कौल्मलबर्हिषे(त्वंह्येहि)

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
कौल्मलबर्हिषे द्वे
कौल्मलबर्हिषे द्वे .


त्वं ह्येहि चेरवे विदा भगं वसुत्तये ।
उद्वावृषस्व मघवन्गविष्टय उदिन्द्राश्वमिष्टये ॥ २४० ॥ ऋ. ८.६१.७

[सम्पाद्यताम्]

टिप्पणी

कौल्मलबर्हिषे (साम ३५२)

कौल्मलबर्हिषे (साम ३५४)

कौल्मलबर्हिषम् (परीतोषि) (ऊहगानम्)


ते देवा एतामिषुँ समsकुर्वन् , अग्निं शृङ्गम् , सोमं शल्यम् , विष्णुं कुल्मलं - मैसं ३.८.१

त्रिव्रतस्तिस्र, स्त्रिषन्धिर् हीषुः, शृङ्गं शल्यः कुल्मलं , द्विव्रतस्तिस्रो , द्विषन्धिर् हीषुः, शल्यश्च कुल्मलं च , एकव्रतस्तिस्र , एका ह्येवेषु , एषा वै परोवरीयसी दीक्षा - मैसं ३.८.२

यत्सुपर्णा विवक्षवो अनमीवा विवक्षवः । तत्र मे गच्छताद्धवं शल्य इव कुल्मलं यथा ॥शौअ २.३०.३

शल्याद्विषं निरवोचं प्राञ्जनादुत पर्णधेः । अपाष्ठाच्छृङ्गात्कुल्मलान् निरवोचमहं विषम् ॥शौअ ४.६.५

जिह्वा ज्या भवति कुल्मलं वाङ्नाडीका दन्तास्तपसाभिदिग्धाः । तेभिर्ब्रह्मा विध्यति देवपीयून् हृद्बलैर्धनुर्भिर्देवजूतैः ॥शौअ ५.१८.८

या सुपर्णापक्षणवानपक्षणवा ! अत्रा त आार्पितं मनः शल्य इव कुर्मलं यथा ।।पैसं २.१७.५ ।।

शल्याद्विषं निरवोचमञ्जनात् पर्णधेरुत । अपाष्ठाच्छृङ्गात् कुर्मलान्निरवोचमहं विषम् ।।पैसं ५.८.४।।

जिह्वा ज्या भवति कुल्मलं वाङ् नाडीका दन्तास्तपसा सुदिग्धाः।। तेभिर्ब्रह्मा विध्यति देवपीयून् हृद्बलैर्धनुर्भिर्देवजूतैः ।पैसं ९.१८.३ । ।

वज्रमेवैतत्संस्करोत्यग्निमनीकं सोमं शल्यं विष्णुं कुल्मलं। संवत्सरो हि वज्रः । अग्निर्वा अहः सोमो रात्रिरथ यदन्तरेण तद्विष्णुरेतद्वै परिप्लवमानं संवत्सरं करोति - माश ३.४.४.१५

ऋ. १०.१२६ ऋषिः

कुल्मलं, क्ली, (कुष् निष्कर्षे “कुषेर्लश्चं” । उणां ४ ।१८७ । इति क्मलन् लश्चान्तादेशः ।) पापम् । इति सिद्धान्तकौमुद्यामुणादिवृत्तिः ॥ शब्दकल्पद्रुमः

कासों कहों हिये की बात। तुम बिनु मेरे प्राननाथ! कोउ अपनो कहुँ न लखात॥ अपने हूँ सपने बनि बैठे, कैसे जिया जुड़ात। मन में रहत कुलबुली प्रतिपल, पन्थ न कोउ लखात॥ - कविताकोश