तन्त्रयुक्तिः/चक्रपाणीव्याख्या

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
← अरुणदत्तव्याख्या तन्त्रयुक्तिः
चक्रपाणीव्याख्या
[[लेखकः :|]]
डल्हणव्याख्या →

तत्राधिकरणं योगो हेत्वर्थोऽर्थः पदस्य च ॥४१॥
प्रदेशोद्देशनिर्देशवाक्यशेषाः प्रयोजनम् ।
उपदेशापदेशातिदेशार्थापत्तिनिर्णयाः ॥४२॥
प्रसङ्गैकान्तनैकान्ताः सापवर्गो विपर्ययः ।
पूर्वपक्षविधानानुमतव्याख्यानसंशयाः ॥४३॥
अतीतानागतावेक्षास्वसञ्ज्ञोह्यसमुच्चयाः ।
निदर्शनं निर्वचनं सन्नियोगो विकल्पनम् ॥४४॥
प्रत्युत्सारस्तथोद्धारः सम्भवस्तन्त्रयुक्तयः ।४५। (च.सं.सि.१२)
तन्त्रयुक्तीरेवाह - तत्रेत्यादि।
 अधिकरणं नाम यमर्थमधिकृत्य प्रवर्तते कर्ता; यथा ‘विघ्नभूता यदा रोगा’(सू.अ.१) इत्यादि। अत्र रोगादिकमधिकृत्यायुर्वेदो महर्षिभिः कृत इति ‘रोगाः’इत्यधिकरणम् ।
योगो नाम योजना व्यस्तानां पदानामेकीकरणम् । उदाहरणं तावद्यथा- प्रतिज्ञा हेतूदाहरणोपनयनिगमनानि; तत्र प्रतिज्ञा- मातृजश्चायं गर्भः, हेतुः- मातरमन्तरेण गर्भानुपपत्तेः, दृष्टान्तः- कूटागारः, उपनयः- यथा नानाद्रव्यसमुदायात् कूटागारस्तथा गर्भनिर्वर्तनं, तस्मान्मातृजश्चायमित्येषां प्रतिज्ञायोगः; एवमन्येऽपि योगार्था व्याख्येयाः।
हेत्वर्थो नामयदन्यत्राभिहितमन्यत्रोपपद्यते; यथा- ‘समानगुणाभ्यासो हि धातूनां वृद्धिकारणम्’(सू.अ.१२) इति वातमधिकृत्योक्तं, तत्र वातस्येति वक्तव्ये यदयं समानशब्दं धातूनामिति करोति, तेन यथा वायोस्तथा रसादीनामपि समानगुणाभ्यासो वृद्धिकारणमिति गम्यते ।
पदार्थो नाम पदस्य पदयोः पदानां वाऽर्थः पदार्थः। तत्र द्रव्यमितिपदेन खादयश्चेतनाषष्ठा उच्यन्ते; पदयोरर्थो नाम यथा- ‘आयुषो वेद’इति पदयोरायुर्बोधकं तन्त्रमित्यर्थः; एवं पदानामप्यर्थ उदाहार्यः।
 प्रदेशो नाम यद्बहुत्वादर्थस्य कार्त्स्न्येनाभिधातुमशक्यमेकदेशेनाभिधीयते; यथा- ‘अनुपानैकदेशोऽयमुक्तः प्रायोपयोगिकः’(सू.अ.२७) इत्यादि।
उद्देशो नाम सङ्क्षेपाभिधानं; यथा- ‘हेतुलिङ्गौषधज्ञानं’(सू.अ.१), अनेन सर्वायुर्वेदाभिधेयोद्देशः।
निर्देशो नाम सङ्ख्येयोक्तस्य विवरणं; यथा- हेतुलिङ्गौषधस्य पुनः प्रपञ्चनं ‘सर्वदा सर्वभावानां’इत्यादिना ‘इत्युक्तं कारणं’(सू.अ.१) इत्यन्तेन कारणप्रपञ्चनमित्यादि।
 वाक्यशेषो नाम यल्लाघवार्थमाचार्येण वाक्येषु पदमकृतं गम्यमानतया पूर्यते; यथा ‘प्रवृत्तिर्हेतुभावानां’(सू.अ.१६) इत्यत्र ‘अस्ति’इति पदं पूर्यते, तथा ‘जाङ्गलजै रसैः’इत्यत्र मांसशब्दः पूर्यते। वाक्येषु चैत एव पदाः शेषाः क्रियन्ते, येऽनिवेशिता अपि प्रतीयन्ते।
 प्रयोजनं नाम यदर्थं कामयमानः प्रवर्तते; यथा- ‘धातुसाम्यक्रिया चोक्ता तन्त्रस्यास्य प्रयोजनम्’(सू.अ.१)।
उपदेशो नामाप्तानुशासनं; यथा- ‘स्नेहमग्रे प्रयुञ्जीत ततः स्वेदमनन्तरम्’(सू.अ.१३) इत्यादि ।
अपदेशो नाम यत्प्रतिज्ञातार्थसाधनाय हेतुवचनं; यथा- ‘वाताज्जलं जलाद्देशं देशात् कालं स्वभावतः। विद्याद्दुष्परिहार्यत्वात्’(वि.अ.३) इत्यादि, तत्र प्रतिज्ञातार्थस्य हेतुवचनं- दुष्परिहार्यत्वादिति ।
 अतिदेशो नाम यत्किञ्चिदेव प्रकाश्यार्थमनुक्तार्थसाधनायैव एवमन्यदपि प्रत्येतव्यमिति परिभाष्यते; यथा- ‘यच्चान्यदपि किञ्चित् स्यादनुक्तमिह पूजितम्। वृतं तदपि चात्रेयः सदैवाभ्यनुमन्यते’(सू.अ.८) इति ।
अर्थापत्तिर्नाम यदकिर्तितमर्थादापद्यते साऽर्थापत्तिः; यथा- नक्तं दधिभोजननिषेधः, अर्थाद्दिवा भुञ्जीतेत्यापद्यते ।
 निर्णयो नाम विचारितस्यार्थस्य व्यवस्थापनं; यथा- चतुष्पदभेषजत्वादि विचारं कृत्वाऽभिधीयते-‘यदुक्तं षोडशकलं पूर्वाध्याये भेषजंतद्युक्ति युक्तमलमारोग्याय’
(सू.अ.१०) इति।
प्रसङ्गो नाम पूर्वाभिहितस्यार्थस्य प्रकरणागतत्वादिना पुनरभिधानं; यथा- ‘तत्रातिप्रभावतां दृश्यानातिमात्रदर्शनमतियोगः’(सू.अ.११) एवमाद्यभिधाय, पुनः ‘अत्युग्रशब्दश्रवणाच्छ्रवणात् सर्वशो न च’(शा.अ.१) इत्यादिना पूर्वोक्त एवार्थोऽभिधीयते।
एकान्तो नाम यदवधारणेनोच्यते; यथा- निजः शरीरदोषोत्थः, त्रिवृद्विरेचयतीत्यादि। अनैकान्तो नाम अन्यतरपक्षानवधारणं, यथा- ‘ये ह्यातुराः केवलाद्भेषजादृते म्रियन्ते, न च ते सर्व एव भेषजोपपन्नाः समुत्तिष्ठेरन्’(सू.अ.१०) इत्यादि ।
 अपवर्गो नाम साकल्येनोद्दिष्टस्यैकदेशापकर्षणं; यथा- ‘न पर्युषितान्नमाददीतान्यत्र मांसहरितकशुष्कशाकफलभक्ष्येभ्यः’(सू.अ.८) इति। अत्र हि सामान्येन पर्युषितभक्षणनिषेधं कृत्वा मांसादेः पर्युषितस्यापि भक्षणमपकृष्य विधीयते।
 विपर्ययो नाम अपकृष्टात् प्रतीपोदाहरणं; यथा- ‘निदानोक्तान्यस्य नोपशेरते विपरीतानि चोपशेरते’(नि.अ.३) इति।
पूर्वपक्षो नाम प्रतिज्ञातार्थसन्दूषकं वाक्यं; यथा- ‘मत्स्यान्न पयसाऽभ्यवहरेत्’इति प्रतिज्ञातस्यार्थस्य ‘सर्वानेव मत्स्यान्न पयसाऽभ्यवहरेदन्यत्र चिलिचिमात्’(सू.अ.२६) इति।
 विधानं नाम सूत्रकारश्च विधाय वर्णयति; यथा- ‘मलायनानि बाध्यन्ते दुष्टैर्मात्राधिकैर्मलैः’इत्यत्र दुष्टिशब्देन मलानां हीनत्वमधिकत्वमाचार्यगृहीतमाचार्यो वर्णयति- ‘मलवृद्धिं गुरुतया लाघवान्मलसङ्क्षयम्। मलायनानां बुध्येत सङ्गोत्सर्गादतीव च’(सू.अ.७) इति; केचित्तु प्रकरणानुपूर्व्याऽर्थाभिधानं विधानमाहुः, यथा- रसरुधिरमांसमेदोस्थिमज्जशुक्राणामुत्पादक्रमानुरोधेनाभिधानम्। अनुमतं नाम एकीयमतस्यानिवारणेनानुमननं; यथा- ‘गर्भशल्यस्य जरायुःप्रपातनं कर्म संशमनमित्येके’(शा.अ.८) इत्याद्येकीयमतं प्रतिपाद्याप्रतिषेधादनुमन्यते। व्याख्यानं नाम यत् सर्वबुद्ध्यविषयं व्याक्रियते, यथा- ‘प्रथमे मासि सम्मूर्छितः सर्वधातुकलुषीकृतः खेटभूतो भवत्यव्यक्तविग्रहः’(शा.अ.४) इत्यादिनाऽस्मदाद्यविदितार्थव्याकरणम्।
संशयो नाम विशेषाकाङ्क्षानिर्धारितोभयविषयज्ञानं, यथा- ‘मातरं पितरं चैके मन्यन्ते जन्मकारणम्। स्वभावं परनिर्माणं यदृच्छां चापरे जनाः॥’(सू.अ.११) इत्यादिनोक्तः संशयः।
अतीतावेक्षणं नाम यदतीतमेवोच्यते; यथा- ‘सा कुटी तच्च शयनं ज्वरं संशमयत्यपि’(चि.अ.३) इत्यत्र स्वेदाध्यायविहितकुट्यादिकमतीतमवेक्षते अनागतावेक्षणं नाम यदनागतं विधिं प्रमाणिकृत्यार्थसाधनं; यथा- ‘अथवा तिक्तसर्पिषः’इत्याद्यनागतावेक्षणेनोच्यते। स्वसंज्ञा नाम या तन्त्रकारैर्व्यवहारार्थं संज्ञाक्रियते; यथा- जेन्ताकहोलाकादिका स्वसंज्ञा ।
 ऊह्यं नाम यदनिबद्धं ग्रन्थे प्रज्ञया तर्क्यत्वेनोपदिश्यते; यथा- ‘परिसङ्ख्यातमपि यद्यद् द्रव्यमयौगिकं मन्येत तत्तदपकर्षयेत्’(वि.अ.८) इति।
 समुच्चयो नाम यदिदं चेदं चेति कृत्वा विधीयते; यथा- ‘वर्णश्च स्वरश्च’(इ.अ.१) इत्यादि।
निदर्शनं नाम- मूर्खविदुषां बुद्धिसाम्यविषयो दृष्टान्तः; यथा- ‘विज्ञातममृतं यथा’(सू.अ.१) इत्यादि।
निर्वचनं नाम पण्डितबुद्धिगम्यो दृष्टान्तः; यथा- ‘ज्ञायते नित्यगस्येव कालस्यात्ययकारणम्’(सू.अ.१६) इति।
निदर्शननिर्वचनयोरयं विशेषः- यन्निदर्शनं मूर्खविदुषां बुद्धिसामान्यविषयं, निर्वचनं तु पण्डितबुद्धिवेद्यमेव; किंवा निर्वचनं निरुक्तिः- यथा- ‘विविधं सर्पति यतो विसर्पस्तेन संज्ञितः’(चि.अ.२१) इत्यादि। नियोगो नाम अवश्यानुष्ठेयतया विधानं; यथा- ‘न त्वया स्वेदमूर्च्छापरीतेनापि पिण्डिकैषा विमोक्तव्या’(सू.अ.१४) इत्यादि। विकल्पः पाक्षिकाभिधानं; यथा- ‘सारोदकं वाऽथ कुशोदकं वा’(चि.अ.६) इत्यादि।
प्रत्युत्सारो नाम उपपत्त्या परमतनिवारणं; यथा वार्योविदः प्राह- ‘रसजानि तु भूतानि रजसा व्याधयः स्मृताः’(सू.अ.२५) इत्यादि, हिरण्याक्षा निषेधयति- ‘न ह्यात्मा रजसः स्मृतः’इत्यादि।
उद्धारो नाम परपक्षदूषणं कृत्वा स्वपक्षोद्धरणं; यथा- ‘येषामेव हि भावानां सम्पत् सञ्जनयेन्नरम्। तेषामेव हि भावानां विपद्व्याधीनुदीरयेत्’(सू.अ.२५) इत्यादिना स्वपक्षोद्धरणम्।
सम्भवो नाम यद्यस्मिन्नुपपद्यते स तस्य सम्भवः; यथा- मुखे पिप्लुव्यङ्गनीलिकादयः सम्भवन्तीत्यादि। इत्येताः षट्त्रिंशत्तन्त्रयुक्तयो व्याहृताः।
भट्टारहरिचन्द्रेण त्वन्याश्चतस्रस्तन्त्रयुक्तयः परिप्रश्न-व्याकरण-व्युत्क्रान्ताभिधान-हेत्वाख्या व्याहृताः; ताश्च तन्त्रेऽपठितत्वादेता स्वेवान्तर्भावनीयाः। तत्र परिप्रश्न उद्देशेऽन्तर्भवति, व्याकरणं तु व्याख्याने, व्युत्क्रान्ताभिधानं निर्देशप्रभेदः, हेतुशब्देन यानि प्रत्यक्षादीनि प्रमाणान्युक्तानि तानि हेतावन्तर्भवन्ति। व्याख्या पञ्चदशप्रकारा, सप्तविधा कल्पना, एकविंशतिरर्थाश्रयाः, सप्तदश ताच्छील्यानि, चतुर्दश च तन्त्रदोषा भवन्ति, तदुत्तरतन्त्रे प्रतिपादितत्वान्नेह विलिखिता आचार्येण (?)॥४१-४४॥

तन्त्रे समासव्यासोक्ते भवन्त्येता हि कृत्स्नशः ॥४५॥
एकदेशेन दृश्यन्ते समासाभिहिते तथा ।४६।
सम्प्रति तन्त्रयुक्तीरुद्दिश्य तासां तन्त्रे एवानुसरणमाह- तन्त्रे समासव्यासोक्ते इत्यादि। समासाभिहिते इत्यनेन अतिसङ्क्षिप्ते तन्त्रे नावश्यं सर्वास्तन्त्रयुक्तयो भवन्तीति दर्शयति, किंवा समासाभिहिते एकदेशेन दृश्यन्ते इति सम्बन्धः॥४५।
यथाऽम्बुजवनस्यार्कः प्रदीपो वेश्मनो यथा ॥४६॥
प्रबोधनप्रकाशार्थास्तथा तन्त्रस्य युक्तयः ।४७।
तन्त्रयुक्तीनां कार्यं दृष्टान्तेन दर्शयन्नाह- यथेत्यादि। यथाऽम्बुजवनस्य सङ्कुचितस्य विस्तारकोऽर्कस्तथा तन्त्रे सङ्कुचितस्यार्थप्रदेशस्य विस्तारकास्तन्त्रयुक्तयः; प्रवोधनाद्विस्तारका भवन्तीत्यर्कदृष्टान्तेन दर्शयति; दीपदृष्टान्तेन तु यथा दीपः सन्तमेव तमसा पिहितं प्रकाश्यतितथा हेत्वादिकास्तन्त्रयुक्तयः सन्तमर्थं गूढं प्रकाशयन्तीति दर्शयति। एतदेवार्थद्वयं तन्त्रयुक्तीनां सम्पाद्यमभिप्रेत्योक्तं प्रबोधनप्रकाशार्था इति॥४६॥-
एकस्मिन्नपि यस्येह शास्त्रे लब्धास्पदा मतिः ॥४७॥
स शास्त्रमन्यदप्याशु युक्तिज्ञत्वात् प्रबुध्यते ।
अधीयानोऽपि शास्त्राणि तन्त्रयुक्त्या विना भिषक् ।
नाधिगच्छति शास्त्रार्थानर्थान् भाग्यक्षये यथा ॥४८॥
सम्यक्शास्त्राभ्यासफलमाह- एकस्मिन्नपीत्यादि॥४७-४८॥