जैमिनीयं ब्राह्मणम्/काण्डम् ३/३४१-३५०

विकिस्रोतः तः
Jump to navigation Jump to search

एका ह वाव देवता स्वयंभूः प्रजापतिर् एव। सो ऽकामयत बहु स्यां प्रजायेयेति। सो ऽस्मिन् लोके त्रिवृता स्तोमेन देवान् असृजत वसून्। तम् अभि समपतन्। स्वादु स्वादुर् इति तम् आदन्। तम् अधयन् यथा वत्सो जातो मातरं धयेद् एवम्। स ऐक्षत यदि वा इह भविष्यामि क्षेष्यन्ति मा, हन्तोर्ध्व उत्क्रामाणीति। स उ वा ऐक्षत हन्तो नु संसृजेय यं मां मन्यमाना यं पश्यन्तीर् इमा इहोपरमेरन्न् इति। सो ऽग्निम् असृजत॥3.341॥

तम् अस्मिन् लोके प्रतिनिधाय पञ्चदशेनोर्ध्व उदक्रामत्। सो ऽगच्छद् यत्रैष वायुः। तत् तद् व् असृजतो एव रुद्रान्। अन्व् इमे समगच्छन्न् अभ्य् अभी समपतन्। तम् अत्तुम् एवाध्रियन्त। स ऐक्षत हन्तोर्ध्व एवोत्क्रामाणीति। स वायुम् एवैतस्मिन् लोके प्रतिनिधाय सप्दशेनोर्ध्व उदक्रामत्। सो ऽगच्छद् यत्रैष चन्द्रमाः। तत् तद् व् असृजतो एवादित्यान्। अन्व् इमे समगच्छन्न् अभ्य् अभी समपतन्। तम् अत्तुम् एवाध्रियन्त। स ऐक्षत हन्तोर्ध्व एवोत्क्रामाणीति॥3.342॥

स चन्द्रमसम् एवैतस्मिन् लोके प्रतिनिधाय एकविंशेनोर्ध्व उदक्रामत्। सो ऽगच्छद् यत्रैष आदित्यः। तत् तद् व् असृजतो एव विश्वान् देवान्। तद् अन्तम् असृजतान्व् इमे समगच्छन्न् अभ्य अमी समपतन्। तम् अत्तुम् एवाध्रियन्त। स ऐक्षत हन्तोर्ध्व एवोत्क्रामाणीति। स आदित्यम् एवैतस्मिन् लोके प्रतिनिधाय त्रिणवेनोर्ध्व उदक्रामत्। सो ऽगच्छद् यत्रैष वरुणः। तेत् तन् नासृजत। तम् अन्व एवागच्छन्। तम् अत्तुम् एवाध्रियन्त। स ऐक्षत हन्तोर्ध्व एवोत्क्रामाणीति॥3.343॥

स वरुणम् एवैतस्मिन् लोके प्रतिनिधाय त्रयस्त्रिंशेनोर्ध्व उदक्रामत्। सो ऽगच्छद् यत्रैष मृत्युः। तत् तन् मृत्युर् अभवत्। तद् अङ्गानि मुखम् अकुरुत। तं मृत्युं सर्वतोमुखं भूतम् अन्वागत्योपेक्षमाणा एवासत, अनभिधृष्णुवतीः। नैनं तत्रादन्। स ऐक्षत पाप्मा वा अस्मि यो मृत्युर् ऽस्मि। हन्तोर्ध्व एवोत्क्रामाणीति। स मृत्युम् एवैतस्मिन् लोके प्रतिनिधाय चतुर्विंशेनोर्ध्व उदक्रामत्। सो ऽगच्छद् यत्रैष रोचनो नाम लोकः। तत् तद् अशनयाभवत्। तम् अशनायां भूतं बिभ्यतीर् नान्वायन्। अन्वीक्षमाणा एवातिष्ठन्न् असौ रोचते ऽसौ रोचतेति। सास्य रोचनता। स ऐक्षत पाप्मा वा अस्मि यो ऽशनया अस्मि। हन्तोर्ध्व एवोत्क्रामाणीति। सो ऽहोरात्रे प्रतिन्यदधात्। ते एव पिपासा चाशनाया चाभवताम्। अहर् ह पिपासा, रात्रिर् अशनाया। तद् यथा द्वारफलके प्रतिनिहिते स्याताम् एवम् एवैते ऽहोरात्रे प्रतिनिहिते अनत्ययनाय। ते उ ह त्व् एवंविदम् एवात्यर्जयतः॥3.344॥

सो ऽहोरात्रे एवैतस्मिन् लोके प्रतिनिधाय चतुश्चत्वारिंशेनोर्ध्व उदक्रामत्। सो ऽगच्छद् यत्रैष कामो नाम लोकः। तत् तच्छन्दन्नाद्या अन्तरेण नदीर् असृजतैतस्य पाप्मनो ऽन्वागमाय। ता उ एव कामदुघा अकुरुत। स ऐक्षत हन्तोर्ध्व एवोत्क्रामाणीति। सो ऽष्टाचत्वारिंशेनोर्ध्व उदक्रामत्। सो ऽगच्छद् यत्रैष सुवर् नाम लोकः। तत् तस्मिन् ज्योग् अरमत बह्व् अस्य स्वं भवतीति। सास्य सुवता। स ऐक्षत हन्तेभ्यो लोकेभ्य एकं लोकं संभराणीति। स एभ्यो लोकेभ्य एकं लोकं समभरत्। तद् एवैतद् द्वादशाहस्य दशमम् अहर् अभवत्। सो ऽब्रवीन् न वै म इदम् अकम् अभूद् इति। यद् अब्रवीन् न वै म इदम् अकम् अभूद् इति तन् नाकस्य नाकत्वम्। स एष वाव नाको यद् दशमम् अहर्, एष स्वर्गो लोक, एतद् ब्रध्नस्य विष्टपम्॥3.345॥

तद् यथा वृक्षं वा गिरिं वाधिरुह्य व्यवेक्षेतैवम् एवैतस्माल् लोकाद् अन्यान् लोकान् व्यवेक्षते। स इमाः प्रजा अशनायन्तीः प्रत्यवैक्षत। ता द्वाभ्यां रूपाभ्यां प्रत्याद्रवन् नीलेन च सुवर्णेन च। तद् यत् पर्जन्यस्य वर्षिष्यतः कृष्णं तन् नीलम्। अथ यद् अप्स्व् अन्तर् विद्योतते तत् सुवर्णम्। ताभ्यो ऽवर्षत्। तत ओदनो ऽजायत। तम् अशित्वोदानन्। स उदनो ऽभवत्। तद् उदनस्योदनत्वम्। उदनो ह वै नामैष। तम् ओदन इति परोक्षम् आचक्षते। द्वितीयं ज्यायो ऽन्नाद्यम् अजायत। तद् अभिसंपद्य व्यमथ्नत। स मन्थो ऽभवत्। तन् मन्थस्य मन्थत्वम्। तद् एतद् द्वयम् एवान्नाद्यस्य रूपं यच् चैवाश्नाति यच् च पिबति। यद् अश्नात्य् ओदनस्य तद् रूपं, यत् पिबति मन्थस्य तत्। उभयं हास्यैतद् गृहे ऽधिगम्यते य एवं वेद। तौ हैतौ प्रजापतेर् एव स्तनौ यद् व्रीहिश् च यवश् च । ताभ्याम् इमाः प्रजा बिभर्ति॥3.346॥

स उपोदको नाम लोको यस्मिन्न् अयम् अग्निः। अथर्तधामा यस्मिन् वायुः। अथ शिवो यस्मिंश् चन्द्रमाः। अथापराजितो यस्मिन्न् आदित्यः। अथाधिद्युर् यस्मिन् वरुणः। अथ प्रद्युर् यस्मिन् मृत्युः। अथ रोचनो यस्मिन्न् अशनाया। अतो ह पराचीनम् अहोरात्रे नान्वितस् सकृद् विष्टा हैवातः पराचीनं यथा विद्युतोवरूपं स्याद् दार्वाचितानां वा समिद्धानाम् एवम्। अथ हैते प्रजापतिलोका एवात ऊर्ध्वाः। कामो ऽष्टमस्, सुवर् नवमो, नाक एव दशमम् अहः। इदम् एव प्रायणम् अद उदयनम्। ते हैते लोका एवैतानि द्वादशाहस्याहानि। स य एतद् एवं वेदैते हैवास्य लोका भवन्ति॥3.347॥

उपोदको नाम लोको ऽन्ने विष्टो, मनुष्या गोप्तारो, अग्निर् अधिपतिर्, यद् अर्चिषो रूपं तद् रूपम्, अप्सु प्रतिष्ठितः। ऋतधामा नाम लोको वयोभिर् विष्टो, गन्धर्वाप्सरसो गोप्तारो, वायुर् अधिपति, श्वेतं रूपं प्राणे प्रतिष्ठितः। अपराजितो नाम लोको नक्षत्रैर् विष्टश्, चन्द्रमा गोप्ता, आदित्यो ऽधिपतिर्, यद् उद्यतश् च सूर्यस्य रूपम् अस्तं च यतस् तद् रूपं, मनसि प्रतिष्ठितः। अधिद्युर् नाम लोके यज्ञे विष्ट, आदित्या गोप्तारो, वरुणो ऽधिपतिर्, नीलं रूपं यत् पर्जन्यस्य वर्षिष्यतः कृष्णं तन् नीलं, यद् वा कार्तस्वरस्य मणेर्, अनृते प्रतिष्ठितः। प्रद्युर् नामक लोको ऽमृते विष्टो, रुद्रा गोप्तारो, मृत्युर् अधिपतिर्, लोहितं रूपं यद् गौरवछदायै यद् वा माहारोहणस्य वासस, ऋते प्रतिष्ठितो यन् नार्च्छति तस्मिन्। रोचनो नाम लोकस् तपसि विष्टो, वसवो गोप्तारस् - ते हि प्रथमे देवानाम् इयुस् तस्मात् ते परार्ध्या -- , यज्ञो ऽधिपतिर्, यत् सुवर्णस्य हिरण्यस्य रूपं तद् रूपं, सत्ये प्रतिष्ठितः। एते वै लोका, एते गोप्तार, एते ऽधिपतयः। एते हैवास्य लोका, एते गोप्तार, एते ऽधिपतयो भवन्ति य एवं वेद॥3.348॥

प्रजापतिर् देवान् असृजत। सह श्रिया वाचा च वा एनांस् तत् सहासृजतान्नेन च सहाद्भिः। ते देवा अन्नं श्रियं वाविदानाना वाचा यत् सधमादम् इवैवासन्न् - अन्नं हि श्रीस् - सो ऽशोचत्। स ऐक्षत कथं न्व् अहम् एषाम् इमा श्रियस् संवृञ्जीयेति। तान् मनो भूत्वानुप्राविशत्। तेषां सर्वां श्रियं निरचिनोद् यथा बदराणि निश्चिनुयाद् एवम्। तेषां मनसा वाचम् अगृह्णात्। सैषा मनसा वाग् गृहीताप्य् अद्य। यद् ध्य् एव मनसा कामयते तद् वाचा वदति। स ऐक्षत केन न्व् एषां रूपेण वाचम् आददीयेति। स पुरुषरूपम् अकुरुत। तेषां पुरुषरूपेण वाचम् आदत्त। तस्मात् पुरुषस् सर्वा वाचो वदति। स इमा अपस् संगृह्योर्ध्व उदक्रामत्। सो ऽगच्छद् यत्रैष ऋषभो नामान्नलोकः। तद् अन्नं वा ऋषभः। यदा वा अश्नात्य् अथर्षभ्यति। स ऐक्षत किं नु तद् रूपं कुर्वीय यन् मे ऽन्यो नाभ्यारोहेद् इति। सो ऽजः पृश्निर् अभवत्। तस्माद् अजं पृश्निं नाधिगच्छाम। तद् यास् ता अपो ऽहरद् या एता उपर्य् आप, एता एव ताः। अथ यां तां वाचम् अहरद्, य एष उपरि स्तनयित्नुर्, एषैव सा वाग् अथ यो ऽप्स्व् अन्तर् विद्योतते। स इमाः प्रजा अशनायन्तीः प्रत्यवैक्षत --॥3.349॥

-- अन्धे तमसि जल्पन्तीः। सो ऽस्यै वाच एकम् अक्षरम् अवच्छिद्य वाग् इति व्यसृजत। तम् पतित्वैषां लोकानां मध्ये व्यरमत। तद् एतन् मण्डलम् अभवत्। तद् अन्वानैत्। स प्राणो ऽभवत्। ताभ्यो व्यौच्छत्। अशनायंस् त्व् एव स आसाम् अपाम् एकं स्तोकं प्राश्च्योतयत् कियत् स्विद् आभ्यो ऽलं भविष्तीति। स दशधाभवच् छतधा सहस्रधा यावतीयं पृथिवी तावान् अभवत्। तद् अभिसंपद्य व्यमथ्नत। स मन्थो ऽभवत्। तन् मन्थस्य मन्थत्वम्। तम् अशित्वोदानन्। स उदनो ऽभवत्। तद् उदनस्योदनत्वम्। तद् एतद् द्वयम् एवान्नस्य रूपं यच् चैव पिबति यच् चाश्नाति। यत् पिबति मन्थस्य तद् रूपं यद् अश्नात्य् ओदनस्य तत्। उभयं हास्यैतद् गृहे ऽधिगम्यते यच् चैव पिबति यच् चाश्नाति य एवं वेद। तद् आहुस् - त्रय स्तोका आगच्छन्तीत्य् उदस्तोको घृतस्तोको मधुस्तोकः। ततो य उदस्तोक इमां स प्रविशत्य्, ओषधीर् घृतस्तोको, वनस्पतीन् मधुस्तोकः। तद् धैतं मीमांसांचक्रुर् आमलक अकूवयेयो ऽहीना आश्वत्थिः केशी दार्भ्यः - किं स्तोकं त्वम् आगच्छन्तं मन्यसे, किं स्तोकं त्वं, किं स्तोकं त्वम् इति। स होवाच केशी - घृतस्तोकम् अहं मन्य इति। अथ होवाचाहीना - मधुस्तोकम् अहं मन्य इति। अथ होवाचामलक - उदस्तोकम् अहं मन्य इति। तस्मिन्न् उ हैव संपादयांचक्रुः। उदकाध्य् एवेदं सर्वं जायते। तद् यां तां वाचं व्यसृजत सो ऽग्निः। अथ यं तं प्राणम् अन्वानैत् स इन्द्रः। अथ यस् स प्रजानां जनयित ऋषभे ऽन्न्लोके ऽप्स्व् अन्तः - ॥3.350॥