आयुर्वेदसूत्रम् (योगानन्दनाथभाष्यसमेतम्)/दशमप्रश्नः

विकिस्रोतः तः

अथ दशमः प्रश्नः.


देहानिलपथगतसुखकालविरुद्धकर्मकरणं देहविनाशकं भवति ।
 
तत्तत्पोषकद्रव्यजन्यं भेषजम् ।
 
तत्कालोचितकार्य[१]करणम् ।
 
यावदृतुजातरसाः पोषकाः ।
 
अहरहरविकारं निरीक्षयेत् ।
 
पथ्योचितान् पोषयेत् ।
 
तदुपकारकद्रव्यावलोचनमार्जनं[२] धातुपोषकम् ।
 
(अ) शुचिमलापहारकम् ।
 
पार्थिवावयवयोगात्सर्वरसानुगुणदं भवति ।
 
स्वादुरसवद्द्रव्ययोगाच्छुक्लाभिवृद्धिं करोति ।
१०
 
अब्भूताभिवर्धकम् ।
११
 
तत्कालातियोगादम्लरसवज्जलं [३]पचनपित्तप्रकोपहारकम् ।
१२
 
[४]तिन्त्रिका तिक्तरसा ज्वरपित्तापहा ।
१३
 
[५]शृंगीसतिक्तं ज्वरातिसारनुत् ।
१४
 
[६]मूर्वा स्वादुरसा विषमज्वरहृद्रोगनाशिनी ।
९५
 
[७]विषा तिक्तरसा विषमज्वरक्षयतृष्णापहा ।
१६
 
[८]कल्यस्तिक्तरसो रक्तपित्तकुष्ठकण्डूकफरोगघ्नः ।
१७
 
[९]नेता तिक्तरसा रक्तपित्तकण्डूव्रणघ्नी ।
१८
 
[१०]दीपनीरसा भूनिम्बा तिक्तरसा कफज्वरतृष्णाप्रकोपहारिणी ।
१९
 
कैडर्यः कटुरसो रुच्यो ग्राही दीपनः कासापहः ।
२०
 
रोहिणी तिक्तरसा सर्वज्वरकासजित् ।
२१
 
मुस्ता तिक्तरसा कफपित्तज्वरारोचकविनाशिका ।
२२
 
तारस्तिक्तरसः मदभ्रमज्वरातिदाहनुत् ।
२३
 
वालुकं तिक्तरसं दुष्ट[११]कण्डूविसर्पकविदाहज्वरविनाशकम् ।
२४
 
तुरुष्कः कटुरसो देवताप्रियः [१२]कुष्ठकण्डूकासतृष्णाप्रदः ।
२५
 
मृगमदः कटुरसः कासपवनहरः हृद्यगन्धप्रदः ।
२६
 
उशीरः कटुरसः शीतलहृन्नेत्र[१३]रुजापहः ।
२७
 
शौण्डं तिक्तरसं कफमुखरोगहरं वृष्यं बल्यं रसायनम् ।
२८
 
कोलिकं कटुरसं वातपित्तान्यमुखरोगजित् ।
२९
 
गुवाकः[१४] कषायरसो भेदिमोहकृत्कफ[१५]पित्तहरः ।
३०
 
नीली[१६] तिक्तरसः वृष्यादिविषप्रमोहजित् ।
३१
 
तपस्विनी तिक्तरसा श्लेष्मामयरक्तपित्तविनाशिनी ।
३२
 
धरुषी[१७] तिक्तरसो विषकुष्ठविनाशकः ।
३३
 
शैलेयकं तिक्तरसं विषमुर्च्छाभ्रमपवनपित्तविनाशकम् ।
३४
 
वालुकं[१८] तिक्तरसं[१९] वातपित्तशिरोरुङ्नुत् ।
३५
 
लाक्षा तिक्तरसा कफकुष्ठज्वरभ्रमविनाशिनी ।
३६
 
सुप्रभा तिक्तरसा ज्वरविदाहापहा गर्भस्थामयान् हन्ति ।
३७
 
ताम्रपुष्पी[२०] कषायरसः रक्त[२१]पित्तातिसारजिद्गर्भसंस्थापनः[२२]
३८
 
पौण्डरीकं[२३] मदभ्रमरक्तपित्तातिसारजित् ।
३९
 
सिंहिका कटुरसा उष्णज्वरारोचकानाहघ्नी ।
४०
 
तिन्त्रिका[२४] कटुरसा कफमेहामयापहा वृष्यबृह्मणी ।
४१
 
शैलूषः स्वादुरसः सर्वशूलछर्द्यतिसारहरा दीपनपाचनबल्या ।
४२
 
तिन्त्रिका कटुरसा शोभपाण्डुकफानिलघ्नी दोषापहा ।
४३
 
तिन्दुकः[२५] कटुरसः कफामयापहः ।
४४
 
स्थौणेयः[२६] तिक्तरसः शोभकासहिक्कावम्यरोचकहिध्माविनाशनः ।
४५
 
दीर्घायुस्स्वादुरसः रक्तपित्तानिलविनाशकः ।
४६
 
जीवकं[२७] कटुरसं चक्षुष्यं सर्वरोगजित् ।
४७
 
माषा स्वादुरसा रक्तपित्तहरा कफशुक्लकारिका ।
४८
 
वृष्यवल्ली स्वादुरसा बल्या वृष्या समीरजित् ।
४९
 
यष्टिः स्वादुरसा छर्दिविषमपित्तपवनापहा ।
५०
 
इक्षु[२८]स्स्वादुरसः श्वासकासपवनासृक्पितरसहरा रसायनी ।
५१
 
गोपा स्वादुरसा वातपित्तातिसारघ्नी ।
५२
 
कर्णिका स्वादुरसा लघुज्वरश्वासकासादिदाह[२९] जित् ।
५३
 
वाकूची[३०] स्वादुरसा कुष्ठवातज्वरविनाशिनी ।
५४
 
मदनस्तिक्तरसः क्षयगुल्मप्रमेहकारकः ।
५५
 
वंशस्तिक्तरसः[३१] कफविषहरो वर्ण्यः[३२]
५६
 
त्रपुसं स्वादुरसं वातासृक्पित्तमूत्रकृच्छ्रविकारजुनुत् ।
५७
 
कोशातकी स्वादुरसा वातपित्तगुल्मप्रमेहहारिका ।
५८
 
वन्ध्या कषायरसा पाण्डुशोभोदरार्शःकफपित्तातिसारजित् सरा[३३]
५९
 
धात्री[३४] कषायरसा कफपित्तहरा वृष्या ।
६०
 
विद्रुमः[३५] तिक्तरसः नेत्रकण्ठरोगघ्नः केशवृद्धिकरो लघुः ।
६१
 
शशि[३६] स्तिक्तरसा गुल्मव्रणप्रमेहोष्णोदरक्रिमिशूलहरा ।
६२
 
विशल्या कटुरसा कफवातहरा[३७] विरेचनी ।
६३
 
आखुकर्णी[३८] स्वादुरसा वातपित्तपाण्डुझिक्रिमिशोभदाहरा ।
६४
 
कलला[३९] कटुरसा श्वासकासपित्तामयविनाशिनी ।
६५
 
.... तिक्तरसः कफवातगुल्मार्शोहरो विरेचकः ।
६६
 
विशल्या तिक्तरसा प्लीहगुल्मोदरकफपित्तापहा ।
६७
 
हैमवती कटुरसा कुष्ठपाण्डुशोभक्षयापहा ।
६८
 
त्रिवृत् स्वादुरसा वातपित्तप्रशमनी विरचनी ।
६९
 
रास्ना कटुरसा शोभवातोदरकफविघातकी ।
७०
 
तुरगी कटुरसा वातश्लेष्मक्षयकासनेत्रामयान् जयेत् ।
७१
 
वर्षाभूस्तिक्तरसा कफपित्तशोभपाण्डुजित्[४०]
७२
 
बला स्वादुरसा वातपित्तज्वरविनाशिनी ।
७३
 
पिप्पली स्वादुरसा वातपित्तजिद्रम्यरसायनी[४१]
७४
 
आमण्डा[४२] स्वादुरसा पित्तगुल्मोदरार्तिहरा विरेचनी ।
७५
 
मिसी[४३] कटुरसा वातपित्तज्वरव्रणविनाशिनी बल्या ।
७६
 
बला पीवरा स्वादुरसा वातपित्तव्रणज्वरनेत्रामयापहा ।
७७
 
शालिनी[४४] स्वादुरसा वातपित्तजित् बल्या ।
७८
 
वामनी कटुरसा वातश्लेष्महरा हृत्कण्ठकृमीन् हन्ति ।
७९
 
क्रिमिघ्नः[४५] कटुरसः वातपित्तजित् क्रिमिनेत्रामयान्हन्ति ।
८०
 
लवणो लवणरस उच्यते[४६] । सकलशूलपवनापहः[४७]
८१
 
पटुजः कटुरसः रक्तातिसारत्रिदोषघ्नः ।
८२
 
सामकं[४८] कटुरसं गुल्मादनावचनम् ? ।
८३
 
गुदाच्च द्व्यङ्गुलादूर्ध्वं मेढ्राश्च द्व्यङ्गुले तथा ।
 
चतुरङ्गुलिमायामं विस्तारं कुक्कुटाण्डवत् ॥
८४
 
ओमात्महितदण्डेस्मिऽन् चक्रमध्ये मतेऽनिशम् ।
 
अष्टप्रकृतिरूपाऽस्ति कुण्डली सुप्तनागवत् ॥
८५
 

इत्यायुर्वेदस्य दशमः प्रश्नः समाप्तः.


  1. कारणम्--B.
  2. मज्ञवनं--A. मज्जवनं--C.
  3. पवन--B.
  4. तन्द्रिका-–A&C.
  5. स्रंगीस--B.
  6. मूला--A&C.
  7. वृषा-–A&C.
  8. कल्यास्तिरसो--A&C.
  9. सता–-A.
  10. दिवनिरसारः--A&C.
  11. कुष्ठ--A.
  12. कुष्ठकामलकफतृष्णा-–A&C.
  13. शीतलकफहृन्नेत्र--A.
  14. गुवा--B.
  15. मोहहृत्कफ--A.C.
  16. निरि--A.&.C.
  17. धरुषिः--C.
  18. B कोशे पदद्वयमिदं त्यक्तम्.
  19. B कोशे पदद्वयमिदं त्यक्तम्.
  20. ताम्रपुष्पं--A.&.C.
  21. कफ--A.&.C.
  22. सारद्विड्भवसंस्थापिनी--B.
  23. हेण्डलिकं--B.
  24. तन्त्री दन्ती--B.&.CA.
  25. टुन्दुकः--A. डुन्दुकः--C.
  26. स्थौणः--A.&.C.
  27. देवकं--A. वनं--C.
  28. बिक्षुः--A.&.B. निक्षुः--C.
  29. कासविदाह--A.&.C.
  30. दाहाची--B. वारुजिः--C.
  31. A.C. कोशयोस्त्यक्तमिदं पदद्वयम्.
  32. वृष्यः
  33. स्थिरा--B.
  34. रात्रिः--A.&.C.
  35. कतिद्रुमः--A.&.C.
  36. कसि–-A.&.C.
  37. कफवातगुल्मार्शोहरा--A&C.
  38. आघुपर्णी—-A.
  39. कला--A.
  40. जित्वरा--A.
  41. जिद्वृष्या--A.
  42. आमन्ता-–A&C.
  43. मिशि--B मिशी--A.
  44. शाली--A&C.
  45. क्रिमि मः--B&C.
  46. रुच्यते-—A.
  47. नातः परं B कोशे A ग्रन्थो दृश्यते--
  48. नामकं Namak=Salt ?