शतपथब्राह्मणम्/काण्डम् ९/अध्यायः ४
ब्राह्मण १
१ राष्ट्रभृद्धोमः--तत्र चादौ राष्ट्रभृतां होमविधानं, राष्ट्रभरणसाधारण्येनैतेषां राष्ट्रभृतां राजत्वमभिधाय तद्राजत्वमुपजीव्य च राष्ट्रभृत्संज्ञकत्वनिरूपणं, प्रकारान्तरेण राष्ट्रभृतां होमस्य प्रशंसनं, राष्ट्रभृतां होमेन प्रजापतेर्मिथुननिधानं घटत इति कथनं, गन्धर्वाप्सरोरूपेणोत्क्रमणात्तदुद्देशेन होमो युज्यत इत्यभिधाय गन्धर्वाप्सरःशब्दानुसारेण तदीयमिथुनत्वस्य प्रदर्शनं, पुनः प्रकारान्तरेणैतासां राष्ट्रभृत्संज्ञासम्बन्धस्य प्रदर्शनं, प्रकृतहोमे द्रव्यस्य तत्परिमाणस्य च स्तावकार्थवादातिदेशसहितं विधानं, मन्त्रगतपुंस्त्रीक्रमेण होमस्य प्रशंसनं, स्त्रीपुंसयोः संख्यायाः प्रशंसनं, प्रसङ्गादेकस्य पुंसो बह्व्यो जाया भवन्तीति प्रतिपादनं, क्रमेण राष्ट्रभृत्संज्ञकमन्त्राणां व्याख्यानं, राष्ट्रभृद्धोमानन्तरं रथशिरसि होमं विधाय तस्य यजमानाय सर्वात्मना प्रशंसनं, प्रकृतहोमे द्रव्यतत्परिमाणयोः स्तावकार्थवादातिदेशसहितमभिधानम् , अभिषिच्यमानस्य शिरसः सकाशादेव तदभिषेकाद्रथशिरसो होमः प्रशस्यत इत्यभिधानम्, अभिषेकावसरे यजमानः कृष्णाजिनादेरुपरि स्थितः सन्समानेन मन्त्रेण सर्वतः परिहृत्याभिषिच्यत इति सहेतुकमभिधानं, पुनस्तस्यैव होमस्य प्रकारान्तरेण प्रशंसनम्, अस्मिन्रथशीर्षहोमे मन्त्रं विनियुज्य तस्य व्याख्यानं चेत्यादि.
ब्राह्मण २
२ वातहोमाः--तत्र च उक्तहोमानन्तरं वातहोमान्कुर्यादिति सार्थवादं विधानं, होष्यमाणो वायुरग्नेर्बाह्यप्रदेशादञ्जलिनाऽऽहरणीय इत्यभिधानं, होमेषु सर्वत्र स्वाहाकारप्रयोगादस्यापि होमः स्वाहाकारेण कर्तव्य इति प्रतिपाद्योपरिधार्यमाणस्य रथस्य धुरोऽधोऽधोभागे जुहुयादिति होमप्रदेशस्य विधानं, वातहोमेषु मन्त्रत्रयं विनियुज्य तेषां मन्त्राणां व्याख्यानं मन्त्राणां त्रित्वसंख्यायाः प्रशंसनं च, एतेषामेव वातहोमानां सर्वकामप्राप्त्यर्थं रथनियोजनात्मना प्रशंसनं, वातहोमानामेव नियोजनसाधनत्वेन प्रशंसन, वातहोमानां त्रित्वमुपपाद्य लोके धुरोऽधोभागे हस्ताभ्यां विपरिक्रम्य विपरिक्रम्याश्वस्य नियोजनादत्रापि तद्वदेव नियोजनमित्यभिधानम् , अश्वानां नियोजने स्थाननिर्देशपुरःसरं क्रमनिरूपणम् उक्तप्रकारकक्रमाश्रयणे को गुणस्तद्वैपरीत्ये को दोष इत्यभिधानं, वातहोमानामेवाश्वत्वात्प्रत्यक्षतया तमश्वं रथेनाभियुंज्यादित्याशङ्क्य वाहनं तु दद्यादेवेति सहेतुकं तत्समाधानकथनं, तं रथममध्वर्युगृहपर्यन्तमुपर्येवाहरेयुरित्यभिधानं, तस्य रथस्य दक्षिणादानकालेऽध्वर्यवे दानप्रतिपादनम् ।
रुङ्मतीहोमः--तत्र च वातहोमानन्तरं रुङ्मतीनामृचां होमस्य सार्थवादं विधानं, रुङ्मतीनां होमस्य प्रकारान्तरेण प्रशंसनं, रुङ्मतीनामृचां प्रदर्शनं, मंत्रेषु पौनःपुन्येन रुक्छब्दस्य प्रयोगादस्मिन्नग्नौ अमृतत्वमेव निदधातीत्यभिधायाहुतीनां त्रित्वेन कृत्स्न एवाग्नौ रुचं निदधातीत्यभिधानम् ।
वारुणीहोमः-- तत्र च वारुणीऋक्साध्यहोमस्य विधानं, विहितं होमं प्रशस्य होमसाधनभूताया ऋचो वरुणसम्बन्धं च प्रशस्य पुनस्तेनैव होमेन विस्रस्ताप्रजापतेरुत्रा चन्तस्य वीर्यस्य धारणमस्मिन्सम्पाद्यत इत्यभिधानं, होममन्त्रं प्रदर्श्य तस्य व्याख्यानम् ।
सन्ततिहोमः -- तत्र च अर्काश्वमेधसन्ततिसंज्ञकहोमानां सोपपत्तिकं सप्रयोजनं विधानं, सन्ततिहामेषु पञ्च मन्त्रान्विनियुज्य तेषां व्याख्यानम्, आहुतीनां पञ्चत्वसंख्याया अर्काश्वमेधयोः सन्धानसाकल्यहेतुत्वेन प्रशंसनं, " स्वर्णधर्मः स्वाहा" इत्यादिमन्त्रप्रयोगस्य प्रकारान्तरेण प्रशंसनं, पुनरपि तस्या आहुतिगतपञ्चत्वसंख्यायाः प्रकारान्तरेण प्रशंसनं, प्रतिज्ञापूर्वकमाहुतीनामावपनस्य मीमांसाकरणं, तत्र ब्राह्मणोक्तानामाहुतीनां होमं पूर्वपक्षीकृत्य पुनर्होमस्यैव सिद्धान्ततया प्रतिपादनं चेत्यादि.
इत्याहवनीयाग्निचयनोत्तरकर्माणि ।
ब्राह्मण ३
३ अष्टानां धिष्ण्याग्नीनां चयनम्--
तत्र च प्रत्येत्य धिष्ण्यानां काले धिष्ण्यान्निवपेदिति विधानं, धिष्ण्यानां निवपनेनाग्नीनेव चिनोतीत्यभिधानं, सञ्चितस्याग्नेः क्षत्रत्वादेतेषां धिष्ण्यानां विट्त्वात्क्षत्रं च विशं च चितवान्भवतीति निरूपणं, सञ्चितस्याग्नेरेकत्वात्क्षत्रजातिस्थं प्राधान्यं श्रियं चेत्युभे एकस्थे करोति-धिष्ण्यानां बहुत्वाद्विश्येव बहुत्वं करोतीत्यभिधानम् , एषोऽग्निः पञ्चचितिको भवतीतरे धिष्ण्यास्तु एकचितिका भवेयुरिति सकारणं प्रतिपादनं, क्रमेण पञ्चानां चितीनामुपर्युपरि चयनमितरेषां धिष्ण्यानां तु तिर्यक्चयनमिति सकारणं
निरूपणं, यजुष्मत्या लोकम्पृणया चेत्युभाभ्यामिष्टकाभ्यामेनमग्निं चिनोतीति सहेतुकं प्रतिपादनम्, एषां धिष्ण्यानां चयनेन क्षत्रमेव भोग्यरूपायां विशिभोक्तारं निदधातीति स्तावकार्थवादातिदेशसहितं निरूपणं, सर्वानपि न्युप्य पश्चाच्चिनुयादिति चेन्नेत्यभिधानं, पूर्वमाग्नीध्रीयस्याध्वरधिष्ण्यस्य निवपनात्तथैव तं पूर्वमेव चिनुयादित्यभिधानं, तस्य चयनं दक्षिणभागे उदङ्मुख आसीनः सन्कुर्यादिति स्तावकार्थवादातिदेशसहितमभिधानं , धिष्ण्येऽष्टानामिष्टकानामुपधानं विधाय तद्गतसंख्यायाः प्रशंसनं, पृश्नावश्मनो निधानेन नवत्वसंख्यां सम्पाद्याग्नौ निहितमग्निं दशमं कृत्वा पुनस्तथैव प्रशंसनम्, आग्नीध्रस्य मध्यप्रदेशत्वान्मध्यत एव दश प्राणान्निदधातीत्यभिधानं, होत्रीये धिष्ण्ये एकविंशतिमिष्टका एकविंशतिपरिश्रितश्चोपदध्यादिति स्तावकार्थवादातिदेशसहितमभिधानं, ब्राह्मणाच्छंसिनो धिष्ण्ये एकादशेष्टका उपदध्यादिति सोपत्तिकं प्रतिपादनं, इतरेषु धिष्ण्येष्वष्टावष्टाविष्टका उपदध्यादिति स्तावकार्थवादातिदेशसहितमभिधानं, मार्जालीये धिष्ण्ये षण्णामिष्टकानामुपधानस्य सार्थवादं विधानं, धिष्ण्यानां चित्याग्नेश्च संस्थानस्य प्रशंसनम् आग्नीध्रदेशे धिष्ण्योपधानप्रकारस्य निरूपणम्, इष्टकाभिश्चितानां धिष्ण्यानां परिश्रिद्भिः परिश्रयणस्य सविशेषं विधानम् , एतेषां धिष्ण्यानां परिश्रितां परिमाणस्य विधानं, स्तावकार्थवादातिदेशसहितमेतेषु धिष्ण्येषु पुरीषनिवापस्य तूष्णीं धर्मविशिष्टं विधानम् ।
दिशामवेष्टयः--तत्रादौ अग्नीषोमीयपशुपुरोडाशात्प्राग्भावि कर्म कृत्वाऽग्नीषोमीयस्य पशुपुरोडाशमनु दिशामवेष्टीर्निर्वपेदिति विधानं, तत्र सोपपत्तिकं हविष्यपञ्चकस्य विधानं, विहितामिष्टिं पूर्वपक्षीकृत्य दशहविष्कस्येष्ट्यन्तरस्य सकारणं विधानं, एतदिष्टिगतहविःसंख्यायाः प्रशंसनं, पूर्ववद्देवतामयीमिष्टिं पूर्वपक्षीकृत्य देवस्वामेवैतानि हवींषि निर्वपेदितीष्ट्यन्तरविधानं, देवसूःशब्दप्रवृत्तिनिमित्तं द्वेधा इति प्रदर्शन, एतासामग्न्यादिदेवतानां नामद्वयसम्बन्धमुपपाय सामान्येन विहितानामेषां देवस्वां हविषां संख्याविशेषं विधाय तत्प्रशंसनं, नैतानि हवींषि निर्वपेदित्याशंक्य कामानामतिरेकाभावेन निर्वपेदेवेति तत्समाधानं प्रतिपाद्य निर्वाप्यत्वेऽपि पशुपुरोडाशमनुलक्ष्यैव कस्मानिरूप्यन्त इति प्रश्नपूर्वकं तत्कारणाभिधानं, अस्यामिष्टौ पशुपुरोडाशस्योच्चैस्त्वं हविषामुपांशुत्वं प्रैषेषु पशुपुरोडाशे " अनुब्रूहि प्रेष्य" हविःषु “ अनुब्रूहि यज" इति प्रकारकत्वं स्विष्टकृदिडयोः समानत्वं चेत्यादिधर्मविशेषनिरूपणं, देवतायागानन्तरं स्विष्टकृ दवदानात्पूर्वं " सविता त्वा सवानाम्" इयादिना "पूर्वाभिषेकाख्येन मंत्रेणैनमग्निमभिमृशेदिति विधानं, उक्तमन्त्राणामभिप्रायकथनं चेत्यादि.
इति धिष्ण्याग्निचयनम् ।
इत्यग्निचयनं वृत्तम् ।
ब्राह्मण ४
४ सुत्याहकर्माणि--तत्र पूर्वं सुत्याहप्रयोगस्य विवक्षया प्रथममग्नियोगस्य सप्रयोजनं सार्थवादं विधानं, विहितोऽयमग्नियोगः परिधिषु कर्तव्य इत्यभिधानं, परिधिषु नियोजनमपि कथं कुर्यादित्यपेक्षायां परिधिपरिधानक्रमेण मध्यमपरिधौ प्रथमं ततो दक्षिणोत्तरयोश्च परिध्योर्युक्त्वा--क्रमात्तत्र " अग्निं युनज्मि " इत्यादयस्त्रयो मन्त्राः पठनीया इत्यभिधाय तेषां मंत्राणां व्याख्यानं, एतानग्नियोजनमन्त्रानग्नेरात्मपक्षात्मना प्रशस्य तन्मंत्रगतत्रित्वसंख्यायाः प्रशंसनं प्राकृतौ सोमाऽभिषवहोमौ कुर्यादिति सोपपत्तिकमभिधानं, होमानन्तरं हुतशेषं भक्षयेदित्यभिधाय तयोरेव होमभक्षणयोः पौर्वापर्यस्योपपादनं, एतस्याग्नेर्विमोचनं विधाय तस्य कालविशेषप्रदर्शनद्वारा तस्यैव क्रमस्य प्रदर्शनं, विपक्षे बाधकप्रदर्शनेन यज्ञायज्ञियस्तोत्रात्पूर्वमेव विमुञ्चेदित्यभिधानं, लोके यत्राश्वं युञ्जन्ति तत्रैव तं विमुञ्चन्ति अतोऽत्रापि अग्नेः परिधिषु योजनात्तत्रैवैनं विमुञ्चेदिति प्रतिपादनं, तद्विमोचनप्रकारमभिधाय तत्र मन्त्रद्वयं सोपपत्तिकं विनियुज्य कस्मिन्सन्धौ कं मन्त्रं जपेदित्यप्यभिधाय मन्त्रयोर्मूर्द्धशब्दसम्बन्धस्याप्सु शब्दसम्बन्धस्य च प्रशंसनं, विमोचनमन्त्रयोर्द्वित्वसंख्यां प्रशस्य योजनविमोचनमन्त्राणां संख्यायाः सम्भूय प्रशंसनं, प्रसङ्गादहर्गणेष्वपि योजनविमोचनप्रकारस्य विवक्षया पूर्वपक्षत्वेन केषाञ्चित्पक्षे सोपपत्तिकमनूद्य तं निरस्य च स्वपक्षस्य प्रतिष्ठापनं, तदेव पूर्वपक्षीकृतं मतं तदनभिमतदृष्टान्तप्रदर्शनेन निरस्य स्वमतस्यैव दृढीकरणं, हेत्वन्तरप्रतिपादनेनापि स्वमतस्य दृढीकरणं चेत्यादि.