आयुर्वेदसूत्रम् (योगानन्दनाथभाष्यसमेतम्)/सप्तमप्रश्नः

विकिस्रोतः तः

अथ सप्तमः प्रश्नः.


एकशरीरवद्द्रव्यमेकैकभेषजम् ।
 
तिक्तरसवत्तदामयजन्यरोगहारकः ॥
 
ऊषणरसवन्मांसधातुनाशकाम्लरसस्तद्धातुमयान्[१] हन्ति ।
 
स्वादुरसैः रसासृग्धातुनाशकामयैः तद्विरुद्धकषायरसै[२]स्तद्विनाशकश्शोणितवायुरुत्पद्यते ।
 
यद्द्रव्योचितसारो यद्रसा[३]नुसरितगुणप्रधानकरसः तज्जातीयोऽन्य[४] रसप्रतिबन्धकगुणदायकः ।
 
यावद्धातुगतद्रव्योचितसारा[५] स्तज्जातीयान्यद्रव्यस्थास्तद्रसानुगुणकामयोत्पादकाः[६]
 
व्युत्क्रमैर्विरसैर्धातुरसैर्विषमैर्धातुशोषक[७] जातानिल उत्पद्यते ।
 
अप्स्वासृक्स्वादुविरसस्तद्धातुजन्यपवनजनकः ।
 
यावद्योगैक[८] कषायरसनिवर्तकः [९]प्रथमद्धातुस्थविभूतगुणशुद्धस्वादुरसविरसान्त्यजन्यानिलः तिक्तधातौ चरन्[१०] एकैकं नैकविधो बहु हूयते[११]
 
प्राकृतवैकृतरूपानिलाम्लरसानुगतस्वादुरसोऽनिलहरः ।
१०
 
मन्दमधुरमध्यमाम्लाधिकलवणद्रव्यैकसंसृष्टान्तिक[१२] मलरोधार्शसः कायपवनादिरोगाः प्रपद्यन्ते ।
११
 
हीनाम्लरसमध्यलवणधिकाम्लरसवद्द्रव्यैः श्वासखासवमनोद्गारादीनां इन्द्रियाधिगताध्मानाद्यामयाश्च दृश्यन्ते ।
१२
 
क्ष्माम्भोरसवद्भूताम्बुरसक्षारगुणानुसर[१३] स्वादुरसवद्भूरुहाः रसासृक्पित्तपवनापहाः ।
१३
 
यद्द्रव्यानुसरितं[१४] यद्द्रव्यं तत्सारान्यसारवद्बीजं तज्जन्यतैलं तद्द्रव्यं वर्धयन्[१५] यावत्सारफलदं पवनहरं सकलधातुपोषकम् ।
१४
 
यावद्द्रव्यसारान्यद्रव्ययोगरसान्यसारोषणजातं

यावद्द्रव्यान्यजन्यधूमहेतुक[१६]मनलगुणानुसरि

तमार्द्रज्वलनज्योतिरात्मकभूतोषण[१७]रसगुणदं कफानिलहरं पित्तप्रकोपकारकं मूलाधारोद्बोधकम्[१८]
१५
 
पवनात्मकासवपेय[१९] भूरुहास्सतुषैकबीजकाण्डा[२०]देहवातयोग्यसकलदोषहरास्सुप्तधातुप्रदाः ।
१६
 
हृस्वं लघु । उत्तरोत्तरं गुरु कालपाकजद्रव्यम् ।
१७
 
तथाश्वेतकृष्णरक्तधूम्रभेदाह्वया [२१]गुरुसमलघुगुणदाः ।
१८
 
क्रमाद्वातपित्तकफामयापहाः ।
१९
 
प्रथममध्यमान्तिमानामेकैकवर्णा विरसमध्यमोत्तमरूपभूसारजात[२२] रूपभेदा भवन्ति ।
२०
 
वर्णभेदादिकं धान्यम् ।
२१
 
नवधान्यानि भवन्ति ।
२२
 
सप्तधातूनां दोषत्रयाणां पोषकशोषकसमहीनमध्यमोत्तमगुणदं धान्यम् ।
२३
 
एवमेतावान्प्रियङ्गवः[२३]
२४
 
श्यामाकाश्च मे नीवाराश्च मे ।
२५
 
उद्दालकानामेवं विद्यात् ।
२६
 
आद्यास्त्रयो धातुपोषकाः ।
२७
 
इतरे शोषकाः ।
२८
 
उद्दालकस्स्वादुरसः । पवनप्रकोपहारकः । स्थूलादिभेदात्पूर्ववद्गुणदायकः । अस्थिरसदोषनिवर्तकः ।
२९
 
आद्यपवनगतिक्रमोद्भूता[२४]तिरिक्तगत्यागतामृत[२५] सुधाभावभूतास्तत्तद्गुर्णं[२६]शोषकाः ।
३०
 
पवनप्रथमप्रयाणाधिगतनिस्सृतामृतपूताम्भःक्ष्मारसगुणाम्लरसो विरसो भवति ।
३१
 
हीनाधिकश्चायमितरेतरं[२७] विभाति ।
३२
 
मध्यानिलगतिकृत[२८]कार्यं घ्राणेन्द्रियमविषयीकुरुते[२९]
३३
 
दोषगत्या तद्विषयमविषयीकुरुते ।
३४
 
गन्धवती पृथिवी ।
३५
 
मधुमाधवसमयोचित[३०]मधुररसोऽरिष्टरोगहारकः ।
३६
 
मधुश्च माधवश्च वासन्तिकावृतू ।
३७
 
द्वितीय[३१]भूतोद्भवस्वादुरसक्रमातिक्रमाद्विरसो भवति ।
३८
 
तद्रसश्चरमधातुपोषकः । तज्जन्यगुणो विकारकः ।
३९
 
जलमलं अजलजम्बुलं[३२] विभाति ।
४०
 
यावत्सारविकार[३३]निवर्त्यनिवर्तका[३४] निवर्तन्ते ।
४१
 
तज्जन्यान्यजन्यश्वयथुजन्यमरिष्टसूचकम् ।
४२
 
अन्नाद्यनद्य[३५]मतिसारसरणं गतायुर्ज्ञापकम् ।
४३
 
अनामसार[३६]विगतिर्यत्रान्तकालमयात्मिका[३७]
४४
 
कषायरसनिभं आम्लगात्रभूरुहे[३८]
४५
 
अविषयविषयानुभवः[३९] तत्कार्यनाशकः ।
४६
 
साध्यासाध्यज्ञानपूर्विका चिकित्सा[४०]
४७
 
सारविषये[४१] विधिज्ञं पण्डितमभिमन्येत ।
४८
 
अप्रमत्तश्चिकित्सायाम् ।
४९
 
असाध्यात्स्याज्याः ।
५०
 
साध्येषु प्रवर्तयेत् ।
५१
 
परोपकारः पुण्याय भवति ।
५२
 
ताश्च वर्तकाः[४२]
५३
 
एवमनामपालनं कुर्यात् ।
५४
 
पवनामृतपूरितपूतधातुवद्रसाश्च निवर्तकाः ।
५५
 
भूतधातुशोषकहेत्वजन्यान्यहे[४३]तुकामयास्संसाध्याः ।
५६
 
यावदजीर्णानुभवकालो यावदामहतानलस्तावत्कालं ज्वरो निवर्तते ।
५७
 
आममेवानलविकारकारकम् ।
५८
 
आमेनाहतोऽनलो बहिरुज्ज्वलयन् ज्वरयति ।
५९
 
यावत्समये समयो नियामकः ।
६०
 
अजीर्णारिष्टारोचकश्वयथ्वतिसाराधीनसर्वेन्द्रियविनाशास्ते दृश्यन्ते ।
६१
 
यत्रस्था ये रसा रसासृग्बिरसनात् द्रव्यं द्रव्यान्तरं विभाति ।
६२
 
शोभा प्रभेषजम् ।
६३
 
ग्रीष्मोत्थितरसा आकाशावकाशपवनगमनात्पञ्चपवनानिरीक्षणात्[४४]गगनानिलगुणकषायतिक्तरसावष्टम्भविकारकारकाः ।
६४
 
पवनगतात्प्रयत्नच्युताद्यद्भुतशोषास्तद्रसानपहरन् तद्विरसस्तन्निवर्तकः ।
६५
 
आद्याद्विभूतोद्भवशब्दश्शब्दान्तरं श्रूयते ।
६६
 
एकमनकं भाति ।
६७
 
नीलपीततृणानि सुषुप्तौ दृश्यन्ते ।
६८
 
महिषाहिगर्दभदर्शनम् ।
६९
 
भूतप्रेतपिशाचाश्च ।
७०
 
एतान्यरिष्टसूचनाङ्गानि[४५]
७१
 
द्विधातुशोकमधुररसः कफदोषहेतुकः ।
७२
 
गगनानिलगुणरसकटुरसास्स्वादुरसजनितकफापहाः ।
७३
 
आद्यद्विधातुशोषकं यादृशं एतादृशं यच्चाक्षुषं सकृदविषयीकरोति ।
७४
 
यद्भूताधिकजाता धातवस्तद्भूताधिकगुणाभिवर्धकाः ।
७५
 
यद्धीनगुणो भवेत्तच्छोषकः ।
७६
 
तज्जाताश्च साध्याः[४६]
७७
 
मन्दं मन्दं पचत्यनलः ।
७८
 
जीर्णानलादजीर्णानलः ।
७९
 
अनलधातुवर्धकमरिष्टनिवर्तकम् ।
८०
 
पवनधारणात्तत्तत्सारादुत्थितरसास्तेजोभूतोद्भवसकलरसा अमृताहितपथरोधनाद्विरसा[४७] भवन्ति ।
८१
 
[४८] प्रकाशार्थं न गोचरति ।
८२
 
चन्द्रानलनक्षत्राश्च तैजसानि भान्ति[४९]
८३
 
हीनर्क्षं नभोऽर्थं संवत्सरारिष्टहेतुवद्दृश्यते ।
८४
 
तज्जन्यजातरोगाश्चासाध्याः ।
८५
 
सार्द्रस्वादुरसवद्द्रव्यं तत्तत्प्रदिष्टारिष्टहारकम् ।
८६
 
अब्भूतो[५०]द्भवस्वादुरसश्शुक्लधातुगतविकारनिवर्तकः ।
८७
 
स्वस्थेष्वेवमरिष्टानां कायिकानामेवंविधिः ।
८८
 
बालानामेकमासम् ।
८९
 
मासैकस्यार्धं[५१] दिनम् ।
९०
 
वातपित्तविकृतिविकारारोचकजातज्वरा न साध्याः ।
९१
 
पवनश्लेष्मविकृतश्वयथुविकारजातज्वरो मारकः ।
९२
 
श्लेष्मपित्तविकृतिविकारातिसारजातज्वरः शरीरनाशकः ।
९३
 
पित्तपवनविकृतिश्लेष्मविकारारतिजातज्वरः प्राणघातकः ।
९४
 
वातपित्तश्लेष्मविकृतिसर्वेन्द्रियविकारजातज्वरः शरीरनाशकः ।
९५
 
वेगधारणात्यशनादभिघातजामयानां अन्तरुदीरणानामल्पाशनमरसवद्द्रव्यं क्वचिद्दृश्यते ।
९६
 
अदृष्टार्थं वाञ्छन्ति ।
९७
 

इत्यायुर्वेदस्य सप्तमः प्रश्नः समाप्तः.


  1. न्मांसधातुनाश्याम्लधातुस्थामयान् B. न्मांसधातुनाशकाम्लरसस्थधातुस्थामयान्--A.
  2. कषायरसः-B&C.
  3. तद्रसानुसरितः--A
  4. तज्जातीयान्य--C.
  5. सारः--A. B. C.
  6. मयोद्बन्धका:--C.
  7. विरसैर्धातुशोषकजातानिल--A&C.
  8. यावद्द्रव्यैक--C.
  9. निवर्तकाः--A. B. C.
  10. तिक्तधतुचरन्--A. B&C.
  11. बहूयते—-A.
  12. द्रव्यैः कविपृष्टान्तिक–-B.
  13. म्बुरसक्ष्मानुगुणानुरस--A&C.
  14. नुसृतं--C.
  15. दर्शयन्--B.
  16. धूमधातुक--A.
  17. त्मकमृतोष्णरस--A&C.
  18. धारबोधकम्—-C.
  19. पवनात्मकमासवपेये--A&C.
  20. स्तुष्टेकबीजकाण्डे-–A&C.
  21. धूमभेदास्त्रिहयो--A.
  22. भूतस्सारजात--C.
  23. ङ्गत:--B&C.
  24. क्रमायाद्भूताति--A&C.
  25. गतमृत--A.C.
  26. स्तद्गुण--A.C.
  27. धिकछायेतरेतरं--B.
  28. गतकृत--A&C.
  29. मविषयं कुरुते--B.
  30. माधवसंयोजित-–AC.
  31. द्वितृतीय--B.
  32. अजलजम्बुला--A&C.
  33. विकारा इति सुपठम्.
  34. निवर्तकेन--A&C.
  35. दन्याद्य--A&B&C.
  36. अनायासार--A&C. अनायसार--B.
  37. कालमयापिका–-A.
  38. नैतत् A.C. कोशयोरस्ति.
  39. नुभवात्--B.
  40. कार्या स्वचिकित्सा-A.C.
  41. साध्यविषये इति सुपाठः.
  42. निवर्तका इति सुपाठः.
  43. हेत्वजन्यहेतु--C.
  44. त्पञ्चपवनपञ्चानिरीक्षणात्--C.
  45. रिष्टसूचकानि--B.
  46. श्चासाध्याः--A&C.
  47. अमृताहितपथिरुदानद्विरसा--A&C.
  48. B कोशे प्रकाशार्थमित्येव पाठः.
  49. तैजसान्निहन्ति--C.
  50. आकाशभूतो-–A&C.
  51. मासैकसार्थं दिनम्--C.