जैमिनीयं ब्राह्मणम्/काण्डम् १/१२१-१३०
← कण्डिका १११-१२० | जैमिनीयं ब्राह्मणम्/काण्डम् १ कण्डिका १२१-१३० [[लेखकः :|]] |
कण्डिका १३१-१४० → |
देवा वा असुरान् हत्वापूता इवामेध्या अमन्यन्त। ते ऽकामयन्त पूता मेध्याश् श्रितास् स्याम गच्छेम स्वर्गं लोकम् इति। त एता ऋचो ऽपश्यन्। ताभिर् अपुनत। पुनानस् सोम धारयापो वसानो अर्षसि इति। आपो वै पवित्रम्। अद्भिर् एवापुनत। आ रत्नधा योनिम् ऋतस्यसीदसि इति। अन्तरिक्षं वा ऋतम्। अन्तरिक्षम् एवैतेनात्यायन्। उत्सो देवो हिरण्ययः इति। असौ वै लोक उत्सो देवः। अमुम् एवैतेन लोकम् उपासीदन्। ततो वै ते पूता मेध्याश् श्रिता अभवन्न् अगच्छन् स्वर्गं लोकम्। पूतो मेध्यश् श्रितो भवति गच्छति स्वर्गं लोकम् एताभिर् ऋग्भिस् तुष्टुवानः॥1.121॥
तासु रौरवम्। अग्निर् वै रूरुर् एतत् सामापश्यत्। यद् अग्नी रूरुर् एतत् सामापश्यत् तद् रौरवस्य रौरवत्वम्॥
रूर इतिवृधः पशुकामस् तपो ऽतप्यत। स एतत् सामापश्यत्। तेनास्तुत। स एताम् इळाम् उपैत्। पशवो वा इळा। ततो वै पशून् अवारुन्द्ध। तद् एतत् पशव्यं साम। अव पशून् रुन्द्धे बहुपशुर् भवति य एवं वेद। यद् उ रूर इतिवृध्रो ऽपश्यत् तस्माद् व् एव रौरवम् इत्य् आख्यायते॥
अथ यौधाजयम्। इन्द्रो वै युधाजीवन्न् एतत् सामापश्यत्। यद् इन्द्रो युधाजीवन्न् एतत् सामापश्यत् तद् यौधाजयस्य यौधाजयत्वम्। अयुध इव द्विषन्तं भ्रातृव्यं जयति य एवं वेद॥
युधाजीवो वैश्वामित्रः प्रतिष्ठाकामस् तपो ऽतप्यत। स एतत् सामापश्यत्। तेनास्तुत। ततो वै स प्रत्यतिष्ठत्। तद् एतत् प्रतिष्ठा साम। प्रतितिष्ठति य एवं वेद। यद् उ युधाजीवो वैश्वामित्रो ऽपश्यत् तस्माद् व् एव यौधाजयम् इत्य् आख्यायते॥1.122॥
यौधाजयेन वै देवा असुरान् संविच्य रौरवेणैषां रवमाणानां स्वम् आददत। यौधाजयेनैव द्विषन्तं भ्रातृव्यं संविच्य रौरवेणास्य रवमाणस्य स्वम् आदत्ते य एवं वेद॥
रौरवेण वै देवा ऊर्ध्वास् स्वर्गं लोकम् आरोहन्। तान् असुरा ओ वा इत्य् एवान्वारोहन्। तद् देवाः प्रत्यबुध्यन्त। त एतं स्तोभम् अपश्यन्। तेनैनान् ओ हा उ वा इत्य् अवाचो ऽवाघ्नन्। उत्सो देवो हिरा हा उ वा इति भूमिस्पृश एवाकुर्वन्। अन्तगतम् इव सामासीत्। रौरवस् स्वर्गो लोक एव यच्छेत्। ऊर्ध्वं प्रतिहाराद् उद्गाता। स्वर्गस्य लोकस्य समष्ट्यै। ण्याया औ हो वा हो इळा इति। स्वरेणैव संतत्य स्वर्गं लोकं समश्नुते॥
एतावन्ति ह खलु वै सामान्य् एतावती सामक्लृप्तिर् एतावान् उ सामबन्धुः। स्वारं भवति। प्राणो वै स्वरः। अथ निधनवत्। आत्मा वै निधनम्। अथैळम्। पशवो वा इळा। प्राणम् आत्मानं पशूंस् तान् एवैतत् संदधाति। सर्वयास्य सामक्लृप्त्या सर्वेण सामबन्धुना स्तुतं भवति य एवं वेद॥1.123॥
द्वे उ ह वाव सामनी स्तोभवच् चैवास्तोभवच् च। तयोर् यत् स्तोभवत् तत् क्षत्रम् अथ यद् अस्तोभवत् तद् ब्रह्म। उभयं ब्रह्म च क्षत्रं चावरुन्द्धे य एवं वेद॥
अथ यौधाजयं त्रिणिधं सवनानां क्लृप्त्यै। पवमानेन वै देवेभ्यो ऽन्नाद्यं प्रदीयते। तन् मध्यनिधनं भवत्य् अन्नाद्यस्य विशेषाय। यद् धि देवेभ्यस् सर्वम् अन्नाद्यं प्रदीयेत न तद् इहान्नाद्यं परिशिष्येत यन् मनुष्याश् च पशवश् चोपजीवेयुः। तद् यन् मध्येनिधनं भवत्य् अन्नाद्यस्यैव विशेषाय॥
देवानां वा असुरा यज्ञवशसम् अचिकीर्षन्। यावत्य् एतद् दक्षिणानां काले न स्तुवन्ति न शंसन्ति। तद् देवाः प्रत्यबुध्यन्त। त एतत् सामापश्यन्। तेनास्तुवत। ते प्रातस्सवनम् एव प्रथमेन निधनेन पर्यगृह्णन् माध्यंदिनं द्वितीयेन तृतीयसवनं तृतीयेन। तान् एव वज्रान् उदयच्छन्। तान् एव वज्रान् उद्यतान् असुरा नोपाधृष्णुवन्। ततो वै देवा अभवन् परासुराः। भवत्य् आत्मना परास्य द्विषन् भ्रातृव्यो भवति य एवं वेद॥
अथ ह स क्लृप्त एव पवमानो यस्मिन्नावि त्रिणिधनं भवति सवनानाम् एव क्लृप्त्यै॥1.124॥
देवासुरास् संयत्ता ज्योङ् न व्यजयन्त। बृहस्पतिर् देवानां पुरोहित आसीद् उशना काव्यो ऽसुराणाम्। तद् यद् एवावस्ताद् ब्रह्माक्रियत तत् परस्ताद् अक्रियत। तत् समानं ब्रह्म न व्यजयत्। तेषां ह त्रिशीर्षगन्धर्वो विजयस्यावेत्। स हैषास। तस्य हाप्स्व् अन्तर् नौनगरं परिप्लवम् आस। तद् इन्द्रो ऽन्वबुध्यत त्रिशीर्षा वै नौ विजयस्य वेदेति। तस्या जायाम् आर्छद् एतस्यैव विजयस्य कामाय। ताम् अब्रवीत् पृच्छतात् पतिं य इमे देवासुरास् संयत्ता ज्योग् अभूवन् कतर एषां जेष्यन्तीति। तद् धैव संवदमानावाजगाम। स ह तद् एव नौमण्ड उपशिश्लेष जलायुका वा तृणकं वा भूत्वा। सेयं पतिं पप्रच्छ य इमे देवासुरास् संयत्ता ज्योग् अभूवन् कतर एषां जेष्यन्तीति॥1.125॥
मोच्चैर् इति होवाच कर्णिनी वै भूमिर् इति। तद् इदम् अप्य् एतद् आहुर् मोच्चैः कर्णिनी वै भूमिर् इति। नेति होवाच ब्रूह्य् एवेति। स होवाच ब्राह्मणाव् इमौ समं विदतुर् बृहस्पतिर् अयं देवेषूशना काव्यो ऽसुरेषु। तौ यत् कुरुतस्तत् समम् एव यच्छति। या इतर आहुतीर् जुहोति ता इतरः। तास् समेत्य यथायथम् एव पुनर् विपरायन्ति। तयोर् यतरो यतरान् उपसमेष्यति ते जेष्यन्तीति। तद् धैवेन्द्रो ऽनुबुध्य शुको भूत्वोत्पपात। तं हान्वीक्ष्य पतन्तम् उवाच येषाम् असौ हरितवर्णकः पतति ते जेष्यन्तीति। स होशनसं काव्यम् आजगामासुरेषु। तं होवाचर्षे कम् इमं जनं वर्धयस्य् अस्माकं वै त्वम् असि वयं वा तवास्मान् अभ्युपावर्तस्वेति। कथेति होवाच केन मोपमन्त्रयस इति। या इमा विरोचनस्य प्राह्लादेः कामदुघस् ताभिर् अतितभिर्ह प्रत्वित्वेव प्रदुदुवतुः। तौ हासुरा अन्ववजह्रिरे। तौ हान्वाजग्मुः। स होवाचर्षे ऽनु वै नाव् इमे ऽसुरा अग्मन्न् इति। स वै तथा कुर्व् इति होवाच यथा नाव् एतेनान्वागच्छान् इति। तौ हैतत् प्रतिपेदाते --॥1.126॥
[१]स्वायुधः पवते देव इन्दुर् अशस्तिहा वृजना रक्षमाणः।
पिता देवानां जनिता सुदक्षो विष्टम्भो दिवो धरुणः पृथिव्याः॥
इति। आ दिवो विष्टम्भम् उच्छिश्रियतुः। तं हैवासुरान् नातीयुः। तौ हाभिः कामदुघाभिर् देवानां जग्मतुः। तौ हागतौ महयांचक्रे
ऋषिर् विप्रः पुरएता जनानाम् ऋभुर् धीर उशना काव्येन।
स चिद् विवेद निहितं यद् आसाम् अपीच्यं गुह्यं नाम गोनाम्॥
इति। ता एताः पशव्या ऋचः। अव पशून् रुन्द्धे बहुपशुर् भवत्य् एताभिर् ऋग्भिस् तुष्टुवानः। तास्व् औशनम्। उशना वै काव्यो देवेष्व् अमर्त्यं गन्धर्वलोकम् ऐच्छत्। स एतत् सामापश्यत्। तेनास्तुत। ततो वै स देवेष्व् अमर्त्यं गन्धर्वलोकम् आश्नुत। तद् एतल् लोकवित् साम। अश्नुते देवेष्व् अमर्त्यं गन्धर्वलोकम् एते तुष्टुवानः। यद् उशना काव्यो ऽपश्यत् तस्माद् औशनम् इत्य् आख्यायते॥
तत् स्वारं भवति। स्वरेण वै देवेभ्यो ऽन्नाद्यं प्रदीयते। ऋक्समं पवमानान्ते भवति। नर्चा सामातिरेचयन्ति नर्चं साम्ना। तद् यद् इहेव चेहेव च पवमानेन स्तुवत एतस्यैव समतायै समं क्लृप्त्यै। पदानुस्वारं पुरस्ताद् गायत्रं भवति पदानुस्वारम् उपरिष्टात् पवमानान्ते। तस्माद् उभयतःप्राणाः प्रजा ऊर्ध्वाश् चावाचीश् च॥
द्विषाम्णी गायत्री। यो ऽयं अवाङ् प्राण एष एव सः। तस्माद् एतेन द्वयं प्राणेन करोति भस्म च करोति वातं च॥
द्विषाम्णी बृहती। यो ऽयं प्राङ् प्राण एष एव सः। तस्माद् एतेन द्वयं प्राणेन करोति रेतश् च सिञ्चति मेहति च॥
एकसाम्नी त्रिष्टुप्। नाभिर् एव सा। तस्याम् एकं साम। तस्माद् एतेनैकम् एव प्राणेन करोति यद् एव प्राणान् उदन्तो ऽनूदनिति॥1.127॥
प्रजापतिर् यद् बृहद्रथन्तरे असृजत स मन एवाग्रे बृहद् अपश्यत्। वाचं रथन्तरम् अभिव्याहरत्। तद् यद् वाचं रथन्तरम् अभिव्याहरत् तस्माद् उ रथन्तरं पूर्वं योगम् आनशे। अथ यन् मनो ऽग्रे बृहद् अपश्यत् तस्माद् उ बृहद्रथन्तरे इत्य् आख्यायेते॥
मनो व पूर्वम् अथ वाक्। मनो वै बृहद् वाग् रथन्तरम्। ऋग् वै रथन्तरं साम बृहत्। ब्रह्म वै रथन्तरं क्षत्रं बृहत्। इदं वै रथन्तरम् अदो बृहत्॥
यद् वा एजत इव तद् राथन्तरं यद् उपस्थितं तद् बार्हतम्। ये वा अन्यतोदन्ताः पशवस् ते राथन्तरा य उभयतोदन्तास् ते बार्हताः। या वै तिरश्ची विद्युत् सा राथन्तरी योर्ध्वा सा बार्हती॥
रथन्तरस्य महिम्नस् संभृत्य रथन्तरेणोद्गायेत् यस् ते अग्नौ महिमा यस् ते अप्सु रथे यस् ते महिमा स्तनयित्नौ य उ ते वाते यस् ते महिमा तेन संभव रथन्तरं द्रविणस्वन् न एधि इति। द्रविणस्वद् एवोद्गात्रे भवति। द्रविणस्वद् यजमानाय द्रविणस्वद् एवोद्गात्रे भवति द्रविणस्वद् यजमानाय द्रविणस्वद् प्रजाभ्यः॥1.128॥
देवासुरा अस्पर्धन्त। ते देवा वज्रं क्षुरपविम् असृजन्त पुरुषम् एव। तम् असुरान् अभ्यवृञ्जन्। सो ऽसुरान् अपोप्य देवान् अभ्यावर्तत। तस्माद् देवा अबिभयुः। तम् अभिपद्य बृहद्रथन्तरयोः प्रौहन्। स एष वज्रः क्षुरपविर् बृहद्रथन्तरयोः पुरुष एव। स यं द्विष्याद् बृहद्रथन्तरयोर् एनम् मुखे ऽपिदध्यात्। यदि राथन्तरस् सोमस् स्याद् रथन्तरे प्रस्तुते ब्रूयात् दिवं पितरम् उपश्रये बृहन् मा मा हिंसीः इति। अथानुमन्त्रयेत प्राणैर् अमुष्य प्राणान् वृङ्क्ष्व॥ तक्षणेन तेक्षणीयसायुर् अस्य प्राणान् वृङ्क्ष्व॥ क्रुद्ध एनं मनुन्या दण्डेन जहि॥ धनुर् एनम् आतत्येष्वा विध्य इति। बृहद्रथन्तरयोर् एवैनं मुखेऽपिदधाति। यं द्वेष्टि तं पुरा संवत्सरात् प्राणो जहाति।
यो वै देवरथं वेद रथी भवति। यज्ञो वाव देवरथः। तस्य बहिष्पवमानम् एव रथमुखं बृहद्रथन्तरे अश्वाव् आज्यानि योक्त्राण्य् अभीशू पवमानौ पक्षसी -- ॥1.129॥
-- औशन - कावे आणी नौधसकालेये बन्धुराधिष्ठानं वामदेव्यम् उपस्थो यज्ञायज्ञीयम् अध्यास्थाता स एष पुरुषः। एष वै देवरथः। रथी भवति य एवं वेद। यदि राथन्तरस् सोमस् स्याद् बृहन् नान्तर्यात्। यदि बार्हतस् सोमस् स्याद् रथन्तरं नान्तर्यात्। हो वै बृहद्राथन्तरम्। रथन्तरे प्रस्तुते हो इत्य् उक्त्वादिम् आददीत। बृहद् एव तद् रथन्तरस्य मुखतो युनक्ति। (आ वै रथन्तरं बार्हतम्।) बृहति प्रस्तुते आ इत्य् उक्त्वादिम् आददीत। रथन्तरम् एव तद् बृहतो मुखतो युनक्ति। अस्थूरिं देवरथं करोति प्रति यज्ञं स्थापयति प्रत्य् आत्मना तिष्ठति॥
एष वै देवरथो यद् रथन्तरम्। रथन्तरे प्रस्तुते पृथिवीं हस्ताभ्यां गच्छेद् देवरथस्यानपव्याथाय॥1.130॥