जैमिनीयं ब्राह्मणम्/काण्डम् ३/३३१-३४०

विकिस्रोतः तः
Jump to navigation Jump to search

यस्माद् एषा समाना सती षडहविभक्तिर् अथ नाना भवति, तस्मान् नानारूपस् संवत्सरो नानारूपम् एनम् अनु प्रजायते। अग्न इति प्रथमस्याह्नो विभक्तिर्, अग्निम् इति द्वितीयस्याग्निनेति तृतीयस्याग्निर् इति चतुर्थस्याग्नेर् इति पञ्चमस्याग्न इत्य् एव पुनष् षष्ठस्य। ताव् एताव् अन्तौ संधत्त। एतद् अन्व् अनन्तस् संवत्सरः। तस्यैताव् अन्तौ यद् धेमन्तश् च वसन्तश् च। एतद् अनु ग्रामस्यान्तौ समेत, एतद् अनु निष्कस्यान्तौ समेत, एतद् अन्व् अहिर् भोगान् पर्याहृत्य शये। तद् एतद् अन्नम्। तं देवचक्रम् अक्षितं पुनर्नवम् आ च परा च परिवर्तते। स य एतद् एवं वेदैताम् एवानन्तताम् एताम् अक्षितिम् एतां पुनर्नवताम् जयति। अग्न आ याहि वीतय इति ह्वयन्त्य् एवैनम् एतेन, अग्निं दूतं वृणीमह इति वृणत एवैनम् एतेन। अग्निनाग्निस् सम् इध्यत इति सम् एवैनम् एतद् इन्धते। अग्निर् वृत्राणि जंघनद् इति व्य् एवैनेनैतज् जयन्ते। तव श्रियो वर्ष्यस्येव विद्युत इति श्रियम् एवास्मिन्न् एतद् दधति। यो वै षष्ठस्याह्नो विभक्तिं वेद सर्वम् आयुर् एति। जातवेदस इति वै षष्ठस्याह्नो विभक्तिर् अग्न इति च। सर्वम् आयुर् एति य एवं वेद॥3.331॥

देवा वै पृष्ठ्ये षडहे श्रियम् ऐच्छन्। ताम् अग्न इति प्रथमे ऽहन् नान्वविन्दन्। ताम् अग्निम् इति द्वितीय ऽहन् नान्विन्दन्। ताम् अग्निनेति तृतीये ऽहन् नान्वविन्दन्। ताम् अग्निर् इत्य् एव चतुर्थे ऽहन्न् अन्विन्दन्। भूतम् एवोत्तरे ऽन्ववदताम्। यस्माद् एषा समाना सत्य् अग्निविभक्तिर् अथ नाना भवति, तस्मात् समानस् सन् संवत्सरो नाना सस्यानि पचति। एतैर् ह वा एतद् अग्निभिः पचति य एते प्रविष्टाः। अथो हास्यैतैर् एवाग्निभिस् सर्व ऋतवो ऽग्निमन्तो भवन्ति। प्रसृतेळा प्रथमस्याह्न, ऊर्ध्वेळं द्वितीयं, परिष्टुब्धेळं तृतीयम्, इळाभिर् इळं चतुर्थम्, अध्यर्धेळं पञ्चमम्, इहकारेणाभ्यस्तेळं षष्ठं च। अथो ह वास्यस्को नैमिशीयान् पप्रच्छ - किं प्रथमेनाह्ना कुरुध्वम् इति। प्रैमेति। किं द्वितीयेनेति। अवसं कुर्महा इति। किं तृतीयेनेति। परि वा प्लवामहा इति। किं चतुर्थेनेति। सता सद् अप्यदध्मेति। किं पञ्चमेनेति। पशून् विच्छिन्दन्त ऐमेति। किं षष्ठेनेति। आगच्छामेति होचुः। अथो तेभ्य एवैतत् पशुभ्यो भिषज्यामेति। तद् यत् प्रैमेति प्रव वा एतत् सार्यते यत् प्रैति। प्रसृतेळा प्रथमस्याह्नः॥3.332॥

अथ यद् अवसं कुर्म इत्य् उपरत्येव वा उपविमुच्येवावसं कुर्वते। उपरत्येव हि द्वितीयस्याह्न इळा निधनं गच्छति। अथ यत् परि वा प्लवामहा इति परिप्लुत्येव हि तृतीयस्याह्न इळानिधनं गच्छति। अथ यत् सता सद् अप्यदध्मेतीळाभिर् इळाः पशुभिः पशूंस् तत्। तद् एतत् सता सद् अपिहितम्। अथ यत् पशून् विच्छिन्दन्त ऐमेति विच्छिन्नेव वा एषा यद् अध्यर्धेळान्नकृता। पशवो वा इळा। तस्मात् पशून् विच्छेदं विकारं भुञ्जते। अथ यद् आगच्छामेतीहेत्यस्याम् एवैतत् प्रत्यतिष्ठन्। अथो तेभ्य एवैतत् पशुभ्यो भिषजितम्। यस्माद् एषा समाना सतीळाविभक्तिर् अथ नाना भवति, तस्मान् नानारूपाः पशवः। नानारूपम् एनान् अनु प्रजायते। यद् ऋचारभते तत् प्रथमस्याह्नो रूपम्। परिष्टुब्धं द्वितीयस्योभयतःपरिष्टुब्धं तृतीयस्यानुतुन्नं चतुर्थस्याभ्यस्तं पञ्चमस्येहकारेणाभ्यस्तं षष्ठस्य। यस्माद् एषा समाना सती स्वरविभक्तिर् अथ नाना भवति तस्माद् अयं वायुर् यथर्तु पवत - शीतो हेमन्तम्, उष्णो ग्रीष्मम्। इन्द्रेति प्रथमस्याह्नो विभक्तिर् इन्द्रम् इति द्वितीयस्येन्द्रेणेति तृतीयस्येन्द्र इति चतुर्थस्येन्द्राद् इति पञ्चमस्येन्द्र इत्य् एव पुनष् षष्ठस्य। यस्माद् एषा समाना सतीन्द्रविभक्तिर् अथ नाना भवति तस्माद् असाव् आदित्यो यथर्तु तपति - शीतो हेमन्तम्, उष्णो ग्रीष्मम्॥3.333॥

इति हैवेदम् अग्र आस। तद् अकामयत (बहु) स्यां प्रजायेय भूमानं गच्छेयम् इति। तन् मनो अमनुत। तस्य द्वितीयं वित्वावितराह्वयम् ऐत। तस्माद् द्वितीयं वित्वावितराह्वयम् एति। तद् अनेन मनसा सहातप्यत। मनो ह वाव तपः। तत् तप्यमानं वाचम् असृजत। ताभ्याम् अस्तुत स्तो मे स्तो म इति। यत् स्तो म इत्य् अब्रवीत् तत् स्तोमस्य स्तोमत्वम्। स्तुवत एनेन स्वा अयं न श्रेष्ठ इति य एवं वेद। ताव् एवैतौ स्तोमाव् अभवतां पराङ् च पूर्वाङ् च। तौ प्राणापानौ, ते ऽहोरात्रे, तौ पूर्वपक्षापरपक्षौ, ताव् इमौ लोकौ, ताव् इन्द्राग्नी, तौ मित्रावरुणौ, ताव् अश्विनौ, तद् दैव्यं मिथुनं, यद् इदं किं च द्वन्द्वं तद् अभवताम्। तौ ह स्म प्रजापताव् एवान्तस् संभवतः। तद् इदं मनो वाचम् अस्कन्दत्। स हिरण्मयो गर्भो ऽधीयतामृतः। एष वै मृत्युर् यद् अग्निः। तस्मिन् यद् धिरण्यं प्रास्यन्ति कल्याणतरं भवति। सो ऽयं गर्भो ऽजायत। तं जातम् अमृजन् यथा वत्सं जातं माता लिह्याद् एवम्॥3.334॥

तस्य यत् प्रथमम् उल्बम् अपालुम्पंस् तत् कृष्णायस् समभवत्। यद् द्वितीयम् उल्बम् अपालुम्पंस् तद् रजतम् अभवत्। यत् तृतीयम् उल्बम् अपालुम्पंस् तद् धरितम् अभवत्। तस्मात् तत् त्विषिमत्तमम्। तत् तद् ध्य् अस्याध्यात्मम् आसीद् अथ यज् जरायु नाड्याम् आसीत्। तल् लोहम् अभवत्। अथ यत् कुमारो जायमानो वा जातो वा सीसवं करोति तद् एव सीसम् अभवत्। तस्मात् तद् दुर्गन्धितमम्। तानि सप्तदशैवाक्षराण्य् अजायन्त। तानि द्वेधा व्यौहन् नवान्यान्य् अष्टाव् अन्यानि। स एव त्रिवृच् च स्तोमो ऽभवत् गायत्री च छन्दः। स ऐक्षतायं स्तोम इदं छन्द इमौ वाव तस्मा अलं यत् प्रजनयेताम्। हन्तेमाव् एव प्रजनयतम् इति ब्रवाणीति। स त्रिवृता स्तुत्वाब्रवीद् गायत्रीं - विभव, यावत्य असि तावत्य् एधीति। साष्टाक्षरा सत्य् अक्षराणि त्र्यक्षराण्य् अकुरुत। तानि चतुर्विंशतिर् अभवन्। सो ऽस्यै गायत्र्यै चतुर्विंशत्यक्षरायै षड् अक्षराण्य् आदत्त॥3.335॥

स पञ्चदश स्तोमो ऽभवत्। अपरे द्वे आदत्त। स सप्तदश स्तोमो ऽभवत्। अपराणि चत्वार्य् आदत्त। स एकविंश स्तोमो ऽभवत्। तद् अर्धेन गायत्री विषुवन्तम् अगच्छत्। अपराणि षड् आदत्त। स त्रिणव स्तोमो ऽभवत्। अपराणि षड् आदत्त स त्रयस्त्रिंश स्तोमो ऽभवत्। सो ऽतः पराचीनं न प्राविन्दत्। स ऐक्षतेमान्य् एव वीर्याणि संस्तुतानि प्रत्यपधावानि द्वे द्वे ऽहनी समस्यानीति॥3.336॥

स त्रिवृच् च पञ्चदशं च समास्यत्। तद् एव चतुर्विंशं सप्तमम् अहर् अभवत् गायत्री छन्दसाम्। तस्माद् अत्रोभे बृहद्रथन्तरे क्रियेते। उभो ह्य् एतौ बार्हतराथन्तरौ स्तोमौ। रथन्तरं वै मात्रायाम् अत्र स्याद्, अथ बृहत् पृष्ठं क्रियते। सप्तदशं च त्रिणवं च समास्यत्। तद् एव चतुश्चत्वारिंशम् अष्टमम् अहर् अभवत् त्रिष्टुप् छन्दसाम्। तस्माद् अत्र रथन्तरं पृष्ठं क्रियते। उभौ ह्य् एतौ राथन्तरौ स्तोमौ। बृहद् वै मात्रायाम् अत्र स्याद्, अथ रथन्तरं पृष्ठं क्रियते। एकविंशं च त्रयस्त्रिंशं च समास्यत्। ततष् षड् अक्षराण्य् अत्यरिच्यन्त। अथ यान्य् अष्टाचत्वारिंशत् पर्यशिष्यन्त तद् एवाष्टाचत्वारिंशं नवमम् अहर् अभवत्, जगती छन्दसाम्। तस्माद् अत्र बृहत् पृष्ठं क्रिय ते। उभौ ह्य् एतौ बार्हतौ स्तोमौ, रथन्तरं वै मात्रायाम् अत्र स्याद्, अथ बृहत् पृष्ठं क्रियते॥3.337॥

तानीमानि षडक्षराण्य् अभिहिङ्करोत्। ततष् षण् णिरमिमीत। तानि द्वादशाभवन्। तानि पुनर् एवाभिहिंङ्करोत्। ततष् षण् णिरमिमीत। तान्य् अष्टादशाभवन्। तानि पुनर् एवाभिहिंङ्करोत्। ततष् षण् णिरमिमीत। तानि चतुर्विंशतिर् अभवन्। तद् एव चतुर्विंशं दशमम् अहर् अभवद् अनुष्टुप् छन्दसाम्। तस्माद् उ त्रिहिंकृतं साम। तद् आहुर् अति त्रिवृतं स्तोमा यन्ति, न गायत्रीं छन्दांसीति। नाहैव त्रिवृतं स्तोमा अतियन्तीति ब्रूयान् नो गायत्रीं छन्दांसीति। त्रिप्रायणा हि स्तोमास् त्रिमध्यास् त्र्युदयाः। एतद् उ गायत्रीं सर्वाणि छन्दांसि नातियन्ति। तद् एतद् त्रिवृतश् चैव स्तोमस्य पुष्टं गायत्र्यै छन्दसो यद् एष द्वादशाहः। तद् ब्रह्म वै गायत्री। क्षत्रं त्रिवृत्। यत् स वज्रस् तेन क्षत्रम्। तद् एतत् ब्रह्म च क्षत्रं चैष द्वादशाहः। तद् उ वा आहुर् ब्रह्म वै त्रिवृद्, ब्रह्म गायत्री, ब्रह्मैष द्वादशाहो, ब्रह्मैवैष सर्वो द्वादशाह इत्य् एव वेदितव्यम्। तस्यैतौ श्लोकौ -
चत्वारो ऽग्रे प्र वहन्ति युक्तास् ते षड् भवन्ति परमे व्योमन्।
ते द्वौ द्वौ भूत्वा प्र पतन्ति पक्षैस् ते ऽस्मिन् कस्मिन् प्रतितिष्ठन्ति गत्वा॥
द्वौ स्तोमौ गायत्रीं वसाते द्वौ त्रिइष्टुभं जगतीं द्वौ वसाते।
तेभ्यो महत् प्र रिरिचेति षड्भ्यस् तस्मिन् सर्वे प्रतितिष्ठन्ति गत्वा॥3.338॥

प्रजापतिर् वावेदम् अग्र आसीत्। सो ऽकामयत बहु स्यां प्रजायेय भूमानं गच्छेयम् इति। स तपो ऽतप्यत। स एतं व्यूढछन्दसं द्वादशाहं यज्ञम् अपश्यत् । तम् आहरत्। तेनायजत। तं व्यौहत्। यद् व्यौहद् अङ्गान्य् एव तद् व्यौहत्। तस्य यानि शरीराण्य् आसंस् ता एवेमा मर्त्यः प्रजा अभवन्। अथात्मा मनोमयस् समभवत्। तस्य मनश् शरीरं प्राणा अभि समविशन्। स व्यूढ इवासीत्। स देवान् अब्रवीत् शरीरं म इच्छतेति। कथं त इच्छाम इति। समूढछन्दसा द्वादशाहेन याजयतेति। तथेति। तं समूढछन्दसा द्वादशाहे(ह?)नायाजयन्। तद् यत् समौहन्न् अंगान्य् एवास्य तत् समौहन्॥3.339॥

स मनोमयः प्राणमयश् चक्षुर्मय श्रोत्रमयो वाङ्मय ऋङ्मयो यजुर्मयस् साममयो ब्रह्ममयो हिरण्मयो ऽमृतः प्रजापतिस् समभवत्। एषैव विद्युत्। स एष एव त्रयो वेदः। योर्ध्वा विद्युत् तानि सामानि, या तिरश्ची ता ऋचो, यद् अभीक्ष्णं मन्मलायति तद् यजुः। स य एतद् एवं वेदैषैव देवता भवति। एषा ह वै देवता संस्तुतो यज्ञो भवति। तद् यत् पृच्छेयुः का देवता संस्तुतो यज्ञो भवतीति, विद्युद् इति ह ब्रूयात्। एषा ह वै देवता संस्तुतो यज्ञो भवति। तस्माद् यदि व्यूढछन्दसा द्वादशाहेन यजेत। यजेतो एव समूढछन्दसा। उभाभ्यां ह त्वावेष्टं भवत्य् एवंविदः॥3.340॥