सामग्री पर जाएँ

जैमिनीयं ब्राह्मणम्/काण्डम् १/१११-१२०

विकिस्रोतः तः
← कण्डिका १०१-११० जैमिनीयं ब्राह्मणम्/काण्डम् १
कण्डिका १११-१२०
[[लेखकः :|]]
कण्डिका १२१-१३० →

प्रजापतिः प्रजा असृजत। ता अप्राणा असृजत। ताभ्य एतेनैव साम्ना प्राणम् अदधात्। प्राणो वै गायत्रम्। सर्वम् आयुर् एति य एवं वेद। ताः प्राणं विविदाना रक्षांस्य् अन्वसचन्त। ता एतद् एव साम गायन्न् अत्रायत। यद् गायन्न् अत्रायत तद् गायत्रस्य गायत्रत्वम्। त्रायत एनं सर्वस्मात् पाप्मनो य एवं वेद

तद् ऊर्ध्वम् इव गेयम्। ऊर्ध्वो वै स्वर्गो लोकः। स्वर्गस्यैव लोकस्य समष्ट्यै। त्र्यावृद् गेयम्। त्रयो वा इमे लोकाः। एषां लोकानाम् आप्त्यै। त्रयुदासं गेयम्। त्रयो वै प्राणापानव्यानाः। तेषां संतत्यै। सम् अस्मै प्राणापानव्यानास्तायन्ते य एवं वेद। त्र्यावृद् गेयम्। त्रयो वा इमे लोकाः। एषां लोकानां संतत्यै। सम् अस्मा इमे लोकास् तायन्ते य एवं वेद॥1.111॥


पितृदेवत्यं त्व् अस्य नोपशवस्तवा इत्य् आहुः। एतद् ध वा अस्य पितृदेवत्यं यत् तान्ताकरोति। यदि सामिताम्ये मध्य ऋचो वान्यान्। प्राणो वा ऋक् प्राणो गायत्रम्। प्राणस्यैतन् मध्ये प्राणं समानयति॥

यद्य् उ च इयात् प्राणापानव्यानान् गायेत्। प्राण इति द्वे अक्षरे अपान इति त्रीणि व्यान इति त्रीणि। तद् अष्टौ संपद्यन्ते। अष्टाक्षरा गायत्री। तेन गायत्र्यै नैति॥

साम्नो ऽन्तर् अरण्यनापत्यं। यो ह वै साम्नो ऽन्तर् अरण्यम् अवैति सर्वज्यानिं वा जीयते प्र वा मीयते। एतद् ध वै साम्नो ऽन्तर् अरण्यं यत् प्रस्तुतम् अनभिस्वरितम् आदीयते॥

स्वरेण संपाद्योद्गायेत्। एतद् वै साम्नस् स्वं यत् स्वरः। स्वेनैवैनत् तत् समृद्धयति। एतद् वै साम्नो ऽन्नाद्यं यत् स्वराः। अन्नाद्येनैवैनत् तत् समृद्धयति। एतद् वै साम्न आयतनं यत् स्वरः। आयतनेनैवैनत् तत् समृद्धयति। एतद् वै साम्नः प्रियं धाम यत् स्वरः। प्रियेणैवैनत् तद् धाम्ना समृद्धयति॥1.112॥


देवान् वै यज्ञस्याहुतिर् नागच्छत्। स प्रजापतिर् ऐक्षत कथं नु देवान् यज्ञास्याहुतिर् गच्छेद् इति। स एते द्वे अक्षरे गायत्र्या उदखिदत्। स एव द्वयक्षरो वषट्कारो ऽभवत् ततो वै देवान् यज्ञस्याहुतिर् अगच्छत्। अन्नं वै वषट्कारः। अत्त्य् अन्नं य एवं वेद॥

इन्द्रो वृत्राय वज्रम् उदयच्छत्। तस्यैते अक्षरे चक्राव् आस्ताम्। वज्रो वा एषः। य एते निस्पृशेद् वज्रं निस्पृशेत्॥

यो वै दुग्धाद् दुग्धम् उपैति न स आप्यायते। अथ यो ऽदुग्धाद् दुग्धम् उपैति स आप्यायते। अदुग्धाद् वा एष दुग्धम् उपैति य एते अक्षरे उपैति। तस्माद् एते अक्षरे नोपोत्ये। यस्य वै सर्वा गायत्री गीयते सर्वम् अस्य गृहे अधिगम्यते। यस्यो नागीयत ईश्वरो रूक्षो भवितोः। अन्यतरद् अक्षरम् अवगृह्य वाचं चतुर्विंशीम् उपायान्। नास्योना गायत्री गीयते नि च स्पृशति न च॥1.113॥


यो वा अंशुम् एकाक्षरं वेदान्नाद एव श्रेष्ठस् स्वानां भवति। अथो सह एव तस्यै जनताया उद्गायति। वाग् वा अंशुर् एकाक्षरः। तद् एव गायत्रम्। गायत्र्यै प्रस्तुतायै यद् आदिर् उत्तरम् अक्षरं स स्थाणुः। यस् तद् उद्गायन्न् आरभते स्थाणुम् आरभते। य एनं निर्हरति गायत्रीं छिद्रां करोति। गायत्रीं छिद्राम् अनु यज्ञस् स्रवति। यज्ञम् अनु यजमानो यजमानम् अनु प्रजाः॥

सध्र्यश्वो ह स्माह तैग्मायुधिः क उ स्विद् अद्य रसदिहाव् उरसि निमृदिष्यत इति। एते ह वै रसदिहौ ये एते गायत्र्या उत्तमे अक्षरे। यस् ते उद्गायन्न् आरभते रसदिहाव् उरसि निमृदते। य उ एने निर्हरति गायत्रीं छिद्रां करोति। गायत्रीं छिद्राम् अनु यज्ञस् स्रवति यज्ञम् अनु यजमानो यजमानम् अनु प्रजाः॥1.114॥


तानि सर्वाण्य् अक्षराण्य् उद्धृत्य वाचं दध्यात्। वाग् वै ब्रह्म। तद् यथा चर्मणा कृतिकण्टकान् प्रावृत्यातीयाद् एवम् एवैतद् वाचा ब्रह्मणा यज्ञस्थाणुं प्रमृद्य स्वस्त्य् अतिक्रामति नार्तिम् आर्छति॥

अव वा एतत् प्रतिहर्ता साम्नश् छिद्यते यद् गायत्रस्य न प्रतिहरति। प्रस्तूयमानं मनसा प्रतिहिंकुर्यात्। अपान्य वाक् इति ब्रूयात्। तथा साम्नो नावच्छिद्यते नार्तिम् आर्छति। यो वा अक्षरम् अंशुमद् वेद वहन्त्य् एनम् अंशुमतीस् संयुक्ताः। वाग् वा अक्षरम्। तस्यै प्राण एवांशुः। वहन्त्य् एनम् अंशुमतीस् संयुक्ता य एवं वेद॥1.115॥


मरुत्वतीः प्रतिपदो भवन्ति। मरुत्वन्तं ग्रहं गृह्णन्ति। मरुत्वान्वा इन्द्रो वृत्रम् अहन् वार्त्रहत्याय। उच्चा ते जातम् अन्धसा इत्य् अन्धस्वतीर् भवन्ति। अहर् वा अन्धः। अह्ना एव रम्भः। यज्ञो वा अन्धः। यज्ञस्यैवारम्भः। त्रीणि यज्ञे ऽन्धांसीति ह स्म पूर्वे ब्राह्मणा मीमांसन्ते उच्चा ते जातम् अन्धसा॥ वसोर् मन्दानम् अन्धसः॥ पुरोजिती वो अन्धसः इति। त्रयः पशुषु भोगाः प्रातर् मध्यंदिने सायम्। तान् एवैतेनावरुन्द्धे॥

इमे वै लोका सह सन्तौ व्यैताम्। तयोर् न किं चन समपतत्। ते देवमनुष्या अशनायन्। इतः प्रदानाद् धि त देवा जीवन्त्य् अमुतः प्रदानान् मनुष्याः। स एताः प्रजापतिर् इति चोपश्याद् उच्चा ते जातम् अन्धसा इति। स उदित्येवेतो देवेभ्यो हव्यम् अवहत् दिवि सद् भूम्य् आददे इत्य् अमुतो वृष्टिम् अच्यावयत्। ताव् इमौ लोकौ सवासिनाव् अकरोत्। ताव् अस्मै कामम् अपिन्वाताम्। कामम् अस्मा इमौ लोकौ पिन्वाते य एवं वेद॥

तासु गायत्रम् उक्तब्राह्मणम्॥1.116॥

अथामहीयवम्। प्रजापतिः प्रजा असृजत। ता अनशना असृजत। ता अशनायन्तीर् अन्यान्याम् आदन्। स प्रजापतिर् ऐक्षत कथं नु म इमाः प्रजा नाशनायेयुर् इति। स एतत् सामापश्यत्। तेनाभ्यो ऽन्नाद्यं प्रायच्छद् वर्षम् एवापनिधनेन। ताभ्यो ऽवर्षद् एव नोदगृह्णात्। स एतन् निधनम् अपश्यत्। तद् उपैत्। तत आभ्य उद्गृह्णात्। एतस्य ह वा इदं साम्नः कृतो वर्षति च पर्जन्य उच् च गृह्णाति॥

यो वृष्टिकामस् स्याद् एतेनैवापनिधनेन स्तुवीत। वर्षुको हास्मै पर्जन्यो भवति। स यद्य् अतीव वर्षेद् एतद् एव निधनम् उपेयाद् उद् अहास्मै गृह्णाति। वर्षति च हास्मै पर्जन्य उच् च गृह्णाति य एवं वेद॥

ता यद् एनं प्रजास् सुहिता अशिता आमहीयन्त तद् आमहीयवस्यामहीयवत्वम्। ऐनं भार्यास् सुहितास् सुहितं महीयन्ते य एवं वेद॥

ता एनम् अन्नं विविदाना नापाचायन्। सधमादम् इवैवासन्। अन्नं हि श्रीः। सो ऽशोचत्। स नामहीयत। स ऐक्षत कथं न्व् इमा अहं प्रजास् सृजेय ता मा सृष्टा नापचायेयुर् इति। स एतत् सामापश्यत्। तेनास्तुत॥1.117॥


स स्तौषे इत्य् एव निधनम् उपैत् ता अतोषयत्। ता अस्य वशम् आयन्। तोषयति द्विषतो भ्रातृव्यान् वशम् अस्य स्वा आयन्ति य एवं वेद। स यद् आमहीयमाना अपश्यत् तद् आमहीयवस्यामहीयवत्वम्। यद् व् एवैना वशे कृत्वामहीयत तद् व् एवामहीयवस्यामहीयवत्वम्। आ स्वान् वशे कृत्वा महीयते य एवं वेद। तद् ये ऽस्य स्वा अवशीकृता इव स्युर् एतद् एवैषां मध्य आसीनो ऽधीयीत। वश एवैनान्कुरुते॥

उत्तरकुरवो हाहुर् अवषट्कृतस्यैव सोमस्य कुरुपञ्चाला भक्षयन्तीति। एकैकस्यै देवतायै होता वषट्करोति सर्वाभ्य उद्गाता। सर्वदेवत्यो ह्य् उद्गाता। आमहीयवस्य निधनेन वषट् कुर्याद् इति। वषट्कृतस्यैव सोमस्य भक्षयन्ति। तद् उ ह स्माह मार्जश् शैलनो भ्रातृव्यान् वाव निधनेन तोषयतीति। पुरस्ताद् एव निधनस्य वषट्कुर्यात् वौषड् भूमी ओ ददा इति। वषट्कृतस्यैव सोमस्य भक्षयति॥1.118॥


यो वै यज्ञस्योधर् वेद दुहे यज्ञम्। पवमानो वाव यज्ञः। तस्य गायत्र्य् एवोधः। गायत्रीं चतुर्ऋचां कुर्यात्। यज्ञस्यैव तद् ऊधर् दधाति दुहे यज्ञम्। यो वै यज्ञस्य प्रतिष्ठां वेद प्रति यज्ञं स्थापयति प्रत्य् आत्मना तिष्ठति॥

पवमानो वाव यज्ञः। तस्य गायत्र्य् एव प्रतिष्ठा। गायत्रीं चतुर्ऋचां कुर्याद्। यज्ञस्यैव तत्प्रतिष्ठां दधाति। प्रति यज्ञं स्थापयति प्रत्य् आत्मना तिष्ठति॥

उच्चा ते जातम् अन्धसा॥ अस्य प्रत्नाम् अनु द्युतम्॥ एना विश्वान्य् अर्य आ इत्य् एतासु गायत्रं कुर्यात्। तास्व् आमहीयवम्। स यद् धाय्यां चतुर्थीं दधाति तेन चतुर्ऋचं भवति। प्रतितिष्ठतीभः। प्रति यज्ञं स्थापयति प्रत्य् आत्मना तिष्ठति॥1.119॥


त्रीणि ह वै छन्दांसि यज्ञं वहन्ति गायत्री त्रिष्टुब् जगती। तद् एवानुष्टुब् आन्ताद् अन्वायत्ता। तया देवास् स्वर्गं लोकम् अजिगांसन्। तया न व्याप्नुवन्। तस्यां चतुष्पदः पशून् उपादधुर् गां चाश्वं चाजां चाविं च। तया व्याप्नुवन्। ते ऽब्रुवन् स्वर्गं लोकं गत्वा बृहती वा इयम् अभूद् ययेदं व्यापामेति। तद् एव बृहत्यै बृहतीत्वम्। न ततः पुरा बृहती नाम छन्द आस। सा वा एषा पशव एव यद् बृहती॥

येन निधनम् उपयन्ति। तेन प्रस्तौति। तेनो एव पुनर् आदिम् आदत्ते। तस्मात् पशवो यत एव प्रजायन्ते ततस्संभवन्ति। ते तत एव पुनः प्रजायन्ते॥

न बृहत्या वषट्कुर्यात् पशूनाम् अप्रवर्गाय। यद् बृहत्या वषट्कुर्याद् वज्रेण वषट्कारेण पशून् प्रवृञ्ज्यात्॥1.120॥