जैमिनीयं ब्राह्मणम्/काण्डम् ३/२९१-३००

विकिस्रोतः तः
Jump to navigation Jump to search

पशवो वै यज्ञायज्ञीयम्। आत्मा मध्यन्दिनः। पशुमान् ह्य् एव यज्ञंयज्ञम् आहरते। तद् यद् यज्ञायज्ञीयम् मध्यन्दिनम् अभि प्रत्याहरन्ति आत्मन्न् एवैतत् पशून् प्रतिष्ठापयन्ति। अथैता भवन्त्य् आ जागृविर् विप्र ऋतं मतीनाम् इत्य् आवतीर् उत्थानीये ऽहन्। यत् प्रवतीः कुर्युः पराञ्चो ऽतिपद्येरन्। तद् यद् आवतीर् भवन्त्य् अनतिपादायैव। तद् आहुर् अपेव वा एते भ्रंशन्ते य आवतीर् उत्थानीये ऽहन् कुर्वन्तीति। तद् यत् सोमो मीढ्वम् अभि नो ज्योतिषावीद् इति भवत्य् अभिक्रान्त्या एवानपभ्रंशाय। तासु गौरिवीतम्। प्रजा वै पशवो गौरिवीतम्, आत्मा मध्यन्दिनः। तद् यद् गौरिवीतं मध्यन्दिनम् अभि प्रत्याहरन्त्य् आत्मन्न् एवैतत् प्रजां पशून् प्रतिष्ठापयन्ति। श्वस्तनं वै गौरिवीतम्, आत्मा मध्यन्दिनः। तद् यद् गौरिवीतं मध्यन्दिनम् अभि प्रत्याहरन्त्य् आत्मन्न् एवैतच् छ्वस्तनं प्रतिष्ठापयन्ति। रसो वै गौरिवीतम्, आत्मा मध्यन्दिनः। तद् यद् गौरिवीतं मध्यन्दिनम् अभिप्रत्याहरन्त्य्, आत्मन्न् एवैतद् रसं प्रतिष्ठापयन्ति॥3.291॥

अथ रथन्तरम्। ब्रह्म वै रथन्तरम्। ब्रह्मण्य् एवैतत् प्रतितिष्ठन्तो यन्ति। तद् गायत्रीषु भवति। रेतो वै गायत्र्यै रथन्तरं, योनिर् वै रथन्तरस्य गायत्री। तद् यद् गायत्रीषु रथन्तरं भवति, योन्याम् एवैतद् रेतः प्रतिष्ठापयन्ति। अनुष्ठ्यास्य रेतस् सिक्तं प्रजायते य एवं वेद। गायत्रं ह खलु वै रथन्तरं गायत्री छन्दः। तद् यद् गायत्रीषु रथन्तरं पृष्ठं भवति, स्वेनैवैनं तद् आयतनेन समर्धयन्ति। तेनैभ्यस् समृद्धेन स्वायां जनतायाम् ऋद्धुकं भवति। त्रीणि वा एतानि सम्यञ्चि संधीयन्ते - गायत्री छन्दश्, चतुर्विंश स्तोमो, रथन्तरं साम। तद् यद् एतानि सम्यञ्चि संधीयन्ते समृद्ध्या एव। सम् अस्मा ऋध्यते य एवं वेद॥3.292॥

एते ह खलु वा अर्क्योदामनीये एते रथन्तरस्याक्षरे व्यतिषक्ते। एताभ्याम् एवैतद् द्विषन्तं भ्रातृव्यम् उपोभ्योत्तिष्ठन्ति। तद् आहुर् व्यूढम् एतद् अहा3स् समूढा3म् इति। उभयम् इति ब्रूयाद्, व्यूढं च समूढं चेति। सामभिर् व्यूढं छन्दोभिस् समूढम् इति। एता भवन्ति मा चिद् अन्यद् वि शंसतेति मासान् एवैतद् अर्धमासान् अभिवदति। अथो तेषाम् एव प्रजापतिम् अनु प्रजायत।
इन्द्रम् इत् स्तोता वृषणं सचा सुते मुहुर् उक्था च शंसत॥
अवक्रक्षिणं वृषभं यथाजुवं गां न चर्षणीसहम्।
इति गोमतीः पशुमतीर् भवन्ति पशूनाम् एवावरुद्ध्यै। तासु मैधातिथम् उक्तब्राह्मणम्। उद् उ त्ये मधुमत्तमा इत्य् उद्वतीर् उत्थानीये ऽहन् भवन्त्य्, अथो स्वर्गस्यैव लोकस्याभ्युत्क्रान्त्यै। स्वर्गो ह्य् एष लोको यद् दशमम् अहः॥3.293॥

तास्व् अभीवर्तः। देवासुरा अस्पर्धन्त। ते देवा अकामयन्ताभीमान् असुरान् भवेमेति। त एतम् अभीवर्तम् अपश्यन्। तेनासुरान् अभ्यवर्तन्त। यद् अभ्यवर्तन्त तद् अभीवर्तस्याभीवर्तत्वम्। तद् यद् अत्राभीवर्तो भवति - वज्रो वा अभीवर्तो - वज्रेणैव तद् द्विषन्तं भ्रातृव्यम् अभिवृत्योत्तिष्ठन्ति। तस्यैकाक्षरं निधनं भवति। एकाक्षरा वै वाक्। प्रतिकूल इव वा इत स्वर्गो लोकः। स्वर्गो ह्य् एष लोको यद् दशमम् अहः। तद् यद् एकाक्षरं निधनं भवति यथा दृढां मेथीं निहन्यात् तादृग् एवैतद् अनपभ्रंशाय। अथ कालेयम्। अग्निर् वै रथन्तरम्। विश्वेदेवाः कालेयम्। अथैष स्वर्ग एष लोको विश्व एव देवाः। स्वर्ग एव तल् लोके विश्वेषु देवेषु प्रतितिष्ठन्ति॥3.294॥

स्वादिष्ठया मदिष्ठयेत्य् आर्भवस्य पवमानस्य मद्वतीर् गायत्र्यो भवन्ति। रसो वै मदः। धीतम् इवैतद् यत् तृतीयसवनम्। तद् यद् एता मद्वतीर् भवन्ति, रसम् एवास्मिन्न् एतद् दधत्य्, ऐवैनद् एतेन प्याययन्ति। तासु गायत्रम् उक्तब्राह्मणम्। अथ संहितं द्वयक्षरणिधनं प्रतिष्ठायै। द्विपाद् वै यजमानः प्रतिष्ठित्यै। तस्यर्चा निधनम् उपयन्ति। पशवो वा ऋक्, पशवो रथन्तरं, पशूनाम् एवावरुद्ध्यै। अथोष्णिक्ककुभौ। वज्रेणैव तद् द्विषन्तं पाप्मानं भ्रातृव्यं स्तृणुते य एवं वेद। ककुभि पराक्रमतोष्णिहा प्राहरत्। तस्मात् ककुभ मध्यमान्य् अक्षराणि भूयिष्ठानि। पराक्रममाणो ह्य् अस्या अक्षराणि समौहत्। तस्माद् उष्णिह उत्तमान्य् अक्षराणि भूयिष्ठानि। परो गुरुर् इव हि वज्र, आरम्भणतो ऽणीयान्। सा ककुब् अब्रवीद् विलिष्ठा वा अहम् अस्मीति। पराक्रममाणो वै मे ऽक्षराणि समौहीत, पूर्वां मां प्रयुञ्जताम् इति। अथोष्णिग् अब्रवीद् - अथ वै मां पूर्वाम् आचक्षन्ता इति। तथेति। तस्मिन् समपादयेताम्। पूर्वप्रयोगम् अन्यावृणीत, पूर्वाख्यानम् अस्या। तस्माद् एने एवं प्रयुञ्जते। तस्माद् उष्णिक्ककुभाव् इत्य् आख्यायते॥3.295॥

ता एता भवन्ति पवस्व मधुमत्तम, इन्द्रम् अच्छ सुता इम इति। ऋजीषं वा एतद् दुग्धं धीतं यातयाम यत् तृतीयसवनम्। तस्माद् इन्द्रो बीभत्समान उदक्रामत्। धीतम् इव ह्य् आसीत्। तस्मै वै देवाः पवस्वेत्य् एवापवयन्। मधुमत्तम इति मधुमद् अकुर्वन्।
इन्द्राय सोम क्रतुवित्तमो मदः।
महि द्युक्षतमो मदः॥
इत्य अभिपूर्वम् एवास्मै मद्वद् अकुर्वन्। इन्द्रम् अच्छ सुता इम इति यथाभिवत्यानयेद् एवं वा एतत् पदम्। पावमान्यस् सत्य ऐन्द्रियो भवन्ति वीर्यवतीः। तस्माद् एता एवोष्णिक्ककुभः कार्याः। तासु सभम् उक्तब्राह्मणम्। अथ पौष्कलम् उक्तब्राह्मणम्। अथैता भवन्ति - पर्य् ऊ षु प्र धन्व वाजसातय इति पिपीलिकामध्यानुष्टुभः परिवतीर् अन्तस्य रूपम्। अन्तो वा अनुष्टुप् छन्दसाम्। आनुष्टुभम् एतद् अहः॥3.296॥
इन्द्रो वृत्रं वज्रेणाध्यस्य नास्तृषीति मन्यमानः परां परावतम् अगच्छत्। तद् अनुष्टुब् वै परा। परावत् स ताम् एव प्राविशत्। तस्यै द्वादशाक्षराणि प्राञ्च्य् उदौहद् द्वादशोर्ध्वानि। अथ याष्टाक्षरा मध्ये गायत्री तां प्राविशत्। स ताम् एव प्राविशत्। तत् तस्यै द्वादशाक्षराणि। ब्रह्मा गायत्री। ब्रह्मैव तन् मध्यतः प्राविशत्। स एतम् एव संवत्सरम् उभयतः पर्यौहत। इन्द्रग्रहो वा एता ऋचः। इन्द्रग्रहम् एवैतत् प्रपद्योत्तिष्ठन्ति। तस्माद् उ हैना अभिचरन् वा भ्रातृव्यवान् वा कुर्वीत। इन्द्रग्रहो वा एता ऋचः। इन्द्रग्रहम् एवैतत् प्रपद्य द्विषन्तं भ्रातृव्यम् अभिभवति॥3.297॥

अभये ह खलु वा एष दीक्षते, ऽभये यजते, ऽभय उत्तिष्ठति य एवं विद्वान् एताभि ऋग्भि स्तुते। ताम् एतां परोक्षम् अनुष्टुभं कुर्वन्ति। यत् प्रत्यक्षम् अनुष्टुभं कुर्युः परां परावतं यजमाना गच्छेयुर्, न प्रतितिष्ठेयुः। तद् यत् परोक्षम् अनुष्टुभं कुर्वन्ति प्रतिष्ठित्यै। तासु श्यावाश्वम् उक्तब्राह्मणम्। अथान्धीगवम् उक्तब्राह्मणम्। अथैता द्विपदो भवन्त्य् उक्तब्राह्मणाः। ता एता भवन्ति परि प्र धन्वेन्द्राय सोमेति परिवतीर् भवन्त्य् अन्तस्य रूपम्। अन्तो ह्य् एतद् अहः। तासु सौहविषम् उक्तब्राह्मणम्। तद् वाङ्निधनं भवति। तद् आहुर् - यन्ति वा एते तृतीयसवनाद् ये यज्ञायज्ञीयं मध्यन्दिनम् अभि प्रत्याहरन्तीति। तद् यद् वाङ्निधनं भवति, तेनैव यज्ञायज्ञीयस्य रूपान् न यन्ति, तेन ततीयसवनान् न यन्ति। तस्माद् उ हैतत् सामैतस्माद् अह्नो नान्तरित्यम्। सूर्यस्येव रश्मयो द्रावयित्नव इति सूर्यवतीर् भवन्ति रक्षसाम् एवापहत्यै।
मत्सरासः प्रसुपस् साकम् ईरते।
तन्तुं ततं परि सर्गास आशवो नेन्द्राद् ऋते पवते धाम किं चन॥
इति न हीन्द्राद् ऋते पवते धाम किं चन। उपो मतिः पृच्यते सिच्यते मध्व् इत्य् उप वा अयम् अद्य लोक उपश्व इमम् एवैतेन लोकम् अनु प्रजायन्ते ऽस्मिन्न् एवैतल् लोके पशून् प्रतिष्ठापयन्ति।
उक्षा मिमाति प्रति यन्ति धेनवो देवस्य देवीर् उप यन्ति निष्कृतम्। अत्य अक्रमीद् अर्जुनं वारम् अव्ययम् अत्कं न निक्तं परि सोमो अव्यत॥
इति परिवतीर् भवन्त्य् अन्तस्य रूपम्। अन्तो ह्य् एतद् अहः॥3.298॥

तासु वाजजित्। अन्नं वै वाजः। यदा वै गौर् अश्वः पुरुषो ऽन्नस्य सुहितो भवत्य् अथ स वाजी भवति। देवासुरा अन्नाद्ये ऽस्पर्धन्त। ते देवा अकामयन्त वृञ्जीमह्य् अन्नाद्यम् असुराणाम् इति। त एतत् सामापश्यन्। तेनास्तुवत। ते वांजजिगीवा (वाजिजिगीवा - पा.) विश्व धनानीत्य् एवासुराणां यद् धनं य पशवो यद् अन्नाद्यम् आसीत् तद् अवृञ्जत। तद् एव वाजजितो वाजजित्त्वम्। तद् एतद् अन्नाद्यस्यावरुद्धिस् साम। अवान्नाद्यं रुन्द्धे वृंक्ते द्विषतो भ्रातृव्यस्य यद् धनं ये पशवो यद् अन्नाद्यं य एवं वेद। तद् दशाक्षरणिधनं भवति। एकाक्षरणिधनेन वै प्रथमम् अहः कल्पते, दशाक्षरणिधनेन दशमम्। तद् यद् दशाक्षरणिधनं दशमे ऽहनि भवति, तेनैव दशाहानि कल्पन्ते। अथो एतां दशाक्षराम् एव विराजम् अन्नाद्यम् अवरुद्ध्यान्तत उत्तिष्ठन्ति॥3.299॥

द्वादशाहेन वै देवा ऊर्ध्वा स्वर्गं लोकम् आयन्। तान् असुरा रक्षांस्य् अन्वसचन्त। ते छन्दांसि पश्चात् तान्य् अकुर्वत। तान्य् अभिविच्छिदान्य् अयुक्ष्व् अयुक्ष्व् अक्षरेष्व अश्रयन्त। तत एतानि नाच्यावयन्। तस्माद् अयुज स्तोमा वीर्यावत्तराः। तेषाम् एषा त्रिष्टुप् निष्कुर्याद् अपराजयेताम्। पराजितं वा एतच् छन्दः। पराजित एवैतच् छन्दसि यस्यान्ततः प्रतितिष्ठति। तास् त्रयस्त्रिंशदक्षरा भवन्ति। त्रयस्त्रिंशद् वै सर्वा देवताः। सर्वास्व् एवैतद् देवतासु यज्ञस्यान्ततः प्रतितिष्ठन्ति। स ता विराजो लोमशा भवन्त्य् - अन्नं वै विराड् - विराज एवान्नाद्यस्यावरुद्ध्यै। ता आग्नेय्यो भवन्ति। मुखं वा अग्निर् देवतानाम्। मुखं विराट् छन्दसाम्। तद् यद् आग्नेयीषु विराट्सु स्तुवन्ति मुख्यम् एवैतद् उद्गातात्मानं च यजमानं च करोति। मुख्यो हाग्र्यो ऽन्नाद श्रेष्ठ स्वानां भवति य एवं वेद॥3.300॥