आयुर्वेदसूत्रम् (योगानन्दनाथभाष्यसमेतम्)/सप्तमप्रश्नः
दिखावट
अथ सप्तमः प्रश्नः.
एकशरीरवद्द्रव्यमेकैकभेषजम् ।
१
तिक्तरसवत्तदामयजन्यरोगहारकः ॥
२
अप्स्वासृक्स्वादुविरसस्तद्धातुजन्यपवनजनकः ।
८
यावद्योगैक[८] कषायरसनिवर्तकः [९]प्रथमद्धातुस्थविभूतगुणशुद्धस्वादुरसविरसान्त्यजन्यानिलः तिक्तधातौ चरन्[१०] एकैकं नैकविधो बहु हूयते[११] ।
९
प्राकृतवैकृतरूपानिलाम्लरसानुगतस्वादुरसोऽनिलहरः ।
१०
हीनाम्लरसमध्यलवणधिकाम्लरसवद्द्रव्यैः श्वासखासवमनोद्गारादीनां इन्द्रियाधिगताध्मानाद्यामयाश्च दृश्यन्ते ।
१२
यद्द्रव्यानुसरितं[१४] यद्द्रव्यं तत्सारान्यसारवद्बीजं तज्जन्यतैलं तद्द्रव्यं वर्धयन्[१५] यावत्सारफलदं पवनहरं सकलधातुपोषकम् ।
१४
यावद्द्रव्यसारान्यद्रव्ययोगरसान्यसारोषणजातं
यावद्द्रव्यान्यजन्यधूमहेतुक[१६]मनलगुणानुसरि
तमार्द्रज्वलनज्योतिरात्मकभूतोषण[१७]रसगुणदं कफानिलहरं पित्तप्रकोपकारकं मूलाधारोद्बोधकम्[१८] ।१५
हृस्वं लघु । उत्तरोत्तरं गुरु कालपाकजद्रव्यम् ।
१७
क्रमाद्वातपित्तकफामयापहाः ।
१९
वर्णभेदादिकं धान्यम् ।
२१
नवधान्यानि भवन्ति ।
२२
सप्तधातूनां दोषत्रयाणां पोषकशोषकसमहीनमध्यमोत्तमगुणदं धान्यम् ।
२३
श्यामाकाश्च मे नीवाराश्च मे ।
२५
उद्दालकानामेवं विद्यात् ।
२६
आद्यास्त्रयो धातुपोषकाः ।
२७
इतरे शोषकाः ।
२८
उद्दालकस्स्वादुरसः । पवनप्रकोपहारकः । स्थूलादिभेदात्पूर्ववद्गुणदायकः । अस्थिरसदोषनिवर्तकः ।
२९
पवनप्रथमप्रयाणाधिगतनिस्सृतामृतपूताम्भःक्ष्मारसगुणाम्लरसो विरसो भवति ।
३१
दोषगत्या तद्विषयमविषयीकुरुते ।
३४
गन्धवती पृथिवी ।
३५
मधुश्च माधवश्च वासन्तिकावृतू ।
३७
तद्रसश्चरमधातुपोषकः । तज्जन्यगुणो विकारकः ।
३९
तज्जन्यान्यजन्यश्वयथुजन्यमरिष्टसूचकम् ।
४२
अप्रमत्तश्चिकित्सायाम् ।
४९
असाध्यात्स्याज्याः ।
५०
साध्येषु प्रवर्तयेत् ।
५१
परोपकारः पुण्याय भवति ।
५२
एवमनामपालनं कुर्यात् ।
५४
पवनामृतपूरितपूतधातुवद्रसाश्च निवर्तकाः ।
५५
यावदजीर्णानुभवकालो यावदामहतानलस्तावत्कालं ज्वरो निवर्तते ।
५७
आममेवानलविकारकारकम् ।
५८
आमेनाहतोऽनलो बहिरुज्ज्वलयन् ज्वरयति ।
५९
यावत्समये समयो नियामकः ।
६०
अजीर्णारिष्टारोचकश्वयथ्वतिसाराधीनसर्वेन्द्रियविनाशास्ते दृश्यन्ते ।
६१
यत्रस्था ये रसा रसासृग्बिरसनात् द्रव्यं द्रव्यान्तरं विभाति ।
६२
शोभा प्रभेषजम् ।
६३
ग्रीष्मोत्थितरसा आकाशावकाशपवनगमनात्पञ्चपवनानिरीक्षणात्[४४]गगनानिलगुणकषायतिक्तरसावष्टम्भविकारकारकाः ।
६४
पवनगतात्प्रयत्नच्युताद्यद्भुतशोषास्तद्रसानपहरन् तद्विरसस्तन्निवर्तकः ।
६५
आद्याद्विभूतोद्भवशब्दश्शब्दान्तरं श्रूयते ।
६६
एकमनकं भाति ।
६७
नीलपीततृणानि सुषुप्तौ दृश्यन्ते ।
६८
महिषाहिगर्दभदर्शनम् ।
६९
भूतप्रेतपिशाचाश्च ।
७०
द्विधातुशोकमधुररसः कफदोषहेतुकः ।
७२
गगनानिलगुणरसकटुरसास्स्वादुरसजनितकफापहाः ।
७३
आद्यद्विधातुशोषकं यादृशं एतादृशं यच्चाक्षुषं सकृदविषयीकरोति ।
७४
यद्भूताधिकजाता धातवस्तद्भूताधिकगुणाभिवर्धकाः ।
७५
यद्धीनगुणो भवेत्तच्छोषकः ।
७६
मन्दं मन्दं पचत्यनलः ।
७८
जीर्णानलादजीर्णानलः ।
७९
अनलधातुवर्धकमरिष्टनिवर्तकम् ।
८०
हीनर्क्षं नभोऽर्थं संवत्सरारिष्टहेतुवद्दृश्यते ।
८४
तज्जन्यजातरोगाश्चासाध्याः ।
८५
सार्द्रस्वादुरसवद्द्रव्यं तत्तत्प्रदिष्टारिष्टहारकम् ।
८६
स्वस्थेष्वेवमरिष्टानां कायिकानामेवंविधिः ।
८८
बालानामेकमासम् ।
८९
वातपित्तविकृतिविकारारोचकजातज्वरा न साध्याः ।
९१
पवनश्लेष्मविकृतश्वयथुविकारजातज्वरो मारकः ।
९२
श्लेष्मपित्तविकृतिविकारातिसारजातज्वरः शरीरनाशकः ।
९३
पित्तपवनविकृतिश्लेष्मविकारारतिजातज्वरः प्राणघातकः ।
९४
वातपित्तश्लेष्मविकृतिसर्वेन्द्रियविकारजातज्वरः शरीरनाशकः ।
९५
वेगधारणात्यशनादभिघातजामयानां अन्तरुदीरणानामल्पाशनमरसवद्द्रव्यं क्वचिद्दृश्यते ।
९६
अदृष्टार्थं वाञ्छन्ति ।
९७
इत्यायुर्वेदस्य सप्तमः प्रश्नः समाप्तः.
- ↑ न्मांसधातुनाश्याम्लधातुस्थामयान् B. न्मांसधातुनाशकाम्लरसस्थधातुस्थामयान्--A.
- ↑ कषायरसः-B&C.
- ↑ तद्रसानुसरितः--A
- ↑ तज्जातीयान्य--C.
- ↑ सारः--A. B. C.
- ↑ मयोद्बन्धका:--C.
- ↑ विरसैर्धातुशोषकजातानिल--A&C.
- ↑ यावद्द्रव्यैक--C.
- ↑ निवर्तकाः--A. B. C.
- ↑ तिक्तधतुचरन्--A. B&C.
- ↑ बहूयते—-A.
- ↑ द्रव्यैः कविपृष्टान्तिक–-B.
- ↑ म्बुरसक्ष्मानुगुणानुरस--A&C.
- ↑ नुसृतं--C.
- ↑ दर्शयन्--B.
- ↑ धूमधातुक--A.
- ↑ त्मकमृतोष्णरस--A&C.
- ↑ धारबोधकम्—-C.
- ↑ पवनात्मकमासवपेये--A&C.
- ↑ स्तुष्टेकबीजकाण्डे-–A&C.
- ↑ धूमभेदास्त्रिहयो--A.
- ↑ भूतस्सारजात--C.
- ↑ ङ्गत:--B&C.
- ↑ क्रमायाद्भूताति--A&C.
- ↑ गतमृत--A.C.
- ↑ स्तद्गुण--A.C.
- ↑ धिकछायेतरेतरं--B.
- ↑ गतकृत--A&C.
- ↑ मविषयं कुरुते--B.
- ↑ माधवसंयोजित-–AC.
- ↑ द्वितृतीय--B.
- ↑ अजलजम्बुला--A&C.
- ↑ विकारा इति सुपठम्.
- ↑ निवर्तकेन--A&C.
- ↑ दन्याद्य--A&B&C.
- ↑ अनायासार--A&C. अनायसार--B.
- ↑ कालमयापिका–-A.
- ↑ नैतत् A.C. कोशयोरस्ति.
- ↑ नुभवात्--B.
- ↑ कार्या स्वचिकित्सा-A.C.
- ↑ साध्यविषये इति सुपाठः.
- ↑ निवर्तका इति सुपाठः.
- ↑ हेत्वजन्यहेतु--C.
- ↑ त्पञ्चपवनपञ्चानिरीक्षणात्--C.
- ↑ रिष्टसूचकानि--B.
- ↑ श्चासाध्याः--A&C.
- ↑ अमृताहितपथिरुदानद्विरसा--A&C.
- ↑ B कोशे प्रकाशार्थमित्येव पाठः.
- ↑ तैजसान्निहन्ति--C.
- ↑ आकाशभूतो-–A&C.
- ↑ मासैकसार्थं दिनम्--C.