आयुर्वेदसूत्रम् (योगानन्दनाथभाष्यसमेतम्)/अष्टमप्रश्नः

विकिस्रोतः तः

अथ अष्टमः प्रश्नः.


अहरहस्सरसादनमिच्छन्ति ।
 
अरिष्टगामी रोगहारकः ।
 
पृथिव्युद्भवरसासृक्कषायरसनेन्द्रियप्रवर्तकरसो रसोचितकषायनिवर्तकः ।
 
अबुद्भवमांसोषणरसः श्वयथुदूषकः ।
 
वह्निभूतोद्भवमेदस्तिक्तरसः[१] जलमलातिसारनिवर्तकः ।
 
वातभूतोद्भवमज्जान्तर्हितलवणाम्लरसो रसासृग्धातुरोगनिवारकः ।
 
श्वेतपुष्पं[२] मांसरसधातुस्थामयान् हन्ति ।
 
पीतपुष्पं[३] मेदोधातुगतविकारविनाशकः ।
 
नीलपुष्पं[४] सन्धिमज्जा[५]धातुरोगविकारघ्नः ।
 
अनेकपुष्पवद्द्रव्यं शुक्लहीनबलरोगापहः ।
१०
 
रक्तपुष्पाज्जातबीजजन्याः फलसारकाः ।
११
 
श्वेतपुष्पजातबीजजन्याः सारसारकाः ।
१२
 
पीतपुष्पजातबीजजन्याः पत्रसारकाः ।
१३
 
[६]कन्दाज्जातबीजजन्याः [७]कन्दसारकाः ।
१४
 
बीजाज्जातबीजजन्याः बीजसारकाः ।
१५
 
पुष्पज्जातबीजजन्याः पुष्पसारकाः ।
१६
 
पीतपुष्पाज्जातश्शुक्लधात्वधोगतविकारप्रकृतिमपहरन् स्वादुरसवच्चरमधातुपोषकः ।
१७
 
श्वेतजन्यजातरसास्तत्पुष्पवन्महीरुहः सकलपवनापहाः ।
१८
 
श्वेतपुष्पवत्पादपाः पित्तप्रहारकाः ।
१९
 
पीतपुष्पवन्महीरुहः कफामयान् घ्नन्ति ।
२०
 
नीलपुष्पवत्तरवः द्वन्द्वयोगरोगान् [८]प्रहरन्ति ।
२१
 
एकशाखिनोऽनेक[९]पर्णास्तथा ।
२२
 
पृथिव्येकैकजातो[१०] रक्तरूपे ।
२३
 
अनलोत्पादकजाताः पीतधर्ममध्यभूताः ।
२४
 
अनेकावयवी [११]पीतप्रभा ।
२५
 
अनिलाधिक्यद्रव्याणि दुर्गुणगुणहीननिर्गुणवन्न भासन्ते ।
२६
 
जातरूपानिलरूपे अनेकवर्णेष्वेकाधिको भवेत् ।
२७
 
एकैकजातीयानामनेकजन्मनामेवंविधिः ।
२८
 
तद्भूतरूपाधिगतवातपित्तकफान्यविकारहेतुज्ञानवानायुष्कामो भवति ।
२९
 
[१२]दोषप्रभावज्ञानपूर्वकं नाभेरधस्तादूर्ध्वे हृदिस्थवातपित्तकफाः समस्ता असमस्तास्समग्राण्यामयप्रतिपादकाः ।
३०
 
यत्रस्था ये रसास्तत्तद्भूतजातास्ते धातुपोषकाः ।
३१
 
अविकृतास्ते तान्पुष्णन्ति[१३]
३२
 
शुक्लशोणितसन्निपातकास्तथा ।
३३
 
मातुराहारजातहेतुकाः तावद्द्रव्यजा रुजः योनिप्रकृतयश्चिरावृतास्ताभिरावर्तन्ते । ताभिरभिवर्धन्ते ।
३४
 
तेन च[१४] लोकोऽभिभूयते ।
३५
 
शुक्लशोणितसन्निपातकाले वा मातुराहारजातहेतुका योनिप्रकृतयस्ताभिरावृतास्ताभिरभिवर्धन्ते ।
३६
 
शरीरे शोषकपोषकद्रव्यैस्तथा ।
३७
 
कायकामविकारजाताः मानसिकाश्चाभिघातजाः यावन्तोऽभिवर्धन्ते यावद्द्रव्यजातरोगाः अवयवविकारहेतुकास्तावद्द्रव्यजातरुजः प्रपद्यन्ते ।
३८
 
भूतपूर्वजातरसजातरोगास्तत्तद्भूतपूर्वरसादनाज्जातरोगाः ।
३९
 
समानजात्यामयहेतुकजातिद्रव्यैः तद्भूतभूतावयवाः प्रवर्धन्ते ।
४०
 
दर्शनस्पर्शनाभिभाषणादि[१५] भेदाः प्रदृश्यन्ते ।
४१
 
जाङ्गलानूपसाधारणदेशादिक्रमाद्वातकफपित्तामयाः तद्भूतभूतभेषजाः विध्युक्तप्रकारास्स्मृताः ।
४२
 
शोधनशमनरूपं [१६]द्विप्रकारं भेषजम् ।
४३
 
[१७]दोषास्तत्रेरिताः ।
४४
 
[१८]तैर्देहशोधनं भेषजम् ।
४५
 
[१९]तैर्देहशोधनमन्नं भेषजम् ।
४६
 
ऊर्ध्वाधोवस्तिकर्मोपकारकम् ।
४७
 
तस्मिन् निवर्तकतैलघृतलेह्यादयः पोषकाः ।
४८
 
शास्त्रविषयद्रव्यभेदज्ञानवान् भिषक् ।
४९
 
सर्वौषधक्षमो रोगी भवेदरोगी ।
५०
 
व्युत्क्रमास्ते दोषविकारकाः ।
५१
 
विषमगतिविकारकारको रोगः ।
५२
 
अरोगी दोषसमगत्या ।
५३
 
अहरहरात्मानमेवाभिमंस्यात्[२०]
५४
 
प्रातरुत्थायाभिमतदेवतायाजनम् ।
५५
 
तद्रूपलक्षणोपशयाप्तिभिर्निर्धारणम् ।
५६
 
दोषाः कालमनुसरन्ति ।
५७
 
कालानुकूलभेषजं कुर्यात् ।
५८
 
तिक्तक्षीरप्रदार्द्रशाखादिभिर्दन्तस्यान्तः प्रक्षालनम् ।
५९
 
लोचनावलोचनम्
६०
 
आपादमस्तकं तैलाभिषेचनम्
६१
 
उद्वर्तनं कफघ्नम् ।
६२
 
यथासुखोष्णाद्भिः प्रक्षालनम् ।
६३
 
ततः सङ्कल्पपूर्वं स्नानमाचरेत् ।
६४
 
दशविधस्नानमशक्तेषु ।
६५
 
अशुद्धे सत्यायुर्विनश्यति ।
६६
 
शुद्धकर्माधिकारः ।
६७
 
आयुष्कामयमानं भेषजम् ।
६८
 
शतायुः पुरुषश्शतेन्द्रिय आयुष्येवेन्द्रिये प्रतितिष्ठति ।
६९
 
पराशयमालक्ष्यान्तर्हितं कुर्वन् प्रवर्तेत ।
७०
 
यान्यनवद्यानि कर्माणि तानि सेवितव्यानि ।
७१
 
यान्यनिन्दितानि तानि त्वयोपास्यानि ।
७२
 
नो इतराणि ।
७३
 
यान्यस्माकं सुचरितानि ।
७४
 
ये के चास्मच्छ्रेयांसो ब्राह्मणाः तेषां त्वयाऽऽसनेन प्रश्वसितव्यम् ।
७५
 
श्रद्धया देयम् ।
७६
 
अश्रद्धयाऽदेयम् ।
७७
 
श्रिया देयम् ।
७८
 
ह्रिया देयम् ।
७९
 
भिया देयम् ।
८०
 
संविदा देयम् ।
८१
 
वित्तशाठ्यं न कारयेत् ।
८२
 
तस्माद्विषयप्रवृत्त्या सुखमेकमनुभूयते ।
८३
 
धर्मार्थकामहेतुपूर्वकम् ।
८४
 
मध्यमस्सर्वपुरुषार्थः ।
८५
 
प्रकाशयेत्पण्डितानाम् ।
८६
 
न पीडयेन्नातिलालयेदिन्द्रियाणि ।
८७
 
एवं सततम् ।
८८
 
न हिंस्यात्सर्वभूतानि ।
८९
 
प्रातरविकारं निरीक्षयेत् ।
९०
 
विसृष्टविण्मूत्राद्विमलाशयः ।
९१
 
सर्वात्मानं स्वशरीरवत्पश्यति ।
९२
 
देवब्राह्मणगोऽर्थिनस्सुपूजयेत् ।
९३
 
विधिनियमिताचारवान् भुङ्क्ते ।
९४
 
आयुरारोग्यमैश्वर्यं यशोलोकांश्च शाश्वतान् ।
९५
 
अर्कानिलानलनक्षत्रादयः कालचक्रसिद्धाः प्रचरन्ति ।
९६
 
विविधसुखं कालचक्रं प्रयच्छति ।
९७
 
स कालस्सर्वं सृजति ।
९८
 
स सर्वजगत्पोषकः ।
९९
 
स एव नाशहेतुकः ।
१००
 
नित्य[२१]नियन्ता स एकः ।
१०१
 
स एवंवित् ।
१०२
 
जगदन्नमयं करोति ।
१०३
 
कालकर्मवशात्तत्तत्फलं प्रददाति ।
१०४
 

इत्यायुर्वेदस्य अष्टमः प्रश्नः समाप्तः.


  1. जलमेहाति--A.
  2. पुष्पी--B.
  3. पुष्पी--B.
  4. पुष्पी--B.
  5. रसास्थिमज्जा-–B.
  6. काण्डा--A&C
  7. हव--A&C.
  8. प्रदहन्ति--B.
  9. वर्णा--B&C.
  10. 'रक्तरूपे'-- इत्यादि 'द्रव्याणि' इत्यन्तं न A.C. कोशयोर्द्दृश्यते ।
  11. पित्रप्रभा इति पाठः.
  12. दोषभाव--A&C.
  13. स्थितान्पुष्णन्ति--A.
  14. तच्चकिलोको--C.
  15. भाषणवि--B.
  16. रूपप्रकारं--A&C.
  17. A.C.कोशयोनैतद्दृश्यते ।
  18. तैर्दाहः—-A.B.C.
  19. तैर्दाहः—-A.B.C.
  20. भिगमनं न्यव्यात्--B. भिगमनं स्वस्यात्--A&C.
  21. नित्यो--A.