जैमिनीयं ब्राह्मणम्/काण्डम् ३/३५१-३६०

विकिस्रोतः तः
← कण्डिका ३४१-३५० जैमिनीयं ब्राह्मणम्/काण्डम् ३
कण्डिका ३५१-३६०
[[लेखकः :|]]
कण्डिका ३६१-३७० →

- चन्द्रमा हैव सः। स उ हेव प्रजापतिः। तद् एतत् परस्ताद् अर्वाक् तेजो निर्मितं दीप्यमानं तिष्ठत्य् अग्निश् चेन्द्रश् च। तद् इदम् अध्यात्मम्। या सा वाग् इयं सा वाक्। ताम् अयं प्राण उपरिष्टाद् अध्यास्ते। अथ यस् स प्रजानां जनयित ऋषभे ऽन्नलोके ऽप्स्व् अन्तर् अयं स पुरुषः। ता एता समानीर् देवता इह चामुत्र च। ता एह गच्छन्ति, गच्छन्त्य् अमुत्र। या इमास् ता अमूर्। या अमूस् ता इमाः। ता ह यो ऽध्यात्मम् उपास्ते स हानिदेवो भवति। तेषां हैतेषां देवानां प्रजापताव् आत्मानस् संनिहिताः। अथ हैषां प्राणानाम् अस्मिन् पुरुष आत्मानस् संनिहिताः। तम् एतं पुरुषं परिगृह्य् गोपायन्ति। तस्यैष श्लोक -

ऋषभो लोको महद् एव यक्षं नैवास्मात् पूर्वं न परं बभूव।

यं देवं देवाः प्राणाः पुरुषं परिगृह्य जाग्रति स वेद लोकं पुरुषं महान्तम्॥

इति। इमं ह वाव तं देवं देवाः प्राणाः पुरुषं परिगृह्य जाग्रति। सो ऽयम् अक्षन्न् अन्त स हैष वामनः। स यो हैतं वामन इत्य् उपास्ते वामं वामं हैवैनम् एषा देवताभिनेनीयते। एतस्माद् ध वा इदं राजन्यबन्धवो वामनं केन चिद् अवकांक्षन्ति। एतस्यै ह देवतायै नाम्नो ऽन्तिकम् एनं विदुः। स हैष न जीर्यति। समावान् हेवैष यूनश् च जरसश् च। स हैष प्राणान् संगृह्यावधूय शरीरं प्राणैस् सहोर्ध्व उत्क्रामति। एतेन ह वै प्रत्यूढानि मृत्युश् शरीराणि हरति। तस्यै हैतस्यै देवतायै यथा मृत्पिण्ड इषीके ऽधिहते स्याताम् एवम् एव हृदये पादाव् अधिहतौ। तौ यद् आच्छिनत्य् अथ म्रियते। तद् इदम् अप्य् अविद्वांस आहुर् आच्छेद् ध्य् अस्येति। स य एतद् एवं वेदाजरसं हास्माद् एषा देवता नोत्क्रामति, सर्वम् आयुर् एति॥3.351॥

देवा वै श्रमेण तपसा व्रतचर्येणासुरान् रक्षांस्य् अभ्यभवन्। ते ऽसुरा विदित्वैतत् परा वै ते भवन्तीति, स्त्रीरूपाण्य अकुर्वत प्रथमोत्तनकाश् चण्डातकवासिनीर् यत् कल्याणतमं रूपाणां तत्। ता देवान् प्रत्याक्रमन्त। ता देवा उपन्यपादयन्त। न हि कस्य चन स्त्रियो ऽप्रियाः। तेषु यद् एषां तेज इन्द्रियं वीर्यं श्रमाभिजितम् आसीत् तद् असिंचन्। ते ऽसुरा विदित्वैतद् इयद् वा एषां तेज इन्द्रियं वीर्यम् अभूत् इत्य् आदाय प्राद्रवन्। तेषां ह देवानाम् अप्रियम् आसीत्। रिरिचाना इवामन्यन्त। ते ऽब्रुवन् कथं न्व् इदं तेज इन्द्रियं वीर्यं पुनर् आददीमहीति। त एता व्याहृतीर् अपश्यन्॥3.352॥

तम् एत्य् एकाक्षरेण रथन्तरम् आददत। तस्मात् तत् प्रथमे ऽहन् क्रियते। प्रमेति द्व्यक्षरेण बृहद् आददत। तस्मात् तद् द्वितीये ऽहन् क्रियते। प्रतिमेति त्र्यक्षरेण वैरूपम् आददत। तस्मात् तत् तृतीये ऽहन् क्रियते। (अ)स्रीवग् इति चतुरक्षरेण वैराजम् आददत। तस्मात् तच् चतुर्थे ऽहन् क्रियते। सिरकमसीति पञ्चाक्षरेण शाक्वरम् आददत। तस्मात् तत् पञ्चमे ऽहन् क्रियते। छर्दिरिन्द्रियावद् इति षडक्षरेण रैवतम् आददत। तस्मात् तत् षष्ठे ऽहन् क्रियते। आ गयं वीर्यं योनिम् आ दद्ध्वं विद्वज् जनस्य छायेति वामदेव्यम् आददत। तस्मात् तन् मध्यतो यज्ञस्य क्रियते। यत् परो योनिम् अतिश्च्युतितम् अभूत् तद् आ दद्ध्वं वस्व् इति यज्ञायज्ञीय् आददत। तस्मात् तत् परार्धे यज्ञस्य क्रियते॥3.353॥

अथो आहुर् - अपहतपाप्मानो वै देवाः। ते न स्वपन्ति। त उ श्रमस्य भूम्ना सममीलयन्। तेषाम् उ स्वपतां प्रमत्तानाम् असुरास् तेज इन्द्रियं वीर्यम् आदायाप्स्व् अन्वभ्यवानयन्। तद् विष्णुर् अन्वपश्यत्। तेषां ह देवानां प्रबुबुधानानाम् अप्रियम् आसीत्। तान् विष्णुर् अब्रवीन् - मा वो ऽप्रियं भूत्। अहं वै तद् अन्वख्यम् इति। तान् अप्स्व् अन्व् अभ्यवानयत्। तद् अप्स्व् अन्तः पर्यपश्यन् यथा पृष्ठात् (क)कुद् उदीषिता स्याद् एवम्। तद् एताभिर् एताभिर् एव व्याहृतिभिर् आदाय विष्णवे प्रायच्छन्। तद् इदं विष्णुस् तेज इन्द्रियं वीर्यं धारयन् समैषत्। तस्माद् ध्रस्वो विष्णुः। तस्माद् उ ह्रस्वं वैष्णवं गाम् आलभन्ते। स यत्र धारयन् पराक्रमत तद् एव विष्णुपदम् अभवत्। तस्माद् यो विष्णुपदीयः कैकेयस् स यज्ञ आत्ततरः। एतं ह्य् अस्मिन् यज्ञम् अन्विन्दन्। स य एतद् एवं वेदा द्विषतो भ्रातृव्यस्य तेज इन्द्रियं वीर्यं दत्ते॥3.354॥

प्रजापतिर वा इमान् लोकान् इमा दिशो ऽसृजत। तान् सृष्टोभयान् देवान् असुरान् असृजत। तान् समद् अविन्दत्। ते प्रजापतौ ब्रह्म संन्यदधत। तत् प्रजातिर् नोदयच्छत्। तद् अप्सु प्रावेशयत्। ते देवा असुरान् अजयन्। ते जित्वा पुनर् एत्याब्रुवन् प्रजापते यन् नस् त्वयि ब्रह्म तन् नः प्रयच्छति। सो ऽब्रवीन् न वा अहं तद् उदयच्छम्। तद् अप्सु प्रावेशयम् इति। तान् अप्स्व् अन्व् अभ्यवानयत्। तद् अप्स्व् अन्तः पर्यपश्यन् यथा पृष्ठात् ककुद् उदीषिता स्याद् एवम् । ते ऽब्रुवन् सृजामहा इत इति। त ओम् इत्य् एतेनाक्षरेणास्यै - ॥3.355॥

- प्राच्यै दिशो रथन्तरं भा असृजन्त। तद् अग्नेर् घोषो ऽन्वसृज्यत। तस्माद् रथन्तरस्य स्तोत्रा अग्नीन् मन्थन्ति। त ओम् इत्य् एतेनैवाक्षरेणास्यै दक्षिणायै दिशो बृहद् भा असृजन्त। तत् पर्जन्यस्य घोषो ऽन्वसृज्यत। तस्माद् बृहत स्तोत्रे दुन्दुभीन् उद्वादयन्ति। वर्षुकः पर्जन्यो भवति। त ओम् इत्य् एतेनैवाक्षरेणास्यै प्रतीच्यै दिशो वैरूपं भा असृजन्त। तद् वायोर् घोषो ऽन्वसृज्यत। तस्माद् वैरूपस्य स्तोत्र आधवैर् आधून्वन्ति। अधोवात आगामुकः। त ओम् इत्य् एतेनैवाक्षरेणास्या उदीच्यै दिशो वैराजं भा असृजन्त। तद् वयसां घोषो ऽन्वसृज्यत। तस्माद् यथा वयांसि पुनर् आदायं वाचं वदन्त्य् एवं वैराजेन पुनर् आदायम् इव स्तुवते। त ओम् इत्य् एतेनैवाक्षरेणास्या ऊर्ध्वायै दिशश् शाक्वरं भा असृजन्त। तद् अपां घोषो ऽन्वसृज्यत। तस्माच् छाक्वरस्य स्तोत्रे ऽप उपनिधाय स्तुवन्ति। त ओम् इत्य् एतेनैवाक्षरेणास्यै दिशो रैवतं भा असृजन्त। तत् पशुघोषो ऽन्वसृज्यत। तस्माद् रैवतस्य स्तोत्र पशुघोषं कुर्वन्ति, वत्सान् मातृभिस् संवाशयन्ति।

ते ऽब्रुवंस् तद् वेदाम यत इमे ऽसृक्ष्महीति। ते ऽप्स्व् एव वामदेव्यं पर्यपश्यन्। तद् आददत। तत् सर्वा वाचो ऽन्वसृज्यन्तैकैकेतराणि पृष्ठानि। तानीमानि पृष्ठानि सृष्टानि दिग्भ्य आतपन्। एतानि ह तर्ह्य् आतेपुः। ातपति स्वेभ्य, आतपतीत्य् एनम् आहुर् य एवं वेद। (ता)नीयं देवताभ्यध्यायत्। येयं पुरस्ताद् उच्चरति पुरुषाकृतिर् ह्य् एषा तर्ह्य् आस। सा त्रिवृता स्तोमेन गायत्र्या छन्दसा रथन्तरस्य भा आदत्त। तद् इतो ऽधत्त। पञ्चदशेन स्तोमेन त्रिष्टुभा छन्दसा बृहतो भा आदत्त। तद् इतो ऽधत्त। सप्दशेन स्तोमेन जगत्या छन्दसा वैरूपस्य भा आदत्त। तद् इतो ऽधत्त। एकविंशेन स्तोमेनानुष्टुभा छन्दसा वैराजस्य भा आदत्त। तद् इतो ऽधत्त। त्रिणवेन स्तोमेन पंक्त्या छन्दसा शाक्वरस्य भा आदत्त। तद् इतो ऽधत्त। त्रयस्त्रिंशेन स्तोमेनातिच्छन्दसा रैवतस्य भा आदत्त। तद् इतो ऽधत्त। तस्मात् सर्वाणि भूतान्य् अप्स्व् अन्ततः प्रतिष्ठितानि। तम् आदद नम् आदितादितेति वाचो ऽवदन्। तद् आदित्यस्यादित्यत्वम्। मानिन्दितुस् तेज इन्द्रियं वीर्यं तत् ते शमलम् अस्य निन्दिता प्रतिमुञ्चते य एवं वेद॥3.356॥

तं सर्वाणि भूतानि सो ऽर्यस् सो ऽर्य इत्य् आयन्। तत् सोर्यस्य सोर्यत्वम्। सोर्यो ह वै नामैष। तं सूर्य इति परोक्षम् आचक्षते। अर्यो नो ऽसि भर्ता नो ऽसीति हैनं स्वाश् चारणाश् चोपासते य एवं वेद। स यत् प्रत्यङ् आदाय स्वरयन् वै(त्) तत् सोर्यस्य सोर्यत्वम्। तद् वाव स्वरस्य स्वरत्वं यत् स्वरयन् वैत्। ते देवा अब्रुवन् न हार्षीद् वा अयम् इति। तद् अहर् अभवत्। रातं वा अस्मा अभूद् इति सो एव रात्रिर् अभवत्। एतद् ध वा अहोरात्रयोर् जन्म। स य ए(व)म् एतद् अहोरात्रयोर् जन्म वेदाप्नोत्य् अहोरात्रे, नैनम् एते अतीतः। सर्वं ह वा इदम् अन्यत् पर्यन्तवत्। एते ह वा अपर्यन्ते यद् अहोरात्रे। ये ते वा इदं परिवर्तमाने सर्वम् आप्नुतः। तद् यथा रथोपस्थे तिष्ठन् पक्षसि प्रत्यवेक्षेतैवम् एवैते ऽहोरात्रे आदित्यलोके तिष्ठन् प्रत्यवेक्षते। स पितरं प्रजापतिम् अब्रवीत् - तत यत् त इदं तेज इन्द्रियं वीर्यं मह्यम् इदं प्रयच्छेति। तथेति। तद् अस्मै प्रायच्छत्। तस्माद् उत पिता पुत्राय जीवन्न् एवेशां संप्रयच्छति॥3.357॥

स वशम् एव दिव आदत्त, क्षत्रं नक्षत्राणाम्, आत्मानम् अन्तरिक्षस्य, रूपं वायोर्, आज्ञां मनुष्याणां, चक्षुः पशूनाम्, ऊर्जम् अपां, रसम् ओषधीनां, चरथं वनस्पतीनां, शिश्नं वयसाम्, अर्चिम् अग्नेर्, हृदयं पृथिव्यै, गन्धं हिरण्यस्य, स्तनयित्नुं वाचस्, संगमं पितॄणां, भां चन्द्रमसः। तद् यद् एतेषां भूतानाम् आदत्त तद् आदित्यस्यादित्यत्वम्। आदत्ते तेजो द्विषतो भ्रातृव्यस्य य एवं वेद। सा हैषा देवता दीक्षिता केशवाधि कृष्णाजिना। तस्यै ये ऽर्वाञ्चो रश्मयस् तानि श्मश्रूणि, य ऊर्ध्वास् ते केशाः। अहोरात्रे एव कृष्णाजिने। तद् यद् दिविक्षयम् अकुरुत तस्माद् दीक्षिता। दिवि ह वा एष क्षयं कुरुत यो यजते। यां दीक्षया जितिं जयति याम् ऋद्धिम् ऋध्नोति, जयति तां जितिम् ऋध्नोति ताम् ऋद्धिं य एवं वेद॥3.358॥

तस्योषस्येव पत्नी चन्द्रमास् सोमपीथः। तस्मात् सपत्नीको दीक्षेत। सा हैषा देवता दीक्षमाणस्य तेज इन्द्रियं वीर्यं यश आदत्ते। स दीक्षिष्यमाण आदित्यम् उपतिष्ठेत - त्वं देवता दीक्षितासि। सा दक्षिमाणस्य तेज इन्द्रियं वीर्यं यश आदत्से। मा मे तेज इन्द्रियं वीर्यं यश आदिथाः। तव दीक्षाम् अनु दक्षि इति। तस्यैषा देवता दीक्षमाणस्य तेज इन्द्रियं वीर्यं यशो नादत्ते। तद् एतद् उक्थस्यैव स्तम्भः। ते ये ऽर्वा़ञ्चो रश्मयस् तैर् अस्येमे लोका स्तब्धा य एतस्माद् अर्वाञ्चो, ऽथ यत् किं च प्राणभृत् सशरीरम्। अथ य ऊर्ध्वास् तैर् उ अस्य ते लोका स्तब्धा य एतस्मात् पराञ्चो, ऽथ यत् किं चाभृतम् अशरीरम्। तद् यद् एषा देवतोभयान् देवासुरान् अन्तरा स्तब्ध्वा तिष्ठति तस्मात् एतत् स्तम्भः। स ह वै स्तब्धस् सस्तभेत। अथो य एनं स्तभस्योपमीमांसेत तं ब्रूयाद् या स्तब्धा देवता तस्यै त्वा वृश्च्यामीमाम् आर्तिं न्येष्यसीति। तां हैवार्तिं न्येति। ते ये ऽर्वा़ञ्चो रश्मय एते हावशा मृत्योर् अन्नवन्तः। अथ य ऊर्ध्वास् त उ हामृतलोकाः। ते ये ऽर्वाञ्चो रश्मय एते होरयो नाम यथा नळो वासुशिर स्यद्वि(स्याद्वे?) अर्वा। अथ य ऊर्ध्वास् त उपरीयांसो नाम। स यथा हस्ती हस्तेनादाय पृष्ठ्ये ऽध्यस्येतैवम् एवैषा देवतैतद् विद्वांसम् उरुभी रश्मिभिर् आदायावरीयस्व् अध्यस्यते। तमस्य् एष लोको य एतस्मात् पराचीनः॥3.359॥

नासद् आसीन् नो सद् आसीत् तदानीं नासीद् रजो नो व्योमा परो यत्।

किम् आवरीवः कुह कस्य शर्मन्न् अम्भः किम् आसीद् गहनं गभीरम्॥

इति। तस्मिन्न् असति सति न कस्मिंश् चन सत्य् ऋतं ज्योतिष्मद् उदप्लवत, सत्यं ज्योतिष्मद् उदप्लवत, तपो ज्योतिष्मद् उदप्लवत। तद् यद् ऋतम् इति वाक् सा, यत् सत्यम् इति प्राणस् सो, यत् तप इति मनस् तत्। तेषाम् अन्नम् एव ज्योतिर् आसीत्। तान्य् एकम् अभवन्। तद् एकं भूतेवैतेनान्नेन ज्योतिषाप्यायत। तद् अभवद् यथा मध्वष्ठी लावास्व् आसिक्ता स्याद् ऋतिर् वैवम्। तद् ऐक्षत - हन्ताधस्तात् प्राणं करवा इति। तद् अधस्तात् प्राणम् अकुरुत, यथैष स्त्रिया अधस्ताद् आकाश एवम्। तस्माद् आपो ऽसृज्यन्त बलबलबलित्य् एतया वाचा। तद् इदम् आपो महत् सलिलम् आसीत्। यद् ध वा इदम् आहुर् - आपो वा इदम् अग्रे महत् सलिलम् आसीद् इत्य् एतास् ता आपः त ऊर्मयस् समास्यन्त फा3ल्फा3लिति। तद् धिरण्मयम् आण्डं समैषत्॥3.360॥