीप्ताग्रात् स्नेहः सद्यो रुजापहः॥ योज्यश्चैवं भद्रकाष्ठात्कुष्ठात् काष्ठाच्च सारलात् । इत्यादि ।

१३) अर्थापत्तिर्नाम- योऽन्येनार्थेनोक्तेन ततोऽपरोऽप्यर्थो गदित इव ज्ञायते । यथा- नैवाद्यान्निशि नैवोष्णम् । इत्युक्तं न तूक्तं दिवा भुञ्जीतेति । एतच्चार्थापत्त्या गम्यते। ननु कः पुनरर्थः का चास्यापत्तिः ब्रूमः। दध्यभ्यवहारोऽर्थस्तत्र तन्त्रकृता नैवाद्यान्निशि इति कालो निषिद्धो न तु दधिभक्षणम्। ततो योऽयमप्रतिषिद्धोऽर्थः स आपद्यते दिवा दधिभोजनार्थः रात्रिप्रतिषेधे दिनव्यतिरेकेण कालान्तराभावात्। सर्वथा अनभ्यवहरणीयस्याहारप्रस्तावे प्रतिषेधानुपपत्तेः। एवमन्यात्रापि व्याख्येयम्।
१४) निर्णयो नाम - यन्निवारितस्यार्थस्य प्रतिष्ठापनम्। यथा - दृश्यन्ते भगवन् केचिदात्मवन्तोऽपि रोगिणः। इत्यादिना चिकित्साशास्त्रफलं प्रति संशयकरणे पश्चान्निर्णयार्थमुक्तम्। यथा- न चिकित्सा च तुल्या भवितुमर्हति। इत्यादि
१५) प्रसङ्गो नाम - पूर्वाभिहितस्यार्थस्य केनचित् सम्बन्धान्तरेण पुनरभिधानम् । यथोक्तं सिराव्यधविधौ २७ २ लोहितं प्रवदेच्छुद्धतनोस्तेनैव च स्थितिः । इत्युक्त्वा पुनः शरीरे शुद्धार्तवप्रसङ्गेनोक्तं- शुद्धे शुक्रार्तवे सत्वः स्वकर्मक्लेशचोदितः । गर्भः सम्पद्यते युक्तिवशादग्निरिवारणौ ॥ इति । न च पुनरुक्तता तस्य। यस्मात् सिराव्यधे शरीरप्रभवत्वमेव रक्तस्योक्तं न तु क्रमो वर्णितः। शारीरे तु ययाऽऽनुपूर्व्या शरीरहेतुः स्यात् तद्विस्तरेणोक्तम् । यथा- बीजात्मकैर्महाभूतैः सूक्ष्मैः सत्वानुगैश्च सः। मातुश्चाहाररसजैः क्रमात् कुक्षौ विवर्धते ॥ इति।
१६)एकान्तो नाम - य एकमेव पक्षमव्यभिचारेण श्रयति नान्यम् । तद्यथा - ये भूतविषवाय्वग्निक्षत भङ्गादिसम्भवाः रागद्वेषभयाद्याश्च ते स्युरागन्तवो गदाः ॥ इति।
१७) नैकान्तो नाम – अन्यतरपक्षानवधारणात् । यथा- जीवितं म्रियमाणानां सर्वेषामेव नौषधात् । एकान्तेन - न ह्युपायमपेक्षन्ते सर्वे रोगाः इत्यादि ।।
१८)अपवर्गो नाम - साकल्येनोत्सृष्टस्य यत्पुनस्तदेकदेशापकर्षणम्। यथा- शीतोष्णस्निग्धरूक्षाद्यैरुपक्रान्ताश्च ये गदाः। सम्यक् साध्या न् सिद्ध्यन्ति ते च रक्तप्रकोपजाः। तेषु स्रावयितुं रक्तमुद्रिक्तं व्यधयेत्सिराम् । इत्युत्सर्गमभिधाय एकदेशेऽपवादं वक्ति - न तूनषोडशातीतसप्तत्यब्दस्रुतासृजाम् । इत्यादि।
१९) विपर्ययो नाम- यथोपदिष्टविपर्ययेण लक्षणादिकरणम् । यथोक्तं- वातानुलोम्यं दीप्तोऽर्ग्निर्वचः स्निग्धमसंहतम् । स्नेहोद्वेगः क्लमः सम्यक् स्निग्धे रूक्षे विपर्ययः॥ इति।
२०) पूर्वपक्षो नाम- प्रतिज्ञातार्थस्यसंदूषणं वाक्यम्। यथा हिताहितविभागं प्रत्याचिख्यासन्नाह । यथा - दृश्यन्ते भगवान् केचित् इत्यारभ्य यावात् हिताहितविभागस्य फलं तस्मादनिश्चितम् । इत्यादि ।
२१) विधानं नाम- यत्प्रकरणानुपूर्वं विधानमावेक्ष्यते ।
२२) अनुमतं नाम- उष्णं शीतं द्विधैवान्ये वीर्यमाचक्षतेऽपि च । नानात्मकमपि द्रव्यमग्नीषोमौ महाबलौ ॥ इत्यादिना ह्यनुमतं न विघातः कृतः।
२३) व्याख्यानं नाम - यन्मादृशेभ्यो विशिष्टतरबुद्धिगम्यम्।यथा- सप्ताहात् कललीभवेत् । द्वितीये मासि कललात् घनः पेश्यथवार्बुदम् । पुंस्त्रीक्लीबाः क्रमात् इति । न ह्यत्र गर्भस्यावर्तमाना भावाः शक्या विज्ञातुं योगिदृष्टिं मुक्त्वा ।
२४) संशयो नाम - साकाङ्क्षत्वमनिश्चितवस्तु विज्ञानम्।यथा - संशयं प्राप्तमात्रेयो जीवितं तस्य मन्यते। इत्यादि ।
२५) अतीतापेक्षणं नाम- यदतिक्रान्तमपेक्ष्य प्रस्तुतस्य साधनमुच्यते । यथोक्तं हृद्रोगचिकित्सिते - रास्नाजीवक इत्यादि यावत् महास्नेहं विपाचयेत् ॥ इति। अत्र च न जायते कतमो महास्नेह इति । तदेतदतिक्रान्तमपेक्ष्य प्रसाध्यते स्नेहविध्युक्तम् । यथा - द्वाभ्यां त्रिभिश्चतुर्भिस्तैर्यमकस्त्रिवृतो महान् । इत्यापेक्ष्य व्याख्यायते ।
२६) अनागतापेक्षा नाम--
२७) स्वसंज्ञा नाम -या तन्त्रकारैः स्वतन्त्रसंव्यावाहारार्थं प्रणीता सती परतन्त्रेषु न व्यवहरति । यथा शाखा रक्तादयस्त्वक् च इति ।
२८) ऊह्यं नाम -यदप्रतिबद्धं ग्रन्थे स्वयं प्रज्ञया तर्कयित्वा योज्यम्। यथोक्तं -त्रयस्त्रिंशदिति प्रोक्ता वर्गास्तेषु त्वलाभतः। युञ्ज्यात् तद्विधमन्यच्च द्रव्यं जह्यादयौगिकम् ॥ इति
२९) समुच्चयो नाम यथा पेयां विलेपीमकृतं कृतं च यूषं रसं च समुच्चिनोति तथा - त्रीनुभय तथैकम् । क्रमेण सेवेत नरोऽन्नकालान् प्रधानमध्यावरशुद्धिशुद्धः॥ इति।
३०) निदर्शनं नाम- यन्निदर्शयितव्यं सूक्ष्ममप्यर्थं स्वधर्मसादृशयात् । स्पष्टीकरोत्यादर्श इव मुखविधुम् । यथोक्तं- यथा कुसुम्भादियुतात्तोयाद्रागं हरेत्पटः। तथा द्रवीकृतात् देहाद् बस्तिर्निर्हरते मलान् ॥ इत्यादि ।
३१) निर्वचनं नाम - निर्णयार्थं वचनं निरुक्तम्। यथोक्तं विषविधाने मथ्यमाने जलनिधावमृतार्थं सुरासुरैः॥ इति । यावत् विषस्य निर्वचनं जगद्विषमिति ।
३२) नियोगो नाम- यो यस्यानुष्ठेयः। यथा - उष्णोदकोपचारी स्यात् इत्यादि ।
३३) विकल्पो नाम - विविधं कल्पनम् इदं कार्यमिदं वा कार्यम्। यथोक्तं पूर्वरूपदर्शने ज्वरादौ वा हितं लघ्वशनमपतर्पणम् वा ।
३४) प्रत्युत्सारो नाम - यत्रोपपत्तिं दर्शयन्तः परस्परमतानि निवारयन्ति । तद्यथा - अस्थ्नां शतानि षष्ठिश्च त्रीणि दन्तनखैः सह। धन्वन्तरिस्तु त्रीण्याह सन्धीनां च शतद्वयम्॥दशोत्तरं सहस्रे द्वे निजगादात्रिनन्दनः। इति पूर्वमतात् षष्ठिं प्रत्युत्सारयति। धन्वन्तरेरपि मतं दशोत्तरं सन्धिशतद्वयमिति पुनर्वसुः प्रत्युत्सारयति ऋ चोद्यस्य समाधनम्। तद्यथा- दृश्यन्ते भगवान् केचिदात्मवन्तोऽपि रोगिणः। यावत् हिताहिताविभागस्य फलं तस्मादनिश्चितम्। इति कृते चोद्ये- न चिकित्साऽचिकित्सा च तुल्या भवितुर्महति इति परिहरः॥
३५) उद्वारो नाम शास्त्रारम्भप्रत्याख्यानादि चोद्यस्य समाधानम्। तद्यथा -दृश्यन्ते भगवन् केचिदात्मवन्तोऽपि रोगिणः। यावत् हिताहितविभागस्य फलं तस्मादनिश्चितम् । इति कृते चोद्ये- न चिकित्साऽचिकित्सा च तुल्या भवितुमर्हति इति परिहारः ।
३६- सम्भवो नाम- उपपत्तिर्यस्मिन्नुपपद्यते अनुपदिष्टे। यथा - दुष्टरक्तापगमनात् सद्यो रागरुजां शमः।इत्युक्तम्।प्रच्छानालबुजलौकाशृङ्गसिराव्यधैर्यथसम्भवं रक्तमपनीयते। यथोक्तं- प्रच्छानेनैकदेशस्थं ग्रथितं जलजन्मभिः। हरेच्छृङ्गादिभिः सुप्तमसृग्व्यापि सिराव्यधैः। इति एवमन्यत्रापि सम्भवार्थो योज्यः।
व्याख्या अपि तन्त्रस्य गुणः। ताभिरपि तन्त्रमलङ्क्रियते। ताश्च पञ्चदश प्रकाराः। तद्यथा- पिण्डपदपदार्थाधिकरणप्रकरणार्थकृच्छ्रफलोच्चितकन्यासप्रयोजनानुलोमप्रतिलोमातिसूत्रसमस्तव्याख्याः।

तत्र पिण्डव्याख्या नाम - सङ्क्षेपतया सूत्ररूपेणाध्यायादीनां व्याख्या। यथा- रूपेन्द्रियस्वरच्छायाप्रतिच्छायाक्रियादिषु। अन्येष्वपि च भावेषु प्राकृतेष्वनिमित्ततः॥ विकृतिर्या समासेन रिष्टं तदिति लक्षयेत्। इत्यनेन सकरिष्टाध्याय समास उक्तः।
२ पदव्याख्या नाम - यत्पदानां छेदं कृत्वोच्चारणम्। यथा - अथ अतः आयुष्कामीयं अध्ययं वि आख्यास्यामः। इति सप्तपदं सूत्रं पूर्वं व्याख्यातम्।
३ पदार्थव्याख्या नाम तेषामेव पदानां विवरणम्। यथा अथ शब्दं आनन्तर्ये अधिकारे वा अतः शब्दो हेतावित्यादि।
४ अधिकरणव्याख्या नाम यद्वस्तुकृतमारभ्य तदनुषङ्गेण व्याख्यानमारभ्यते। यथा- अथातो दिनचर्याध्यायं व्याख्यास्यामः। इति प्रत्युत्य ब्राह्मे मुहूर्त उत्तिष्ठेत्स्वस्थो रक्षार्थमायुषः। इत्यादिना सैव दिनचर्या विवृत्य व्याख्यायते सविस्तरा।
५ प्रकरणव्याख्या नाम यस्मिन्नर्थे सूत्रे वा प्रकृतेनाप्रकृतं साध्यते यथा - त्रिलवणाद्ये चूर्णे गुणानुक्त्वाऽभयाख्ये एवमाह समानं पूर्वेण इति। तत्र समानगुणता व्याख्याता।
६ अर्थव्याख्यान नाम यत्र प्रकरणे सूत्रे वा स्वभावस्योपवर्णनं क्रियते। तद्यथा - प्रकृतिरुच्यते स्वभावः। स पुनराहारौषधद्रव्याणां स्वभाविको गुर्वादिगुणयोगः। तद्यथा- माषमुद्गयोः सूकरैणयोश्च।
७ कृच्छ्रव्याख्या नाम - यत्र लेशत उक्तानामविस्पष्टानां प्रकरणे सूत्रे वा अर्थानां यत्नत उद्भावनं क्रियते। तद्यथा- अनुयायात्प्रतिपदं सर्वधर्मेषु मध्यमाम्। इति लेशतो ब्रुवाणः शास्त्रकारः सर्वेषु हेतुलिङ्गौषधादिषु मध्यमा प्रतिपदाश्रयणीयेति सूचयति।
८ फलव्याख्य नाम - यत्र वस्तुनि बहुष्वनिश्चितार्थेष्वेकीयमतेषु प्रस्तुतेषु वस्तुसारभूतं स्वमतं स्वमर्थमुपनिक्षिप्यैकीयमतानि तस्मिन्नेव स्वमतेऽन्तर्भावं नयति। यथा द्वादश प्रसृतो निरूहः कार्यः इत्येके। मात्रां त्रिपलिकां कुर्यात् स्नेहमाक्षिकयोः पृथक्। इत्याद्यन्ये। तदेतानि मतानि दोषौषधबलापेक्षया स्वमतान्तर्भावितानि प्रमाणानि च। यथोक्तं- दोषौषधादिबलतः सर्वमेतत्प्रमाणयेत्। अन्योन्यविरुद्धमपि सम्यङ्निरूढलिङ्गं तु नासम्भाव्य निवर्तयेत्॥ इति।
९ उच्चितकव्याख्या नाम- यस्मिन् सूत्रे निदर्शनभूतान्युदाहरणानि तन्त्रान्तः समाकृष्यार्थः शस्यते। यथा- पृथिव्यादिषु च महाभूतसंज्ञा स्थापिता रसादिषु च धातुसंज्ञा निवेशिता। रसासृङ्मांसमेदोऽस्थिमज्जशुक्राणि धातवः। इति। पुनरुच्यते- परस्परोपसंस्तम्भाद्धातुस्नेहपरम्परा। इति। अत्र किं धातोर्ग्रहणेन भूतान्यपि धातुशब्दवाच्यानि भवन्ति इति।
१० न्यासव्याख्या नाम - यस्मिन्नधिकारे वर्तमाने तेनाधिकरणार्थेन सहितं सम्बन्धमभिवीक्ष्यान्यस्यार्थो विनिक्षिप्यते। यथा -दृश्यन्ते भगवन् केचिदात्मवन्तोऽपि रोगिणः। इति हिताहितविभागस्य फलं प्रति संशयमभिविक्ष्य न चिकित्साऽचिकित्सा च तुल्या भवितुर्महति। इत्यादिना उत्तरं दत्वा तेनैव प्रसङ्गेनान्योऽर्थो निक्षिप्यते। यथा - एतत्तदमृतं साक्षाज्जगदायासवर्जितम्। याति हलाहलत्वं तु सद्यो दुर्भाजनस्थितम्॥ इति। एवमन्येषामप्यर्थानां सम्बन्धमवधार्यं व्याख्याऽर्थार्हा कल्पनीया।
११ प्रयोजनव्याख्या नाम- यत्सूत्रमभिधीयमानं स्वार्थस्य निष्पत्तौ निमित्तभावमुपैति। यथा - उक्तोऽङ्गविभागेऽनेकधा सिराविस्तरः। न च तेन सिराविस्तरणोक्तेन किञ्चिदिहोपकारो दृश्यते। यदि प्रकरणावसरे प्रयोजनमिदं ब्रूयात् इत्यवेध्यविभागार्थं प्रत्यङ्गं वर्णिताः सिराः। एतदर्थं सिरावरणं प्रवृत्तम्।
१२ अनुलोम्यं नाम

तत्र १-२ प्रधानकल्पना द्विधा- प्रधानस्य कल्पना प्रधानेन वा कल्पना प्रधानकल्पना। प्रधानस्य कल्पना यथा- सर्पिः स्नेहनं क्षीरं जीवनं मधु सन्धानकृत् इत्यत्र मध्ये प्रकृष्टगुणत्वात् सर्पिः क्षीरे स्नेहजीवने कल्प्येते न तु तैलयोगादिष्वपि स्नेहजीवनत्वं नास्तीति। माक्षिकं च सन्धाने प्रधानत्वात् सन्धानकृदित्युक्तं न तु सिक्थकमधुयष्टिकादिष्वपि सन्धानकृत्वं नास्तीति। प्रधानेन तु कल्पना यथा- क्षीरदधितक्रमस्तुनवनीतक्षीरघृतपुराणघृतकिलाटपीयूषकूचीकामोरणादिवर्गः सर्वः क्षीरवर्ग इत्युक्तः क्षीरप्राधान्यात्। प्रधानेन कल्पनाव्यपदेश इत्येकोऽर्थः।
३ गुणकल्पना नाम - येन धर्मेणोपेतोऽर्थः प्रयुज्यमानः समर्थो भवति तेन धर्मेण युक्तस्य तस्यासावगुणोऽपि गुर्वादिष्वपाठाद् गुण इति कल्प्यते। यथोक्तं- भिषक् द्रव्याण्युपस्थाता रोगी पादचतुष्टयम्। चिकित्सितस्य निर्दिष्टं प्रत्येकं तच्चतुर्गुणम्॥ इत्यादि। दक्षत्वादिचतुर्गुणनिर्देशः सर्वथा प्रशंसागुण इति गम्यते।
४ लेशकल्पना नाम - अनुपदिष्टस्य विधेः कण्ठपाठेन यत्किञ्चित्सूत्रावयवान्तरमाश्रित्यार्थः कल्प्यते। यथा- नात्र शास्त्रे कालमृत्योरकालमृत्योर्वा किञ्चिल्लक्षणं प्रणीतम्। तत्तु लेशतोऽनुमीयते। कथमिति यदा हि कालनियतमायुः क्षयं प्राप्तं भवति तदा रिष्टमुत्पद्यते न विषमपरिहारेण म्रियमाणे नरे। उक्तं हि- भिषग्भेषजपानान्नगुरुमित्रदिद्विषश्च ये। वशगाः सर्व एवैते विज्ञेयाः समवर्तिनः। इति। अत्र विकृतिविज्ञानीये गुरुमित्रद्विषश्चेति च शब्दोऽस्माच्छ्लोकात् पूर्वकाणि यानि चोत्तराणि तानि सर्वाण्येव समुच्चिनोति। समवर्ती हि कालो मृत्युरिष्टः इतरत्वसमर्ती। अत एव चाचष्टे तन्त्रान्तरे- कालमृत्योरेव रिष्टानि नाकालमृत्योः। इति स्वाभिप्रायप्रकाशनार्थं तन्त्रकारः शकटोदाहरणं दत्तवान्। यथा- सम एव वाह्यमानः स्वप्रमाणक्षये भङ्गपूर्वरूपाण्याप्नोति। तथा नियतायुषः स्वप्रमाणक्षये रिष्टसम्भवः। यथा च - स एवातिभारक्रान्तत्वाद्विषमपथाश्रितत्वादकालेऽपि क्षयमाप्नोति। तथा अनियतायुषो रिष्टोत्पत्तिमन्तरेण मृत्युः। यदि पुनरनियतायुषोऽपि रिष्टोत्पत्तिपूर्वं मरणं कल्प्येत तदा वार्षिके षाण्मासिके वाऽरिष्टे समुत्पन्ने शुभहेतुयोगान्न मृत्युः स्यात्। अनियतायुषो हि सम्यगुपचाराज्जीवितानुवृत्तिः। विषमहेत्वपरिहारान्मृत्युः। अत एवानियतायुषमधिकृत्य रसायनान्युपदिष्टानि। तद्योगादयं बहून्यपि वर्षाणि जीवेत्। नियतायुषस्तु कालमृत्युवर्षशतात् परेण जीवितं न निर्दिष्टम्। यथोक्तं शारीरे - मरणं प्राणिनां दृष्टमायुः पुण्योभयक्षयात्। तयोरप्यक्षयाद् दृष्टं विषमापरिहारिणाम्। इति। तस्मादविशेषोक्तावपि नियतायुष एवारिष्टोत्पत्तिपूर्वं मरणमिति निश्चितम्। तथा च ऋतुचर्याध्यायं व्याख्यास्यामः। इति प्रतिज्ञायां षडृतुविशेषे प्रतिपत्तिर्भवति। न तु ॠतुस्तु द्वादशनिशाः अस्य ऋतोरिति।
५ विद्याकल्पना नाम -यथा सर्वविद्यानुगतार्थनिर्देशे शास्त्रकारस्य सर्वविद्यास्थानानुप्रवेश इह शास्त्रे हित इति वचनद्विनाऽपीष्यते। तत्र आर्द्रसन्तानता त्यागः इत्यादिना वाक्येन बुद्धिवचनविषय अध्यात्मविद्यासङ्ग्रह इङ्ग्यते। अर्चयेद्देवगोविप्र इत्यादिना धर्मशास्त्रोपदेशसङ्ग्रहः। तथा जगद्विषाण्णां तं दृष्ट्वा तेनासौ विषसंज्ञितः। इत्यादिना पदव्युत्पादनान्निरुक्तकरणाच्च शब्दविद्याया निरुक्तेश्चोपसङ्ग्रहः। साधकेऽहनि सूतिकां गृहं प्रवेशयेत्। तथा भरणीकृत्तिकाश्लेषापूर्वार्द्रापितृनैऋते। इति ज्योतिः शास्त्रोपरोधः। विचित्रभूषितशास्त्रस्योत्पेक्षणीयम्।
६ भक्ष्यकल्पना नाम - एतत्तदमृतं साक्षात् इत्यादि
७ आज्ञाकल्पना नाम - यस्यानुष्ठाने हेतुः सम्यगवन्तुं न शक्यः केवलमाप्तवचनं प्रमणीकृत्यानुष्ठीयते। यथा - न छिन्द्यात्तृणम् न भुवं लिखेत् इति। न ह्यत्र हेतुर्वक्तुं शक्यते एतदनुष्ठेयमिति।
 इयं सप्तविधा कल्पना, विशत्यश्रया भवति।
यथा - १-आदिलोपः २- मध्यलोपः ३- अन्तलोपः ४-उभयपदलोपः ५-आदिमध्यान्तलोपः ६ - वर्णोपजननम् ७-ऋषिक्लिष्टम् ८- तन्त्रशीलम् ९- तन्त्रसंज्ञा १०- प्रकृतम् ११- समानतन्त्रप्रत्ययः १२ परतन्त्रप्रत्ययः १३हेतुहेतुकधर्मः १४ कार्यकारणधर्मः १५ आद्यन्तविपर्ययः १६ शब्दान्तरम् १७ प्रत्ययः १८ उपनयः १९ सम्भवः २० विभवः इति।
१ तत्र आदिलोपो नाम -यथा बृंहणः प्रीणनो वृष्यश्चक्षष्यो व्रणहरा रसः। इत्यत्र मांसशब्दलोपेन। तथा च- धारणोदीरणनिशा इत्यादौ धारणं वेगधारणम् उदीरणं वेगोदीरणमिति।
२ मध्यलोपो नाम -यथा द्रवद्रव्यविज्ञानीयमध्यायं व्याख्यास्यामः। इत्यत्र द्रवद्रव्यस्वरूपविज्ञानीयो द्रवद्रव्यविज्ञानीय इत्युक्तः अनन्तरं अन्न स्वरूपविज्ञानीयः इत्यत्र स्वरूपशब्दश्रवणात्।
३ अन्तलोपो नाम - यथा - कफं पुनः गौर्यः स्निग्धाः शिराः शीताः वहन्ते इत्यत्रास्रशब्दस्य लोपो द्रष्टव्यः पूर्वत्रास्रशब्दस्य प्रकृतत्वात्। यथोक्तं- तत्र श्यावारुणाः सूक्ष्माः पूर्णरिक्ताः क्षणात् सिराः।प्रस्पन्दिन्यश्च वातास्रम् इति। एवमिहापि कफास्र वहन्त इत्यनुमेयम् तुल्यजातीयत्वात्।
४ उभयपदलोपो नाम - यथा- अदौ षड्रसमप्यन्नं मधुरीभूतमीरयेत्। इति वचने मध्ये विदाहादम्लतां ततः॥ पित्तमामाशयात्कुर्याच्च्यवमानं च्युतं पुनः। अन्ते अग्निना शोषितं पक्वं पिडितं कटु मारुतम्॥ इति। आदिशब्दश्रवणात् मध्यान्तशब्दावत्र लुप्तनिर्दिष्टो द्रष्टव्यौ।
५ -आदिमध्यान्तलोपो नाम - यथा अन्नां कालेऽभ्यवृतं आदौ कोष्ठं प्राणानिलाहृतम्। मध्ये अन्ते च द्रव्यैः इत्यादि।
६ वर्णोपजननं नाम - यत्रानुक्तो ग्रन्थे वर्ण आचार्येण पश्चाद् व्याख्यानकाल उपजन्यार्थोऽभिधीयते। यथा -तत्र खात्खानि देहेऽस्मिन् श्रोत्रं शब्दो विविक्तता। तथा- वातात्स्पर्शत्वगुच्छ्वासा वह्नेर्दृग्रूपक्तयः। भवन्ति इति वर्णत्रयमुपजन्य व्याख्या करणीया। आप्या जिह्वारसक्लेदा घ्राणगन्धास्थि पार्थिवम्। इति द्वयोर्भूतयोर्भावार्थे तद्धितप्रत्ययश्रवणात्। वाक्यशेषोऽप्ययमेवं प्राय एव।
७ ऋषिक्लिष्टं नाम - यदृषी ऋषिपुत्रो वाऽसमाहितचित्ततयाऽशक्त्या वा किञ्चित्पदजातमजातंभ्रष्टमुच्चारितवान् तथैव तल्लोके प्रयुज्यते। यथा -रोम लोम इत्यादि।
८ तन्त्रशीलं नाम- या तन्त्रकारणं प्रकृतिः स्वभाव इत्यर्थः। यथा- किञ्चिच्छिष्यानुग्रहार्थं विस्तीर्णं सङ्क्षिपन्ति यथा -अस्थ्नां शतानि षष्टिश्च त्रीणि दन्तनखैः सह। इति न नान्यङ्गुलिहस्तपादमणिबन्धादि विभागेन विस्तारितानि। किञ्चिद्विस्तारयन्ति यथा - तत्रैवाङ्गविभागेन विस्तारिताः इत्यवेध्यविभागार्थं प्रत्यङ्गं वर्णिताः सिराः। इति वचनादिति।
९ तन्त्रसंज्ञा नाम - यत्किस्मिश्चिदर्थे मध्ये व्याख्यायमाने स्वतन्त्रसिद्धोदाहरणं तत्प्रमाणार्थमुच्यते। यथा- नवज्वरे कषाया अपक्वेषु दोषेषु वर्जनीया उक्ताः ततः पक्वेषु दोषेषु लङ्घनाद्यैः प्रशस्यते। कषायो दोषशेषस्य पाचनः शमनोऽथवा॥ इति
 विशेषवचनात्तत्र स्वरसादेः पञ्चविधस्य कषायस्य प्रतिषेधः प्रसक्तः। ततः स्वतंन्त्रसंज्ञया विशेषः प्रतिषिध्यते- तिक्तः पित्ते विशेषेण प्रयोज्यः कटुकः कफे। इत्यादि। तस्मात् स्वतन्त्रसंज्ञया तिक्तकटुकषायौ निषिद्धौ पञ्चविधया स्वरसादिकल्पनया।
१० प्रकृतं नाम - ऊषकस्तुत्थकं हिङ्गु कासीसद्वयसैन्धवम्। इत्यौषधाधिकारात् सैन्धवं लवणं नत्वश्वादिकम्।
११ समानतन्त्रप्रत्ययो नाम- यत्साध्यस्य कस्यचिदर्थस्य साधनायानुपलभ्यमाने स्वतन्त्राद् प्रत्यये समानेभ्यस्तन्त्रेभ्यः प्रत्ययः इति। उदाहरणं यथा- नीचलोमनखश्मश्रुः इत्याचारेषूक्तम्। इयद्भिरियद्भिर्दिनैः केशनखश्मश्रूण्यवतार्य नीचलोमादिना भवितव्यमिति नोक्तम्। ततो व्याख्याकाराः क्षारपाणिप्रभृतयः प्रसिद्धा दशरात्रेण केशादीनां संग्रहमिति निश्चिन्वन्ति। मुनिस्त्वादीत्- त्रिभिः पक्षस्य केशश्मश्रुलोमनखान् संहारयेत्। इति।
१२ परतन्त्रप्रत्ययो नाम यस्यार्थस्य प्रसिद्धितो न स्वकीयमुदाहरणं शक्यमभिधातुं नाप्यन्येभ्यो भिषक्तन्त्रेभ्यः। ततस्तस्मिन् द्वये प्ररतन्त्रादुदाहरणं कलप्यते। यथा - कालार्थकर्मणां योगो हीनमिथ्यातिमात्रकः। सम्यग्गोगश्च विज्ञेयो रोगारोग्यैककारणम्॥ इत्युक्तम्। योगस्य च लक्षणं नोक्तं तन्त्रे अन्यत्र वा भिषक्तन्त्रे तत्र बौद्धतन्त्रप्रत्ययेन निश्चीयते- स्वहेतुभ्यः शीतोष्णादिलक्षणेन कालस्योत्पत्तिरेव योगः। इति।
१३ हेतुहेतुकधर्मो नाम - यो हेतुहेतुकेन धर्मो ज्ञायते। यथा- पित्तातिसारिणः पित्तलातिसेवनात् पित्तमुद्रिक्तं रक्तातिसाराय न चिरादस्य भविष्यतीत्यनुमीयते समर्थस्य हेतोः स्वकार्यस्याव्यभिचारात्।
१४ कार्यकारणधर्मो नाम - यत्र कार्यसंज्ञया कारणं निर्दिश्यते कारणसंज्ञया वा कार्यं तत्र कार्यसंज्ञया तावत्कारणं निर्दिश्यते। यथा दोषा अपि रोगशब्दं लभन्ते। तत्र दोषाः कारणं- सर्वेषामेव रोगाणां निदानं कुपिता मलाः। इति वचनात्। न चेदानीं दोषो रोग इति व्यपदिश्यमानः कारणे दोषे कार्यं रोग उपचरितो भवति। एवं कार्यकारणसंज्ञया निर्दिश्यते।
१५ आद्यन्तविपर्ययो नाम - यथा- अन्नस्वरूपविज्ञानं प्राप्तमुज्झित्वा पानमेव प्रथममुक्तं द्रवद्रव्यविज्ञानं कुवता तोयदीनां पञ्चानां वर्गाणामल्पवक्तव्यत्वत्। समुद्रोपमतया शास्त्रस्यानुपूर्वसुखावगाहनार्थं पूर्वं ह्यल्पं सुखेनावगाह्यते पश्चात्प्रभूतमिति न्यायात्।
१६ शब्दान्यत्वं नाम- यदर्थं पर्यायशब्दं वर्णयन्ति शास्त्रकृतः। यथा - रोगः पाप्मा ज्वरो व्याधिर्विकारो दुःखमामयः। यक्ष्मातङ्कगदाबाधाः शब्दाः पर्यायवाचिनः॥ इत्यादि।
१७ प्रत्ययधर्मो नाम- यो न च हेतुर्हेतुधर्मोपपत्तिमात्रेण च केनचिद्धेतुत्वेन व्यपदिश्यते। यथा- देवदानवगन्धर्वाद्युन्मादापस्मारादिविचित्रग्रहविकारा उक्ताः। यथोक्तं - फुल्लपद्मोपममुखं सौम्यदृष्टिमकोपनम्। यावत् अनिद्रमप्रघृष्यं च विद्यद्देववशीकृतम्। इत्यादि। न चैते परमार्थतो हेतवः किं तर्हि प्रज्ञापराधः। तथा चोक्तं - हेतुस्तदनुषक्तौ तु सद्यः पूर्वकृतोऽथवा। प्रज्ञापरधः सुतराम् इति।
१८ उपनयो नाम - सूत्रहेतुप्रस्तावेन यत्रान्यप्रकरणमुपनीयते। यथा मात्राशीतीये आहारमात्रालक्षणप्रस्तावे अतिमात्रभोजननिमित्ताया विसूचिकायाश्चिकित्सा उपनीता। मात्रायां हि विभज्यमानायामवश्यमूनातिमात्रेऽपि विभजनीये तदपेक्षया मात्रायाः सम्यक् प्रतिपादनसौकर्यात् तत्प्रस्तावेन च विसूचिकायाश्चिकित्सा।
१९ सम्भवो नाम - यत्सूत्रं प्रकरणं व विधीयमानर्थस्य व्यापकत्वात् सकलेन शास्त्रेण व्याख्यायते। यथा कायबालग्रहोर्ध्वाङ्गशल्यदंष्ट्राजरावृषान्। अष्टावङ्गानि तस्याहुश्चिकित्सा येषु संश्रीता। इति। एतान्याष्टावङ्गानि सकलेन शास्त्रेणोपदिश्यन्त इत्याचार्यः प्रतिजानीते।
२० भङ्ग्या विभवकल्पनायाश्चास्यायं विशेषः। अयं व्याख्याया विभवो भवति। स तु विनैव व्याख्यायाः पठ्यमान एवेति।
सप्तदश ताच्छिल्यादीनीत्युक्तम् । तद्यथा- १ ताच्छील्यम् २ अवयवः ३ विकारः ४ सामीप्यम् ५भूयस्त्वम् ६ प्रकारः ७ गुणिगुणविभवः ८ संसक्तता ९ तद्धर्मता १० स्थानम् ११ तादर्थ्थ्यम् १२ साहचर्यम् १३ कर्म १४ गुणनिमित्तता १५ चेष्टानिमित्तता १६ मूलसंज्ञा १७ तात्स्थ्यम् इति।
 १ ताच्छील्यम् ।
 २ अवयवः ।
३ विकारः।
४ सामीप्यम् ।
५भूयस्त्वम् ।
६ प्रकारः ।
७ गुणिगुणविभवः ।
 ८ संसक्तता ।
९ तद्धर्मता।
१० स्थानम् ।
११ तादर्थ्थ्यम् ।
 १२ साहचर्यम् ।
१३ कर्म ।
 १४ गुणनिमित्तता ।
१५ चेष्टानिमित्तता ।
 १६ मूलसंज्ञा ।
 १७ तात्स्थ्यम् ।

तत्र ताच्छील्यं नाम - यत्केनचिदेव धर्मसादृश्येन युक्तो भावस्ताच्छील्यमुच्यते। यथा-सर्वाङ्गसंश्रयस्तोदभेदस्फुरणभञ्जनम्। स्तम्भनाक्षेपणस्वापसन्ध्याकुञ्चनकम्पनम्॥ कुपितोऽनिलः करोति। इत्यन्ते न चाङ्गानि स्वपन्ति। किं तर्हि देवदत्तः स्वपिति। तद्धर्मसादृश्यादङ्गानि स्वापशब्देनोच्यन्ते। तद्यथा- पुरुषः सुप्तो न किञ्चिद्वेदयते। न चेतयते। तथाऽङ्गामपि यत्किञ्चिन्न वेदयते नखतोदादि। तत्सुप्तमिव सुप्तमित्युच्यते। इति
२ अवयवो नाम - यत्रैकदेशोदाहरणे क्रियमाणेऽनुक्तोऽन्योऽपि तज्जातीयकोऽर्थो लभ्यते। यथा- लङ्घनैः क्षपिते दोषे दीप्तेऽग्नौ लाघवे सति। स्वास्थ्यं क्षुत्तृड्रुचिः पक्तिर्बलमोजश्च जायते॥ इत्यनेनैकदेशोदाहरणेन लङ्घनेन दोषक्षपणेन लाघवे सति स्वास्थ्यादयोऽनुक्ता अपि लभ्यन्ते।
३ विकारो नाम - विपरीतक्रिया। यथा - विकारसंज्ञया प्रकृतिरपि लभ्यते। प्रकृतिसंज्ञया च विकारः। तत्र विकारसंज्ञया च प्रकृतिर्यथा -पुष्पे पत्रे फले नाले कन्दे च गुरुता क्रमात्। इति शाकमधिकृत्योक्तम्। अत्र प्रकृतिः पाठाशूकाषादीनां पत्रादीनि। तानि हि पाकेन विक्रियमाणानि चावस्थान्तरं प्रतिपद्यमानानि शाकसंज्ञां लभन्ते। तदयं शास्त्रकारस्तेषां विकारसंज्ञां यवादिमण्डलादिसंज्ञया यवादिकं चोक्तवान्।
४ सामीप्यं नाम
५ भूयस्त्वं नाम- यदेकस्मिन् वर्तमानमधिक्येन क्वचिल्लभ्यते। यथा तन्त्रे- अम्लो भक्तं रोचयति इत्युक्तं न च मधुरादिरपि रोचयतीति। कस्यचिच्चाम्लविद्वेषिणोऽम्लो रसो भक्तविद्वेषमेव कुर्यात्। तत्र भूयस्त्वमाश्रित्येदमुक्तम्- अम्लो रोचयति। कदाचिद् कस्यचिद्वा नासौ रोचयेन्न तावता तन्न रोचनम्।
६ प्रकारो नाम - यो यस्य समानधर्मा स तस्य प्रकारः। यथा- कण्ठमेरण्डनालेन स्पृशन् वमेत्। इत्युक्तम्। न च तत्प्रकाराणां सुवर्चलाशतपुष्पादिनालानां न ग्रहणम्।
७ गुणगुणिविभवो नाम - क्वचित् गुणीनि गुणशब्देनोक्तानि यस्मादाह- पार्थिवाः पार्थिवानेव इति। न हि पार्थिवा गुणाः सन्ति केचित् ये पठ्येरन्। गुणश्च गुणिवद्यथा- मेघास्मृतिबलोपेता बभूवुरमितायुषः। इति। अत्रायुगुणोपेतममितत्वात्। नायुषः परिमाणगुण आयुगुणेनैव शक्यः।
८ संसक्तता नाम - यदेकस्य बहुभिः सम्बन्धः। यथाविद्यमानेष्वपि तत्रान्येषु सम्बन्धेषु तस्यैव व्यपदेशः क्रियते। यथाविद्यमानेष्वपि तत्रान्येषु सम्बन्धेषु तस्यैव व्यपदेशः क्रियते। यथा - मधुरस्कन्धनिर्देशेन माक्षिकादयो गुणिताः कषायादिरसोपेता अपि मधुरप्रायत्वान् मधुरसंसक्ततया।
९ तद्धर्मता नाम- येन तथाभूतं सत्तद्धर्मतामासाद्य दर्शनात्तामेवाख्यां लभते। यथा- विवर्जयेद्भिषक्पाशान् पाशान् वैवस्वतानिव। इति। मारणधर्मो हि वैवस्वतपाशेन समानो दृष्ट इत्यतस्तेऽपि तथैवोक्ताः।
१० स्थानं नाम -यत्र स्थानिना स्थानं स्थानेन वा स्थानी व्यपदिश्यते। तत्र स्थानिना स्थानं यथा- कर्णनादः श्रोत्ररोग इत्युक्तः। न च श्रोत्रेन्द्रियस्यास्ति नादः किं तर्हि तदधिष्ठानस्य कर्णस्य। तस्मादयं श्रोत्रेण स्थानिना कर्णमधिष्ठानमुक्तवान्। स्थानेन स्थानी यथा- जिह्वा रसं गृह्णाति। तत्र न जिह्वा रसं गृह्णाति किं तर्हि रसना।

११ तादर्थ्यं नाम - यत्प्र्योजनार्थं प्रवर्त्तते यो भावस्तेनैव व्यपदिश्यते। यथा- मदनमधुकलम्बा इत्यादिनि छर्दनानि- छर्दनप्रयोजनानीत्यर्थः।
१२ साहचर्यं नाम- यो येन नित्यं सम्बन्ध उपलभ्यते स तस्मात् सम्बन्धात्तमेव सम्बन्धिशब्दं लभते। यथा- मथ्यमानाद् धूमं दृष्ट्वाज्वलद्भासुरं वह्निद्रव्यमवश्यमभ्युत्थितो वह्निरित्येव।
१३ कर्म नाम- यत्र कर्मकर्मेति चोपचर्यते। यथोच्यते- मुनयः प्रशमं जग्मुः। न चाग्रामस्थानीयः कश्चित्प्रशमोऽस्ति। किं तर्हि इन्द्रियाणां विषयेभ्यः केवलं शक्तिनियमः प्रशमः। अथ च गतिः- कर्मविषयेभ्यस्त्विन्द्रियाणां क्रियानिवृत्तिः। तदेव कर्मेत्युक्तम्।
१४ गुणनिमित्तं नाम - यत्कस्य विभूतिः प्रशंसादिका ख्याप्यते। धर्म्यं यशस्यमायुष्यं लोकद्वयपरायणम् अनुमोदामहे ब्रह्मचर्यमेकान्तनिर्मलम्॥ इति ब्रह्मचर्यस्य होमे गुणाः नाब्रह्मचर्यस्येति।
१५ चेष्टानिमित्तं नाम - यस्मिन्नाममात्रं कस्यचित् क्रियया भवति भावस्य। नात्र प्रस्पन्दक्रियेष्टा। यथा- दीपवदस्य ज्ञानं ज्वलति इत्युच्यते। न च ज्ञानस्य प्रदीपस्येवार्चीषि सन्ति ऊर्ध्वगामीनि दीपवद्वा सन्निकृष्टानि द्रव्यान्तराणि दहन्ति। रूपं वा स्पर्शं वा तैलादिकोपादानम्। किन्तु प्रकाशक्रियामात्रं परिगृह्य ज्वलतीति प्रशंसाकर्मणि क्रोधभयशोकलोभहर्षेर्ष्यामोहादिभिरुपहतं विज्ञानं मलोपहतदर्पणवदप्रकाशवृत्ति भवेत्।
१६ मूलसंज्ञा नाम - या लोकेऽन्यस्मिन्नर्थे प्रसिद्धा तन्त्रे चान्यस्मिन् अर्थे निवेशिता। यथा - निदानं पूर्वरूपाणि रूपाण्युपशयस्तथा। सम्प्रप्तिश्च इति। रूपं च लोके नीलपीतलोहितादि प्रसिद्धं स्वशास्त्रे संज्ञया तु रूपं लिङ्गं लक्षणमिति।
१७ तात्स्थ्यं नाम- यदन्यस्यैवार्थस्य तत्स्थत्वादन्यस्यैव कल्प्यते। तद्यथा - बस्तिमेहनयोः शूलम् इति। तत्र पुंसंस्थेन कारणेन बस्तिमेहनोरिति कल्प्यते। चैतन्याभावे बस्तिमेहनयोः सतोरपि शूलाभावात् तत्प्रदेशस्थितत्वात्तयोरित्युपचार्यते ।
तन्त्रदोषाः
१ अप्रसिद्धशब्दं २ दुःप्रणीतम् ३ असङ्गतार्थं ४ असुखरोहि ५ विरुद्धं ६ अतिविस्तृतं ७ अतिसंक्षिप्तं
८ अप्रयोजनं ९ भिन्नक्रमं १० संदिग्धं ११ पुनरुक्तं १२ निःप्रमाणकं १३ असमाप्तार्थं १४ अपानर्थकं
१५ व्यवहतं।
१ अप्रसिद्धशब्दम् २ दुःप्रणीतम् ३ असङ्गतार्थम् ४ असुखरोहि ५ विरुद्धम् ६ अतिविस्तृतम् ७ अतिसंक्षिप्तम् ८ अप्रयोजनम् ९ भिन्नक्रमम् १० संदिग्धम् ११ पुनरुक्तम् १२ निःप्रमाणकम् १३ असमाप्तार्थम् १४ अपानर्थकम् १५ व्यवहतम्।
१ अप्रसिद्धशब्दं नाम- यल्लोके नातीव प्रसिद्धम्। यथा- उदक्यागमनलक्षणमसुखानाम्। इति। यथा वा आधारस्यासिपाणिधारेष्वकुशलयोगता। इति। अस्यार्थः- अकुनाम वृक्षः तस्य शलमिति।
२ दुष्प्रणीतं नाम सूत्रभाष्यप्रयोजनरहितम्।
३ असङ्गतार्थं नाम - यत्सूत्रेणासम्बद्धम्।
४ असुखरोहि पदं नाम - यत्पदसन्निवेशस्य विषमतया दुःखेनोच्चार्यते चर्करीतादिप्रायम्। यथा - धातर्यरिप्रदम्। इति।
५ विरुद्धं नाम - यद् दृष्टान्तसिद्धन्तसमयैर्विरुद्धम्। यथा कश्चिद्वेदेन्नित्यः पुरुषोऽकृतकत्वादिति हेतुः घट इति दृष्टान्तविरुद्धम्। तथा -मधुराम्ललवणाः कफं शमयन्ति। कटुतिक्तकषायाः वातं जयन्ति इति वैद्यकसिद्धान्त्विरुद्धमेतत्। समयविरुद्धं नाम - यथा - यः समयः पूर्वाचार्यैस्तत्वदर्शिभिः कृतस्तं व्युत्क्रम्यागच्छति। यथा - न लोष्टं विमृद्नीयात् न तृणं छिन्द्यात् इति। एतत् तत्वदर्शिभिरुक्तत्वाल्लोष्टमर्दनादि न क्रियते। न तु हेतुरत्रास्ति।
६ अतिविस्तृतं नाम - यथा - मधुरादिस्कन्धं ब्रुवन् यावन्ति मधुराणि जगति सन्ति मधुरप्रायाणि मधुरप्रभवाणि तान्येशेषाणि यद्यभिदधाति तदाऽतिविस्तृतत्वं स्यात्।
७ अतिसंक्षिप्तं नाम - यथा- योगशतकप्रायम्। यथा वा- हेतुलिङ्गौषधोद्देश एव क्रियते न तु तदवबोधकवाक्यानामिति शेषः।
८ अप्रयोजनं नाम- यथा- इत्याचारः समासेन इत्येतावद्यदि वदेत् न तु ब्रूयात् यं प्राप्नोति समाचरन्। आयुरारोग्यमैश्वर्यम् इत्यादि तदा कश्चिदनुतिष्ठेदिति।
९ भिन्नक्रमं नाम- पूर्वं येनानुक्रमेणोक्तं न तेनैव निर्दिश्यते प्रयोजनान्तरासम्भवेऽपि। यथा- वातपित्तकफानुद्दिश्य तत्र रूक्षो लघुः इत्यादौ वातगुणनिर्देशमकृत्वैव पित्तस्य विदधित। एवं क्रमो भिन्नो भवेत्।
१० संदिग्धं नाम - यथा - किमकालमृत्युरस्ति उत नास्ति इत्युभयत्र हेत्वाभासपरिग्रहात् संशयः।
११ पुनरुक्तं नाम- योऽर्थ उक्तोऽपि पुनरुच्यते।
१२ निःप्रमाणं नाम यथा- पाक्यं शीतकषायं वा मुस्तपर्पटकम् इति।
१३ असमाप्तार्थं नाम - अत्र तावदुच्यते। परतोऽपि चेदित्येतत्ततः समाप्तार्थत्वान्न ज्ञायते किमनेन कार्यमिति।
१४ अपानर्थकम्
१५ व्याहतं नाम -यथा- पूर्वया वाक्ययुक्त्याऽपरा व्याहन्यते अपरया पूर्वा वा। यथा- अनास्थाप्या मेहिनः इत्युक्त्वा पुनरास्थपनमनुजज्ञे। मुस्तादेर्निरूहे पपाठ- वातासृक्शोफमेहार्शोगुल्मविण्मूत्रसङ्ग्रहम् इत्यादि। तदात्र विधिनिषेधयोः परस्परविरोधाद्व्याहतत्वम्। अत्र सामाधानार्थं विपुलमतय एवमभिदधुः- प्रमेहिणमास्थाप्य निषेधाद् बस्तिकल्पे पुनरनुज्ञानात् तन्त्रकृतोऽभिप्रायविशेष ईदृगनुमीयते - मेहिनो वातस्य प्रबलत्वेन बस्तिमन्तरेण नान्यस्तथाविध उपक्रमोऽस्ति तस्मात्तस्यावस्थातुरवशाद्योज्यो बस्तिः। यदाऽऽर्तमेहिनो दृश्यते पवनस्याल्पत्वे त्व तदोषक्रमान्तरेणैव चिकित्सितुं शक्य इति तदा बस्तिर्न योज्य इति प्रतिपादयितुंमेवं विधो विन्यासः कृतः।
इन्दु तन्त्रयुक्तिः

तत्राधिकरणं योगो हेत्वर्थोर्थः पदस्य च।
प्रदेशोद्देशनिर्देशवाक्यशेषाः प्रयोजनम्॥
उपदेशापदेशातिदेशार्थापत्तिनिर्णयाः।
प्रङ्गैकान्तनैकान्ताः सापवर्गो विपर्ययः॥
पूर्वपक्षविधानानुमतव्याख्यानसंशायाः।
अतीतानागतापेक्षा स्वसंज्ञोह्यसमुच्चयाः॥
निदर्शनं निर्वचनं नियोगोऽथ विकल्पनम्।
प्रत्युत्सारस्तथोद्धारः सम्भवस्तन्त्रयुक्तयः॥ अ सं उ ५०
तत्रेत्यादिना युक्तयः उच्यन्ते। वाक्यार्थानां योजनं युक्तिः याभिर्योजनाभिर्विना तन्त्रमसंबद्धं भवति। का युक्तयः। तत्र तेष्वधिकरणं नाम अधिकरणं प्रस्तावः नामान्येनोक्तमप्यर्थजातं यद्बलाद्विशेऽवस्थाप्यते तदधिकरणम्। यथा सप्ताहादौधं केचिदाहुरन्ये दशाहत इति वाक्यार्थः सामान्येन प्रवृत्तोऽधिकरणवशाज्ज्वराख्ये विशेषेऽवस्थाप्यते॥१॥
योगो नाम योगः सम्बन्धः स च पदार्थयोर्वाक्यार्थयोर्वा। तत्र पदार्थयोः साध्यसाधकभावेन। यथा - रागादिरोगाः इत्यादौ समूला इत्यस्यापास्ता इत्यनेन वाक्यार्थयोर्यथा जीर्णाजीर्णविशङ्कायां पुनरुष्णोदकं पिबेदित्यस्य तेनोद्गारविशुद्धिः स्यात्ततश्च लघुता रुचिरित्यनेन॥२॥
हेत्वर्थो नाम यदेकत्रोच्यमानमन्यत्रापि तथैवोपयुज्यते। यथा तत्रैकैकत्र शाखायामित्यस्यद्यवेद्योक्त्या शेषा वेद्या इति गम्यते॥३॥
पदार्थो नाम पदेनार्थोऽवगम्यते। यथा गुर्वादयो गुणशब्दादवगम्यन्ते॥४॥
प्रदेशो नाम यत्रैकदेशस्योच्यमानस्यार्थस्य प्रसादादनुच्यमानोपि तच्छेषापद्यते स प्रदेशः। यथा कुकूलादिपाकक्रमेण लाघवातिशयोऽपूपानामुच्यमानानां प्रसादादनुच्यमानान्यपि कृतान्नानि तथावगम्यन्ते॥५॥
निदेशोनाम यच्छब्दमात्रेण निर्दिष्टानां स्वरूपविशेषप्रदर्शनाय पुनः कीर्त्तनं निर्देशः। यथा वस्तिव्यापदि द्रुतोत्क्षिप्त इत्यादिकमुद्दिश्य तेषु दोषं प्रदर्शयितुमनुच्छ्वास्य तु बद्ध इत्युच्यते॥७॥
 वाक्यशेषोनाम यस्मिन् वाक्ये एकदेशः शिष्यते व्याख्यानकालेत्वनुच्यमानोप्यापतति स वाक्यशेषः। यथा रोगस्तु दोषवैषम्यं दोषसाम्यमरोगता इत्यत्र उच्यत इति वाक्यशेषः। यथा रोगस्तु दोषवैषम्यं दोषसाम्यमरोगता इत्यत्र उच्यत इति वाक्यशेषः॥८॥
प्रयोजनं नाम यत् सम्पादयितुं क्रिया ह्यारभ्यते तत्प्रयोजनम्। यथा सदोषेषु दोषशेषपाचनमग्निसन्धुक्षणं च सम्पादयितुमौषधपानमरभ्यते॥९॥
उपदेशो नाम शुद्धस्याप्तवचनस्य कीर्त्तनमुपदेशः। यथा गर्भस्तु मातुः पृष्ठाभिमुखो ललाटे कृताञ्जलिः संकुचिताङ्ग इत्येवमादि॥१०॥
अपदेशो नाम शुद्धस्याप्तवचनस्य प्रतिज्ञातस्य साधनहेतुरपदेशः। यथा अहितायोत्तरोत्तरं दुष्टा वातादय इत्यस्यां प्रतिज्ञायां दुष्परिहरत्वादिति हेतुः॥११॥
अतिदेशो नाम अन्यसम्बन्धिनां धर्माणामन्यत्रावस्थापमतिदेशः। यथा पालक्यासम्बन्धिनां धर्माणां चुच्चावस्थापनम्॥१२॥
अर्थापत्तिर्नाम यदेकस्मिन्नर्थ उच्यमाने अनुक्तस्याप्यर्थस्य बलादागमनं सार्थापत्तिः। यथा पक्वे जले जीर्णेप्यामं न पेयमित्युच्यमाने अभोजनादित्यनुच्यमानस्यापि सामर्थ्यादागमनम्॥१३॥
निर्णयो नाम उद्दिष्टानामर्थानामनुद्दिष्टेन निराकाङ्क्षत्वापदनं निर्णयः। यथा वर्त्मरोगविज्ञानीयोक्तानां रोगाणां वर्त्मरोगप्रतिषेधनिराकाङ्क्षत्वापादनम्॥१४॥
प्रसङ्गो नाम यदप्राकरणिकस्यापि वस्तुनः किञ्चित् सम्बन्धेन यत् कीर्तनं स हि प्रसङ्गः। यथा वमनप्रस्तावे धूमान्तैः प्रायः सर्वैरित्यादेरप्रकारणिकस्य कीर्त्तनम्॥१५॥
एकान्तो नाम यत् पक्षान्तरव्यावर्त्तकं तदेकान्तः। यथा दोषहेतुजत्वोक्तेर्निजत्वं न कदाचिदपि बाह्यहेतुजं तदेकान्तः। यथा दोषहेतुजत्वोक्तेर्निजत्वं न कदाचिदपि बाह्यहेतुजं व्याप्नोति॥१६॥
नैकान्तो नाम यदुच्यमानमप्यवश्यम्भावित्वेननियतं स नैकान्तः। यथा ज्वरस्तु जातः षड्रात्रादशिवनीषु निवर्तत इत्येतदुक्तमप्यवश्यम्भावित्वेनानियतम्॥१७॥
अपवर्गो नाम सामान्योक्त्यनुप्रविष्टस्य विशेषेणाकर्षणं सोपवर्गः। यथा मधुरं श्लेष्मळमित्युक्तावनुप्रविष्टेषु जीर्णशाल्यादिषु शब्देनाकर्षणम्॥१८॥
विपर्ययो नाम उक्तस्यान्यथाभावो विपर्ययः। यथा निदानोक्तानामनुपशयो भवति तद्विपरीतानां चोपशयः॥१९॥
पूर्वपक्षो नाम परपतिज्ञातानुपपत्तिप्रदर्शनपरो वाक्यसमुदायः पूर्वपक्षः यथा षड्रसवादिनं प्रत्यनेकरसप्रतिपादकानि वाक्यानि॥२०॥
विधानं नाम तन्त्रस्य कर्ता विशिष्टा या पदादिरचना कृता तद्विधानम्। यथा सर्वविरोधपरिज्ञानद्व्यवहारोच्छित्तिर्माभूदित्यभिप्रायेणोक्तं न च तद्विज्ञानमेकान्तभद्रकमिति॥ २१॥

अनुमतं नाम परपक्षस्य भिन्नस्याप्याङ्गीकरणमनुमतम्। यथा वस्तिविधाने कल्पनाया मतेषु दोषौषधादिबलतः सर्वमेतत् प्रमाणयेदित्यङ्गीकरणम्॥२२॥
व्याख्यानं नाम सङ्क्षेपेणोक्तस्यार्थस्य विस्तारेणाख्यानं व्याख्यानम्। अथवा स्फुटैः शब्दैरनभिहितं गुरुपरम्पर्यक्रमागतम्॥२३॥
संशयो नाम विरुद्धानां पक्षाणामनिश्चयः संशयः। यथा विषवेगसंभवपक्षेषु॥२४॥
अतीतापेक्षा नाम यत्रातीतं पदमापेक्ष्य सम्बन्धार्थता भवति सातितापेक्षा। यथा च स्वेद्यादयः स्नेह्याः इत्युक्ते नत्वतिमन्दाग्निरित्यादेः स्नेह्याः इत्यपेक्षते। यथा च ज्वरे लङ्घनं कुर्वीतेति सूत्रोक्तं लङ्घनमपेक्षते॥२५॥
अनागतापेक्षा नाम यत्रातीतं पदमपेक्ष्य सम्बन्धार्थता भवति सानागतापेक्षा। यथा ततो नावनगण्डूषेत्यादिना दिनचर्यायां नस्यादिविधयोऽपेक्ष्यन्ते॥२६॥
स्वसंज्ञा नाम स्वतन्त्रे एवमन्यस्मिञ्छास्त्रे न श्रूयते सा स्वसंज्ञा। यथा आपानोजेन्ताक इत्येवमादि॥२७॥
ऊह्यं नाम यत् भिष्रिजा स्वप्रज्ञया शब्देनानुक्तमपि व्यवस्थाप्यते तदूह्यम्। यथा द्रव्यं जह्यादयौगिकमिति यन्न यौगिकं तच्छब्देन नोक्तमपि प्रज्ञया व्यपस्थाप्यते॥२८॥
समुच्चयो नाम एकस्मिन् विहिते तदविरोधेन तत्रैव द्वितीयस्य विधानं समुच्चयः। यथा वातस्योपक्रमः स्नेहः स्वेदः इत्यादि॥२९॥
निदर्शनं नाम साध्यैकदेशो दृष्टान्तो निदर्शनम्। यथा आमदोषेषु त्रिविधेषु लङ्घनपाचनशोधनानि दृष्टान्तः। एवमन्यानपि व्याधीन् स्वनिदानविपर्ययात् चिकित्सेदित्यादेः॥३०॥
निर्वचनं नाम संज्ञयोक्तस्य तदर्थेन योजनं निर्वचनं। यथा सूचीभिरिव गात्राणि भिद्यतीति विषूचिका॥३१॥
नियोगो नाम क्रियाणां व्यापाराणां नियोगः। यथा भवता स्वेदमूर्च्छापरीतेनापि नैषा पिण्डिका विमोक्तव्येति॥३२॥
विक्ल्पो नाम क्रमेण यौगपद्येन वा सम्भविनां पक्षाणां कीर्त्तनम्। यथा कुर्वीत लङ्घनं प्रग्रूपेषु ज्वरादौ वा॥३३॥
प्रत्युत्सारो नाम यत्रोपपत्तिं दर्शयन्तः परस्परमतानि निवारयन्ति। यथा गर्भिणी अष्टमे मासि क्षीरयवागू सर्पिष्मतीं पिबेत् नेति खण्डकाप्यः गर्भस्य पैङ्गळ्या बाधभयात्। अस्तु पैङ्ग्ळया बाधास्तथाप्येवं कुर्वती निरुजं बलवर्णाद्युपेतमपत्यं जनयतीति भगवानत्रेयः॥३४॥
उद्धारो नाम यच्छास्त्रे चोद्यस्य समाधानम्। यथा चित्रकर्मगुणकृत् गुरुणोक्तो वस्तिरित्यादि यावत् सर्वतः कथमपोहति दोषानिति चोद्यस्य स्तिमितमारुतवश्यमेतदित्यादि समाधानम्॥३५॥
सम्भवो नाम किमप्यन्यत्रादर्शनाद्येन नियमेन स्थाप्यते स सम्भवः। यथा सर्वरोगेषु हेतुलिङ्गौषधादीनां सामान्योक्तौ वातादिविशेषणास्थापनं सम्भवप्रसादाल्लभ्यम्॥३६॥ एवं तन्त्रयुक्तयः॥
यद्यपि भट्टारकप्रस्थानेन च परिप्रश्नव्याकरणव्युत्क्रान्ताभिधानहेत्वाख्याश्चतस्रोवशिष्यन्ते तथापि आचार्येण तन्त्रेणानिबद्धा इत्यत्र नोच्यन्ते। अथवा तन्त्रयुक्तित्वमेव तासां नाङ्गीक्रियते। तत्र चाग्न्यतियोगोक्तौ वातादिविशेषेणावस्थापनं सम्भवप्रसादाल्लभ्यमेवाद्युक्तम्॥
सरसः सुप्तपद्मस्य रविदीधितयो यथा।
यथा गृहस्य दीपाभास्तथा तन्त्रस्ययुक्तयः॥
अधीयानोपि तन्त्राणि तन्त्रयुक्त्यविचक्षणः।
नाधिगच्छति तन्त्रार्थमर्थं भाग्यक्षये यथा॥
सरस इत्यादि सुबोधम्। तन्त्रयुक्त्यविचक्षणः एतासु षट्त्रिंशत्तन्त्रयुक्तिष्वसमर्थस्तन्त्रार्थं नाधिगच्छति न प्राप्नोति यथा भाग्यक्षये धनम्॥
वाक्यार्थयोजनादेता युक्तयस्त्विष्टसिद्धिदाः।
असद्वादिप्रयुक्तानां वाक्यानां प्रतिषेधकाः॥
लीनव्यत्यासलेशोक्तिगदितानां प्रकाशकाः।
वाक्यन्यायोदधेः सारं गृहीत्वैवं व्यवस्थिताः॥
एता युक्तयो वाक्यार्थस्य योजनाद्धेतोः स्वेष्टसिद्धिं ददति। यानि चासद्वादिनामर्थसम्बन्धप्रदर्शनपरणि वाक्यानि तेषां प्रतिषेधकाः। लीनगदितानां व्यत्यासगदितानां च प्रकाशकाः। लीनं तद्यत् स्फुटं वक्तुं न पार्यते। व्यत्यासः परस्परविवर्तनम्। लेशोंशेन स्पर्शः। उक्तिर्वचनभङ्गिः। एताश्च युक्तयो वाक्यन्यायोदधेरसंख्यप्रकारसम्भविनो गेयस्येव जातयः सारं गृहित्वा एवं व्यवस्थिताः। पदार्थयोजनास्तु व्युत्पन्नानां प्रसिद्धा एवेत्यत आचार्येण नोक्ताः।