जैमिनीयं ब्राह्मणम्/काण्डम् ३/३६१-३७०

विकिस्रोतः तः
Jump to navigation Jump to search

तस्य हरितम् अधरं कपालम् आसीद् रजतम् उत्तरम्। तच् छतं देवसंवत्सराञ् छयित्वा निर्भिद्यम् अभवत् सहस्रं वा द्युम्नान्। द्युम्ना ह नाम तर्ह्य् अप्य् आसुः। यावान् एष संवत्सरस् तावन्तस् संवत्सरस्य प्रतिमाः। द्युम्नैर् ह स्म संवत्सरं विजानन्ति। अथ ह ततः पुराहोरात्रे संश्लिष्टे एवासतुर् अव्याकृते। ते उ अग्निहोत्रेणैव व्याकृते। तद् एतया वाचा निरभिद्यत स्रुवस्थे सरणे सन्यौ कपाले विजिहाथाम्। कं लोकम् अभि जाया इति। फळ् इत्य् एवेदम् आण्डं निरभिद्यत। तस्य यद् अधरं कपालम् आसीत्, सेयं पृथिव्य् अभवत्। अथ यद् उत्तरम् आसीत्, सासौ द्यौर् अभवत्। अथ यद् अन्तर् आसीत्, तद् इदम् अन्तरिक्षम् अभवत्। स यां जायमानो वाचम् अवदत्, स एव त्रयो वेदो ऽभवत्। यद् धैवैषाग्रे किं च देवता जायमानोवाद तद् उ ह ब्रह्मैव बभूव। स ऐक्षत - महतीं वा इमां प्रतिष्ठाम् असृक्षीमान् लोकान्। यद् वा अतस् स्रक्ष्ये वेत्स्यते वै तत् प्रतिष्ठाम्। हन्त सृजा इति। स मनसात्मानम् अध्यैत्। तस्मिन् द्वौ द्रप्सौ समभवतां वासन्तिकौ मासौ॥3.361॥


ताव् अब्रवीत् सृ्ज्येथाम् इति। कां दिशं ततेति। इमाम् इति। ताव् ओम् इत्य् एतया वाचासृज्यत। ताव् एतस्यां दिशि पतित्वा प्रत्यतिष्ठताम्। तौ रथन्तरं भा अन्वसृज्यत। तयोस् तद् एवान्नम् आसीत्, तज् ज्योतिस, तद् आभ्याम् आतपत्। ततस् तौ राष्ट्रम् अभवताम्। राष्ट्रं ह वै भवति य एवं वेद। स मनसैव पुनर् आत्मानम् अध्यैत्। तस्मिन् द्वौ द्रप्सौ समभवतां ग्रैष्मौ मासौ। ताव् अब्रवीत् सृज्येथाम् इति। कां दिशं ततेति। इमाम् इति। ताव् ओम् इत्य् एतयैव वाचासृज्यत। ताव् एतस्यां दिशि पतित्वा प्रत्यतिष्ठताम्। तौ बृहद् भा अन्वसृज्यत। तयोस् तद् एवान्नम् आसीत् तज् ज्योतिस्, तद् आभ्याम् आतपत्। ततस् तौ राष्ट्रम् अभवताम्। राष्ट्रं ह वै भवति य एवं वेद। स मनसैव पुनर् आत्मानम् अध्यैत्। तस्मिन् द्वौ द्रप्सौ समभवतां वार्षिकौ मासौ। ताव् अब्रवीत् सृज्येथाम् इति। कां दिशं ततेति। इमाम् इति। ताव् ओम् इत्य् एतयैव वाचासृज्यत। ताव् एतस्यां दिशि पतित्वा प्रतितिष्ठताम्। तौ वैरूपं भा अन्वसृज्यत। तयोस् तद् एवान्नम् आसीत्, तज् ज्योतिस्, तद् आभ्याम् आतपत्। ततस् तौ राष्ट्रम् अभवताम्। राष्ट्रं ह वै (?)ति य एवं वेद। स मनसैव पुनर् आत्मानम् अध्यैत्। तस्मिन् द्वौ द्रप्सौ समभवतां शारदौ मासौ। ताव् अब्रवीत् सृज्येथाम् इति। कां दिशं ततेति। इमाम् इति। ताव् ओम् इत्य् एतयैव वाचासृज्यत। ताव् एतस्यां दिशि पतित्वा प्रत्यतिष्ठताम्। तौ वैराजं भा अन्वसृज्यत। तयोस् तद् एवान्नम् आसीत्, तज् ज्योतिस् तद् आभ्याम् आतपत्। ततस् तौ राष्ट्रम् अभवताम् । राष्ट्र ह वै भवति य एवं वेद। स मनसैव पुनर् आत्मानम् अध्यैत्। तस्मिन् द्वौ द्रप्सौ समभवतां हैमन्तिकौ मासौ। ताव् अब्रवीत् सृ्ज्येथाम् इति। ताव् ओम् इत्य् एतयैव वाचासृज्यत। ताव् एतस्यां दिशि पतित्वा प्रत्यतिष्ठताम्। तौ शाक्वरं भा अन्वसृज्यत। तयोस् तद् एवान्नम् आसीत्, तज् ज्योतिस्, तद् आभ्याम् आतपत्। ततस् तौ राष्ट्रम् अभवताम्। राष्ट्रं ह वै भवति य एवं वेद। ताव् अब्रवीत् सृज्येथाम् इति। कां दिशं ततेति। इमाम् इति। ताव् ओम् इत्य् एतयैव वाचासृज्यत। ताव् एतस्यां दिशि पतित्वा प्रत्यतिष्ठताम्। तौ रैवतं भा अन्वसृज्यत। तयोस् तद् एवान्नम् आसीत्, तज् ज्योतिस्, तद् आभ्याम् आतपत्। ततस् तौ राष्ट्रम् अभवताम्। राष्ट्रं ह वै भवति य एवं वेद॥3.362॥


अथ ज्यृग्भ्याम् आर्च्छत्। तस्मात् पशवः शैशिर ऋतौ ज्यृग्भ्याम् ऋच्छन्ति। स ऐक्षत यम् इमं त्रयं वेदम् असृक्षि हन्तास्मात् सृजा इति। स त्रिवृता स्तोमेन गायत्रीम् अध्यैत्। ततो वसून् असृजत। त इमां दिशम् अन्वायन्। पञ्चदशेन स्तोमेन त्रिष्टुभम् अध्यैत्। ततो रुद्रान् असृजत। त इमां दिशम् अन्वायन्। स सप्तदशेन स्तोमेन जगतीम् अध्यैत्। तत आदित्यान् असृजत। त इमां दिशम् अन्वायन्। एकविंशेन स्तोमेनानुष्टुभम् अध्यैत्। ततो विश्वान् देवान् असृजत। त इमां दिशम् अन्वायन्। त्रिणवेन स्तोमेन पंक्तिम् अध्यैत्। ततो मरुतो ऽसृजत। त इमां दिशम् अन्वायन्। त्रयस्त्रिंशेन स्तोमेनातिच्छन्दसम् अध्यैत्। ततस् साध्यांश् चाप्त्यांश् चासृजत। त इमां दिशम् अन्वायन्॥3.363॥


ता एता देवता सृष्टा स्तोमा छन्दांस्य् ऋतवो ग्रहाः। पृथग् एवैषाम् इमा श्रियो दीप्यमाना अतिष्ठन्, नान्योन्यस्य श्रेष्ठताया अतिष्ठन्त। ते ऽब्रुवन् न वा अन्यो ऽन्यस्य श्रेष्ठतायै तिष्ठामहै। एत तम् इच्छामहै यो न ईशाता इति। ते प्रजापतिम् एव जनयितारम् एत्याब्रुवन् न वा अन्यो ऽन्यस्य श्रेष्ठतायै तिष्ठामहै। तन् नस् सृजस्व यो न ईशाता इति। स प्रजापतिर् अब्रवीद् एतावद् वाव त्यस्मिंस् तेज इन्द्रियं वीर्यम् अभूद् यद् युष्मान् असृक्षि। ते वै संवत्सर तप्यध्वम्। ते मा संवत्सरं तप्त्वोपसमेत यद् एको ऽधिगच्छति यद् एको यद् एक इति। ते संवत्सरम् अतप्यन्त। तं संवत्सरं तप्त्वोपसमायन्। यद् एको ऽध्यगच्छद् यद् एको यद् एकस् तद् अस्य मन्यौ योनाव् असिञ्चन्। तत इन्द्रस् संभवत्। तद् एषाभ्यनूच्यते -
अश्वाद् इयायेति यद् वदन्त्य् ओजसो जातम् उत मन्य एनम्।
मन्योर् इयाय हर्म्येषु तस्थौ यः प्रजज्ञ इन्द्रो अस्य वेद॥
इति। मन्योर् इयायेति यद् अस्य मन्यौ योनाव् असिञ्चन्। हर्म्येषु तस्थाव् इति हृदयान्य् उ वै हर्म्याणि। हृदयो ह वै क्रुध्यति। ओजसो जातम् उत मन्य एनम् इति॥3.364॥


गौर्वीतं ह पप्रच्छुस् - त्वं ह वै ददर्शिथेन्द्रं जायमानम् इति। स हैतद् उवाच -
अश्वाद् इयायेति यद् वदन्त्य् ओजसो जातम् उत मन्य एनम्।
मन्योर् इयाय हर्म्येषु तस्थौ यतः प्रजज्ञ इन्द्रो अस्य वेद॥
इत्य् ओजसो ऽन्वाहं जातं मन्य इति होवाच। इन्द्रस् त्वेव तद् वेद यतस् स जात इति। स शिरो निर्हृत्य व्यैक्षत। स इदम् एषां सर्वं स्पृतम् अपश्यत्। सो ऽब्रवीद् यद् इदम् एषां सर्वं स्पृतं, कं लोकम् अभि जायै स वै नु मे प्रयच्छ। इमौ नु मे - ॥3.365॥


- वासन्तिकौ मासौ प्रयच्छेति। एतौ ते प्रयच्छानीत्य् अन्नम् अन्नम् इति पतित्वास्यै प्राच्यै दिशौ रथन्तरं भा आदत्त। तद् इतो ऽधत्त। एको द्वयोर् वीर्यं दत्ते य एवं वेद। तं पुनर् एव प्राविशत्। तम् अब्रवीज् जायस्वैवेति। सो ऽब्रवीत् स वै नु मे प्रयच्छेमौ नु मे ग्रैष्मौ मासौ प्रयच्छेति। एतौ ते प्रयच्छानीत्य् अन्नम् अन्नम् इत्य् एव पतित्वास्यै दक्षिणायै दिशो बृहद् भा आदत्त। तद् इतो ऽधत्त। ऐकश् चतुर्णां वीर्यं दत्ते य एवं वेद। तं पुनर् एव प्राविशत्। तम् अब्रवीज् जायस्वैवेति। सो ऽब्रवीत् स वै नु मे प्रयच्छेमौ नु मे वार्षिकौ मासौ प्रयच्छेति। एतौ ते प्रयच्छानीत्य् अन्नम् अन्नम् इत्य् एव पतित्वास्यै प्रतीच्यै दिशो वैरूपं भा आदत्त। तद् इतो अधत्त। ऐकष् षण्णां वीर्यं दत्ते य एवं वेद। तं पुनर् एव प्राविशत्। तम् अब्रवीज् जायस्वैवेति। सो ऽब्रवीत् स वै नु मे प्रयच्छेमौ नु मे शारदौ मासौ प्रयच्छति। एतौ ते प्रयच्छानीत्य् अन्नम् अन्नम् इत्य् एव पतित्वास्या उदीच्यै दिशो वैराजं भा आदत्त। तद् इतो ऽधत्त। ऐको ऽष्टानां वीर्यं दत्ते य एवं वेद। तम् पुनर् एव प्राविशत्। तम् अब्रवीज् जायस्वैवेति। सो ऽब्रवीत् स वै नु मे प्रयच्छेमौ नु मे हैमन्तिकौ मासौ प्रयच्छति। एतौ ते प्रयच्छानीत्य अन्नम् अन्नम् इत्य् एव पतित्वास्या ऊर्ध्वायै दिशश् शाक्वरं भा आदत्त। तद् इतो ऽधत्त। ऐको दशानां वीर्यं दत्ते य एवं वेद। तं पुनर् एव प्राविशत्। तम् अब्रवीज् जायस्वैवेति। सो ऽब्रवीत् स वै नु मे प्रयच्छेमौ नु मे शैशिरौ मासौ प्रयच्छेति। एतौ ते प्रयच्छानीत्य् अन्नम् अन्नम् इत्य् एव पतित्वास्यै दिशो रैवतं भा आदत्त। तद् इतो ऽधत्त। ऐको द्वादशानां वीर्यं दत्ते य एवं वेद। स ऐक्षत कथं न्व् इमान् ऋतून् गृह्णीयाम् इति॥3.366॥


ता उत्तानशय्याम् अपश्यत्। स शीर्ष्णैवमौ प्राञ्चाव् अगृह्णाद्, बाहुभ्या् इमान् नाना, पद्भ्यां प्रत्यञ्चाव्, उरसोर्ध्वौ, प्रष्टिभिर् अवाञ्चौ। तान् एवं गृहीत्वाधस्तात् पर्यौहत। स एष ऋतुषु च संवत्सरे चैतस्या श्रियाम् अध्यूढस् तपति। तं पुनर् अनेन सह सर्वेण प्राविशत्। तम् अब्रवीद् एकं वाव त्वाग्रे नाशकम् उद्यन्तुम्। न वै त्वानेन सह सर्वेण शक्ष्याम्य् उद्यन्तुं , जायस्वैवेति। तस्मिन्न् आपस् सिंसिमायत् पर्यपश्यत्। सो ऽब्रवीत् स वै नु मे प्रयच्छेमा नु म अपः प्रयच्छाथ जनिष्य इति। तस्मै षट् सहस्राण्य् अपां प्रायच्छत्। तस्यैष श्लोको -
न ता अन्यः प्र तरति नैनाव् इष्णातुम् अर्हति।
वहन्त्य् अस्मिन् सर्वतो मधु क्षीरं घृतं दधि षट् सहस्राण्य् अम्बयाः॥
इति। इमा ह वै ता अम्बया नामैता एव दिशः। एता एवास्मै सहस्रं सहस्रं क्षरन्त्य्, एता एवैनं तर्पयन्ति। सो ऽजायत। तं जातम् उपामद्त - तेजो ऽजनीन्द्रियम् अजनि वीर्यम् अजनि ब्रह्माजनि क्षत्रम् अजनि सप्तानां पशूनां यन्ताजनि सप्तानी दिशां धर्ताजनि जातो ऽजनि जनिताजनि जानित्रिर् अजनीति। अपि हात्मानम् अपामादयज् जानित्रिर् इत्य् उवाच। उपमाद्यो ह भवति य एवं वेद। तस्मै जातायैतां राजासन्दीं न्यदधुः। तस्याम् एनम् अभ्यषिञ्चन्त॥3.367॥


वसवो राज्याय रुद्रा वैराज्यायादित्या स्वाराज्याय विश्वे देवा साम्राज्याय मरुतस् सार्ववश्याय साध्याश् चाप्त्याश् च पारमेष्ठ्याय। तम् एवं सन्तं पिता प्रजापतिर् अभ्येवाशयत्। स वसून् अब्रवीद् इमं मे प्रयच्छतेति। ते ऽब्रुवन् न शक्ष्यामः पितरं प्रजापतिं हिंसितुम् इति। रुद्रान् अब्रवीन् , नाकामयन्त। आदित्यान् अब्रवीन्, नाकामयन्त। विश्वान् देवान् अब्रवीन्, नाकामयन्त। साध्यांश् चाप्त्यांश् चाब्रवीन्, नावैकामयन्त। अथ मरुतो ऽब्रवीत् किम् अस्माकम् तत स्याद् इति। यन् म इदं निष्केवल्यं माध्यन्दिनं सवनं तन् मे युष्माभिस् साधारणं भविष्यतीति। तथेति। तम् अस्मा अभिप्रद्य प्रायच्छन्। तस्यैतच् चन्द्रं मे चन्द्रं म इत्य् एव वदत एतत् तेज आदत्त येनैष एतत् तपति। स यच् चन्द्रं म इत्य् अब्रवीत् तस्माच् चन्द्रमाः। तस्य ह स्म यत् स पुनः पुनर् आदत्ते स ह स्म तादृश एव परिशिष्यते। तस्माद् एतस्याप्य् अद्यास्त्य् एवाभा। यथैष एतद् दिवा तपत्य् एवम् एष रात्रिं भाति। तम् अवैद् अक्षय्यो वा अयम् इति। तम् उदार्जत। तम् अब्रवीन् - मा मा त्वं ततः प्रत्यातप्सीर् इति। नेत्य् अब्रवीत् प्रत्य् एव त्वातप्स्यानीति। तस्माद् एतम् उभयोर् अहोरात्रयोः पश्यन्ति। प्रति हैनं तद् आतपन्ति। तौ हैतौ पितापुत्राव् एव यच् चन्द्रमाश् चादित्यश् च। पिता चन्द्रमा, आदित्यः पुत्रः। परश् चन्द्रमा, अपर आदित्यः। तौ हैतौ सर्वासां देवतानां श्रेष्ठतां गतौ। तद् यथैतौ सर्वासां देवतानां श्रेष्ठतां गताव् एवम् एव स्वानां श्रेष्टतां गच्छति य एवं वेद। इत्य् अधिदेवतम्। अथाध्यात्मम्। अयम् एव चन्द्रमा, अयम् आदित्यः। तद् व् एवम् अध्यात्मम् उपासितव्यम्। तद् व् एव भृगुचक्षुषम्। स यं द्विष्यात् तं ब्रूयाद् भृगुचक्षुषेण त्वेक्ष इति। न हैव भोग्य इव भवति॥3.368॥


छन्दांसि यद् अयजन्त तेषां बृहत्य् एवोदगायत्। अथ याव् एता उत्तरौ प्रगाथौ तौ प्रस्तोतृप्रतिहर्ताराव् आस्ताम् । अमितच्छन्दो गृहपतिर्, विराड् ब्रह्म, गायत्री मैत्रावरुणा, जगती होता, पंक्तिर् अध्वर्युः। तस्य यत् पञ्चमं पदं स प्रतिप्रस्थाता त्रिष्टुब् ब्राह्मणाच्छंस्य्, उष्णिक्ककुभौ छन्दसी नेष्टापोताराव्, अनुष्टुब् अच्छावाको, द्विपदोन्नेता, अक्षरपंक्तिर् ग्रावस्तुद्, एकपदा सुब्रह्मण्यो, ऽतिच्छन्दा आग्नीध्रः। गायत्रेयस् स एष सर्वछन्दा यज्ञो यद् द्वादशाहः। एतैर् ह सर्वैश् छन्दोभिर् द्वादशाहस् तायते। एतान्य् एव सर्वाणि छन्दांसि द्वादशाहे क्रियन्ते। तस्माद् यद् एतेषु छन्दस्सूपहवम् इच्छेत, अथर्त्विक्षूपहवम् इच्छेत। यदो यजत एतान्य् एव छन्दांसि भूतो यजते। यदो याजयत्य् एतान्य् एव छन्दांसि भूतो याजयति। तस्य हैतस्य नैव का चनार्तिर् अस्ति य एवं वेद। य एवैनम् उपवदति स आर्तिम् आर्च्छति॥3.369॥


तद् आहुः कस्मिन् स्तोमे कस्मिंश् छन्दसि कस्यां देवतायां द्वादशाहो ऽन्ततः प्रतिष्ठित इति। स ब्रूयात् त्रिवृति स्तोमे, गायत्र्यां छन्दस्य्, अग्नौ देवतायां, द्वादशाहो ऽन्ततः प्रतिष्ठित इति। त्रिवृता ह्य् एव स्तोमेन प्रयन्ति गायत्र्या छन्दसाग्निना देवतया। तैर् उ एवोद्यन्ति। तद् आहुः क स्तोम एकः, किं छन्द एकं का देवतैका द्वादशाहं वहतीति। स ब्रूयात् त्रिवृत् स्तोम एको, गायत्री छन्द एकं, वाग् देवतैका द्वादशाहं वहतीति। त्रिवृतो ह्य् एव सर्वे स्तोमाः प्रजाता, गायत्र्यास् सर्वाणि छन्दांसि। वाग् देवतैका द्वादशाहं वहति। तद् आहुः क स्तोमः किं छन्दः, का देवता द्वादशाह इति। स ब्रूयाद् एकविंश स्तोमो विराट् छन्द आदित्यो देवता द्वादशाह इति। आदित्यो ह्य एवैकविंश, आदित्यो विराड्, आदित्यो देवता द्वादशाहः। तद् आहुर् यत्साम द्वादशाहस् स साम इदं सर्वम्। कस् साम्न स्तोभः किं पदं किम् अक्षरम् इति। स ब्रूयाद् आदित्य एव साम्न स्तोभो, ऽन्तरिक्षं पदं, वाग् अक्षरम् इति। तद् आहुः क स्तोभस्य स्तोभः, किं पदस्य पदं, किम् अक्षरस्याक्षरम् इति। स ब्रूयाच् चक्षुर् एव स्तोभस्य स्तोभो, मन एव पदस्य पदं, प्राण एवाक्षरस्याक्षरम् इति॥3.370॥