सामग्री पर जाएँ

जैमिनीयं ब्राह्मणम्/काण्डम् १/१३१-१४०

विकिस्रोतः तः
← कण्डिका १२१-१३० जैमिनीयं ब्राह्मणम्/काण्डम् १
कण्डिका १३१-१४०
[[लेखकः :|]]
कण्डिका १४१-१५० →

एकम् अक्षरं स्तोभति। तस्माद् अरेणारेण रथः प्रतितिष्ठन्न् एति॥

द्वे अक्षरे स्तोभति। द्वे रथस्य पक्षसी। पक्षाभ्याम् एव तद् देवरथं प्रतिष्ठापयति॥

त्रीण्य् अक्षराणि स्तोभति। द्विपाद् वै यजमान आत्मा तृतीयः। यजमान एव तत् प्रतितिष्ठति। अथो त्रय इमे लोकाः। तान् एव तद् आप्नोति॥
चत्वार्य् अक्षराणि स्तोभति। चतस्रो दिशश् चतुष्पादाः पशवः। दिक्षु चैतत् पशुषु च प्रतितिष्ठति॥

पञ्चाक्षराणि स्तोभति। पांक्तो यज्ञः पांक्ताः पशवः। यज्ञे चैतत् पशुषु च प्रतितिष्ठति॥

षड् अक्षराणि स्तोभति। षड् वा ऋतवः। ऋतुष्व् एव तत् प्रतितिष्ठति। अथो षड् वै छन्दांसि। तान्य् एव तद् आप्नोति॥

सप्ताक्षराणि स्तोभति। सप्तपदा वै शक्वर्यः।शाक्वराः पशवः। पशुष्व् एव तच् छक्वर्यां प्रतितिष्ठति। अथो सप्त चतुरुत्तराणि छन्दांसि सप्त मुख्याः प्राणाः। तान्य् एव तद् आप्नोति॥

अष्टाक्षराणि स्तोभति। अष्टाक्षरा वै गायत्री। तेजो ब्रह्मवर्चसं गायत्री। तेजस्व् एव तद् ब्रह्मवर्चसे प्रतितिष्ठति। अथो अष्टाशफेष्व् एव पशुषु॥1.131॥


नवाक्षराणि स्तोभति। नव वै पुरुषे प्राणाः। प्राणान् एवैतद् द्विषतो भ्रातृव्यस्य वृञ्ज्यात्। प्राणान् आत्मन् धत्ते ऽथो भ्रातृव्यस्य। त्रिवृत एव स्तोमस्य स्तोत्रम् आप्नोति॥

दशाक्षराणि स्तोभति। दशाक्षरा विराड् अन्नं विराट्। विराज्य एव तद् अन्नाद्ये प्रतितिष्ठति। अथो दश प्राणाः। तान् एव तद् आप्नोति॥

एकादशाक्षराणि स्तोभति। एकादशाक्षरा त्रिष्टुप्। इन्द्रियं वीर्यं त्रिष्टुप्। इन्द्रियम् एव तद् वीर्ये प्रतितिष्ठति॥

द्वादशाक्षराणि स्तोभति। द्वादशाक्षरा वै जगती। पशवो जगती। पशुष्व् एव तज् जगत्यां प्रतितिष्ठति। अथो द्वादश मासाः। तान् एव तद् आप्नोति॥

त्रयोदशाक्षराणि स्तोभति। य एवासाव् अधिचरस् त्रयोदशो मासस् तम् एव तद् आप्नोति॥

चतुर्दशाक्षराणि स्तोभति। संवत्सरो वै चतुर्दशः। संवत्सर एव तत् प्रतितिष्ठति॥

पञ्चदशाक्षराणि स्तोभति। पञ्चदश वा अर्धमासस्य रात्रयः। अर्धमासश एव संवत्सरम् आप्नोति॥

षोडशाक्षराणि स्तोभति। षोडशकलो वै पुरुषः। कला एव तद् द्विषन्तं पाप्मानं भ्रातव्यम् अवाञ्चम् अपवहन्ति श्रियम् आत्मनाश्नुते। अथो षोडशिन एव स्तोमस्य स्तोत्रम् आप्नोति॥

सप्तदशाक्षराणि स्तोभति। प्रजापतिर् वै सप्तदशः। प्रजापताव् एव तत् प्रतितिष्ठति॥1.132॥


एतद् अन्यत् स्तोभेत्। ऋचम् एवान्य गायेत्। स यद् ऋचम् एव गायति तेन रथन्तरस्य रूपं नैति। ऋग् घि रथन्तरं साम बृहत्। यद्य् उ स्तोभेद् अष्टाव् एवाक्षराणि स्तोभेत्। तद् व् एव संप्रति। स्वर् दृशं प्रतिविपश्येच् चक्षुषो ऽप्रवर्हाय॥

यद् ईशानम् इन्द्र इति प्रतिहरेद् ईशानो यजमानस्य पशून् अभिमानुकस् स्यात्। अथ यत् शानम् इन्द्र इति प्रतिहरति नेशानो यजमानस्य पशून् अभिमन्यते शान्ताः प्रजा एधन्ते॥

प्रतिहारेप्रतिहार उद्गाता इळा इति ब्रूयात्। पशवो वा इळायतनं रथन्तरम्। आयतन एव तद् एतान् पशून् प्रतिष्ठापयति। नस्थुषः इति ब्रूयात्। यत् तस्थुषः इति ब्रूयात् स्थायुकास्य श्रीस् स्यात्। अथ यत् नस्थुषः इत्य् आह नास्य श्रीस् तिष्ठति बहवो ऽस्य स्वायातेन यान्ति॥

बृहद्रथन्तरे व्यावर्तयेत्। यद् ध वै बृहद्रथन्तरे न व्यावर्तयेद् यथा महावृक्षौ समृत्य शाखा विपरिशृणीत एवं प्रजाः पशून् विपरिशृणीयाताम्। हो वा हा वै वृहद् ओ वा हा रथन्तरम्। बृहद्रथन्तरे एवैतद् व्यावर्तयति वि पाप्मना वर्तते य एवं वेद॥1.133॥


यथा स्याद् एवं बुभूषन्न् उपेयात्। यथास्येद् एवं भ्रातृव्यवान्। जयत्य् आत्मना परास्य द्विषन् भ्रातृव्यो भवति य एवं वेद॥

बृहद्रथन्तरे यद् असृज्येतां ताभ्यां भीषा प्रजाः पशव उदवेपन्त। ते आत्मानम् एव पर्यैक्षेतां किं नु नाव् इदं क्रूरम् इवात्मनो यस्माद् भीषा प्रजाः पशव उदवेपिषतेति। ते निधने एवापश्यताम्। ते अरण्ये निधाय ग्रामम् अभ्यवैताम्। तद् एव स्वकृतम् इरिणम् अभवत्। तस्माद् आहुर् न स्वकृतम् इरिणम् अध्यवसेयम्। ईश्वरः पापीयान् भवितोर् यत्स्वकृतम् इरिणम् अध्यवस्यतीति। बृहद्रथन्तरयोर् ह वा एतन् निधनाभ्यां निर्दग्धम्। ते ह वा एते ग्रामेगेये एवापनिधने यद् बृहद्रथन्तरे। कामं ह वा एताभ्याम् अपनिधनाभ्यां ग्रामे स्तुवीत॥1.134॥


अष्टाक्षरेण प्रस्तौति। द्व्यक्षरेणोत्तरे प्रस्तौत्य अभिक्रान्त्या अनपभ्रंशाय॥

अष्टाक्षरेण प्रस्तौति। द्व्यक्षरेणोत्तरे प्रस्तौति। द्विपादम् एव तद् अष्टाशफेषु पशुष्व् अध्यूहति। तस्माद् द्विपाद् अष्टाशफान् पशून् अधितिष्ठति॥

अष्टाक्षरेण प्रस्तौति। द्व्यक्षरेणोत्तरे प्रस्तौति। द्विपादम् एव तद् अष्टाशफेषु पशुष्व् अध्यूहति। तस्माद् द्विपाद् अष्टाशफान् पशून् अधितिष्ठति॥

अष्टाक्षरेण प्रस्तौति। द्व्यक्षरेणोत्तरे द्वे प्रस्तौति। तद् द्वादश संपद्यन्ते। द्वादश मासास् संवत्सरः। संवत्सरः प्रजापतिर् यज्ञः। संवत्सरम् एवैतेन प्रजापतिं यज्ञम् आप्नोति॥

अक्षरेषु रथन्तरं करोति। तस्माद् अरेणारेण रथः प्रतितिष्ठन्न् एति॥

रथन्तरेण वै देवा असुरान् संविच्य बृहता जालेनेवाभिन्यौब्जन्। रथन्तरेणैव द्विषन्तं भ्रातृव्यं बृहता जालेनेवाभिन्युब्जति य एवं वेद॥

रथन्तरेण वै देवा ऊर्ध्वास् स्वर्गं लोकम् आयन्। तान्य् असुररक्षसानि नव नवतय इमान् लोकान् अवृण्वन्। रथा हि नामासुः। ते देवा रथन्तरेणैव स्तुत्वा रथन्तरं समारुह्य स्वर्गं लोकम् अगच्छन्। ते ऽब्रुवन्न् अतारिष्म वा इमान् रथान् इति तद् एव रथन्तरस्य रथन्तरत्वम्। तरति द्विषन्तं भ्रातृव्यं य एवं वेद॥1.135॥


अशनया ह वै रथा अन्नम् उ वै रथन्तरम्। अन्नेनाशनयां घ्नन्ति। तांताम् अशनयाम् अन्ने हत्वा स्वर्गं लोकम् आरोहन्। बृहता वै देवास् स्वर्गं लोकम् अजिगांसन्। तेन न व्याप्नुवन्। तस्मिन्न् उष्णिक्ककुभा उपादधुः। तेन व्याप्नुवन्। ते ऽब्रुवन्स्वर्गं लोकं गत्वा बृहद् वावेदम् अभूद् येन स्वर्गं लोकं व्यापामेति। तद् एव बृहतो बृहत्त्वम्॥

द्वादश बृहतो रोहान् रोहेत् स्वर्गकाम उदधिम् अर्दयेद् वृष्टिकामः। यावन्त्य् उ ह वै बृहत्या अक्षराण्य् उष्णिक्ककुभोश् च तावद् इतस् स्वर्गो लोकः। प्र स्वर्गं लोकम् आप्नोति य एवं वेद॥1.136॥


अथो बृहत्। मनो बृहत्। द्वादशाक्षरः प्रस्तावः। तावद् धि साम। द्वादश मासास् संवत्सरः। संवत्सरस् साम। त्रयो बृहतो रोहा इम एव लोकाः। ते पुनर् नव भवन्ति प्राणा एव। मनो दशमम्। द्वादश बृहतस् तन्वो मासा[] एव। मासा रश्मयः। रश्मयो मरुतः। तैर् असाव् आदित्यो धृतः। स य एतद् एवं वेद यत्र कामयत इह ध्रिययेति ध्रियते तत्र। यो वै बृहतो बार्हतं पदं वेदोरु प्रजया पशुभिः प्रथते॥

द्वादशाक्षरं वा बृहतो बार्हतं पदम्। तद् आयच्छते ऽवगेयम्। यो वै बृहति त्रिवृतं सदेवं प्रोढं वेद गच्छति क्षत्रमात्राम्। रोहा ह वाव बृहतस् त्रिवृत्सदेवाः। ब्रह्मणो ऽस्य सतः क्षत्रस्येव प्रकाशो भवति य एवं वेद॥

इन्द्रो वृत्रं वज्रेणाध्यस्य नास्तृषीति मन्यमानः परां परावतम् अगच्छत्। तं प्रजापतिर् अकामयत तत् स्याद् इति। तम् ओ हो इत्य् अन्वाह्वयत्। सो ऽभवत्। ओ हो इत्य् एवावरुद्धो राजन्यः कुर्वीत। अव हैव गच्छति॥1.137॥


देवा वा असुरान् युधम् अपप्रयन्तो ऽब्रुवन् यन् नो वामं वसु तद् अपनिधाय युध्यामहै यद् अद्य कस्मिंश् चिद् भूते ऽभ्यवधावामेति। पशवो वाव तेषां वामं वस्व् आसीत्। तद् अपनिधाय युधम् अपपरायन्। ते देवा असुरान् अजयन्। ते विजिग्यानाः पुनर् आयन्त एकं भूतम् अभ्यवायन्। तन् न व्यजानतेदं मम वामम् इदं ममेति। ते ऽब्रुवन् वीदं भजामहा इति। तस्य विभागे न समपादयन्। ते ऽब्रुवन् प्रजापताव् एव पृच्छामहा इति। ते प्रजापताव् अपृच्छन्त। स प्रजापतिर् अब्रवीत् सर्वेषाम् एव व एतद् वामं सह सर्वान् व एतेन स्तोष्यन्ति सर्वान् व एतद् अवष्यति मा विभग्ध्वम् इति॥

तद् यद् गायत्रीषु स्तुवन्ति तेनाग्नेयम्। गायत्र्यो ह्य् अग्निर् इति। यत् पृष्ठं माध्यंदिनं तेनैन्द्रम्। यत् कवतीषु स्तुवन्ति तेन प्राजापत्यम्। यद् अनिरुक्तं तेन वैश्वदेवम्। यन्मैत्रावरुणाय स्तुवन्ति तेन मैत्रावरुणम्। तद् वा एतत् पशव्यं यद् वामदेव्यम्॥

अनेजन्न् उद्गायेत् पशूनाम् अपरावापाय। यद् एजन्न् उद्गायेत् पशून् परावपेत्। तद् आहुः प्रावृतो ऽनेजन्न् उद्गायेन् नेन् मोपद्रष्टानुव्याहराद् इइति। तद् उपकार्यरूपम्। प्रावृत एवानेजन्न् उद्गायेत्॥1.138॥


अक्षं ह स्म वा एतत् पुरा विशश् शीर्षन् निदधति य एव तम् उद्गायन् नावपातयिष्यति स न उद्गास्यतीति। तद् उ तद् उपकार्यरूपम् एव। कामम् एवोद्गेयम्॥

तस्य त्रीण्य अक्षराणि छन्नानि गायति। त्रयो वा इमे लोकाः। प्रजापतिर् वामदेव्यं प्रजापतिर् लोकानाम् अभिनेता। स नो लोकानाम् अभिनेता स नो लोकान् अभिनयाद् इति। वामदेव्यस्य स्तोत्र ऋषभम् अप्यर्जेत्। सौ हौ खा इत्य् एवर्षभः। योनिर् वामदेव्यं प्रजननम् ऋषभः। योन्याम् एवैतत् प्रजननेन प्रजननम् अपिसृजति प्रजात्यै॥

तत् परोक्षम् इव गेयम्। नर्चम् उपस्पृशेत्। वयो वै वामदेव्यम्। यद् ऋचम् उपस्पृशेद् यथा वयो ऽन्तरिक्षेण पतद् वृक्षम् ऋच्छेत् तादृक् तत्॥

पदे अन्तरा नावान्यात्। यद् पदे अन्तरावान्याद् यथा कर्तं पतेत् तादृक् तत्। उत्तरस्य पदस्यारभ्यावान्यात्। स यथाक्रमणाद् आक्रमणम् आक्रम्योदन्यात् तादृक् तत्॥1.139॥


विच्छिन्नम् इव वा एतत् साम। प्रतिहारं प्रति कयाशयिवा र्तोहायीति संक्रामेद् अनादृत्य प्रतिहारम्। तद् उ तद् दुष्कररूपम्। सामिताम्य् एतत्। प्रतिहार एव प्रतिह्रियमाणः वाक् इत्य् उद्गाता ब्रूयात्। वाग् वै ब्रह्म। वाचैवैनत् तद् ब्रह्मणा संदधाति॥

आपो वै देवानां पत्नय आसन्। ता मिथुनम् ऐच्छन्त। ता मित्रावरुणाव् उपैताम्। ता गर्भम् अदधत। ततो रेवतयः पशवो ऽसृज्यन्त। रेवतीषु पशुकामस्य कुर्यात्। पशुमान् एव भवति। ईश्वरो ह त्व् अप्रजापतिर् भवितोः। कवतीभ्यो ह्य् एति प्राजापत्याभ्यः। अथ ह वा एतद् भरद्वाजः पृश्निस्तोत्रं ददर्श पशुकामः कया नश् चित्र आ भुवत्॥ रेवतीर् न सधमादे॥ अभी षु णस् सखीनाम् इति। स यद् एकां रेवतीं मध्यतो ऽपिसृजति तेन पशुभ्यो नैति। यद् उ कवत्यौ प्राजापत्ये अभितो भवतस् तेनो प्रजायै नैति॥

तत् स्वारं भवति। प्राणो वै स्वरः। प्राणान् एवैतत् पशुषु दधाति। ईश्वरो ह तु स्वरेण यजमानस्य पशून् निस्वरितोः। यद्य् अनिधनं कुर्यात् प्राणम् अपिहन्यात्॥1.140॥


  1. मासोपरि आरंभिकटिप्पणी