तन्त्रयुक्तिः/डल्हणव्याख्या

विकिस्रोतः तः
Jump to navigation Jump to search
← चक्रपाणीव्याख्या तन्त्रयुक्तिः
डल्हणव्याख्या
[[लेखकः :|]]
इन्दुव्याख्या →

अथातस्तन्त्रयुक्तिमध्यायं व्याख्यास्यामः ॥१॥
यथोवाच भगवान् धन्वन्तरिः ॥२॥
स्वस्थवृत्तानन्तरं स्वस्थविध्यर्थस्य तन्त्रयुक्तिभिः प्रसाधानात्तन्त्रयुक्तयध्यायारम्भः- अथात इत्यादि। अथात इतिपूर्ववत् व्याख्येयम्। त्रायते शरीरमनेनेति तन्त्रं शास्त्रं चिकित्सा च, तस्य युक्तयो योजनास्तन्त्रयुक्तयः, ताअधिकृत्य कृतोऽध्यायः, तम्। वेदोत्पत्तिवदत्र तद्धितलोपः। ताश्च तन्त्रयोजना द्विविधाः- वाक्ययोजना अर्थयोजनाश्च;तत्र वाक्ययोजना योगोद्देशनिर्देशाद्याः, अर्थयोजना अधिकरणपदार्थादयः॥१-२॥
द्वात्रिंशत्तन्त्रयुक्तयो भवन्ति शास्त्रे ।
तद्यथा अधिकरणं(१), योगः(२), पदार्थः(३), हेत्वर्थः(४), उद्देशः(५), निर्देशः(६),उपदेशः(७), अपदेशः(८), प्रदेशः(९), अतिदेशः(१०), अपवर्जः(११), वाक्यशेषः(१२),अर्थापत्तिः(१३), विपर्ययः(१४), प्रसङ्गः(१५), एकान्तः(१६), अनेकान्तः(१७), पूर्वपक्षः(१८),निर्णयः(१९), अनुमतं(२०), विधानम्(२१), अनागतावेक्षणम्(२२), अतिक्रान्तावेक्षणं(२३),संशयः(२४), व्याख्यानं(२५), स्वसञ्ज्ञा(२६), निर्वचनं(२७), निदर्शनं(२८), नियोगः(२९),विकल्पः(३०), समुच्चयः(३१), ऊह्यम्(३२) इति ॥३॥
सङ्ख्याभेदेन तन्त्रयुक्तीर्निर्दिशन्नाह- द्वात्रिंशदित्यादि । शास्त्रे सौश्रुते । अधिकरणमित्यादि सङ्ख्येयनिर्देशादेव द्वात्रिंशत् सङ्ख्या लब्धा, अतस्तत्करणमन्यतन्त्रोक्ताः
 षट्त्रिंशच्चत्वारिंशद्वा तन्त्रयुक्तय इति सङ्ख्यानिषेधार्थम्।शास्त्रे इत्यत्रान्ये समासेनेति पठित्वा व्याख्यानयन्ति- अन्यत्र विस्तरेण षट्त्रिंशच्चत्वारिंशद्वा तन्त्रायुक्तयः; अत्रद्वात्रिंशदिति समासेनोक्तम्। कतमास्तास्तन्त्रयुक्तय इत्याह- तद्यथेत्यादि। तद्यथेति निदर्शनम्। अधिकरणादीनिसूत्रकार एव व्याख्यास्यति ॥३॥
अत्रासां तन्त्रयुक्तीनां किं प्रयोजनम्? उच्यते- वाक्ययोजनमर्थयोजनं च ॥४॥
एवं तन्त्रयुक्तीरुद्देशतः प्रतीपाद्य तासां तन्त्रयुक्तीनां प्रयोजनमाह- अत्रासामित्यादि ।अत्र चिकित्साशास्त्रे। वाक्ययोजनमर्थयोजनं चेति वाक्यस्यासम्बद्धस्य योजनं सम्बन्धनं वाक्ययोजनं, लीनस्यासङ्गतस्य चार्थस्य प्रकाशनंसङ्गतीकरणं चार्थयोजनम् ।तत्र कासाञ्चित्तन्त्रयुक्तीनां योगोद्देशनिर्देशादीनां वाक्ययोजनं,कासाञ्चिदधिकरणपदार्थोह्यादीनामर्थयोजनं प्रयोजनम् ॥४॥
भवन्ति चात्र श्लोकाः-
असद्वादिप्रयुक्तानां वाक्यानां प्रतिषेधनम् ।
स्ववाक्यसिद्धिरपि च क्रियते तन्त्रयुक्तितः ॥५॥
व्यक्ता नोक्तास्तु ये ह्यार्था लीना ये चाप्यनिर्मलाः ।
लेशोक्ता ये च केचित्स्युस्तेषां चापि प्रसाधनम् ॥६॥
अत्रैव पूर्वाचार्यापठितौ श्लोकावधिकार्थख्यापनायाह- असद्वादिप्रयुक्तानामित्यादि। असद्वादिनो हि प्रतिरसपाकवादिनःपाकत्रयवादिनो गुणकर्तृत्ववादिनो वेत्यादयः। प्रतिषेधनम् अपदेशादिभिस्तन्त्रयुक्तिभिः परपक्षदूषणम्। स्ववाक्यसिद्धिःस्ववाक्यस्थापनं निर्णयाख्यया तन्त्रयुक्तया। यथा- प्रतिरसं पाक इत्यसद्वादिदर्शनमपदेशाख्यया तन्त्रयुक्तयाद्रव्यादिविज्ञाने निराकृतं, तत्रैव द्विविधः पाक इत्यादिस्वमतसाधनं निर्णयाख्यया तन्त्रयुक्तया कृतम्। व्यक्ता नोक्ताः स्पष्टतया नोक्ताः। लीना असम्यग्दर्शिताः। अनिर्मला लेशेनोक्ताः। तेषां प्रसाधनं योगप्रभृतिभिः क्रियते ॥५-६।
यथाऽम्बुजवनस्यार्कः प्रदीपो वेश्मनो यथा ।
प्रबोधस्य प्रकाशार्थं तथा तन्त्रस्य युक्तयः ॥७॥
केचिदत्र तन्त्रयुक्तीनां स्तुत्यर्थ श्लोकं पठन्ति- यथाऽम्बुजवनस्यार्क इत्यादि ।एष च श्लोकष्टीकासु मूलत्वेन नवर्णितः॥७॥
तत्र यमर्थमधिकृत्योच्यते तदधिकरणं; यथा रसं दोषं वा ॥८॥
अतः परमुद्दिष्टानां तन्त्रयुक्तीनां विवरणमाह- तत्रेत्यादि। तत्र तासु तन्त्रयुक्तिषु मध्ये; यमर्थमधिकृत्य अपरे अर्थाअभिधीयन्ते तदधिकरणसञ्ज्ञं भवति उदाहरणमाह- रसं दोषं वेति। एतेनैतदुक्तं भवति- रसं दोषं वा अधिकृत्ययत्तदुल्लेखाभावेऽप्यर्थजातमभिहितं तत् सर्वं तदधिकारे प्रतीयत इत्यर्थः॥८॥


येन वाक्यं युज्यते स योगः ।
यथा-
‘तैलं पिबेच्चामृतवल्लिनिम्बहिंस्राभयावृक्षकपिप्पलीभिः ।
सिद्धं बलाभ्यां च सदेवदारु हिताय नित्यं गलगण्डरोगे’ ।
इत्यत्र तैलं सिद्धं पिबेदिति प्रथमं वक्तव्ये तृतीयपादे सिद्धमिति प्रयुक्तं, एवं दूरस्थानामपिपदानामेकीकरणं योगः ॥९॥
योगाख्यां तन्त्रयुक्तिमाह- येनेत्यादि। येन व्यत्यासोक्तानां सन्निकृष्टविप्रकृष्टानां पदानामेकीकरणं स योग इत्यर्थः।व्यत्यासेनोक्तं पदयोगं दर्शयन्नाह- तैलमित्यादि। विपर्ययेणोक्तस्य पदस्यैकीकरणं योग इत्यर्थः। येनेत्यादि सूत्रं,येन व्यत्यासोक्तानां इत्यादिसूत्रार्थः, यथेत्याद्युदाहरणम्। एवं सन्निकृष्टस्य विपर्ययोक्तस्य पदस्यापहरणंमुख्यमेकीकरणं प्रतिपाद्य दूरस्थानामप्युद्देशेनाह- एवं दूरस्थानामपीति॥९।
योऽर्थोऽभिहितः सूत्रे पदे वा स पदार्थः पदस्य पदयोः पदानां वाऽर्थः पदार्थः; अपरिमिताश्चपदार्थाः ।
यथा- स्नेहस्वेदाञ्जनेषु निर्दिष्टेषु द्वयोस्त्रयाणां वाऽर्थानामुपपत्तिर्दृश्यते, तत्र योऽर्थःपूर्वापरयोगसिद्धो भवति स ग्रहीतव्यः; यथा- ‘वेदोत्पत्तिमध्यायं व्याख्यास्याम’ इत्युक्तेसन्दिह्यते बुद्धिः- कतमस्य वेदस्योत्पत्तिं वक्ष्यतीति, यतः ऋग्वेदादयस्तु वेदाः; ‘विदविचारणे, विद्लृ लाभे,’ इत्येतयोश्च धात्वोरनेकार्थयोः प्रयोगात्, तत्र पूर्वापरयोगमुपलभ्यप्रतिपत्तिर्भवति- आयुर्वेदोत्पत्तिमयं विवक्षुरिति; एष पदार्थः ॥१०॥
पदार्थाभिधां तन्त्रयुक्तिमाह- योऽर्थोऽभिहित इत्यादि। पद्यते गम्यते येनार्थ इति सूत्रस्यापि पदत्वात् सूत्रे योऽर्थःप्रतिपादितः स पदार्थः। पदार्थख्यतन्त्रयुक्तिप्रतिपादकं लक्षणमभिधायेदानीं तद्व्याख्यातुकामः प्रथमं तदवयवस्यसमासमभिधत्ते- पदस्येत्यादि। अधुना बहुषु पदार्थेषु निर्धार्य विशिष्टपदार्थग्रहणाय पदार्थबहुत्वं प्रतिपादयति-अपरिमिता इत्यादि। कथमित्याह- यथेत्यादि। तत्र स्नेहशब्दे निर्दिष्टे हि गुणप्रेमसर्पिषां त्रयाणामर्थानामुपपत्तिर्दृश्यते,स्वेदशब्देनापि साग्निनिरग्निकयोरुष्मणोः प्राप्तिः, अञ्जनशब्देनापि नयनाञ्जनाभ्याङ्गयोः प्राप्तिः, तेषु पदार्थषुयादृशः पदार्थो गृह्यते तादृशमाह- तत्र योऽर्थ इत्यादि। पूर्वोक्तपरोक्तवाक्यसम्बन्धेनोपपन्नो योऽर्थो भवति स ग्रहीतव्यइत्यर्थः। उदाहरणमाह- यथा वेदोत्पत्तिमित्यादि। सन्दिह्यते सन्देहं गच्छतीत्यर्थः। कथं सन्दिह्यत इत्याह-कतमस्येत्यादि। यतः ऋग्वेदादयो वेदास्ततः कतमस्या वेदस्योत्पत्तिं वक्ष्यतीति सन्दिह्यते, तस्मिन् सन्देहे यथाप्रत्ययार्थः स्वीकर्तव्यस्तथाऽऽह- विदित्यादि- ‘आयुर्वेदमिच्छाम इहोपदिश्यमानम्’ इत्यस्मिन्नायुर्वेदशब्दः श्रूयते,अतोऽत्र वेद आयुर्वेद इत्यभिप्रायः ॥१०॥
यदन्यदुक्तमन्यार्थसाधकं भवति स हेत्वर्थः ।
यथा- मृत्पिण्डोऽद्भिः प्रक्लिघते तथा माषदुग्धप्रभृतिभिर्व्रणः प्रक्लिघत इति ॥११॥
हेत्वर्थतन्त्रयुक्तेर्लक्षणमाह- यदन्यदित्यादि। उदाहरणमाह- यथा मृदित्यादि। अत्र बाह्येन मृत्पिण्डदृष्टान्तेनमाषदुग्धयोगादिभिराभ्यन्तरो व्रणप्रक्लेदः साध्यते॥११॥ समासवचनमुद्देशः ।यथा- शल्यमिति ॥१२॥
उद्देशलक्षणमाह- समासेत्यादि। सङ्क्षेपेण भणनमुद्देश इत्यर्थः। उदाहरणमाह- यथा शल्यमिति। सर्वमेवाबाधजननंसङ्क्षेपेण शल्यमुच्यते, नतु शारीरागन्तुभेदेन प्रपञ्चनात्॥१२॥
विस्तरवचनं निर्देशः ।यथा- शारीरमागन्तुकं चेति ॥१३॥
निर्देशलक्षणमाह- विस्तरेत्यादि। विस्तरेण भाषणं निर्देश इत्यर्थः। उदाहरणमाह- यथा शारीरमागन्तुकं चेति। शारीरशल्यमागन्तुकं च शल्यमिति शल्यं द्विविधमुच्यते ॥१३॥
एवमित्युपदेशः । यथा- ‘तथा न जागृयाद्रात्रौ दिवास्वप्नं च वर्जयेत्’ इति ॥१४॥
उपदेशलक्षणमाह- एवमित्यादि। एवं कुर्यादित्युपदेश इत्यर्थः। उदाहरणमाह- यथेत्यादि। ननु, उपदेशनियोगयोः कोभेदः? उच्यते, प्रायिक उपदेशः, यथा- रात्रौ न जागृयादिति प्रायिकत्वेनोपन्यस्तं, कफाद्यभिभूते तु तत्ररात्रिजागरणस्यापि शस्तत्वात् दिवा न स्वापं कुर्यादित्यपि प्रायिकं, ग्रीष्मे तृष्णाद्यन्वये च दिवास्वापस्योचितत्वात्;नियोगश्चाप्रायिकः,
 यथा- पथ्यमेव भोक्तव्यमिति; यद्यपि ‘ज्वरितोऽहितमश्नीयाद्यद्यप्यस्यारुचिर्भवेत्’इत्यादिनाऽपथ्यभोजनस्याप्यवकाशः, तथाऽपि तदानीमपथ्यस्यैव पथ्यत्वमिति नियोगस्य व्यभिचारो नास्ति॥१४॥


अनेन कारणेनेत्यपदेशः, यथाऽपदिश्यते- मधुरः श्लेष्माणमभिवर्धयतीति ॥१५॥
अपदेशलक्षणमाह- अनेनेत्यादि। अनेन कारणेनेति कार्य प्रति हेतुकथनमपदेश इत्यर्थः। उदाहरणमाह- यथापदिश्यत इत्यादि। यथापदिश्यत इति उदाहरणोपक्रमे। द्रव्यविशेषो मधुरः कुतः श्लेष्माणं वर्धयति? अत्र मधुरः श्लेष्माणं वर्धयति अर्थान्निजभावेन मधुरत्वेन वर्धयति॥१५॥
प्रकृतस्यातिक्रान्तेन साधनं प्रदेशः । यथा- देवदत्तस्यानेन शल्यमुद्धृतं तथा यज्ञदत्तस्याप्ययमुद्धरिष्यतीति ॥१६॥
प्रदेशमाह- प्रकृतस्येत्यादि। उदाहरणमाह- यथा देवदत्तस्येत्यादि। अत्र यज्ञदत्तस्य शल्योद्धरणं प्रस्तुतं, तद्देवदत्तस्य शल्योद्धरणेनातिक्रान्तेन साध्यते॥१६॥
1. प्रकृतस्यानागतस्य साधनमतिदेशः ।
यथा- यतोऽस्य वायुरुर्ध्वमुत्तिष्ठते तेनोदावर्ती स्यादिति ॥१७॥


अतिदेशमाह- प्रकृतस्येत्यादि। अनागतस्य भविष्यतः। उदाहरणमाह- यथा यत इत्यादि। अत्र वायोरुर्ध्वमुत्थानं प्रकृतम्। तेन प्रस्तुतेन अनागतं भविष्यदुदावर्तित्वं साध्यते। उदावर्ती स्यात् उदावर्ती सम्भाव्येत॥१७।


अभिव्याप्यापकर्षणमपवर्गः। यथा- अस्वेद्या विषोपसृष्टाः, अन्यत्र कीटविषादिति ॥१८॥
अपवर्गमाह- अभिव्याप्येत्यादि। (गुणक्रियादिभिः सर्वतो वा अभिव्याप्त कस्यचित् पदार्थस्य तेभ्यो गुणक्रियादिभ्यः पृथक्करणम् अपवर्गः)। उदाहरणमाह- यथा अस्वेद्या इत्यादि। उत्सर्गरूपतया विषोपसृष्टानस्वेद्यान् प्रतिपाद्यापवादमाह- अन्येत्रेत्यादि॥१८॥
येन पदेनानुक्तेन वाक्यं समाप्येत स वाक्यशेषः । यथा- शिरः पाणिपादपार्श्व पृष्ठोदरोरसामित्युक्ते पुरुषग्रहणं विनाऽपि गम्यते पुरुषस्येति ॥१९॥
वाक्यशेषमाह- येनेत्यादि। उदाहरणमाह- यथा शिर इत्यादि। गम्यते ज्ञायत इत्यर्थः॥१९॥
यदकीर्तितमर्थादापद्यते साऽर्थापत्तिः ।
यथा- ओदनं भोक्ष्ये इत्युक्तेऽर्थादापन्नं भवति- नायं पिपासुर्यवागूमिति ॥२०॥
अर्थापत्तिमाह- यदकीर्तितमित्यादि। अकीर्तितम् अप्रतिपादितम् तदुदाहरणमाह- यथौदनमित्यादि। नायं पातुमिच्छुर्यवागूमित्यर्थ॥२०॥
यद्यत्राभिहितं तस्य प्रातिलोम्यं विपर्ययः ।
यथा- कृशाल्पप्राणभीरवो दुश्चिकित्स्या इत्युक्ते विपरीतं गृह्यते दृढादयः सुचिकित्स्या इति ॥२१॥
विपर्ययमाह- यद्यत्राभिहितमित्यादि। प्रातिलोम्यं विपरीतम्। उदाहरणमाह- यथा कृशाल्पेत्यादि। विपर्ययेणविपरीतमेव गम्यते, अर्थापत्त्या अविपरीत एवार्थः प्रतीयत इत्यनयोर्भेदः॥२१॥
प्रकरणान्तरेण समापनं प्रसङ्गः, यद्वा प्रकरणान्तरितो योऽर्थोऽसकृदुक्तः समाप्यते स प्रसङ्गः ।
यथा- पञ्चमहाभूतशरीरिसमवायः पुरुषस्तस्मिन् क्रिया सोऽधिष्ठानमिति वेदोत्पत्तावभिधाय, भूतचिन्तायां पुनरुक्तं- यतोऽभिहितं पञ्चमहाभूतशरीरिसमवायः पुरूष इति, स खल्वेष कर्मपुरुषश्चिकित्साधिकृत इति ॥२२॥
प्रसङ्गमाह- प्रकरणान्तरेणेत्यादि। प्रकरणान्तरेणेति प्रकरणान्तरोक्तेनार्थेनेत्यर्थः। समानं तुल्यम्। उदाहरणमाह- यथेत्यादि। प्रकरणान्तरेषु असकृदुक्तः पुनः पुनरुक्तः। समाप्यते समाप्तिं नीयते। तदेव कथ्यते- यथेत्यादि। अपरे तु ‘अधिकरणान्तरितो योऽर्थोऽसकृदुक्त’ इति पठित्वा व्याख्यानयन्ति- स्नेहविरेकाधिकारयोर्नवज्वरी निषिद्धः, पुनर्ज्वराधिकारे तरुणज्वरिणः स्नेहशोधने निषिद्धे इति अधिकरणेऽन्तरितस्यर्थस्यासकृदुक्तिः॥२२॥

(सर्वत्र )यदवधारणेनोच्यते स एकान्तः ।
यथा- त्रिवृद्विरेचयति, मदनफलं वामयति(एव) ॥२३॥
एकान्तलक्षणमाह- सर्वत्रेत्यादि। अवधारणेन अविकल्पेन, नियमेनेत्यर्थः; उदाहरणेऽवधारणवाचिन एवकारस्य निर्देशात् उदाहरणमाह- यथा त्रिवृद्विरेचयतीयि॥२३॥
क्वचित्तथा क्वचिदन्यथेति यः सोऽनेकान्तः ।
यथा- केचिदाचार्या ब्रुवते द्रव्यं प्रधानं, केचिद्रसं, केचिद्वीर्यं केचिद्विपाकमिति ॥२४॥
अनेकान्तमाह- क्वचित्तथेत्यादि। उदाहरणमाह- यथा केचिदाचार्या ब्रुवते द्रव्यं प्रधानमित्यादि। स्पष्टार्थः॥२४॥

आक्षेपपूर्वकः प्रश्नः पूर्वपक्षः ।
यथा- कथं वातनिमित्ताश्चत्वारः प्रमेह असाध्या भवन्तीति ॥२५॥
पूर्वपक्षमाह- आक्षेपेत्यादि। उदाहरणमाह- यथेत्यादि। अत्रैव दोषजानां साध्यत्वेनोपलब्धेरिति हेतोः पूर्वपक्षावतारः। निर्णयाङ्गत्वेनार्थसाधनत्वमेव संशयस्यापि॥२५॥
तस्योत्तरं निर्णयः ।
यथा- शरीरं प्रपीड्य पश्चादधो गत्वा वसामेदोमज्जानुविद्धं मूत्रं विसृजति वातः एवमसाध्या वातजा इति ॥२६॥
तथा चोक्तम्- कृत्स्नं शरीरं निष्पीड्य मेदोमज्जावसायुतः ।
अधः प्रकुप्यते वायुस्तेनासाध्यास्तु वातजाः ॥२७॥
निर्णयमाह- तस्योत्तरमित्यादि। तस्य पूर्वपक्षस्य यदुत्तरं स निर्णय इत्यर्थः। उदाहरणमाह- यथा शरीरमित्यादि। यतः शरीरपीडादिकं कृत्वा वसाद्यन्वितं मूत्रं वातो विसृजति, अतो मज्जक्षये पूर्वपूर्वधातुक्षयादसाध्यत्वमित्यर्थः॥२६-२७॥
परमतमप्रतिषिद्धमनुमतम् ।
यथा- अन्यो ब्रूयात्- सप्त रसा इति, तच्चाप्रतिषेधादनुमन्यते कथञ्चिदिति ॥२८॥
अनुमतमाह- परमतमित्यादि। अप्रतिषिद्धम् अधिगतमित्यर्थः। उदाहरणमाह- यथेत्यादि। कथञ्चिदिति केनापि प्रकारेणेत्यर्थ॥२८॥
प्रकरणानुपूर्व्याऽभिहितं विधानम् ।यथा- सक्थिमर्माण्येकादश प्रकरणानुपूर्व्याऽभिहितानि ॥२९॥
विधानमाह- प्रकरणेत्यादि। प्रकरणानुपूर्व्याऽभिहितमिति यथाक्रममुक्तम्। चन्द्रनन्दनेन च ‘परिपाठ्याऽर्थकथनं विधानम्’ इति विधानलक्षणं कृतम्। उदाहरणमाह- यथा सक्थीत्यादि। मर्मणां प्रकरणानुपूर्व्या अभिधानं क्षिप्ततलहृदयैत्यादिकम्॥२९॥



एवं वक्ष्यतीत्यनागतावेक्षणम् । यथा- श्लोकस्थाने ब्रूयात्- चिकित्सितेषु वक्ष्यामीति ॥३०॥
अनागतावेक्षणमाह- एवमित्यादि। अनागतस्य भविष्यतः अवलोकनं कार्यार्थमवेक्षणमित्यर्थः उदाहरणमाह- यथा श्लोकेत्यादि॥३०॥
यत्पूर्वमुक्तं तदतिक्रान्तावेक्षणम् । यथा- चिकित्सितेषु ब्रूयात्- श्लोकस्थाने यदीरितमिति ॥३१॥
अतिक्रान्तावेक्षणमाह- यदित्यादि। अतिक्रान्तस्य अतीतस्य अवेक्षनम्। उदाहरणमाह- यथा चिकित्सितेष्वित्यादि॥३१॥
उभयहेतुदर्शनं संशयः ।यथा - तलहृदयाभिघातः प्राणहरः, पाणिपादच्छेदनमप्राणहरमिति ॥३२॥
संशयमाह- उभयेत्यादि। उभयोर्विसदृशयोरर्थयोर्हेतुः तस्य दर्शनम्। उदाहरणमाह- यथा तलेत्यादि। ननु, एतत् संशयज्ञानार्थमुदाहृतं, संशयोऽस्ति कुतः? तलहृदयाभिघातस्य तथा पाण्यादिच्छेदस्य प्राणहरत्वाप्राणहरत्वाभ्यां पृथग्दर्शितत्वात्। सत्यं, परं यत्र घातच्छेदयोर्द्वयोः सद्भावस्तत्र किं तलहृदयाभिघातान्मरणमुत पाणिपादच्छेदाज्जीवनमित्येवं संशयः ॥३२॥
तन्त्रेऽतिशयोपवर्णनं व्याख्यानम् ।
यथा- इह पञ्चविंशतिकः पुरूषो व्याख्यायते, अन्येष्वायुर्वेदतन्त्रेषु भूतादिप्रभृत्यारभ्य चिन्ता ॥३३॥
व्याख्यानमाह- तन्त्रे इत्यादि। तन्त्रे शास्त्रे। अतिशयस्य अतिरिक्तस्यार्थस्य उपवर्णनं ख्यापनं व्याख्यानम्। ‘तत्रातिशय’ इति पाठे तत्रेति निर्धारणे। उदाहरणमाह- यथा इहेत्यादि। पञ्चविंशतिकः पुरुष इति पञ्चविंशतितम इत्यर्थः, अव्यक्तादीनामष्टानां प्रकृतिविकारैः षोडशभिः सह चतुर्विशतित्वात्। पुरुष इति क्षेत्रज्ञः। स्वमतमभिधाय परमतमाह- अन्येष्वायुर्वेदतन्त्रेष्वित्यादि। भूतादिस्तामसोऽहङ्कारः ; एतेन भूतादिमहङ्कारमारभ्यान्यायुर्वेदतन्त्रेषु चिन्ता नत्वव्यक्तमारभ्येति॥३३॥

अन्यशास्त्रासामान्यास्वसञ्ज्ञा ।
यथा- मिथुनमिति मधुसर्पिषोर्ग्रगणं; लोकप्रसिद्धमुदाहरणं वा ॥३४॥

स्वसञ्ज्ञामाह- अन्यशास्त्रासामान्या स्वसञ्ज्ञेत्यादि। अन्यानि शास्त्राणि आयुर्वेदादपराणि व्याकरणादीनि तेषु, असामान्या असाधारणा, तत्राननुगता स्वशास्त्रेष्वेव प्रयोजनवतीत्यर्थः। उदाहरणमाह- यथा मिथुनमित्यादि। ननु, स्वसञ्ज्ञाप्रणयनं व्यवहारार्थ क्रियते, न चात्र मिथुनसञ्ज्ञया यन्मधुसर्पिषोर्ग्रहणं तद्वारेण व्यवहारो दृश्यते? उच्यते- उदाहरणमात्रमेतद्यथाकथञ्चिदिति। अत एव पक्षान्तरमाह- लोके प्रसिद्धमुदाहरणं वा। स्वसञ्ज्ञाया ग्राह्यामित्यर्थः- यथा चतुर्षु स्नेहेषु महास्नेहसञ्ज्ञा। अतः परं केचिदधीयते- यथोष्णभयात् छायामनुसरतीति। ते तूदाहरणमपि तन्त्रयुक्तिष्विच्छन्ति। तन्न युक्तं, उद्देशसूत्रे उदाहरणख्यतन्त्रयुक्तेरनुक्तेः, सङ्ख्याधिक्यप्रसक्तेश्च, तस्माद्यथोष्णेत्यादिकोऽपपाठ एवेति॥३४॥
निश्चितं वचनं निर्वचनम् ।
यथा- आयुर्विद्यतेऽस्मिन्ननेन वा आयुर्विन्दतीत्यायुर्वेदः ॥३५॥
निर्वचनमाह- निश्चितमित्यादि। उदाहरणमाह- यथा आयुर्विद्यतेऽस्मिन् इत्यादि॥३५॥
दृष्टान्तव्यक्तिर्निदर्शनम् । यथा- अग्निर्वायुना सहितः कक्षे वृर्द्धि गच्छति तथा वातपित्तकफदुष्टो व्रण इति ॥३६॥
निदर्शनमाह- दृष्टान्तव्यक्तिरित्यादि। दृष्टान्तेन व्यक्तिर्यस्मिन् वाक्ये तत्तथा। एतेनैतदुक्तं भवति- दृष्टान्तेनार्थःप्रसाध्यते यत्र तन्निदर्शनमिति। अत एव च निदर्शनात् हेत्वर्थो भिद्यते, हेत्वर्थस्य दृष्टान्तमात्रत्वात् ।उदाहरणमाह- यथा अग्निरित्यादि। तथेति अभिवृद्धिं गच्छतीत्यर्थः॥३६॥


इदमेव कर्तव्यमिति नियोगः। यथा- पथ्यमेव भोक्तव्यमिति ॥३७॥ नियोगमाह- इदमित्यादि। उदाहरणमाह- यथा पथ्यमित्यादि। (क्वचिन्नियोगो व्यभिचरति, यथा- ज्वरितस्यारुचौ सत्यामपथ्यमपि दीयते; तदुक्तं- ‘ज्वरितोऽहितमश्नीयाद्यद्यस्य ह्यरुचिर्भवेत्। अन्नकाले ह्यभुञ्जानः क्षीयते म्रियतेऽथवा’ इति। तन्त्रान्तरेऽप्युक्तं- ‘उत्पद्यते हि साऽवस्था देशकालबलं प्रति। यस्यां कार्यमकार्य स्याद्वर्जितं कार्यमेव च’- इति )॥३७॥
इदं चेदं चेति समुच्चयः ।
यथा- मांसवर्गे एणहरिणादयो लावतित्तिरिशारङ्गश्च प्रधानानीति ॥३८॥
समुच्चयमाह- इदमित्यादि। उदाहरणमाह- यथा मांसेत्यादि। एणादयः प्रधानानि लावादयश्च प्रधानानीति समुच्चयश्च॥३८।
इदं वेदं वेति विकल्पः ।
यथा- रसौदनः सघृता यवागूर्वा (भवत्विति) ॥३९॥
विकल्पमाह- इदं वेत्यादि। प्रत्येकं वाशब्दोपादानमत्रोदाहरणे यन्न कृतं तदेकेनापि वाशब्देन बहुषु विकल्पतादर्शनार्थ; क्वचिद् वाशब्दं विनाऽपि विकल्पो भवति, यथैकं रोगं प्रति बहुषु योगेषु वाशब्दं विनाऽप्यन्यतमो योगो योज्य इति विकल्पः। उदाहरणमाह- यथा रसौदन इत्यादि॥३९॥
यदनिर्दिष्टं बुद्धयाऽवगम्यते तदूह्यम् । यथा- अभिहितमन्नपानविधौ चतुर्विधं चान्नमुपदिश्यते- भक्ष्यं भोज्यं लेह्यं पेयमिति, एवं चतुर्विधे वक्तव्ये द्विविधमभिहितम्; इदमत्रोह्यम्- अन्नपाने विशिष्टयोर्द्वयोर्ग्रहणे कृते चतुर्णामपि ग्रहणं भवतीति; चतुर्विधश्चाहारः प्रविरलः, प्रायेण द्विविध एव; अतो द्वित्वं प्रसिद्धमिति ।
किञ्चान्यत्- अन्नेन भक्ष्यमवरुद्धं, घनसाधर्म्यात्; पेयेन लेह्यं, द्रवसाधर्म्यात् ॥४०॥
साम्प्रतमूह्याख्यां तन्त्रयुक्तिमाह- यदित्यादि। अनिर्दिष्टमिति साक्षादित्यर्थः।
उदाहरणमाह- यथाऽमिहितमित्यादि। कथमत्रोह्यं भवतीति कथनायाह- भक्ष्यं भोज्यं लेह्यं पेयमिति चतुर्धा वक्तव्येद्विविधममिहितमत्रोह्यं भवति चातुर्विध्यमत्रोह्यं भवतीत्यर्थः। बुद्धिगम्यमूह्यं प्राक् प्रतिपादितं तत् कीदृश्या बुद्ध्यागम्यत इत्याह- अन्नपाने इत्यादि। अन्नपानयोर्विशिष्टयोरभ्यवहार्ययोर्ग्रहणे चतुर्णामभ्यवहार्यविशेषाणांभक्ष्यभोज्यलेह्यपेयानां ग्रहणं भवतीति। चातुर्विध्यमेव किमिति नोक्तमित्याशङ्कयाह- चतुर्विध इत्यादि। प्रविरल इतिप्रकर्षेण विरलः क्वचित्कथञ्चिद्भावात्। प्रकारान्तरेणापि चतुर्विधत्वमाह- किञ्चान्यदित्यादि। अन्न केचित्पूर्वपक्षंकुर्वन्ति वाक्यार्थस्यास्पष्टाविद्यमानस्य योजनादूह्यं न तन्त्रयुक्तिरिति, लीनस्यानिर्दिष्टस्य चार्थस्यवाक्यादेवोहनेनोभयरूपस्य योजनादूह्यं तन्त्रयुक्तेरेव॥४०॥
भवन्ति चात्र-
सामान्यदर्शनेनासां व्यवस्था सम्प्रदर्शिता ।
विशेषस्तु यथायोगमुपधार्यो विपश्चिता ॥४१॥
द्वात्रिंशद्युक्तयो ह्येतास्तन्त्रसारगवेषणे ।
मया सम्यग्विनिहिताः शब्दार्थन्यायसंयुताः ॥४२॥
यो ह्योता विधिवद्वेत्ति दीपीभूतास्तु बुद्धिमान् ।
स पूजार्हो भिषक्श्रेष्ठ इति धन्वन्तरेर्मतम् ॥४३॥
एवं तन्त्रयुक्तीरभिधायोपसंहरन् प्रतिपादिततन्त्रयुक्तिविशेषप्रतिपत्तये श्लोकमाह- भवन्ति चात्रेत्यादि। तन्त्रयुक्तीनांविशेषो यथासम्बन्धं विदुषा उपधारणीय इत्यर्थः। कार्तिकस्तु द्वात्रिंशद्युक्तय इत्यादिकं श्लोकद्वयं पठति॥४१-४३॥
इति सुश्रुतसंहितायामुत्तरतन्त्रे तन्त्रभूषणाध्यायेषु तन्त्रयुक्तिर्नाम
(तृतीयोऽध्यायः, आदितः) पञ्चषष्टिमोऽध्यायः ॥६५॥
इति श्रीडल्ह(ह्ल)णविरचितायां निबन्धसङ्ग्रहाख्यायां
सुश्रुतव्याख्यायामुत्तरतन्त्रे पञ्चषष्टितमोऽध्यायः॥६५॥