सामग्री पर जाएँ

पैप्पलादसंहिता/काण्डम् ०५

विकिस्रोतः तः


अथ अष्टर्चोनाम पञ्चमकाण्डः

५-१ 5.1
नमः पिशङ्गबाह्वै सिन्धौ जाताया उग्रायै ।
यो अस्यै नम इत् करदपेदस्य गृहादय ।। १ ।।
अपेहि नो गृहेभ्यो ऽपेहि वत्सतन्त्याः ।
आत्मानमत्र रोत्स्यस्यव रोह महानसात् ।।२।।
हा अम्ब सुहूतले अथो है षामनन्तमे ।
पुत्रो यस्ते पृश्निबाहुस्तमु त्वं सामनं कृधि ।
अथो दुहितरं नप्त्रीमथो त्वं सामना भव ।।३।।
भूतपतिर्निरजत्विन्द्रश्चेत: सदान्वाः ।
गृहस्य बुध्न आसीनास्ता वज्रेणाधि तिष्ठतु ।।४।।
अपेतेतः सदान्वा अहिंसन्तीरिमं गृहम् ।
धेनुर्वा अत्र य स्थास्यत्यनड्वान् वेरया सह ।।५।।
या सहमाना चरसि सासहान इव ऋषभः ।
सदान्वाघ्नीं त्वा वयं जैत्रायाच्छा वदामसि ।। ६ ।।
सहस्व नो अभिमातिं सहस्व पृतनायतः ।
सहस्व सर्वा रक्षांसि सहमानास्योषधे । ।७ ।।
त्वं व्याघ्रान् सहसे त्वं सिंहाँ उभयादतः ।
मक्षाश्चित् कृण्वाना मधु त्वं सहस ओषधे ।।८।।

५-२ 5.2
इयं पित्रे राष्ट्र्येत्यग्रे प्रथमाय जनुषे भूमिनष्टौ । तु. शौ.सं. ४.१
तस्मा एतं सुरुचं ह्वारमह्यं घर्मं श्रीणन्तु प्रथमस्य धास्योः ।।१।।
ब्रह्म जज्ञानं प्रथमं पुरस्ताद्विषीमतः सुरुचो वेन आवः ।
स बुध्न्या उपमा अस्य विष्ठाः सतश्च योनिमसतश्च वि वः।।२।।
प्र यो जज्ञे विद्वाङ अस्य बन्धुं विश्वानि देवो जनिमा विवक्ति ।
ब्रह्म ब्रह्मण उज्जभार मध्यान् नीचादुच्चात्स्वधा अभि प्र तस्थौ ।। ३ ।।
महान् मही अस्कभायद्विजातो द्यां द्वितः पार्थिवं च रजः ।
स बुध्न्यादाष्ट जनुषाभ्यग्रं बृहस्पतिर्देवता तस्य सम्राट् ।।४।।
नूनं तदस्य गव्यं हिनोत महो देवस्य पूर्व्यस्य महि ।
एष जज्ञे बहुभिः साकमित्था पूर्वादर्द्दादविथुरश्च सन्नु ।।५।।
स हि दिवः स पृथिव्या ऋतेष्ठा महि क्षामन् रजसी वि ष्कभायति।
अहर्यच्छुक्रं ज्योतिषो जनिष्टाधा द्युमन्तो वि वसन्त्वरिप्राः ।।६।।
एवाथर्वा पितरं विश्वदेवं बृहस्पतिर्नमसा वोचदच्छ ।
त्वं विश्वस्य जनिता धास्यग्रे कविर्देवान्न दभाय स्वधावः ।। ७ । ।
मूर्ध्ना यो अग्रमभ्यर्त्योजसा बृहस्पतिर्मा विवासन्तु देवाः ।
भिनद् बलं वि मृधो दर्दरीति कनिक्रदद्गाः स्वरपो जिगाय ।।८।।
५-३5.3
उदपप्तदसौ सूर्यः पुरुदृष्टो अदृष्टहा ।
उदायन् रश्मिभिर्हन्तूदायन्नरसाङ अक: ।१।
न्यमुचदसौ सूर्यो विश्वदृष्टी अदृष्टहा ।
निम्रोचन् रश्मिभिर्हन्तु निम्रोचन्नरसाङ अकः ।।२ ।।
ये च दृष्टा ये चादृष्टा उभयेहविष्यव: ।
तेषां वो अग्रभ नाम सर्वे साकं नि जस्यत ।३।
अदृष्टहननी वीरुदमितौजा विषासहि ।
चुकाकणि त्वं जज्ञिषे सादृष्टां जातशो जहि ।।४।।
जहि ज्येष्ठमदृष्टानां सर्पाणां मोघचारिणाम् ।
क्रिमीणां सर्वा जातानि पौञ्जष्ट इव यवं मृण ।।५ ।।
यश्च तोदो यध सर्प एकादृष्टश्च यो वृषा ।
चुकाकणि त्वं तान् वृश्च वृक्षं परशुमानिव ।।६।।
सं वृश्चैनांश्चुकाकणि वृक्षं परशुमानिव ।
क्रिमीणां सर्वा जातानि सं दहाग्निरिवोलपम् ।।७।।
मेथिष्ठाग्निरघलस्त्विषीमान् क्रिमीणां जातानि प्र दुनोत सर्वा ।
बृहस्पतेर्मैदिने जातवेदा अदृष्टान् हन्तु दृषदेव माषान् ।।८।।
5.4
ममाग्ने वर्चो विहवेष्वस्तु वयं त्वेन्धानास्तन्वं पुषेम । तु. शौ.सं. ५.३
मह्यं नमन्तां प्रदिशश्चतस्रस्त्वयाध्यक्षेण पृतना जयेम ॥१ । ।
अग्ने मन्युं प्रतिनुदन् परेषां त्वं नो गोपाः परि पाहि विश्वतः ।
अपाञ्चो यन्तु प्रबुधा दुरस्यवोऽमैषां चित्तं बहुधा वि नश्यतु । ।२ ।।
मम देवा विहवे सन्तु सर्व इन्द्रवन्तो मरुतो विष्णुरग्निः ।
ममान्तरिक्षमुरुलोकमस्तु मह्यं वातः पवतां कामे अस्मिन् ।। ३ ।।
मह्यं यजन्तां मम यानीष्टाकूतिः सत्या मनसो मे अस्तु ।
एनो मा नि गां कतमच्चनाहं विश्वे देवा अभि रक्षन्तु मामिह।४।।
मह्यं देवा द्रविणमा यजन्तां ममाशीरस्तु मम देवहूतिः ॥
दैवा होतार: सनिषं न एतदरिष्टाः स्याम तन्वा सुवीराः ।।५ ।।
देवी: षडुर्वीररुणस्कराथ विश्वे देवास इह मादयध्वम् ।
मा हास्महि प्रजया मा धनेन मा रधाम द्विषते सोम राजन् ।।६।।
उरुव्यचा नो महिषः शर्म यच्छादस्मिन् वाजे पुरुहूतः पुरुक्षुः ।
स नः प्रजायै हर्यश्व मृडेन्द्र मा नो रीरिषो मा परा दाः ।॥७।।
धाता विधर्ता भुवनस्य यस्पतिः सविता देवो अभिमातिषाहः ।
बृहस्पतिरिन्द्राग्नी अश्विनोभा देवाः पान्तु यजमानं निर्ऋथात् ।। ८ ।।
इहार्वाञ्चमति ह्वय इन्द्रं जैत्राय जेतवे ।
अस्माकमस्तु केवल इत: कृणोतु वीर्यम् ।। ९ ।।
अर्वाञ्चमिन्द्रममुतो हवामहे यो गोजिद्धनजिदश्वजिद्यः ।
इमं नो यज्ञं विहवे जुषस्वास्माकं कृण्मो हरिवो मेदिनं त्वा ।१० ।।
त्रातारमिन्द्रमवितारमिन्द्रं हवेहवे सुहवं शूरमिन्द्रम् ।
हुवेम शक्रं पुरुहूतमिन्द्रं स्वस्ति नो मघवान् पात्चिन्द्रः ।। १ १ ।।
तिस्रो देवीर्महि मे शर्म यच्छन् प्रजायै मे तन्वे यच्च पुष्टम् ।
मां विशः संमनसो जुषन्तां पित्र्यं क्षेत्रं प्रति जानात्वस्मान् ।।१२ ।।
यो नः शक्राभिमन्युनेन्द्रामित्रो जिघांसति ।
त्वं तं वृत्रहञ्जहि वस्वस्मभ्यमा भर ।। १३ ।।
ये न: शपन्त्यप ते भवन्विन्द्राग्निभ्यामप बाधामहे तान् ।
आदित्या रुद्रा उपरिस्पृशो मामुग्रं चेत्तारमधिराजमक्रन् ।।१४।।
5.5
पृथिवी वशा साग्निं गर्भं दधे सेमं पाहि
तस्यै ते विधेयं तस्यै ते नमस्तस्मै ते स्वाहा ।१।
अन्तरिक्षं वशासा वायुं गर्भं दधे सेमं पाहि
तस्यै ते विधेयं तस्यै ते नमस्तस्मै ते स्वाहा ।।२ ।।
द्यौर्वशासा सूर्यं गर्भं दथे सेमं पाहि
तस्यै ते विधेयं तस्यै ते नमस्तस्मै ते स्वाहा ।। ३ ।।
ऋग्वशा सा साम गर्भं दधे सेमं पाहि
तस्यै ते विधेयं तस्यै ते नमस्तस्मै ते स्वाहा ।। ४ ।।
दक्षिणा वशा सा यज्ञं गर्भं दथे सेमं पाहि
तस्यै ते विधेयं तस्यै ते नमस्तस्मै ते स्वाहा ।। ५ ।।
विड् वशा सा क्षत्रियं गर्भं दधे सेमं पाहि
तस्यै ते विधेयं तस्यै ते नमस्तस्मै ते स्वाहा ।। ६ ।।
वाग् वशा सा परमेष्ठिनं गर्भं दधे सेमं पाहि
तस्यै ते विधेयं तस्यै ते नमस्तस्मै ते स्वाहा ।। ७ । ।
वशा वशा सा राजन्यं गर्भं दथे सेमं पाहि
तस्यै ते विधेयं तस्यै ते नमस्तस्मै ते स्वाहा ।।८ ।।
समा वशा सा संवत्सरं गर्भं दधे सेमं पाहि
तस्यै ते विधेयं तस्यै ते नमस्तस्मै ते स्वाहा । । ९ ।।
(इति अष्टर्चोनामपञ्चमकाण्डे प्रथमो ऽनुवाकः)

5.6
सप्त सूर्या दिवमनुप्रविष्टास्तान् पथा वान्वेतु दक्षिणावान् ।
ते ऽस्मै सर्वे घृतमा तपन्त्यूर्जं दुहाना अनपस्फुरन्त:।।१।। (पा. तपन्त्यूर्यं)
आतपन् क्षयति नीच्यादा सव्या अधि निष्टपन् ।
अधा यत् पत्त्रः सूर्य उदेति बृहतीरनु ।।२ । ।
आतप्ता पितॄन् विद्म दस्यू निष्टप्ता वयम् ।
गुहा ये ऽन्ये सूर्या: स्वधामनु चरन्ति ते ।३।
द्यौ: सचते ऽपराञ्जनास: पञ्चान्ये परो दिव आ क्षियन्ति ।
तां ब्रह्म वेदं बृहदा विवेश यस्तान् प्रवेद प्रथरमतर्यतः ।।४।।
यो ददाति यो ददते यो वा निधीञ् श्रद्दधानो निधत्ते ।
यमो वैवस्वतान् राजा सर्वान् रक्षत शेवधीन् ।।५।।
मा विदन् पर्यायिणो ये दक्षिणाः परिमुष्णन्ति दत्तम् ।
सुगेन तान् पथा सर्वान् यमो राजाति नेषत ।।६ । ।
येन पथा वैवस्वतो यमो राजेतो ययुः ।
अग्निर्नस्तेन नयतु प्रजानन् वैश्वानरः पथिकृत् विश्वगृष्टिः।॥७।।
महि ज्योतिर्निहितं मर्त्येषु येन देवासो अतरन्नराती।
तेनेमं सेतुमति गेष्म सर्वे वैश्वानरं ज्योतिरसीव देवा: ।।८।।
उद् वयं तमसस्परि ज्योतिष्पश्यन्त उत्तरम् ।
देवं देवत्रा सूर्यमगन्म ज्योतिरुत्तमम् ।।९।।
आरोको भ्राजः पटरः पतङ्ग: स्वर्णरो ज्योतिषीमान् विभासः ।
तेऽस्मै सर्वे घृतमातपन्त्यूर्ज दुहाना अनपस्फुरन्त:।।१०।।

5.7
समुत्पतन्तु प्रदिशो नभस्वतीः समभ्राणि वातजूतानि यन्तु । तु. शौ.सं. ४.१५
महर्षभस्य नदतो नभस्वतो वाश्रा अपः पृथिवीं तर्पयन्तु ।।१ ।।
समीक्षयति विश्वग्वातो नभांस्यपां वेगास: पृथगुत् पतन्तु।
वर्षस्य सर्गामभि यन्तु भूमिं पृथग् जायन्तामोषधयो विश्वरूपाः ।।२ ।।
अभि क्रन्द स्तनयार्दयोदधिं भूमिंपर्जन्य पयसा समङ्धि । पर्यन्य
त्वया वर्षं बहुलमेतु सृष्टमाशारैषी कृशगुरेत्वस्तम् ।। ३ ।।
उदीरयत मरुतः समुद्रतस्त्वेषार्का नभ उत् पातयन्तु ।
प्र वर्षन्ति तमिषाः सुदानवोऽपां रसैरोषधयः सचन्ताम्।।४।।
गणास्त्वोप गायन्तु मारुताः पर्यन्य घोषिणः पृथक् ।
सर्गा वर्षस्य वर्षतः सृजन्तु पृथिवीमभि ।।५ ।।
समवन्तु सुदानव उत्सा अजगरा उत ।
वाता वर्षस्य वर्षतः प्र वान्तु पृथिवीमनु ।। ६ ।।
वातो विद्युदभ्रं वर्षं समवन्तु सुदानवः।
प्र प्यायस्व प्र पिन्वस्व सं भूमिं पयसा सृज ।।७।।
अपामग्निस्तनूभिः संविदानो य ओषधीनामधिपा बभूव ।
स नो वर्ष वनुतां जातवेदाः प्राणं प्रजाभ्यो अमृतं दिवस्परि।।८ ।।
आशामाशां वि द्योततां वाता वान्तु दिशो दिशः ।
मरुद्भिः प्रच्युता मेघा वर्षन्तु पृथिवीमभि । ।॥९ । ।
प्रजापति: सलिलादा समुद्रादाप ईरयन्नुदधिमर्दयाति।
प्र प्यायतां विष्णो अश्वस्य रेतो ऽर्वाङ् एतेन स्तनयित्नुनेह्यपो निषिञ्चन्नसुरः पिता न: ।। १० । ।
स्वसन्तु गर्गरा अपामव नीचीरपः सृज ।
वदन्तु पृश्निबाहवो मण्डूका इरिणानु ।।११ । ।
संवत्सरं शशयाना ब्राह्मणा व्रतचारिणः ।
वातं पर्यन्य जिन्वतां प्र मण्डूका अवादिषुः ।। १२ । ।
उपप्रवद मण्डूकि वर्षमा वद तादुरि ।
मध्ये हृदस्य प्लवस्व विगृह्य चतुरः पद: ।। १३ ।।
महान्तं कोशमुतचाभि षिञ्च सविद्युतं भवतु वातु वात: ।
तन्वतां यज्ञं बहुधा विसृष्टमानन्दिनीरोषधयो भवन्तु ।।१४।।

5.8[]
यावती द्यावापृथिवी वरिम्णा यावद्वा सप्त सिन्धवो वितष्टुः।
वाचं विषस्य दूषणीं तामितो निरवादिषम् ।।१ ।।
सुपर्णस्त्वा गरुत्मान् विष प्रथममावयत् ।
नारोपयो नमादय उतास्मा अभवत् पितुः ।।२ । ।
यां त्वास्थत् पञ्चाङ्गुलिर्वक्रा चिदधि धन्वनः ।
अपस्कम्भस्य बाह्वोर्निरवोचमहं विषम् ।। ३ ।।
शल्याद्विषं निरवोचमञ्जनात् पर्णधेरुत ।
अपाष्ठाच्छृङ्गात् कुर्मलान्निरवोचमहं विषम् ।।४।।
अरसस्त इषो शल्यो ऽथो ते ऽरसं विषम् ।
उतारसस्य वृक्षस्य धनुष्टे अरसारसम् ।।५ ।।
ये ऽपिशं ये ऽदिहं य आस्यं ये अवासृजन ।
सर्वे ते वध्रयः सन्तु वध्रिर्विषगिरिष्कृतः ।।६।।
वध्रयस्ते खनितारो वध्रिस्त्वमस्योषधे ।
वध्रिः स पर्वतो गिरिर्यतो जातमिदं विषम्।।७।।
वारिदं वारयातै वरुणावत आभृतम्।
तत्रामृतस्यासिक्तं[] तच्चकारारसं विषम्।।८।।
5.9
खादिरेण शललेनाथो कङ्कतदन्त्या ।
अथो विषस्य यद्विषं तेन पापीरनीनशम् ।।१।।
कित्या शतपर्वणा सहस्राक्षेण चर्मणा ।
तीक्ष्णाभिरभ्रिभिर्वयं निरजाम: सदान्वा: ।।२।।
सह: सह: सत्यसीत: कण्वा: परो ऽनुदत् ।
इमा या अधुना गता याश्चेह ग्रहणी: पुरा ।३।
नता इत्था नता इहावमासतोखेव शृङ्गवच्छिरः ।
सदान्वा ब्रह्मणस्पते तीक्ष्णशृङ्गोदृषन्निहि ।।४।।
वितेरुपन्था श्वश्रे बिभिदे ते ऽगदोहनी ।
दधौ ते अद्य गौः कण्वे परेह्यवरं मृणे ।।५ ।।
यास्तेङ्के तिष्ठन्ति या वलीके याः प्रेङ्खे प्रेङ्खयत उत या नु घोराः ।
या गर्भान् प्रमृशन्ति सर्वाः पापीरनीनशम् ।।६।।
याश्चेलं वसत उत या नु दूरशं नीलं पिशङ्गमुत लोहितं याः।
या गर्भान् प्रमृशन्ति सर्वाः पापीरनीनशम् ।।७ ।।
आखिदन्तीर्विखिदन्ती: प्राणमस्यापि नह्यत ।
दुर्णाम्नीः सर्वाः संगत्य ममुष्योच्छिषदकिंचन ।।८ ।।
5.10
इयं या मुशलाहता दृषत्पिष्टा विषासुता ।
तपुरग्निस्तपुर्द्यौस्तपुत्वं सुरे भव ।१।
विषं ते तोक्म रोहयन्तो ऽब्रुवन् विषं कुम्भे ऽव स्रव ।
विषं त आमनसुरे विषं त्वं हस्त आहिता
विषं प्रतिहिता भव। २ ।।
सिंहस्ते अस्तु तण्डुलो व्याघ्र: पर्योदनम् ।
पृदाकूरस्तु नग्नहुर्वृकस्य हृदि सं स्रव ।३।
इयं या पात्र आसुता शस्य: स्रक्वा विघस्वती ।
वराहमन्युरजन्युत्तानपादमर्दय ।। ४ ।।
उदर्दनी प्रच्यवनी पांसुपिङ्गा विघस्वरी ।
उत्खातमन्युरजनि यत् पश्चात्तत् पुरस्कृधि ।। ५ ।।
विषं ते पवने सुरे रुधिरं स्थाने अस्तु ते ।
मथ्नं त्वन्यो अन्यस्मा इषुधींस्तद् धनुस्त्वत् ।। ६ ।।
विषपावानो रुधिराश्चरन्ति पातारो मर्तास्तवसे सुर इमे।
हतासो अन्ये योधयन्त्यन्यास्तमिच्छंस महिमानं सुरायाः ।।७।।
तान् वीरुधो विस्रवो बलेनोत् पातय मादय योधनायै ।
भिन्नारत्निर्भिन्नशीर्ष्णा समृच्छतामार्तचेलो विस्रवं ते सुरापः ।।८।।
विषासुतां पिबत जर्हषाणा अस्ना संसृष्टां रुधिरेण मिश्राम् ।
छिन्नहस्तश्चरति ग्रामे अन्तर्वैरहत्यानि बहुधा पणायन्।९।
असिमतीमिषुमतीमुन्नयामि सतादधि ।
मादयाभि मादया हि रवैनां प्र रोपयान्योऽन्यस्य मोच्छिषम्।। १० ।।
(इति अष्टर्चोनामपञ्चमकाण्डे द्वितीयोऽनुवाकः)
५-११ 5.11
अनु ते मन्यतामग्निर्वरुणस्तेऽनु मन्यताम् ।
ततस्ते पुत्रो जायतां स वर्मीं गोषु युध्यताम् ।। १ ।।
इदं वायोऽनु जानीहीदमिन्द्र बृहस्पते ।
आञ्जनं पुत्रवेदनं कृण्वः पुंसवनं वयम् ।।२ । ।
येनैतत् परिष्टभितं यस्मात् पुत्रं न विन्दसे ।
इन्द्राग्नी तस्मात्त्वैनस: परिपातामहर्दिवि ।।३ ।
अथर्वाणो अङ्गिरसो विश्वे देवा ऋतावृधः ।
शृण्वन्त्वद्य मे हवमस्मै पुत्राय वेत्तवे ।। ४ ।।
इन्द्राणी वरुणानी सिनीवाल्युतादितिः ।
वरूत्र्युग्रा पत्नीनां पुत्रमद्य दिदेष्टुते ।।५।।
पुत्र ते मित्रावरुणा पुत्रं देवी सरस्वती ।
पुत्र ते अश्विनोभा धत्तां पुष्करस्रजा ।।६।।
येषां च नाम जग्रभ येषां च नोपसस्मर ।
देवास्ते सर्वे संगत्य पुत्र जैवातृकं ददन् ।।७।।
आत्मन एनं निर्ममीष्व स त्वत् परि जायताम् ।
त्वं बीजमुर्वरेव त्वं भिभिर्हि योन्याम् ।।८।।
पृथिवी सह यज्ञैर्नक्षत्रै: सह सूर्य: ।
वात पतत्रिभि: सह पुत्रमद्य दिदेष्टु ते ।।९।।
5.12
वृषा जज्ञे मघवानोऽयं मधुमतीभ्यः । मधवा तु. शौ.सं. ५.२५
स उ ते योनिमा शयां वड् यक्षः पुरुषो भवन् ।। १ ।।
योनिं गच्छ मघवान योन्यां पुरुषो भव । मध
ततः पुनर्निरायसि शीर्ष्णा श्रोणी वि नोनुदत् ।।२।।
वाणवाङ् इषुधेरिव कृण्वं पित्रोर्यथा प्रियम् ।
श्रोणी अहिंसन्यन्तरा दशमे मास्यायसि ॥ १३।।
स प्रत्यङ् प्रत्यावर्त्ये सा एते संवत्सरे पुनः ।
यथा जीवासि भद्रया विभरत्वामहाभवे ।।४।।
शं ते योनिमचीक्लृपं सुप्रजास्त्वाय भद्रया ।
तत्रा सिञ्चस्व वृष्ण्यं दशमास्यमविहृतम् ।।५।।
गर्भस्ते योनिमा शयां गर्भों जरायुवा शयाम् ।
कुमार उल्बमा शयां त्वष्टा कलृप्तो यथापरु ।। ६ ।।
यथा राजन् मघवान त्वं बीज विरोहसि । मध
एवा त्वमस्या निर्भिन्धि कुमारं योन्या अधि।७।
गर्भमधान् मघवानो गर्भं देवो बृहस्पतिः ।
गर्भं त इन्द्रश्चाग्निश्च गर्भं धाता दधातु ते ।।८ ।।
5.13
शिवः शिवाभिर्वयस्वन् सं गच्छस्व तन्वा जातवेदः । तु. शौ.सं. १०.९.१४
रत्नं दधानः सुमनाः पुरस्ताद् गृहेभ्यस्त्वा वर्चसे निर्वपामि ।।१ ।।
पृथिव्यां घर्म स्तभितो ऽन्तरिक्षे दिवि श्रितः ।
द्यौरेनं सर्वतः पातु यस्त्वा पचत्योदन ।। २ ।।
ये समुद्रमैरयं ये च सिन्धुं ये अन्तरिक्षं पृथिवीमुत द्याम्।
ये वातेन सरथं यान्ति देवास्तानाप्नोत्योदन पाको अत्र ।३।
ऋचा कुम्भ्यभिहिता साम्ना पच्यत ओदन:। दिहिता
अंशुं सोमस्यैतं मन्ये वैश्वदेवमिदं हविः ।। ४ ।।
उलूखले मुसले ये च शूर्पे भूम्यामुखायां यदि वासुसञ्च।
या विप्रुषो यानि निर्णेजनानि सर्वं तत्ते ब्रह्मणा पूरयामि।।५।।
ऊर्ध्वः प्रेहि मा सं विक्था व्यस्य रजो अन्तरम्।
रक्षांसि सर्वा तीर्त्वाथा रोह दिवं त्वम् ।।६।।
तुरो नो अतुरो भव सं धीभिर्धीयतामयम् ।
सं पृथिव्या समग्निना सं सूर्यस्य रश्मिभिः सं देवानामयिस्व ।।७।।
आजद्विष: सुकृतस्य लोके तृतीये नाके अधि रोचने दिव:।
मृत्योः पदं योपयन्तोऽन्येतु पश्चा निकृत्य मृत्युं पदयोपनेन।। ८ ।।
5.14
भूत्या मुखमसि सत्यस्य रश्मिरुच्चै: श्लोको दिवं गच्छ।
उच्छ्रयेथां हविष्कृतौ साधु देवान् सपर्यतमृजीषमप लम्पतम्।१।
आपो देवीर्यज्ञकृतश्चित्रा देवीर्हविष्कृत: ।
एकपात्र ओदनोऽग्निष्टोमेन सम्मितः । ।२ ।।
गायत्री हव्यवाडसि देवताग्नि: समिध्यते ।
सहस्रधारं सुकृतस्य लोके घृतपृष्ठममर्त्यौ।।३।।
तपश्च सत्यं चौदनं प्राश्नीतां परमेष्ठिनौ।
ताभ्यां वै स्वराभृतं तेनाधिपतिरुच्यसे।४।।
उरुगायो शिवायो: प्राणेन सम्मित: ॥
अप मृध्राणि मज्जहि मुक्षीव दुरिता दहन।५।।
अप रक्षांसि तेजसा देवेभ्यो हव्यमर्चतम्। व्यचस्वान् सप्रथायसि ।। ६ ।।
उच्चैः सुपर्णो दिवमुत्पतामुं प्रियं देवेभ्यो मा कृणु ऋषिभ्यः परि देहि माम्।
शुक्रं शुक्रेण भक्षया पिबन्तु सुकृतो मधु ।७।
द्वया देवा उप नो यज्ञमागुर्यानोदनो जुषते यासुपृष्टः ।
आदित्याङ्गिरसः स्वर्गमिमं प्राश्नन्त्वृतुभिर्निषद्य।।८ ।।
5.15
पीयूषस्य क्षीरस्य सर्पिषो ऽन्नस्याग्रं सं भराम एतत् ।
एतं भागमहुताभ्यः प्रहिण्मस्तन्नो हविः प्रति गृह्णन्तु देवा दैवाः । ।१ ।।
हुतादो ऽन्येहुतादो ऽन्ये वैश्वदेवं हविरुभये सं चरन्ति ।
ते सम्यञ्व इह मादयन्तामिषमूर्जं यजमानाय मत्स्व । ।२ ।।
मेमा भवो मा शर्वो वधीद् गा मा वत्सां क्लोमश्च यो विदन् नः।।
ये जाता ये च गर्भेष्वन्तररिष्टाग्नेस्तनुमा रभन्ताम् ।।३।
इमा गावो विजावतीः प्रजावतीस्त्रिष्वसंमनसो भवन्तु ।
आसु भूमा नय पिपृञ्चन्तु देवा आसां वत्सानायुषा मेदसा सं सृजामि ।।४।।
प्र वीयन्र्ता स्त्रियो गावो विष्णुर्योनिमनु कल्पयाति ।
प्रतिगृह्णतीर्ऋषभस्य रेत उक्षानड्वांश्चरति वासितामनु ।।५ ।।
प्रयतमग्रं न हिनस्ति किं चन यथाकामं कृणुत सोम्यं मधु ।
साधु यज्ञमहुतादो नयन्तु रायस्पोषा यजमानं सचन्ताम् ।। ६ ।।
नि ते पदां पृथिवी यन्तु सिन्धवो उदोषधयो जिहतां प्रेरतामिरा:।
पर्जन्यस्य मरुत उदधिं सान्वा हत भद्रं सत्यं पच्यतां मोदतां जगत्।।७।।
सप्त ऋषय: सप्त पदास्येषां सप्त क्षियो अश्विनोः पञ्च वाजाः ।
प्राणो व्यानो मन आकूतिर्वाग्देवी देवेभ्यो हव्यं वहतु प्रजानती ।।८ । ।
ये च दृष्टा ये चादृष्टा: क्रिमयः ककृशाश्च ये ।
तेषां शिरांस्यसिना छिनद्मयथासां वत्सानायुषा मेदसा सं सृजामि ।। 1९ ।।
(इति अष्टर्चोनामपञ्चमकाण्डे तृतीयोऽनुवाक:)
5.16
द्यौश्चेमं यज्ञं पृथिवी च सं दुहातां मातरिश्वा पवमानः पुरस्तात्।
त्वष्टा वायुः सह सोमेन वात इमं सं दुह्रामनपस्फुरन्तः।। १ ।।
घर्मं तपाम्यमृतस्य धारया देवेभ्यो हव्यं परिधे सवित्रे । धर्मं
शुक्रं देवाः शृतमदन्तु हव्यमासंजुह्वानाममृतस्य योनौ ।। २ ।।
उद्वासयाग्ने शृतमकर्म हव्यमा रोह पृष्ठममृतस्य धाम।
वनस्पतय उप बर्हि स्तृणीत मध्वा समन्तं घृतवत् कराथ ।। १३ ।।
यो ऽप्सु यक्ष्मः शमयामि तं व ऊर्जा गव्यूतिं समनज्म्येताम्।
स्तन्यं क्षीरमविषं वः कृणोम्यशुन्धयन्तो ऽपि यूथमेत ।।४।।
इडानां पुत्रा उत मित्रियाणां पयो धयन्त्यहृणीयमानाः ।
ऋतुभिः सस्यमुत कलृप्तमस्त्विर्यो गोपा रक्षतु वायुरेनाः ।।५।।
पिबत घृतं यतिधा व एतद् गुहा हितं निहितं मानवेषु ।
विश्वे देवा वैश्वदेवश्चाग्नौ यथाभागं हविषो मादयध्वम्।।६।।
यो देवानामसि श्रेष्ठो रुद्रस्तन्तिचरो वृषा।
अरिष्टा अस्माकं वीरा एतदस्तु हुतं तव ।।७ ।।
पूर्णमहं करीषिणं शतवन्तं सहस्रिणम् ।
विश्वेभिरग्ने देवैरिमं गोष्ठं सहारुहम् ।।८ ।।
5.17
देवैनसादुन्मदितं क्षेत्रियाच्छपथादुत। तु. शौ.सं. ६.११
मुञ्चन्तु तस्मात् त्वा देवा उन्मत्तं रक्षसस्परि ।। १ । ।
मुनिं भवन्तं परि यानि वावृतू रक्षांस्यग्न उलुला करिक्रतु।
अतस्त्वं नो अधि पाहि वाजिन्निन्द्रेण मेदी बृहते रणाय ।२।
यथाग्रे देवा ऋभवो मनीषिणो मुनिमुन्मत्तमसृजन्निरेनसः।
एवा ते शक्रो अभयं कृणोतु मुच्यस्वैनसोऽभि नयामि रक्षः ॥३ ।।
यथा गावश्च भूम्यां पुरुषश्च न्योकस: ।
एवोन्मत्तस्य ते मुने गृह्णातु पृथिवी मन: ।।४।।
मुनिं दाधार पृथिवी मुनिं द्यौरभि रक्षति।
मुनिं हि विश्वा भूतानि मुनिमिन्द्रो अदीधरत् परा रक्षः सुवामि ते ।।५ । ।
इमं मे अग्ने पुरुषं मुमुग्धि य आवित्तो ग्राह्या लालपीति।
अतोदि ते कृणवद् भागधेयमुमुन्मदितो अगदो यथासत्।। ६ ।।
अग्निष्टे नि शमयतु यत्त एतन् मन उह्यते।
जुहोमि विद्वांस्ते हविर्यथानुन्मदितो भुवः ।। ७ ।।
पुनस्त्वा दुरप्सरसः पुनर्वात: पुनर्दिश: ।
पुनर्यम: पुनर्यमस्य दूतास्ते त्वा मुञ्चन्त्वंहसः ।
जीवातवे न मर्तवे ऽथो अरिष्टतातये ।८ । ।
5.18
उत देवा अवहितं देवा उद्धरथा पुन:। तु. शौ.सं. ४.१३
उतो मरिष्यन्तं देवा दैवा कृष्णुथ जीवसे ।१।
आ त्वागमं शान्तातिभिरथो अरिष्टतातिभिः ।
दक्षं ते भद्रमाहार्षं परा सुवाम्यामयत् ।।२ । ।
द्वाविमौ वातौ वात आ सिन्धोरा परावत: ।
दक्षं ते अन्य आ वातु परान्यो वातु यद्रप: ।३।
आ वात वाहि भेषजं वि वात वाहि यद्रपः।
त्वं हि विश्वभेषजो देवानां दूत ईयसे ।।४।।
त्रायन्तामिमं देवास्त्रायन्तां मरुतो गणैः ।
त्रायन्तां विश्वा भूतानि यथायमगदो ऽसति ।।५।।
घृतेन द्यावापृथिवी घृतेनापः समुक्षत।
घृतेन मुच्यस्वैनसो यदात्मकृतमारिथ ।। ६ ।।
अयं मे हस्तो भगवानयं मे भगवत्तर: ।
अयं मे विश्वभेषजोऽयं शिवाभिमर्शन: ।। ७ ।।
हस्ताभ्यां दशशाखाभ्यां जिह्वा वाच: पुरोगवी।
अनामयित्नुभ्यां शंभुभ्यां ताभ्यां त्वाभि मृशामसि ।।८।।
आप इद्वा उ भेषजीरापो अमिवचातनीः ।
अपो विश्वस्य भेषजीस्तास्ते कृण्वन्तु भेषजम् ।। ९ ।।
5.19
सहृदयं सामनस्यमविद्वेषं कृणोमि वः । तु. शौ.सं. ३.३०
अन्यो अन्यमविहृण्यत वत्सं जातमिवाघ्न्या ।१।
अनुव्रतः पितुः पुत्रो मात्रा भवतु सर्वतः ।
जाया पत्ये मधुमतीं वाचं वदतु शान्तिवाम् ।।२।।
मा भ्राता भ्रातरं द्विक्षन् मा स्वसारमुत स्वसा।
सम्यञ्चः सव्रता भूत्वा वाचं वदतु भद्रया ।। ३ ।।
येन देवा न वियन्ति नो च विद्विषते मिथः ।
तत् कृण्मो ब्रह्म वो गृहे संज्ञानं पुरुषेभ्यः ।।४।।
ज्यायस्वन्तश्चित्तिनो मा वि यौष्टं संराधयन्तः सधुराश्चरन्त: ।
अन्यो अन्यस्मै वल्गु वदन्त एत समग्रा स्थ सध्रीचीनाः ।।५।।
समानी प्रपा सहवो ऽन्नभाग: समाने योक्त्रे सह वो जुनज्मि ।
सम्यञ्चो ऽग्निं सपर्यतारा नाभिमिवाभितः । । ६ ।।
येन देवा हविषा यजत्राप मा त्वा न प्मानमघ्नत।
क्रोधं मन्युममृतं भामं दुरुक्तमभिशोचनमारे यक्ष्मं नि दध्मसि।।॥७।।
सध्रीचीनान् वः संनमसः कृणोम्येकश्नुष्टीन् संवननेन संहृदः ।
देवा इवेदमृतं रक्षमाणा: सायंप्रात: सुसमितिर्वो अस्तु ।।८ ।

 5.20
परो ऽपेहि परश्चर परस्तर्द परस्तरम्।
अग्नेर्वातस्य ध्राज्या अप बाधे अहं त्वाम्।।१।।
उदकस्येदमयनं वातस्येदं निभञ्जनम्।
अग्नेर्धूमस्यायं पन्था नेह तर्दायनं तव।२।
परि त्वा कृष्णवर्तनिरग्निर्धूमेनार्चिषा।
स त्वं तर्द परश्चरान्यतर्द्धि तृणं यवात् ।। ३ ।।
ये तर्दा असुरेषिता देवेभिरिषिताश्च ये।
सर्वांस्तान् ब्रह्मणा वयं शलभाञ्जम्भयामसि ।। ४ ।।
शलभस्य शलभ्यास्तर्दस्योत्पतत्त्रिणः ।
अग्नेर्वातस्य ध्राज्यापि नह्याम आस्यम् ।।५ ।।
इदं यद् गवि भेषजं विश्वाद् रूपात् समाभृतम्।
आखोर्घुणस्य तर्दस्य तेषां स्नाव्नापि नह्यत ।६।
दृष्टा त्वमसि गन्धेनौषधिर्घुणजम्भनी।
आखोर्घुणस्य जातानि तानि जम्भय तेजसा ।।७।।
तूलं तर्दस्तृणस्यात्तु मूलमाखुर्धियेषितः ।
अथो वृक्षस्य फल्गु यद् घुणा अदन्तु मा यवम् ।। ८ ।।
(ङ्गति अष्टर्चोनामपञ्चमकाण्डे चतुर्थो अनुवाकः)
5.21
द्यौश्च नः पिता पृथिवी च माताग्निश्च नृचक्षा जातवेदाः।
ते तक्मानमधराञ्चं न्यञ्चं दशाह्नमस्यन्त्वधि दूरमस्मत् ।।१ ।।
तक्मन् यं ते क्षेत्रभागमपाभजं पृथिव्याः पूर्वे अर्धे।
अति हाय तमथ नो हिनस्मि ग्राहि: किल त्वा ग्रहीष्यति किलासशीर्ष:।।२।।
तक्मन् पर्वता इमे हिमवन्तः सोमपृष्ठाः ।
वातं दूतं भिषजं नो अक्रन् नश्येतो मरटाङ् अभि ।। ३ ।।
न त्वा स्त्रियः कामयन्ते न पुमांस: कतमे चन ।
नेह तक्मन् काम्या अल्पो रोदिति नो महान् ।।४।।
मा नो हिंसीर्महतो मा हिंसीर्मह्यस्त्वम् ।
कुमारान् बभ्रो मा हिंसीर्मा नो हिंसीः कुमार्यः ।। १५ ।।
यः साकमुत्पातयसि बलासं काममुद्रजम् ।
भीमास्ते तक्मन् हेतयस्ताभि ष्म परिवृङधि नः ।।६।।
अन्यक्षेत्रे च रमति सहस्राक्षो ऽमर्त्यः।
अभूदु प्रार्थस्तक्मा स उ नो मृडयिष्यति ।।७ ।।
तक्मन् न त इहाश्वा न गावो नेह ते गृहाः ।
शकम्भरस्य मुष्टिहा पुनर्गच्छ महावृषान् ।।८ ।।
5.22
यौ हेमन्तं स्वापयथो बलेनार्वाग्देवेभ्य उत यौ परो दिवः।
भवारुद्रयोः सुमतिं प्र णीमहेऽन्यत्रास्मदघविषा व्येतु । ।१ ।।
यो द्यामातनोति योऽन्तरिक्षं स्तभ्नात्योजसो जायमान: ।
तस्मै रुद्राय हविषा विधेमान्यत्रास्मदघविषा व्येतु ।।२ । ।
ययोर्वधान्नापपद्यते किं चनान्तर्देवेषूत मानुषेषु।
ताभ्यां रुद्राभ्यां हविषा विधेमान्यत्रास्मदघविषा व्येतु ।३।
यावीशाते पशूनां पार्थिवानां चतुष्पदामुत वा ये द्विपाद:।
ताभ्यां रुद्राभ्यां हविषा विधेमान्यत्रास्मदघविषा व्येतु ।४।।
यस्य प्रतिहिता याः संविशन्त आरण्याः पशव उत ग्राम्यास: ।
तस्मै रुद्राय हविषा विधेमान्यत्रास्मदघविषा व्येतु ।५।।
यस्मादोषधयो भर्भर्यमाणा यन्ति यस्माद् वृक्षासो न वियन्ति विश्वे।
वयांसि यस्मात् प्रचरन्ति भीषा तस्मै रुद्राय हविषा विधेमान्यत्रास्मदघविषा व्येतु ।६।
यः पर्वतान् विदधे ऽति विद्वान् यो भूतानि कल्पयति प्रजानन् । ।
तस्मै रुद्राय हविषा विधेमान्यत्रास्मदघविषा व्येतु ।७।
यावीशानौ चरतो द्विपदोऽस्य चतुष्पद:।
या उग्रौ क्षिप्रधन्वानौ ताभ्यां रुद्राभ्यां हविषा विधेमान्यत्रास्मदघविषा व्येतु ।८।।
पुनश्चक्षुः पुन: प्राणं पुनरायुर्धेहि नो जातवेदः ।
रुद्र जलासभेषज विद्वांसस्त एना हविषा विधेमान्यत्रास्मादघविषा व्येतु ।९।
5.22
ईशानं त्वा भेषजानां विजेषाय वृणीमहे ।
चक्रे सहस्त्रवीर्यं सरस्वानोषधे त्वा ।१।
सत्यजितं शपथयावनीं सहमानां पुन:सराम्।
सर्वा: समह्योानषधीरितो मा पारयानिति ।२।
या शशाप शपनेन या वा घ मूरमादधे ।
या वा रसस्य प्रा सारेहे तोकमत्तु सा ।३।
प्रतीचीन फलो हि त्वमपामार्ग बभूविथ।
सर्वान् मच्छपथाङ् अधि वरीयो यावया त्वम्।।४।।
यच्च भ्रातृव्यः शपति यच्च जामिः शपाति न: ।
ब्रह्मा यन् मन्युतः शपात् सर्वं तन्नो अधस्पदम्।। ५ ।।
यां ते चक्रुरामे पात्रे यां सूत्रे नीललोहिते।
आमे मांसे कृत्यां यां चक्रुस्तया कृत्याकृतो जहि।६।
दुःस्वप्न्यं दुर्जीवितं रक्षो अद्भमराय्यः ।
दुर्वाचः सर्वं दुर्भूतं तदितो नाशयामसि ।।७ । ।
क्षुधामारं तृष्णामारमगोतामनपत्यताम्।
अपामार्ग त्वया वयं सर्वं तदप मृज्महे ।।८ ।।
5.24
समा भूमिः सूर्येणाह्ना रात्री समावती । तु. शौ.सं. ४.१८
कृणोमि सत्यमूतये अरसाः सन्तु कृत्वरीः ।। १ ।।
यो देवा: कृत्यां कृत्वा हरादविदुषो गृहम।
वत्सो धारिव मातरं तं प्रत्यगुप पद्यताम् ।।२ । ।
अमा कृत्वा पाप्मानं यस्त्वयान्यं जिघांसति।
अश्मानस्तस्यां दग्धायां बहुलाः फट् करिक्रतु ।। ३ ।।
सहस्रधामं विशिखान् विग्रीवाञ्छावया त्वम्।
प्रति स्म चकृषेकृत्यां प्रियां प्रियावतो हर ।।४।।
यां चकार न शशाक चक्रे पादमङ्गुलिम्।
चकार भद्रमस्मभ्यमभगा भगवद्भ्य: ।। ५ ।
अनयाहमोषध्या सर्वाः कृत्या अदूषयन्।
यां क्षेत्रे चकृर्यां गोभ्यो यां वा ते पुरुषेभ्य: ।।६।।
अपामार्गोऽपि मार्ष्टु क्षेत्रियं शपथांश्च मत्।
अपाहि यातुधान्योऽप सर्वा अराय्यः ।। ७ । ।
अपमृज्य यातुधानानप सर्वा अराय्यः ।
अपामार्गं प्रजया त्वं रय्या सचस्व नः ।।८ ।।
5.25
उतेवास्यबन्धुकृदुतास्यनुजामिकः । तु. शौ.सं. ४.१९
उतो कृत्याकृतः प्रजां नडमिवा च्छिन्धि वार्षिकम् ।।१ ।।
ब्राह्मणेन पर्युक्तोऽसि कण्वेन नार्षदेन ।
सेनेवैषि त्विषीमती न तत्र भयमस्ति यत्र प्राप्नोस्योषधे ।। २ ।।
अग्रेस्योषधीनां ज्योतिषेवाभिधीपयन्॥
उत पाकस्य त्रातास्युत हन्तासि रक्षसः ।। ३ ।।
यददो देवा असुरांस्त्वयाग्रे निरकृण्वत।
तस्मादधि त्वमोषधे अपामार्गो अजायथाः ।। ४ ।।
विभिन्दती शतशाखा विभिन्दन्नाम ते पिता।
प्रत्यग्वि भिन्धि तं त्वं यो अस्माङ् अभिदासति ।। ५ ।।
असद् भूम्याः समभवत्तद्यामेति बृहद्वचः ।
तदित्तदो विधूमयत् प्रत्यक् कर्तारमृच्छतु ।। ६ ।।
प्रत्यङ् हिंसं बभूविथ प्रतीचीनफलस्त्वम्॥
प्रतीची: कृत्या आकृत्यामुं कृत्याकृतं जहि ।।७।।
शतेन मा परि पाहि सहस्रेणाभि रक्ष मा।
इन्द्रस्ते वीरुधां पत उग्र ओज्मानमा दधौ ।।८ ।।
(ह्रति अष्टर्चोनामपञ्चमकाण्डे पञ्चमो ऽनुवाकः)
5.26
अरात्या द्यावापृथिवी छिन्तं मूलमथो शिरः ।
विच्छिद्य मध्यत: पृष्टीस्तां कृण्वाथामधस्पदम् ।।१।।
इदं शृणु जातवेदो यदमुष्या वचो मम।
अरात्याः सर्वमिच्छिरः प्रश्नं वृहतमश्विना ।।२ । ।
या स्वप्नया चरति गौर्भूत्वा जनाङ् अनु।
अरातिमिन्द्र त्वं जहि तामग्निरिव सा दहात् ।। ३ ।।
श्रेष्ठो मे राजा वरुणो हवं सत्येन गच्छतु ।।
अरातिं हत्वा सन्तोकामुग्रो देवो ऽभि दासतु । । ४ ।।
देष्ट्री च या सिनीवाली सप्त च स्रोत्या या: ।
अरार्ति विश्वा भूतानि घ्नन्तु दासीमिवागसी ।५।।
सोमो राजौषधीभिः सूर्याचन्द्रमसा उभा।
अरातिं सर्वे गन्धर्वा घ्नन्त्वप्सरसश्च याः ।। ६ ।।
भवो राजा भवाशर्वाविन्द्रो वायुर्बृहस्पतिः ।
त्वष्टा मे अध्यक्ष: पूषा ते ऽरातिं घ्नन्तु सर्वदा ।। ७ । ।
ये च देवा भूमिचरा ये चामी दिव्यासते।
ये अन्तरिक्षस्येशते ते ऽरातिं घ्नन्तु सव्रता । १८ ।
या चेषिता असुरैर्देवेभिरिषिता च या ।
अथो या मन्योर्जायते ऽरातिं हन्मि ब्रह्मणा ।२।
5.27
तदिन्नु मे अचच्छदन् महद् यक्ष्मं बृहद् वपुः ।
विश्वं यद् देवी निर्ऋतिस्तना युजा मं मृत्योरिह जायते । । १ ।।
अमम्रिश्चित् साप्रथोवददहिमहिराजन्तमोजसा।
आयं चित्रकुत्समतितिग्ममर्दयविनिकिल्बिन्दमोजसा।।२।।
यावती द्यावापृथिवी वरिम्णा यावद् वा सप्त सिन्धवो महित्वा।
तावती निर्ऋतिर्विश्वारा विश्वस्य या जायमानस्य देव ।३।
विश्वस्य हि जायमानस्य देवि पुष्टस्य वा पुष्टिपतिर्बभूविथ।
नमस्तु ते निर्ऋते मा त्वमस्मान् परा भुजो नापरं हातयासि ।।४।।
देवीमहं निर्ऋतिं मन्यमानः पितेव पुत्रं न सचे वचोभिः ।
विश्वस्य या जायमानस्य देव शिरः शिरः प्रति सूरो नु तस्थे।।५।।
असुन्वन्तमयजमानमिच्छ स्तेनस्येत्यां तस्करस्यानु शिक्ष।
स्वपन्तमिच्छ सा त इत्या नमस्तु ते निर्ऋते ऽहं कृणोमि।। ६ ।।
असुन्वका निर्ऋतिः संजिघत्सुर्नास्या: पिता विद्यते नोत माता ।
मथ्यात् सस्रामनु जिघान सर्वं न देवानामसूर्यं समाप।७।
यदस्य पारे तमसः शुक्रं ज्योतिरजायत।
तन्नः पर्षदति द्विषोऽग्ने वैश्वानर द्युमत् ।। ८ । ।
5.28
प्रमुच्यमानो भुवनस्य गोप पशुं नो अत्र प्रति भागमेतु ।
अग्निर्यज्ञं त्रिवृतं सप्ततन्तुं देवो देवेभ्यो हव्यं वहतु प्रजानन् ।।१ । ।
यौ ते दंष्ट्रौ सुदिहौ रोपयिष्णू निरुह्ययेते दक्षिणाः सं च पश्यत: ।
अनाष्ट्रं नः पितरस्तत् कृणोतु यूपे बद्धं प्रमुमुच्यमायदन्नम् ।।२ । ।
अग्निस्तस्त्वमविदुष्टः परेहीन्द्रस्य गोष्ठमपि धाव विद्वान्।
धीरासस्त्वा कवयः सं मृजन्त्विषमूर्जं यजमानायमस्त्वत्।।३।।
ऋषिभ्यस्त्वा सप्तभिरत्रिणाहं प्रति गृह्णामि हव मे स्योनम् ।
जमदग्नि: कश्यपः स्वाद्वेतद् भरद्वाजो मध्वन्नं कृणोतु ।
प्रतिग्रहीत्रे गोतमो वसिष्ठो विश्वामित्रो ददुषे शर्म यच्छात् ।।४।।
यन्नो अग्रं हविष आजगामान्नस्य पुत्रमुत सर्पिषो वा ।
यद्वा धनं वहतोराजगामाग्निष्टद्धोता सुहुतं कृणोतु । ५ । ।
यदाज्यं प्रतिजग्रभ यांश्च व्रीहीनजं चन्द्रेण सह सज्जघास।
बृहस्पतिर्हविषो नो विधर्ता मा नो हिंसीच्छागो अश्वो वशा च ।।६ ।।
अग्निर्न एतत् प्रति गृह्णातु विद्वान् बृहस्पति: प्रत्येतु प्रजानन् । ।
इन्द्रो मरुत्वान् सुहुतं कृणोत्वयक्ष्ममनमीवं ते अस्तु ।।७।।
यन्नो ददुर्वराहमक्षितं वसु यद्वा तल्पमुपथानेन न: सह ।
यद्वाभियूथं सह वृष्ण्या नो अग्निष्टद्धोता सुहुतं कृणोतु ।।८ ।।
यन्न: शालां विश्वभोगामिमां ददुर्गृहं वा युक्तं सह कृत्योत।
यद्वाहर उपनाहेन देवा अग्निष्टद्धोता सुहुतं कृणोतु ।।९।।
5.29
सूर्ये वर्च इति यच्छुश्रवाहं येन प्रजा ज्योतिरग्राश्चरन्ति ।
सोमे वर्चो यद् गोषु वर्चो मयि देवा राष्ट्रभृतस्तदक्रन्।१।
यज्ञे वर्चो मरुतो यददृहन् वायुः पशून् सृजत् सं भगेन ।
गन्धर्वाणामप्सरसां यदप्सु मयि देवा राष्ट्रभृतस्तदक्रन् ।।२ । ।
यज्ञे वर्चो यजमाने च वर्च उदाभिषिक्ते राजनि यच्च वर्चः ।
दक्षिणायां वर्चो अधि यन् मयि देवा राष्ट्रभृतस्तदक्रन् ।। ३ ।।
रथे वर्चो रथवाहने च वर्च इषुधौ वर्चः कवचे च वर्चः ।
अश्वेषु वर्चो अधि यन् मयि देवा राष्ट्रभृतस्तदक्रन्॥ I४ । ।
सभायां वर्चः समित्यां च वर्चो वध्वां वर्च उत वर्चो वरेषु ।
सुरायां वर्चो अधि यन् मयि देवा राष्ट्रभृतस्तदक्रन्।। ५ ।।
सिंहे वर्च उत वर्चो व्याघ्रे वृके वर्चो मधुहारे च वर्चः ।
श्येने वर्चः पत्वनां यद्बभूव मयि देवा राष्ट्रभृतस्तदक्रन् ।।६।।
हिरण्यवर्चसमुत हस्तिवर्चसं संग्रामं यज्जज्ञिषां वर्च आहु: !
कृष्यां क्षेत्रर्षयो जन्यानजुर्मयि देवा राष्टभृतस्तदक्रन्।।७।।
मयि वर्चो मयि श्रवो मयि द्युम्नं मयि त्विषिः।
अधस्पदं पृतन्यवोऽहं भूयासमुत्तम: ।।८ ।।
5.30
पयस्वतीरोषधयः पयस्वन् मामकं वचः। तु. शौ. १८.३.५६
अथो पयस्वतां पय आ हरामि सहस्रशः ।।१ । ।
अहं वेद यथा पयश्चकार धान्यं बहु ।
संभृत्या नाम यो देवस्तं वयं यजामहे सर्वस्यायज्वनो गृहे ।२।
यथा द्यौश्च पृथिवी च तस्थतुर्धरुणाय कम्।
एवा स्फातिं नि तनोमि मयारेषु खलेषु च।।३ । ।
यथा कूपः शतधार: सहस्रधारो अक्षितः ।
यथेह स्फातिरायति कृतस्य कार्यस्य च।। ५ । ।
इमा याः पञ्च प्रदिशो मानवीः पञ्च कृष्टय: !
सर्वाः शंभूर्मयोभुवो वृष्टे शापं नदीरिवेह स्फातिं समावहान्।।६।।
इह स्फातिरोषधीनां देवानामुत संगमः ।
इहैवाश्विनोरस्तु द्वापराश्वो रुहत्।।७।।
तिस्रो मात्रा गन्धर्वाणां चतस्रो गृहपत्नयः ।
तासां या स्फातिमत्तमा तया त्वाभि मृशामसि ।।८ ।।
ज्येष्ठस्य त्वाङ्गिरसस्य हस्ताभ्यामा रभामहे ।
यथासद् बहुधान्यमयक्ष्मं बहुपूरुषम्।। ९ ।।
(इति अष्टर्चोनाम पञ्चमकाण्डे षष्ठोऽनुवाकः)
5.31
अत्यासरत् प्रथमा धोक्षमाणा सर्वान् यज्ञान् बिभ्रती वैश्वदेवी ।
उप वत्सं सृजत वाश्यते गौर्व्यसृष्टः सुमना हिं कृणोमि ।। १ ।।
बधान वत्समभि धेहि भुञ्जन्तीं निद्य गोधुगुप सीद दुग्धि।
इडामस्मा ओदनं पिन्वमाना कीलालं घृतं मदमन्नभागम्।।२ ।।
सा धावतु यमराज्ञः सवत्सा सुकृतां पथा प्रथमेह दत्ता ।
अतुर्ष्टदत्ता प्रथमेदमागन् वत्सेन गां सं सृज विश्वरूपाम्।।॥३ ।।
प्रथमेदमागन् प्रथमा दत्तेताह्यस्मिंल्लोके सय्य उ त्वा ददाति।
सैनं धेनो: प्रथमा पारयासि श्रद्धया दत्ता परमे व्योमन्।। ४ । ।
जानीहि स्म संस्कृते धेनो गोपतिं यस्त्वा ददाति प्रथमा स्वधानाम्।
पूर्वा हि तत्र सुकृतः परेह्यथैष एता जरसः परस्तात् ।।१५।।
अति धेनुरनड्वाहमत्यन्यद्वयो अक्रमीत्।
अति वत्सानां पितरमृषभं प्रति मा सरत्।। ६ ।।
ज्योतिष्मती सुकृतो याहि सूरे स्योनास्ते धेनो पतयो भवन्तु।
सप्त त्वा सूर्या अन्वा तपन्तु यमं धाव माति सरः पराचीः ।।७।।
दात्रे मूत्रे मह्यं दुहानभौ लोकौ भुञ्जती वि क्रमस्व।
इषमूर्जं दक्षिणाः संवसाना भगस्य धारामवसे प्रतीमः ।। ८ ।।
सहस्राङ्गा शतं ज्योतींष्यस्या यज्ञस्य पप्रिरमृता स्वर्गा ।
सा न ऐतु दक्षिणा विश्वरूपाहिंसन्तीं प्रति गृह्णीम एनाम्।। 1९ ।।
5.32
ये ते पाशा वरुण सप्तसप्ततीस्त्रेधा तिष्ठन्ति विसिता रुशन्तः । तु. शौ.सं. ४.१६
छिनन्ति सर्वे अनृतं वदन्तं य: सत्यवाद्यति तं सृजन्ति । ।१ ।।
इह स्पशः प्र चरन्तीमे अस्य सहस्राक्षा अति पश्यन्ति भूमिम्। भुमिम्
योऽस्य वृत्रं प्रमिनाति कश्चन स मुच्यते वरुणस्य पाशात् ।।२।।
उतेयमस्य पृथिवी समीच्युतासौ द्यौर्बृहती दूरे अन्ता।
उतो समुद्रो वरुणस्य कुक्षा उतास्मिन्नल्प उदकेन मुक्त:।।३।।
यस्तिष्ठति मनसा यश्च वञ्चति यो निलायं चरति यः प्रलायम्।
द्वौ यद्वदत: सन्निषद्य राजा तद्वेद वरुणस्तृतीयः ।। ४ ।।
सर्वं तद्राजा वरुणो वि चष्टे यदन्तरा रोदसी यत् परस्तात्।
संख्याता अस्य निमिषो जनानामक्षान्न श्वघ्नी भुवना मिमीते ।।५ ।।
त्वमेव राजन् वरुण धर्ता देवानामसि विश्वरूपः।
दुश्चर्मास्त्वधमः पिशङ्गो यः सत्यां वाचमनृतेन हन्ति ।।६।।
यः समाम्यो वरुणो यो व्याम्यो यः सन्देश्यो वरुणो यो विदेश्यः।
यो दैव्यो वरुणो यश्च मानुषः सर्वांस्त्वेतान् प्रति मुञ्चाम्यत्र ।॥७।।
शतेन पाशैर्वरुणाभि धेहि मा ते मोच्यनृतवाङ् नृचक्षः ।
आस्तां जाल्म उदरं श्रंसयित्वा कोश इवावध्रः परिकृत्यमानः ।।८ ।।
उतो त्वतत् प्र पातयत्वतो त्वदपि नह्यसि ॥
उतो तदस्वकं कृत्वा राजा वरुण ईयते ।१९।।
ऐनं छिनत्ति वरुणो नड़ं कशिपुने यथा ।
मूलं तस्य वृश्चति य एनं प्रमिमीषति ।। १० ।।
5.33
य इमां देवी मेखलामाबबन्ध य: संननाह य उ मा युयोज। तु. शौ.सं. ६.१३३
यस्य देवस्य प्रशिषा चरामि स पारमिच्छात् स उ मा वि मुञ्चात्।।१ ।।
आहुतास्यविहुतर्षीणामस्यायुधम् ।
पूर्वा व्रतस्य प्राश्नाति वीरघ्नी भव मेखले ।२।
मृत्योरहं ब्रह्मचारी यदस्मि भूतां निर्याचं पुरुषं यमाय ।
तमहं ब्रह्मणा तपसा श्रमेणानैनं मेखलया सिनामि ।३।
अयं वज्रस्तर्पयतां व्रतेनावास्य राष्ट्रमभि हन्तु जीवम्।
भिनत्तु स्कन्धान् प्र शृणातूष्णिहाः ।।४।।
अधरोत्तरमधरोत्तरेण गूढ़: पृथिव्या मोत् सृपत्।
वज्रेणावहतः शयान् ।। ५ । ।
यो जिनाति तमन्विच्छ यो जिनाति तमिज्जहि ।
जिनतो वज्र सायक सीमन्तमन्वञ्चमनु पातय ।। ६ ।।
यदश्नामि बल कुर्वे वज़मा ददा इति ।
स्कन्धानमुष्य शातयन् वृत्रस्येव शचीपतिः ।।७ ।।
यत् पिबामि सं पिबामि समुद्र इव संपिबः ।
प्राणानमुष्य संपिबन् सं पिबाम्यहं पिबम् ।।८ ।।
यद् गिरामि सं गिरामि समुद्र इव संगिरः ।
प्राणानमुष्य संगिरन् सं गिराम्यहं गिरम् ।।९।।
श्रद्धाया दुहिता तपसोऽधि जाता स्वसर्षीणां भूतकृतां बभूव।
सा नो मेखले मतिमा धेहि मेधामथो नो थेहि तप इन्द्रियं च।१०।।
यां त्वा पूर्वे भूतकृत ऋषय: परिबेधिरे । ।
सा त्वं परि ष्वजस्व मा दीर्घायुत्चाय मेखले ।।११।।
5.34
अशन्ते श्वश्रूर्वदतु श्वशुरस्ते अशन्तरम् ।
देवा ते अभिशोचनं ब्रह्म विद्वेषणं कृतम् ।।१ । ।
आ क्रन्दयोलुला कुरु वाचमा धेह्यप्रियाम् ।
शिरो लिप्सस्व हस्ताभ्यां केशास्ते अभिशोचनम्।।२।।
केशा यौ प्रतिधी यत् कुरीरं य ओपशः।
अथो ये ते स्वाः सन्ति सर्वे ते तेऽभिशोचनम् ।। ३ ।।
अप त्रस परिधाना उन्मादनं कृणोमि ते ।
अथो यत्ते स्वं वासः सर्वे तत्ते ऽभिशोचनम् ।। ४ । ।
अर्कमद्धि प्र पतातो मुनिचक्षं कृणोमि ते ।
अथो श्वभ्यो रायद्भ्य: प्रति स्म गङ्गणं कुरु ।।५।।
उतिष्ठारे पलायस्व मरीचीनां पदं भव ।
अथो यत् कार्यं कुर्वासां समृष मुष्कयोः । । ६ ।।
उप क्ष्वेदाभि चालय वातस्तूलमिवैजय ।
दद्धि: संदह्य बाह्वोरुदद्धि मुरवस्थिये ।।७।।
अधि गाय शावलेयं शौणेयं साधुवाहिनम् ।
काल्माषे यस्य चक्रुर्ध्यायतः प्रति चालय ।।८ ।।
रिश्यपुच्छं शुन:पुच्छं वातरंहं मनोजवम् ।
तं ते रथं सं भरन्तु देवास्तेना चरामि पतिमिच्छमाना।।९।।
5.35
अग्नये समनमन् तस्मै पृथिव्या समनमन् ।
यथाग्नये पृथिव्या समनमन्नेवा मह्यं संनमः सं नमन्तु ।
वित्तिं भूतिं पुष्टिं पशून् ब्रह्म ब्राह्मणवर्चसम् ।
सं नतय स्थ सं मे नमत स्वाहा ।१।
वायवे समनमन् तस्मा अन्तरिक्षेण समनमन् ।
यथा वायवे अन्तरिक्षेण समनमन्नेवा मह्यं संनमः सं नमन्तु ।
वित्तिं भूतिं पुष्टिं पशून् ब्रह्म ब्राह्मणवर्चसम् ।
सं नतय स्थ सं मे नमत स्वाहा ।२।
सूर्याय समनमन् तस्मै दिवा समनमन् ।
यथा सूर्याय दिवा समनमन्नेवा मह्यं संनमः सं नमन्तु ।
वित्तिं भूतिं पुष्टिं पशून् ब्रह्म ब्राह्मणवर्चसम् ।
सं नतय स्थ सं मे नमत स्वाहा ।३।
चन्द्राय समनमन् तस्मै नक्षत्रै: समनमन् ।
यथा चन्द्राय नक्षत्रैः समनमन्नेवा मह्यं संनमः सं नमन्तु।
वित्तिं भूतिं पुष्टिं पशून् ब्रह्म ब्राह्मणवर्चसम् ।
सं नतय स्थ सं में नमत स्वाहा । ४ ।।
सोमाय समनमन् तस्मा ओषधीभिः समनमन् ।
यथा सोमायौषधीभि: समनमन्नेवा मह्यं संनमः सं नमन्तु ।
वित्तिं भूतिं पुष्टिं पशून् ब्रह्म ब्राह्मणवर्चसम् ।
सं नतय स्थ सं मे नमत स्वाहा ।।५।।
यज्ञाय समनमन् तस्मै दक्षिणाभिः समनमन् ।
यथा यज्ञाय दक्षिणाभि: समनमन्नेवा मह्यं संनमः सं नमन्तु।
वित्तिं भूतिं पुष्टिं पशून् ब्रह्म ब्राह्मणवर्चसम् ।।
सं नतय स्थ सं मे नमत स्वाहा ।।६।।
समुद्राय समनमन् तस्मै नदीभिः समनमन् ।
यथा समुद्राय नदीभिः समनमन्नेवा मह्यं संनमः सं नमन्तु ।
वित्तिं भूतिं पुष्टिं पशून् ब्रह्म ब्राह्मणवर्चसम् ।
सं नतय स्थ सं मे नमत स्वाहा । ७ । ।
ब्रह्मणे समनमन् तस्मै ब्रह्मचारिभिः समनमन्।
यथा ब्रह्मणे ब्रह्मचारिभिः समनमन्नेवा मह्यं संनमः सं नमन्तु।
वित्तिं भूतिं पुष्टिं पशून् ब्रह्म ब्राह्मणवर्चसम् ।
सं नतय स्थ सं मे नमत स्वाहा । ७ । ।
इन्द्राय समनमन् तस्मै वीर्यण समनमन् ।
यथेन्द्राय वीर्येण समनमन्नेवा मह्यं संनमः सं नमन्तु ।
वित्तिं भूतिं पुष्टिं पशून् ब्रह्म ब्राह्मणवर्चसम् ।
सं नतय स्थ सं मे नमत स्वाहा ।९।
देवेभ्यः समनमन् तेभ्यो ऽमृतेन समनमन् ।
यथा देवेभ्यो ऽमृतेन समनमन्नेवा मह्यं संनमः सं नमन्तु ।
वित्तिं भूतिं पुष्टिं पशून् ब्रह्म ब्राह्मणवर्चसम् ।
सं नतय स्थ सं मे नमत स्वाहा ।१०।
प्रजापतये समनमत् तस्मै प्रजाभि: समनमन् ।
यथा प्रजापतये प्रजाभिः समनमन्नेवा मह्यं संनमः सं नमन्तु।
वित्तिं भूतिं पुष्टिं पशून् ब्रह्म ब्राह्मणवर्चसम् ।
सं नतय स्थ सं मे नमत स्वाहा ।११।।
सप्त संनमोऽष्टमी धीतिसाधनी ।
सं कामानध्वन: कृणु सं ज्ञानमस्तु वो धने ।। १२ ।।
(इति अष्टर्चोनामपञ्चमकाण्डे सप्तमो अनुवाक:)
5.36
ये वारुणा उत नैर्ऋता वनस्पतीनां वीरुधां च पाशा:।
ये भौमा भूम्या अधि संबभूवुस्ते त्वा न हिंसाञ्छिवतातिरस्तु ते ।।१ ।।
ये अन्तरिक्षे दिवि ये च पाशा अन्ने विचृता बहुधा सिनन्ति ।
ये पशुभ्यो अधि संबभूवुस्ते त्वा न हिंसाञ्छिवतातिरस्तु ते ।।२ ।।
यन्मानुषं मनुष्या: शपन्ते यां वां होत्रां पित्र्यामारभन्ते ।
समाम्यो वरुणो यं जघान स त्वा न हिंसाञ्छिवतातिरस्तु ते । ।३ । ।
अपः प्रगाद्यदि वा समामिषे अग्निमारेमिषे यदि वा समिद्धम् ।
विद्वानविद्वाननृतं यदुवक्थ तत् त्वा न हिंसाञ्छिवतातिरस्तु ते ।।४।।
यत् प्रतीच्यां दृषदपिष्टाङ् आमपेषाङ् आमपात्रे पपाथ।
हीन: सत्येनानृतं यदुवक्थ तत् त्वा न हिंसाञ्छिवतातिरस्तु ते ।। ५ ।।
यं बाणवन्तं सुदिहं संभरन्ति यं वा हस्तं ब्राह्मणस्यारभन्ते ।
समाम्यो वरुणो य आजगाम तस्य
श्मशानादधि लोष्ट्र आभृतः स त्वा न हिंसाञ्छिवतातिरस्तु ते ।। ६ ।। आमृतः
यं ग्रावाणमारभन्ते येनासूनभिषुण्वन्ति सोमम् ।
यद्वा धनं धनकामो निरेमिषे क्षेत्रं गामश्वं पुरुषं वो जिगाय
तत् त्वा न हिंसाञ्छिवतातिरस्तु ते ।।७।।
अपः प्रगाद्यदि वा व्यामिषे अग्निमारेमिषे यदि वा समिद्धम् ।
जाम्या हस्तं कृतमारेमिषे धनुर्वोत्ततमिति चक्रमिथ ।
मन्युर्वो राज्ञो वरुणस्यासिसक्त स त्वा न हिंसाञ्छिवतातिरस्तु ते।।८ ।।
5.37
या ते प्रजापिहिता पुराभूद् योनिर्वा मुग्धा निहिता पिशाचै:।
आस्नानं वा यदभितिष्ठाथ घोरं सर्व तत्ते ब्रह्मणा सूदयामि ।१। (पाठभेदः)
यद्यस्याः प्रजा वरुणेन गुष्पिता दुर्णामानो वार्त्वियमस्याहरन्ति ।
द्वेषात् सपत्न्याद् यदि चकुरस्या अयं ता नाष्ट्रा अप हन्त्वग्निः । ।२ ।।
अस्याः स्त्रिया यदि लक्ष्मीरपुत्र्या गर्भो वास्या यातुधानैः पराभृतः ।
दुष्वप्न्यं वा यत् स्वपती ददर्शेन्द्राग्नी तत् कृणुतां भद्रया पुनः ।। ३ । ।
देवैनसाद् यदि पुत्रं न विन्दसे मनुष्याणां वा त्वा शपथोरराध ।
पितृभिर्वा ते यदि सूतः परिष्ठित इदं तं निष्कृण्मो जनयासि पुत्रम् ।।४।।
वैश्वानरो जन्मना जातवेदा: प्रजापतिः सिञ्चन्तु रेतो अस्याम् ।
बाधतां द्वेषो निर्ऋतिं पराचैः पुत्रिणीमिमां प्रस्वं कृणोतु ।।५।।
इह प्रजामग्निरस्यै दधात्वादित्येभिर्वसुभिः संविदानः ।
विश्वे देवा हवमा यन्तु म इमं पुत्रो अस्यां जायतां वीर्यावान् ।।६।।
येन देव्यदितिर्गर्भमादधे येन प्रजा असृजत प्रजापतिः ।
तेनाहमस्यै हविषा जुहोमि यथा पुमांसं जनयाति पुत्रम् ।। ७ । ।
वन्वे ते पुत्रं परि देवताभ्यो अनु मन्यन्तां मरुतः पृश्निमातर: ।
गर्भस्त्वा दशमास्यः प्र विशतु कुमारं जातं पिपृतामुपस्थे ।। ८ । ।
5.38
केश्यग्निं केशी विषं केशी बिभर्ति रोदसी ।
केशी विश्वं स्वर्दृशे केशीदं ज्योतिरुच्यते ।१।
मुनयो वातरशनाः पिशङ्गा वसते मलाः ।
वातस्यानु ध्राजिं यन्ति यद् देवासो अयुक्षत ।।२ । ।
उन्मदिता मौनेयेन वातां आ तस्थिमा वयम् । उनमदिता
शरीरेदस्माकं यूयं मर्तासो अभि पश्यथ ।३।
अन्तरिक्षेण पतति स्वर्भूतावचाकशत् ।
मुनिर्देवस्यदेवस्य सौकृत्याय सखा हितः ।। ४ । ।
इन्द्रस्याश्वो वायोः सखाथो देवेषितो मुनिः ।
उभा समुद्रावा क्षयति सद्यः पूर्वमुतापरम् ।।५।।
गन्धर्वाणामप्सरसां देवानां चरणे चरन् ।
मुनिः केतस्य संविद्वान् सखा स्वादुर्मदिन्तमः ।।६।।
वायुरस्मा उपामन्थत् पिनष्टि स्मा कुनंनमा ।
मुनिर्विषस्य पात्रेण यद्रुद्रेणापिबत् सह ।।७।।
संयुक्ते द्यावापृथिवी तिष्ठन्ती अविचर्त्ये ।
केशेनैकस्य देवस्य व्यष्टभ्नाच्छचीपतिः ।।८ ।।
5.39
न तमंहो न दुरितं देवासो अष्ट मर्त्यम् ।
सजोषसो यमर्यमा मित्रो नयन्ति वरुणो अति द्विषः । ।१ । ।
तद्धि वयं वृणीमहे वरुण मित्रार्यमन्।
यन्नो निरंहसो यूयं पाथ नेथा च मर्त्यमति द्विषः।।२।। यत्रो
ते नूनं नो यूयमूतये वरुण मित्रार्यमन्।
नयिष्ठा नो नेषिण स्थ पर्षिष्ठा: पर्षिणो अति द्विषः ।। ३ ।।
शुनमस्मभ्यमूतये वरुण मित्रार्यमन् ।
शर्म यच्छाथ सप्रथ आदित्यासो यदीमहे अति द्विषः ।।४।।
आदित्यासो अति सृधो वरुणो मित्रो अर्यमा ।
रुद्रं मरुद्भिरुग्रं हुवेमेन्द्रमग्निं स्वस्तये अति द्विषः ।।५।।
नेतार ऊ षु णस्तिरो वरुणो मित्रो अर्यमा ।
अतिविश्वानि दुरिता राजानश्चर्षणीनामति द्विष:।।६।।
यूयं विश्वं परि पाथ वरुण मित्रार्यमन् ।
युष्माकं शर्मणि प्रिया स्याम सुप्रणीतयोऽति द्विषः । ७ ।।
यथा ह त्यद्वसवो गौर्यं चित्यद्विषताममुञ्चता यजत्राः ।
एवोष्वस्मन् मुञ्चता व्यंह: प्र तार्थग्ने प्रतरं न आयुः ।।८।।
५-४०
देवस्य त्वा सवितुः प्रसवेऽश्विनोर्बाहुभ्यां
पूष्णो हस्ताभ्यां प्रसूतो ब्राह्मणेभ्यो निर्वपामि ।
स मे मा क्षेष्ट सदमस्यमानः पितॄणां लोके ।। १ ।।
अनुमतं पृथिव्येमं पचाम्यनु मे द्यौर्मन्वतामन्वन्तरिक्षम् ।
अनुमन्यतामदितिर्देवपुत्रा इमे स्वर्गे लोके अस्तु ।!२ । ।
ब्रह्मणोखामधि दधाम्यग्नौ भूम्यां त्वा भूमिमधि धारयामि ।
अग्निः पचन् रक्षत्वोदनमिमं
रक्षः पिशाचान् नुदतां जातवेदाः ।।३ ।।
अच्युतमक्षितं विश्वदानीमुत्समिव सदमक्षीयमाणम् ।
पिता पितामह उत यस्तृतीयस्त एनं भागमुप जीवन्त्वत्र ।।४।।
प्रपीनमक्षितं विश्वदानीं सोममिव पुनराप्यायमानम् ।
पुत्रः पौत्र उत यः प्रपौत्रस्तेषामस्तु निहितो भाग एष:।।५ ।।
मा ते जारीन् निहितो भाग एष मानुषन्मानुषद् गुप्तो अस्तु ।
वैवस्वते नि दधे शेवधिमेतं तस्मोत् सृजतु मह्यमेव ।।६।।
पुन: पूर्यतां यदहंत्वस्यौदनोऽयं तिष्ठत्वक्षितः सदा ।
वैवस्वतेन गुप्तो अस्तु राज्ञा ममैतोरुप जीवन्त मे स्वाः ।।७।।
शतधारं सहस्रधारमुत्समक्षितं व्यचमानं सलिलस्य पृष्ठे ।
ऊर्जं दुहानमनपस्फुरन्तमुपासीय सुकृतां यत्र लोकः ।।८ ।।
(इति अष्टर्चोनाम पञ्चमकाण्डे अष्टमो अनुवाकः)
(इत्यथर्ववेद पैप्पलाद संहितायां अष्टर्चोनामपञ्चमकाण्ड:समाप्तः

५.३७.१ पाठभेदः

या ते प्रजा पीहता पराभूद् योनिर्वा मुग्धा निहिता पिशाचै:। अस्त्राणां वाध्य् उपतिष्ठासि घोरं सर्वं तत्ते ब्रह्मणा पूरयामि ।१।

  1. तु. शौसं ४.६
  2. तन्नामृतस्यासिक्तं - पाठभेदः