जैमिनीयं ब्राह्मणम्/काण्डम् ३/२७१-२८०

विकिस्रोतः तः
← कण्डिका २६१-२७० जैमिनीयं ब्राह्मणम्/काण्डम् ३
कण्डिका २७१-२८०
[[लेखकः :|]]
कण्डिका २८१-२९० →

उत्तिष्ठत, कामान् ब्रूध्वं, नो वाव वस् तस्याशास्ति यद् अमुं लोकं जयेतेति। अथ ह प्रेणी सौमाहितः पापक आस। स होवाच - सप्तानाम् एव स्यो बस्तानां दुर्वृषतां वृणीते। यां याम् व् अच्छाब्रूवीय, सा सा त्यं कामयताद् इति। अथ ह मधुच्छन्दा वैश्वामित्र उवाच - ब्राह्मणमुखम् एवाहं वृणा इति। अथ हासितो दैवल उवाचैतम् एवाहं चमसम् अवेक्षा इति। स होवाचैष एवैषाम् एको व्रतयति। तं हैवावेक्ष्यैतत् साम ददर्श। तेनास्तुत।
राये अग्ने महे त्वा दानाय सम् इधीमहि।
ईळिष्वा हि महे वृषं द्यावा होत्राय पृथिवी॥
इति। द्यावापृथिवी सर्व इमे लोकाः। ततो वै स सर्वान् इमान् लोकान् अनुसमचरत्। स ह पूर्वाह्ण एव देवानां समित्याम् आस, मध्यन्दिने मनुष्याणां द्रुपदस्य वार्द्ध्रविष्णस्य, अपराह्णे पितृणाम्। तद् एतत् स्वर्ग्यं साम। सर्वान् इमान् लोकान् अनुसंचरत्य्, अश्नुते स्वर्गं लोकं य एवं वेद। यद् व् असितो दैवलो ऽपश्यत्, तस्माद् आसितम् इत्य् आख्यायते॥3.271॥


अथ साध्रं सिद्ध्या एव। तन् मध्येनिधनं भवति प्रतिष्ठायै। समुद्रं वा एतेनारम्भणं प्रप्लवन्ते य आर्भवं पवमानम् उपयन्ति। तद् यन् मध्येनिधनं भवति प्रतिष्ठित्या एव। देवा वा अकामयन्त कृतंकृतं नस् सिध्येद् इति। त एतत् सामापश्यन्। तेनास्तुवत्। ततो वै तेषां कृतंकृतम् असिध्यत्। कृतंकृतं नस् सिध्येद् इति सत्रम् आसते। कृतंकृतं हैवैभ्यस् सिध्यति। यद् व् एवैषाम् एतेन साम्ना कृतंकृतम् असिध्यत् तस्मात् साध्रम् इत्य् आख्यायते। सध्रिर् वैरूपः पशुकामस् तपो ऽतप्यत। स एतत् सामापश्यत्। तेनास्तुत। स एताम् इळाम् उपैत्। पशवो वा इळा। ततो वै स पशून् अवारुन्द्ध। तद् एतत् पशव्यं साम। अव पशून् रुन्द्धे बहुपशुर् भवति य एवं वेद। यद् उ सध्रिर् वैरूपो ऽपश्यत् तस्मात् साध्रम् इत्य् आख्यायते॥3.272॥


अथाकूपारम्। अकूपारो वै कश्यपः। कलिभिस् सह समुद्रम् अभ्यवैषत्। तस्मिन् प्रतिष्ठाम् ऐच्छत्। स एतत् सामापश्यत्। तेनास्तुत। ततो वै स समुद्रे प्रतिष्ठाम् अविन्दतेमाम् एव पृथिवीम्। ततो ह स्म वै तस्य कलयः पृष्ठ आसते। तद् एतत् प्रतिष्ठासाम। प्रतितिष्ठति य एवं वेद। समुद्रो वै छन्दोमाः। कश्यपो वै समुद्रम् अतिपारयितुम् अर्हति। तद् यद् अत्राकूपारं भवति समुद्रस्यैवातिपारणाय। यद् व् अकूपारः कश्यपो ऽपश्यत्, तस्माद् आकूपारम् इत्य् आख्यायते। अथैता द्विपदो भवन्त्य् उक्तब्राह्मणाः। ता एता भवन्ति पवस्व सोम महे दक्षायेति। महद् ध्य् एतद् अहर् यद् अष्टाचत्वारिंशम्। तासु विधर्मोक्तब्राह्मणम्। तच् चतुरक्षरणिधनं भवति-चतुष्पदा वै पशवः। पशवश् छन्दोमाः - पशूनाम् एवावरुद्ध्यै। उपो षु जातम् अप्तुरम् इति जनद्वतीर् भवन्ति। जनद्वद् वै जगत्यै रूपम्। जागतम् एतद् अहः।
गोभिर् भंगं परिष्कृतम्।
इन्दुं देवा अयासिषुः॥
अर्षा नस् सोम शं गवे धुक्षस्व पिप्युषीम् इषम्।
वर्धा समुद्रम् उक्थ्यम्॥
इति गोमतीः पशुमतीर् भवन्ति, पशूनाम् एवावरुद्धयै। पशवो हि छन्दोमाः। तम् इद् वर्धन्तु नो गिर इति वृद्धं ह्य् एतद् अहर् यद् अष्टाचत्वारिंशम्॥3.273॥


तासु श्रुधीयम्। प्रजापतिर् यज्ञम् असृजत। तं देवेभ्यः प्रायच्छत्। स क्षयाद् बिभ्यत् प्राद्रवत्। ते देवा अकामयन्त - शृणुयान् न इति। त एतत् सामापश्यन्। तेनैनं श्रोधियेत्य् अन्वह्वयन्। सो ऽशृणोत्। तम् अब्रुवन्न् - अभि न आवर्तस्वेति। क्षयाद् वै बिभेमीति। नैत्य् अब्रुवन्। तस्मै वै मे श्रद्धां कुरुतेति। तस्मै श्रोधियेन्य् एव श्रद्धाम् अकुर्वन्। तम् एह्य् आ इत्य् एव न्यह्वयन्त। ततो वै तेभ्यो यज्ञो नोदक्रामत्। तत एनान् उपावर्तत। उत्क्रान्त इवैतर्हि यज्ञो भवति नवमे ऽहन्। तद् यद् अत्र श्रुधीयं भवति, सम् एवैनम् एतेन यज्ञं निह्वयन्ते। तस्माच् छ्रोधियेत्य् एव प्रथमायां कुर्याच् छ्रोधेमेत्य् उत्तरयोः। अथो यस्मै जीवातुं कामयेत, तम् एतनैव निह्वयेत॥3.274॥


अथ यज्ञायज्ञीयम् उक्तब्राह्मणम्। अथ दैवानीकम्। देवासुरा अस्पर्धन्त। ते देवा अकामयन्ताग्निनैवानीकेनासुराञ् जयेमेति। त एतत् सामापश्यन्। तेनास्तुवत। भद्रो नो अग्निर् आहुत इत्य् अग्निम् एवानीकम् अकुरुत।
भद्रा रातिस् सुभग भद्रो अध्वरः।
भद्रा उत प्रशस्तयः॥
भद्रं मनः कृणुष्व वृत्रतूर्ये येना समत्सु सासहिः।
इति समत्स्व् एवैनान् असहन्त। अव स्थिरा तनुहि भूरि शर्धताम् इति यद् एवैषां वीर्यं यद् बलम् आसीत् तद् एतेनावाघ्नन्। वनेमा ते अभिष्टय इत्य् एवैनान् अभ्यतिष्ठन्। ततो वै ते ऽग्निनैवानीकेनासुरान् अजयन्। तद् एव दैवानीकस्य दैवानीकत्वम्। तद् एतद् विजिति भ्रातृव्यहा साम। विजयते हन्ति द्विषन्तं भ्रातृव्यं य एवं वेद॥3.275॥


अथेध्मवाहम्। ऋषयो वै स्वर्गं लोकं यन्त इध्मवाहं समिद्धारं परेतम् अरण्य एकम् अजहुः। सो ऽकामयतानूत्पतेयं स्वर्गं लोकं प्रतिसत्रिभिस् संगच्छेयेति। स ऐक्षत - हन्त प्रति सत्रिण एव स्तवानि। त एव मा स्तुतास् तथा करिष्यन्ति यथैषाम् उपश्रोष्यामीति। स एतं तृचम् अपश्यत्। तेनैनान् अस्तौद् -
आ घा ये अग्निम् इन्धते स्तृणन्ति बर्हिर् आनुषक्।
येषाम् इन्द्रो युवा सखा॥
बृहन्न् इद् इध्म एषां भूरि शस्तं पृथु स्वरुः।
येषाम् इन्द्रो युवा सखा॥
अयुद्ध इद् युधा वृतं शूर आजति सत्वभिः।
येषाम् इन्द्रो युवा सखा॥
इति। ते ऽस्मै स्तुतास् तथाकुर्वन् यथैषाम् उपाश्रोषत्। तेषां ह कशानां वदन्तीनाम् उपशुश्राव। स एतत् सामापश्यत्। तेनास्तुत॥3.276॥


इहैवा शृण्व एषां कशा हस्तेषु याद् वादान्।
नि यामैश् चित्राम् ऋञ्जताइ॥
नि यामैश् चित्रम् आर्ञ्जातायि एहि या औहो तम् एहि यौ हो एहि यौ हो वा एहीत्य् एव स्वर्गे लोके उपाह्वयन्त। ततो वै स प्रतिसत्रिभिस् समगच्छत। स एतेनैव साम्ना स्तुत्वा स्वर्गं लोकम् आरोहत्।
आ घा ये अग्निम् इन्धातायि स्तृणन्ति बर्हिर् आनुषक्।
येषाम् इन्द्रो युवा इहा मवावुवो वा साखो हा॥
इत्य् एव स्वर्गं लोकम् अन्वारोहत्। तद् एतत् स्वर्ग्यं साम। अश्नुते स्वर्गं लोकं य एवं वेद। यद् व् इध्मवाहो ऽपश्यत् तस्माद् ऐध्मवाहम् इत्य् आख्यायते।
अथ त्रैककुभम् उक्तब्राह्मणं त्रीन्द्रियं साम। ऐन्द्री ऋच ऐन्द्रं सामेन्द्रं इति निधनं भवति। त्रीणि पुरुष इन्द्रियाण्य् - आत्मा प्रजा पशवः। तान्य् एवैतेनात्मन् परिगृह्णीते।
गायन्ति त्वा गायत्रिणो अर्चन्त्य् अर्कम् अर्किणः।
ब्रह्माणस् त्वा शतक्रत उद् वंशम् इव येमिरे॥
इति यद् वै शतवत् सहस्रवत् तच् छन्दोमानां रूपम्। पशवो वै छन्दोमाः॥3.277॥


तासूद्वंशीयम् उक्तब्राह्मणम्। तस्य पुरस्तान् निधनस्य प्रतिहारम् उपयन्ति। प्रस्तावप्रतिहाराभ्यां वै यजमानो धृतः। अतीता इवैतर्हि भवन्ति। तद् यत् पुरस्तान् निधनस्य प्रतिहारम् उपयन्त्य् अनतिपादायैव। तत् स्वारं भवति। अभि दशमम् अह स्वरति। स्वारम् एतद् भवति। स्वरेण श्वो भूते प्रतिपद्यन्ते। स यथा समात् समं संक्रामेद्, यथा प्राणेन प्राणं संदध्यात्, तादृक् तत्॥3.278॥


पूर्वैर् अहोभिर् वाचं विप्रयुञ्जते। तां यद् असंपाद्योत्तिष्ठेयुर् व्यृद्धेनोत्तिष्ठेयुः। ताम् एवैतत् संपादयन्ति। अन्वहं वा एते वरुणस्य पाशे बध्यन्ते ये यजन्ते ये सत्रम् आसते। यद् यत् प्रत्यपक्रामन्तो यन्ति वरुणस्य पाशान् एवैनद् विष्यमाणा यन्ति, स्तोत्रियैर् वा इतो रेतो दधतो यन्त्य्, अनुरूपैर् अत्र प्रतिपद्यन्ते, प्र तज् जनयन्ति। प्र प्रजया पशुभिर् जायते य एवं वेद। प्रायणीयेनैवाह्ना द्वादशाहो युज्यते दशमेनाह्ना विमुच्यते। येन वै योक्त्रेणाश्वम् अश्वतरं युञ्जन्ति तेनैवैनं पुनर् विमुञ्चन्ति। तद् या अमूः पुरस्तान् नव स्तोत्रीयास् ता एवैतद् उपरिष्टात्। शम्या उदस्यन्ति। तस्मात् पशुर् यथैव युज्यते तथा विमुच्यते। तस्माद् उ योगक्षेमः कल्पते। यान् प्रायणीयस्याह्नस् तृचान् विच्छिन्दन्ति॥3.279॥


क्व ते संतायन्त इत्य् आहुः। दशमे ऽहन्न् इति ब्रूयात्। तृचैर् एकर्चान् उभयतस् संतन्वन्ति, प्राणानाम् एव संतत्या अव्यवच्छेदाय। अभि वा एता अन्यान्यस्यै लोकं ध्यायन्ति - ब्रह्म क्षत्रस्याभिध्यायति, क्षत्रं विशो, विड् ब्रह्मणः। ता अन्यान्यस्यै लोकम् अभिध्यायन्तीः। कामं गमयन्ति। यत्काम एना आहरते सम् अस्मै स काम ऋध्यते प्रसृतछन्दा वै प्रथमस् त्रियहः। तेन सो ऽयातयामा क्रियते। वि द्वितीयस्य छन्दांसि पर्यूहन्ति। तेन द्वितीयस् त्रियहो ऽयातयामा क्रियते। वि तृतीयस्य छन्दांसि पर्यूहन्ति। तेनैव तृतीयस्य त्रियहो ऽयातयामा क्रियते॥3.280॥