आयुर्वेदसूत्रम् (योगानन्दनाथभाष्यसमेतम्)/नवमप्रश्नः

विकिस्रोतः तः

अथ नवमः प्रश्नः.


विचित्ररूपा विचित्रावयवाः ।
 
विचित्रविधिः ।
 
स्थावरजङ्गमान् कालः प्रवर्धते[१]
 
अणोरणुत्वं वहति ।
 
महतो महान् भवति ।
 
षड्रसाः कालचोदिताः ।
 
गुणावगुणवेदनं[२] कुर्वन्ति विषमकालहेतुकाः ।
 
विरुद्धफलदं विषमपाकपरिपाकजम् ।
 
सूच्या यावद्बलद्वयं भिद्यते स कालो लवः ।
 
त्रिशल्लवास्तृटिः ।
१०
 
तृटिद्वयं कालः ।
११
 
कालद्वयं मात्रा ।
१२
 
मात्राष्टादशभिः काष्ठा ।
१३
 
काष्ठास्त्रिंशत् कला ।
१४
 
कलास्त्रिंशत् क्षणः ।
१५
 
षड्भिरेका नाडिका ।
१६
 
नाडिकाद्वयं मुहूर्तम् ।
१७
 
तच्चतुर्भिर्यामः ।
१८
 
यामचतुर्भिर्दिवा ।
१९
 
तथा निशा ।
२०
 
अहर्निशं दिनम् ।
२१
 
पञ्चदशाहः पक्षः ।
२२
 
पक्षद्वयं मासः ।
२३
 
मासद्वयं ऋतुः ।
२४
 
त्रिऋतु एकायनम् ।
२५
 
षडृतवो द्वादशमासासंवत्सरः ।
२६
 
स वर्षस्तावद्बल[३]नियामकः ।
२७
 
दिनपक्षमासऋतुसंवत्सरायनं कालं करोति ।
२८
 
रसभेदाद्विविधफलमन्योन्यं करोति ।
२९
 
द्रव्यभेदाद्दुरधिगता बहुकाले बहुविधा भूता भवन्ति ।
३०
 
मधुमाधवसमये मधुररसः प्रादुरभूत् ।
३१
 
मधुश्च माधवश्च वासन्तिकावृतू ।
३२
 
मधुररसः पवनं हन्ति कफप्रकोपहेतुकः ।
३३
 
ततोऽधिरसः पित्तं हन्ति कफप्रकोपकारकः[४]
३४
 
स्वादुस्तिक्ततया पाके भाति ।
३५
 
शुक्लधातुस्तेनैव वर्धते ।
३६
 
तद्विशुद्धगुणकारकः ।
३७
 
स्वस्थास्सप्तधातवः[५] प्रवर्धन्ते ।
३८
 
तदविकारे सति मधुप्रेरितं शुक्लम् ।
३९
 
तद्वृतौ[६] मधुरान्नादनं भेषजम् ।
४०
 
स्त्रीपुरुषयोरङ्गाङ्गलिङ्गनं तदा[७]
४१
 
सर्ववर्णपुंसां[८] तत्तत्प्रियतमाः पोषकाः ।
४२
 
तत्तत्काले तत्तद्रसवद्विभाति[९]
४३
 
तत्साजात्यरसवद्द्रव्यं पोषकम् ।
४४
 
शुक्रशुचिसमये आम्लरसः प्रादुरभूत् ।
४५
 
शुक्रश्च शुचिश्च ग्रैष्मावृतू ।
४६
 
अम्लरसः अनिलप्रकोपकारकः ।
४७
 
अधिकाम्लद्रव्यं पित्तप्रकोपनाशनम् ।
४८
 
कफप्रकोपहेतुर्भवति ।
४९
 
अधृतं[१०] पोषकं कार्यम् ।
५०
 
अन्नपानव्यञ्जनाहाराभिभाषणैः कालानुकूलस्रक्चन्दनादिकं भेषजम् ।
५१
 
एतदृतुनैव प्रापयेत् ।
५२
 
नभोनभस्यकालयोगाल्लवणरसः [११]प्रपद्यते ।
५३
 
नभश्च नभस्यश्च वार्षिकावृतू ।
५४
 
अस्थिधातुपोषकः तत्तत्कालोचितकार्यकारणः ।
५५
 
अविकारं निरीक्ष्यैतत्प्रयोजयेत्[१२]
५६
 
विसृष्टविण्मूत्राद्विमलाशयः ।
५७
 
लवणं पवनं हन्ति कफपित्तहेतुकम् ।
५८
 
हीनाधिकलवणरसः कफपवनं हन्ति पित्तं कुरुते ।
५९
 
इषोर्जमासयोगात्तिक्तरसः प्रादुरभूत् ।
६०
 
इषश्चोर्जश्च शारदावृतूम् ।
६१
 
तिक्तं स्वादु पाके ।
६२
 
हीनाधिकतिक्तरसः पित्तकफं हन्ति मारुतं कुरुते ।
६३
 
दोषहेतुप्रकोपो भवति ।
६४
 
सहसहस्यकालयोगात्कटुरसः प्रादुरभूत् ।
६५
 
सहश्च सहस्यश्च हैमन्तिकावृतू ।
६६
 
कटुकातिकटुकः कफानिलं हन्ति पित्तं कुरुते ।
६७
 
मांसधातुप्रदो भवति ।
६८
 
तपस्तपस्यसमययोगात्कषायरसः प्रादुरभूत् ।
६९
 
तपश्च तपस्यश्च शैशिरावृतू ।
७०
 
आमाशयस्थितापानानिलातिरोधनात्तत्प्रवर्तकसिरापूरितगुम्भनादनिलरोधनात्तन्मार्गगानिलप्रकोपनाद्गुल्मादयो भवन्ति ।
७१
 
उदरहृदयकण्ठनासिकाशिरोरुजः ।
७२
 
तस्मादन्नपानानिलपूरितं मोचयेत् ।
७३
 
पक्वाशयगतान्ननिरोधनं नातिपीडनम् ।
७४
 
दोषास्तेनैव वर्धन्ते ।
७५
 
जलाशयपूरितमूत्रनिरोधस्तन्निरोधरोगहेतुकः ।
७६
 
तद्रोधास्सिरापथवेदनाविड्रोधान्त्रवृद्ध्यजीर्णाक्षिकर्णामयप्रदाः ।
७७
 
क्षुत्प्रतिहताक्षिकुक्षिशिरोर्विन्द्रियदौर्बल्यम् ।
७८
 
क्षारतीक्ष्णरसाञ्जनघ्राणनमनर्कविलोकनहेतुकम् ।
७९
 
क्षुच्छमनाभावजन्या दाहभ्रमबाधिर्यहेतुकुक्षिरुजः प्रजायन्ते ।
८०
 
तृष्णायास्तथा ।
८१
 
दाहतश्चेन्द्रियदौर्बल्यम् ।
८२
 
आलस्यातिजृम्भणानलो भवति ।
८३
 
तैलाभ्यङ्गाङ्गमर्दनम् ।
८४
 
कफनिरोधनाच्छ्वासो भवति ।
८५
 
अरुचिश्वासशीधुहिक्काहृदामयाः प्रपद्यन्ते ।
८६
 
जृम्भान्तर्धानात् कण्डूपाण्डुज्वरकुष्ठविसर्पिदुष्टकोष्ठामयाः प्रपद्यन्ते ।
८७
 
प्रियालापस्वापनं भेषजम् ।
८८
 
क्षतजासृङ्निरोधनात् शोभपाण्डुज्वरदोषप्रदो भवति ।
८९
 
छर्दितिरोधनात् मोहभ्रमारुच्यनिलातिमन्दकारकाः ।
९०
 
ऊर्ध्वाधोविरोचनं भेषजम् ।
९१
 
चरमधातुविसर्जनकालज्ञसन्निरोधनात् तेजअयुःक्षमो[१३] भवति ।
९२
 
मेहातिसारशोभहृदामयाः प्रपद्यन्ते ।
९३
 

इत्यायुर्वेदस्य नवमः प्रश्नः समाप्तः.


  1. प्रवर्धयतीति सुपाठः
  2. णविधानं--A&C.
  3. यावद्वर्षास्तावद्बाल--B&C.
  4. नैतत् B कोशे.
  5. स्वास्थानलः सप्तधातवः--A&C.
  6. तद्वृद्धौ--सुपाठः.
  7. तथा--A&C.
  8. सर्वपुंसां--C.
  9. द्रसो विभाति--C.
  10. अदृतं—C, अदृशं-–B.
  11. प्रादुरभूत्--B.
  12. त्प्ररोवयेत्--A&C.
  13. क्षयः इति पाठे भिषजः प्रमाणम्.