जैमिनीयं ब्राह्मणम्/काण्डम् ३/२८१-२९०

विकिस्रोतः तः
← कण्डिका २७१-२८० जैमिनीयं ब्राह्मणम्/काण्डम् ३
कण्डिका २८१-२९०
[[लेखकः :|]]
कण्डिका २९१-३०० →

गायत्रमुखो वै प्रथमस् त्रियहः। तस्माद् अयम् अग्निर् ऊर्ध्वो दीदाय। गायत्रमध्यो द्वितीयस् त्रियहः। तस्माद् अयं वायुस् तिर्यङ् पवते। गायत्रोत्तमस् तृतीयस् त्रियहः। तस्माद् असाव् अर्वाङ् आदित्यस् तपति। देवासुरा अस्पर्धन्त। ते ऽब्रुवन् यो नस् त्रिर् अनवानं गायत्रं गायति स न इमांश् च लोकान् संजयति प्राणापानव्यानांश् चेति। सो ऽयास्य आङ्गिरसस् त्रिर् अनवानं गायत्रम् अगायत्। तेनेमांश् च लोकान् समजयत् प्राणापानव्यानांश् च। सम् इमांश् च लोकाञ् जयति प्राणापानव्यानांश् च य एवं विद्वांस् त्रिर् अनवानं गायत्रं गायति। यो वा अग्निष्टोमेन दशाहं कल्पमानं वेद कल्पते ऽस्मै प्रातस्सवनेनैव प्रथमस् त्र्यहः, कल्पते माध्यन्दिनेन द्वितीयस्, तृतीयसवनेन तृतीयो, ऽग्निष्टोमसाम्नैव दशमम् अहः कल्पते। कल्पते ऽस्मै य एवं वेद॥3.281॥


अथैतान्य् आप्रीर् आज्यानि भवन्ति। प्रजापतिः प्रजा असृजत। स सृष्ट्वा रिरिचानो ऽमन्यत। स एतान्य् आप्रीर् आज्यान्य् अपश्यत्। तैर् आत्मानम् आप्रीणीतायातयामतायै। रिच्यन्ते इव वा एते य एतद् अहर् आगच्छन्ति। तद् यद् एतान्य् आप्रीर् आज्यानि भवन्त्य् आत्मानम् एवैतैर् यजमाना आप्रीणते ऽयातयामतायै। अनिरुक्तान्य् आज्यानि भवन्ति छन्दसाम् अनभिधर्षाय, पापवस्यसस्य विवक्त्यै। वि पाप्मना विच्यते य एवं वेद। ऐन्द्राग्नम् उत्तमं पदं निराह छन्दसाम् अप्रणाशाय यज्ञस्यानुख्यात्यै। अनुख्यातेनैव यज्ञेन स्वर्गं लोकं समश्नुवते। तद् आहुर् यत् सर्वेभ्यो ऽहोभ्यो दशमम् अहस् संभरन्त्य्, अथ केनैषां छन्दोमा अनन्तरिता भवन्तीति। स्तोमेनेति ब्रूयात्। चतुर्विंशं सप्तमम् अहर् भवति, चतुर्विंशं दशमम् अहः। अथो यद् एवैतत् समय्य् एकम् आज्यं भवति तेनो एवेति॥3.282॥


उच्चा ते जातम् अन्धसेत्य् उद्वतीर् उत्थानीये ऽहन् भवन्त्य् अथो स्वर्गस्यैव लोकस्याभ्युत्क्रान्त्यै। स्वर्गो ह्य् एष लोको यद् दशमम् अहः। स न इन्द्राय यज्यवे वरुणाय मरुद्भ्य इति मरुत्वतीर् भवन्ति। मरुत्वद् वै मध्यन्दिनस्य रूपम्। मध्यन्दिनस्यैव तद् रूपान् न यन्ति।
एना विश्वान्य् अर्य आ द्युम्नानि मानुषाणाम्।
सिषासन्तो वनामहे॥
इति सिषासद्वतीर् भवन्ति। सिषासन्तो ह्य् एवैतेनाह्ना स्वर्गं लोकं गच्छन्ति। तासु गायत्रम् उक्तब्राह्मणम्। अथामहीयवम् । प्रजापतेर् वा आमहीयवम्। प्राजापत्यम् एतद् अहः। तद् यद् अत्रामहीयवं प्राजापत्ये ऽहन् क्रियते ऽहर् एव तद् रूपेण समर्धयन्ति। तेनैभ्यस् समृद्धेन स्वायां जनतायाम् ृद्धुकं भवति। अथाजीकम् उज्जित्यै। देवासुरा यज्ञ आजिम् आयन्। ते देवा अकामयन्तोद् इमम् आजिं जयेमेति। त एतत् सामापश्यन्। तेनास्तुवत। ततो वै ते तम् आजिम् उदजयन्। आजिम् इवैते यन्ति य एतद् अहर् आगच्छन्ति। तद् यद् अत्राजीकं भवत्य् उज्जित्या एव। उज्जयति य एवं वेद। तद् वा आजीकम् इति कवत् प्राजापत्यं सामाह्नो रूपेण समृद्धम्। यत्र वा अहारूपेण समर्धयन्ति सं तत्रर्ध्यत। सम् अस्मा ऋध्यते य एवं वेद॥3.283॥


अथाभीकम्। देवा वा अकामयन्ताभीकं नश् शिवम् आप उपस्पृशेयुर् इति। त एतत् सामापश्यन्। तेनास्तुवत। ततो वै तान् अभीकं शिवम् आप उपास्पृशन्। तद् आभीकस्याभीकत्वम्। अभीकं ह वा एनं शिवम् आप उपस्पृशन्ति य एवं वेद। ऋषयो वै तपस् तेपाना अशोचन्। ते ऽकामयन्ताभीकं नश् शिवम् आप उपस्पृशेयुर् इति। त एतत् सामापश्यन्। तेनास्तुवत। ततो वै तान् अभीके ऽभ्यवर्षत्। तद् व् एवाभीकस्याभीकत्वम्। तद् आपो वै शान्तिः। शुशुचाना इवैते तेपाना इव भवन्ति य एतद् अहर् आगच्छन्ति। तद् यद् अत्राभीकं भवति शुच एवापहत्यै। तद् वा आभीकम् इति कवत् प्राजापत्यं सामाह्नो रूपेण समृद्धम्। यत्र वा अहारूपेण समर्धयन्ति सं तत्रर्ध्यते। सम् अस्मा ऋध्यते य एवं वेद॥3.284॥


अथैताः प्रत्नं पीयूषं पूर्व्यं यद् उक्थ्यम् इति सतोबृहतयो भवन्ति। अनुष्टुब् वै यज्ञम् असृजत। वाग् वा अनुष्टुप्। प्रजापतिर् वा अनुष्टुप् छन्दः। सो ऽब्रवीद् यज्ञं सृष्ट्वा - छन्दांसि पुत्रका विन्दध्वम् इति। तान्य् एतयाविन्दन्त। यद् त्रिपदा तेन गायत्री। उष्णिक्ककुभौ तयाविन्दन्त। यद् द्वादशाक्षराणि पदानि तेन जगती। तेनो एवानुष्टुप्। अक्षरैर् एव बृहत्य् अविन्दत। यद् दोहवती तेन पंक्तिः। आयतनेन त्रिष्टुप्। यद् विश्ववती तेन सर्वाणि छन्दांसि। तान्य् एतयैवाविन्दन्त। विन्दते य एवं वेद। सर्वेषां वा एषा छन्दसां रसस् तेजस् संभृतम्। सर्वेषाम् एवैतच् छन्दसां रसे तेजस्य् अपराजिते छन्दसि यज्ञस्यान्ततः प्रतितिष्ठन्ति॥3.285॥


ताः प्रत्नवतीर् भवन्ति। प्रजापतिर् वै प्रत्नः। प्रजापताव् एव तत् प्रतितिष्ठन्ति। अथो स्वर्गो वै लोकः प्रत्नः। स्वर्ग एव तल् लोके प्रतितिष्ठन्ति। तासां सर्वासां समावदक्षराणि पदानि भवन्ति। तद् यत् समावदक्षराणि पदानि भवन्ति तत् सतोबृहतीनां सतोबृहतीत्वम्। सर्वतो ह वै बृहद् भवति य एवं वेद। तद् उ होवाच यामनो भ्रातलायनो - यदा वा एतद् अहर् आगच्छन्त्य् अथ मुह्यन्ति। अतो ऽन्या बृहतीः कुर्वते। पुनानस् सोम धारयेत्य् एव बृहती कार्या। एषा वै ज्ञाता बृहती। यद् ध वै बहवो यन्तो ज्ञातमुखं कृत्वा यन्ति सर्वे वाव ते ज्ञाता भवन्ति। तद् यत् पुनानस् सोम धारयेति बृहती भवति तेनैवैतद् अहर् ज्ञातं क्रियते। भूयांसि तु रूपाण्य् अपराध्यन्ते। इतराण्य् एव भूयांसि रूपाणि॥3.286॥


तद् आहुर् न बुभूषन् भूतबृहतीभि स्तुवीत। भूत एवैताभि स्तुवीत न बुभूषन्न् इति। भूता इव वा एता यासां द्वादशाक्षराणि पदानि। अथेमा भविष्यद्बृहतयः पुनर् आदायेन बृहत्यो भवन्ति। तस्माद् भूत एव भूतबृहतीभि स्तुवीत न बुभूषन्न् इति। तद् उ वा आहुर् - यावद् वै कृत्वो यजते तावद् बुभूषति तावत् कामयते - श्रेयान् स्यां श्रेयान् स्याम् इति। तस्माद् उभयीर् एव कार्या एतयोर् उभयोः कामयोर् उपाप्त्या इति॥3.287॥


उत्सेधनिषेधाव् एव सतोबृहतीषु स्यातां, यज्ञायज्ञीयं भविष्यद्बृहत्याम्। तथा हाभ्यावर्ता भवन्त्य् अपराचीः। तद् आहुर् न चतुर्थाय छन्दसे माध्यन्दिनः पवमानः। तत्स्थानश् चतुर्थम् इव वा एतच् छन्दः क्रियत इति। तद् यत् बृहतीतरा भवति बृहतीतरा तेन समानच्छन्दः। तासूत्सेधनिषेधौ। उत्सेधेन वा अङ्गिरसः पशून् उत्सिध्य निषेधेन निषिध्योदतिष्ठन्। उत्सेधेनैवैतत् पशून् उत्सिध्य निषेधेन निषिध्य उत्तिष्ठन्ति॥3.288॥


ताव् अन्तरा यज्ञायज्ञीयं भवति। पशवो वै यज्ञायज्ञीयम्। एतांस् तान् पशून् उत्सिध्य च निषिध्य चोत्तिष्ठन्ति। प्रजापतेर् वा एतौ प्राणापानौ। यद् उत्सेधनिषेधौ भवतः प्राणापानाभ्याम् एव तत् समृध्यन्ते। पापवस्यसस्य ह खलु वा एते विदारणं सामनी। राजसभम् एतद् यद् दशम् अह्नाम्। उच् च वै पापीयांसं सभायाम् अतिवदन्तं सेधन्ति नि च सेधन्ति। तद् यद् उत्सेधनिषेधौ भवतः पापवस्यसस्यैवोत्सिद्ध्यै च निषिद्ध्यै च। वाग् वै यज्ञायज्ञीयम्। तद् अन्तरोत्सेधनिषेधौ भवति। आत्मा वै वाक्। प्राणापानाव् उत्सेधनिषेधौ। तद् यद् यज्ञायज्ञीयम् अन्तरोत्सेधनिषेधौ भवति, प्राणापानाभ्याम् एवैतद् उभयत आत्मानं परिगृह्यते। तस्मात् प्राणापानाभ्यां वाक् परिगृहीता॥3.289॥


तेजो वै यज्ञायज्ञीयम्, आत्मा मध्यन्दिनः। तद् यद् यज्ञायज्ञीयं मध्यन्दिनम् अभि प्रत्याहरन्त्य् आत्मन्न् एवैतत् तेजः प्रतिष्ठापयन्ति। यज्ञायज्ञीयेन वै पूर्वेष्व् अहस्सु गर्भान् दधतो यन्ति। तद् दशमे ऽहन् योनेश् च्यावयन्ति। तस्माद् दशमास्या गर्भा योनेश् च्यवन्ते प्रजात्यै। तं मध्यन्दिनम् अभि प्रत्याहरन्ति। आत्मा वै मध्यन्दिनः प्रजैषा। तद् यद् यज्ञायज्ञीयं मध्यन्दिनम् अभि प्रत्याहरन्त्य्, आत्मन्न् एवैतत् प्रजां प्रतिष्ठापयन्ति। मध्यन्दिनाद् वै देवा यज्ञायज्ञीयेनोर्द्ध्वा स्वर्गं लोकम् उदक्रामन्। तद् यद् उष्णिक्ककुभाव् उत्तर भवतो, बृहती पूर्वा - पुरुष छन्दसं ककुप्, स्वर्गो लोको बृहती - स्वर्ग एव तल् लोके प्रतिष्ठाय स्वर्गं लोकम् आरोहन्। देवासुरा यज्ञ आजिम् आयन् दशमस्याह्नः। ते यज्ञायज्ञीयम् एव काष्ठाम् अकुर्वत। ते देवा अकामयन्त वयम् इमम् आजिम् उज्जयेमेति। ते यज्ञायज्ञीयम् मध्यन्दिनम् अभि प्रत्याहरन्न्, अतो ऽन्तिकाद् उज्जेष्याम इति। एतद् उ ह वै देवानां देवक्षेत्रं यत् पवमानः। ततो वै ते तम् आजिम् उदजयन्। आजिम् इवैते यन्ति य एतद् अहर् आगच्छन्ति। तद् यद् अत्र यज्ञायज्ञीयं भवत्य् उज्जित्या एव। उज्जयति य एवं वेद॥3.290॥